संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३३७ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३३७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३३७ Translation - भाषांतर श्रीनारायण उवाच -शंखचूडस्ततो लक्ष्मि! शंकरं प्राह नैतिकम् ।साभिमानं युद्धमूलं विनाशकृद्धि तामसम् ॥१॥त्वया कथितं यन्नाथ! सर्वं तथ्यं न चाऽनृतम् ।ज्ञातिद्रोहे महत्पापं यदि भवति शंकर ॥२॥कथं गृहीत्वा सर्वस्वं तलं प्रस्थापितो बलिः ।सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ॥३॥कथं समुद्रमथने पीयूषं भक्षितं सुरैः ।कथं त्वं दानवान् हंसि न देवान् न गणान् स्वकान् ॥४॥कथं सतीनिमित्ते तत्पिता विहिंसितस्तदा ।कथं सुदर्शनं विष्णोरसुरेष्वेव सार्थकम् ॥ ।५॥सम्बन्धिन्योः काश्यपेयप्रजयोर्यद्विरोधनम् ।जायते महतीर्लज्जा स्पर्द्धाऽस्माभिः कथं हर ॥६॥पितृवंशसमुन्नेता स्वर्गं याति तु मानवः ।परवंशानुसंयाता भवत्यधोगतिं गतः ॥७॥कालेन यद्भवेत् तद्वै भवत्वत्र ममाऽऽलये ।पराजयो जयो वापि कालकृन्मान्य एव मे ॥८॥अधुना त्वं महाकालो ममाऽसि पार्वतीपते! ।कालेन यद्भवेत् तत्र सन्तुष्टोऽस्मि रणं कुरु ॥९॥मृतो यास्ये तु गोलोके जये भोक्ष्ये तु वैधसम् ।रणे हानिर्न मे चास्ति न ते लाभो मनागपि॥१०॥इति विचार्य भगवन्! निवृत्तो भव शंकर! ।अल्पेन सह महतां हानिरेव न वर्धनम् ॥११॥नमस्करोमि ते शंभो! उत्तिष्ठामि रणाय च ।इति कृत्वा ययौ यानमारुह्य निजवाहिनीम् ॥१२ ॥तत्रैते येऽसुरपक्षा दैत्याश्च दानवादयः ।सुराणां प्रतिपक्षा ये ते तु युद्धेऽसुरानुगाः ॥१३॥ये तु देवसमा दिवपक्षगास्ते हरानुगाः ।सैन्येषु चागताः सर्वे शंखचूडपिनाकिनोः ॥१४ ॥कोट्यर्बुदाब्जयोद्धॄणां सेने वार्धिसमे तदा ।सुशोभे ते स्म लक्ष्मि! द्राग् रणवाद्याऽधिते जिते ॥१५॥नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिर्बभूव ह ।स्कन्दः सेनापतिश्चात्र तत्रराहुश्च भूपतिः ॥१६॥द्वयोर्युद्धमभूद् व्योम्नि शतघ्नीबाणशक्तिभिः ।परशुपरिघाभूशुण्डीभिस्तोमरचक्रकैः ॥१७॥बाणैः शिलीमुखैश्चापि धूष्कृतैर्गोलकैस्तथा ।प्रस्तरैश्च सहस्रघ्नैर्युद्धमद्भुतमुल्बणम् ॥१८॥द्वयोश्च सेनयोर्मध्ये महाप्रलयसन्निभम् ।मर्दनं कूर्चनं निकृन्तनं द्वैधीविभेदनम् ॥१९॥छेदनं चूर्णनं प्राणिकर्चनं दलनं ह्यभूत्॥शरवृष्टिश्चार्धचन्द्रशूलभल्लत्रिधारकैः ॥२०॥हननं सर्वतोव्याप्तमासीदुभयसैन्ययोः ।हस्तीनां च तथाऽश्वानां खच्चराणां भयंकरः ॥२१॥विनाशोऽभूद् रथिनां च पत्तीनां गणना न वै ।रथा भग्नाश्च यानानि चूर्णितानि सहस्रशः ॥२२॥वाहाश्छिन्ना लक्षशश्च भटेश्वरास्तु कोटिशः ।नष्टाश्छिन्ना व्यसवश्चाऽभवन् शश्वद्भूशायिनः ॥२३॥दिवानिशं महाघोरं सततं प्रलयात्मकम् ।युद्धं प्रवर्तितं तत्र क्षुत्तृषागणनापि न ॥२४॥धनुष्मतां तदा बाणाः शस्त्राणि शस्त्रिणां तथा ।कवचानि वर्मवतां क्षयमाप्तानि सर्वथा ॥२५॥दानवानां गणानां च लयः प्राकृतिको यथा ।यदा जातस्तदा त्रस्ता विदुद्रुवू रणांगणम् ॥२६॥कार्तिकः शरवृष्ट्या वै चकार कदनं महत् ।राहुश्चापि शरवृष्ट्या चकार कर्तनं परम् ॥२७॥पर्वतानां च सर्पाणां शिलानां शाखिनां तथा ।शश्वद् वृष्टिं चक्रतुस्तौ दुर्वाह्यां च भयंकरीम् ॥२८॥राहोमार्गणवृष्ट्या तु प्रच्छन्नः शिवनन्दनः ।धनुः स्कन्दस्य छिच्छेद रथं चिच्छेद वाजिनोः ॥२९॥मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ।शक्तिं चिक्षेप सूर्याभां राहुर्वक्षोविभेदिनीम् ॥३०॥गदया तां पोथयित्वा धनुर्दिव्यमुपाददे ।स्कन्दो ववर्ष शस्त्राणि राहोर्नाशाय सर्वथा ॥३१॥सर्पांश्च पर्वताँश्चापि वृक्षांश्च प्रस्तराँस्तथा ।सर्वांश्चिच्छेद कोपेन दिव्यास्त्रैः शंकरात्मजः ॥३२॥आग्नेयं वारुणास्त्रेण वारयामास वै गुहः ।रथं धनुश्च चिच्छेद सैंहिकेयस्य लीलया ॥३३॥सवाहं सारथिं चैव हत्वा चिक्षेप शक्तिकाम् ।दानवो वक्षसि हतो मूर्छामवाप वै तदा ॥३४॥शंखचूडः समायातो रथमारुह्य सत्वरम् ।चकार शरजालानि मायया मायिनां वरः ॥३५॥गूहं त्वाच्छाद्य समरे शरजालेन शक्तिकाम् ।जग्राह शतसूर्याख्यां विष्णुतेजोऽन्वितां तदा ॥३६॥चिक्षेप कार्तिके लग्ना पपात मूर्छितस्तदा ।काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ ॥३७॥शिवः स्वसैन्यं देवाँश्च प्रेरयामास सत्वरः ।दानवेन्द्रैः ससैन्यैश्च पुनर्युद्धं भयंकरम् ॥३८॥समभूत् तत्र युयुधे महेन्द्रो वृषपर्वणा ।भास्करो युयुधे विप्रचित्तिना प्रलयाग्निवत् ॥३९॥दंभेन सह चन्द्रश्च कालः कालेश्वरेण च ।गोकर्णेन कृशानुश्च कालकेयेन यक्षराट् ॥४०॥मयेन विश्वकर्मा च मृत्युर्भयंकरेण च ।संहारेण यमः कलविंकेन वरुणस्तथा ॥४१॥चञ्चलेन पवनश्च घृतपृष्ठेन वै बुधः ।रक्ताक्षेण शनिश्चैव वसवो वर्चसांगणैः ॥४२॥जयन्तो रत्नसारेणाऽश्विनौ दीप्तिमता सह ।नलकूबरो धूम्रेण धर्मो धनुर्धरेण च ॥४३॥शोभाकरेणैवेशानो मण्डुकाक्षेण मंगलः ।मन्मथः पिठरेणापि युयुधेऽस्त्रप्रहेतिभिः ॥४४॥उल्कामुखेन धूम्रेण खङ्गेनापि ध्वजेन च ।काञ्चीमुखेन पिण्डेन घनेन सह नन्दिना ॥४५॥विश्वेन च पलाशेन चादित्या युयुधुर्भृशम् ।एकादश महारुद्रा युयुधिरे भयाह्वयैः ॥४६॥महामारी युयुधे च प्रोग्रदण्ड्यादिभिस्तदा ।नन्दीश्वरादयः सर्वे सह दण्ड्यादिदानवैः ॥४७॥एवं ते युयुधुः सैन्येश्वराः सैन्यानि सर्वशः ।शंखचूडो विशश्राम क्षणं तद्वच्च कार्तिकः ॥४८॥दानवाश्चासुरा दैत्या युयुधिरे समन्ततः ।देवाश्चकम्पिरे भीता दुद्रुवुर्वै दिशो दश ॥४९॥चकार कोपं स्कन्दश्च देवेभ्यस्त्वभयं ददौ ।युयुधेऽयं दानवानां गणैः सार्धं प्ररोषतः ॥५०॥अक्षौहिणीनां शतकं समरे स जघान ह ।काली रक्तं पपौ क्रुद्धा ननर्त समरे तदा ॥५१॥दशलक्षं गजेन्द्राणां शतलक्षं च वाजिनाम् ।समादाय समादाय मुखे चिक्षेप लीलया ॥५२॥स्कन्दस्य शरजालैश्च दानवाद्या विदुद्रुवः ।काली समरमासाद्याऽट्टाट्टहासानि चाकरोत् ॥५३॥उग्रदंष्ट्रा चोग्रदण्डा कोटरा योगिनीगणाः ।डाकिन्यश्चासुरान् खादयामासुश्च पपुर्मधु ॥५४॥दृष्ट्वा कालीं शंखचूडो युद्धार्थमाद्रवत् तदा ।काली चिक्षेप चाग्नेयं प्रलयाग्निसमं ततः ॥५५॥शंखचूडोऽहरत्तद्वै वारुणास्त्रेण लीलया ।चिक्षेप वारुणं काली गान्धर्वेण तु दानवः ॥५६॥चिच्छेदाथ प्रचिक्षेप काली माहेश्वरास्त्रकम् ।जघान दानवो वैष्णवास्त्रेण लीलया तदा ॥५७॥नारायणास्त्रं चिक्षेप काली ततस्तु दानवः ।ननाम दण्डवत् भूमौ भक्त्यस्त्रेण शशाम तत् ॥५८॥ब्रह्मास्त्रं सा च चिक्षेप ब्रह्मास्त्रेणाऽग्रसद्धि सः ।पाशुपतं सा चिक्षेप पाशुपतेन सोऽहनत् ॥५९॥देवी चिक्षेप शक्तिं तां सोऽपि शक्त्याऽविनाशयत् ।महाकाली तदा क्रुद्धा महाकालास्त्रमेव सा ॥६०॥मन्त्रपूर्वं निक्षिपति तावदाकाशवागभूत् ।मृत्युर्न दानवस्याऽस्ति कण्ठेऽस्य कवचं हरेः ॥६१॥तुलस्याश्च सतीत्वं वै यावदस्ति तु तावता ।जरामृत्यू न चाऽस्य स्तो विना सतीत्वनाशनम् ॥६२॥श्रुत्वा काली विनिवृत्ता सोऽकरोज्जयगर्जनाम् ।तावद्वटे समायातो विष्णुर्ब्राह्मणरूपधृक् ॥६३॥शंभो! मयाऽर्पितां शक्तिं समादाय रणस्थलीम् ।याहि दैत्यविनाशाय विष्णुरस्मि जगद्गुरुः ॥६४॥गच्छाम्यहं भिक्षुकः सन्नर्थयामि तु दानवम् ।कवचं प्रति भूतेश! पश्चाद् गच्छामि तुलसीम् ॥६५॥शंखचूडस्वरूपेण वीर्याधानार्थमीश्वर! ।ततो दानवमृत्युर्वै भविष्यति न संशयः ॥६६॥इत्युक्त्वा भगवान् विष्णुर्वृद्धब्राह्मणरूपधृक् ।दानवेन्द्रं प्रति गत्वा भिक्षां देहीति चाऽब्रवीत् ॥६७॥गृहाण किं तवेच्छास्ति प्रोवाच दानवस्तदा ।ब्राह्मण प्राह कवचं देहि मे दानवद् भव ॥६८॥तच्छ्रुत्वा दानवच्छ्रेष्ठो ददौ कवचमुत्तमम् ।गृहीत्वा कवचं कृष्णो जगाम तुलसीं प्रति ॥६९॥शंखचूडस्वरूपेण जगाम तुलसीगृहम् ।दुन्दुभिं वादयामास चकार जयसद्रवम् ॥७०॥तच्छ्रुत्वा परमानन्दा समुत्थाय ससंभ्रमा ।राजमार्गगवाक्षेण ददर्श तुलसी पतिम् ॥७१॥ब्राह्मणेभ्यो वाचकेभ्यो भिक्षुभ्यः सा धनं ददौ ।मंगलं वाचयामास बन्दिभ्योऽपि धनं ददौ ॥७२॥अवरुह्य रथात् कृष्णस्तुलस्या भवनं ययौ ।कान्तमासाद्य तुलसी क्षालयामास तत्पदम् ॥७३॥ननामाऽतिमुदा स्वर्णासनस्थं जयकारिणम् ।समाश्लिषत् तदंगानि मर्दयामास शान्तये ॥७४॥ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ।अद्य मे सफलं जन्म पश्यामि विजयं तव ॥७५॥कथं विश्वस्य संहर्त्रा सार्धमाजौ जयोऽभवत् ।तन्मे ब्रूहि प्राणनायेत्युवाच तुलसी सती ॥७६॥विष्णुरुवाच देवानां दानवानां महाक्षये ।ब्रह्मा तत्र समागत्य कारयामास मेलनम् ॥७७॥देवानामधिकारेषु देवा भवन्तु निर्भयाः ।शंखचूड! तव राज्ये सपत्नीकः सुखी भव ॥७८॥इति सन्धिः कारितो वै ब्रह्मणा चावयोस्ततः ।आगतोऽहं स्वभवनं शिवलोकं शिवो गतः ॥७९॥इत्युक्त्वा तुलसीं कृष्णः शयनं प्रचकार वै ।रेमे रमापतिस्तत्र तुलस्याः शयने रतिम् ॥८०॥सापि सुखातिरेकाच्चाऽऽकर्षणादिविलक्षणम् ।अप्रस्खलितभावाच्च तर्कयामास चेतरम् ॥८१॥कस्त्वं वद महाराजस्वरूपोऽस्यत्र मायया ।दूरीकृतं सतीत्वं मे भुक्ताऽहं मायया त्वया ॥८२॥शपामि वद शीघ्रं मे श्रुत्वेति शापभीतितः ।दधार लीलया स्वीयमूर्ति नारायणात्मिकाम् ॥८३॥नवीननीरदश्यामां शरत्पंकजलोचनाम् ।कोटिकन्दर्पलावण्यां रत्नभूषणभूषिताम् ॥८४॥ईषद्धास्यप्रसन्नास्यां शोभितां पीतवाससा ।नारायणं तथा दृष्ट्वा कामिनीं काममूर्छितां ॥८५॥पुनश्च मोहमापन्ना श्रीकृष्णं परिषस्वजे ।तदा तुलस्यां श्रीकृष्णो वीर्याधानं चकार ह ॥८६॥शंभुस्तदा त्रिशूलेन शंखचूडं जघान वै ।मृतस्यात्मा चतुर्बाहुः सुदामा धाम संययौ ॥८७॥पुनश्च मोहमापन्ना पुनश्च प्राप्य चेतनाम् ।उवाच कृष्णं हे नाथ! पाषाणहृदयो भवान् ॥८८॥दया नास्ति मनास्ताश्च! सतीबलप्रजीवनः ।छलेन धर्मभगेन मम स्वामी त्वया हतः ॥८९॥तस्मात्पाषाणरूपस्त्वं भुवि देवो भवाऽधुना ।अतस्त्वमेकजनुषि ज्ञानहीनो भविष्यसि ॥९०॥इत्युक्त्वा सा च तुलसी निपत्य चरणे हरेः ।रुरोद विललापैनामुवाच भगवाँस्तदा ॥९१॥शंखचूडं च मे भक्तं सुदामानं पुनर्मम ।वैकुण्ठं प्रापयितुं वै मया त्वयि छलं कृतम् ॥९२॥तन्नाशाय मया दत्तं त्रिशूलं शंकराय वै ।ग्रीष्ममध्याह्नमार्तण्डशतकप्रभमुज्ज्वलम् ॥९३॥नारायणाऽधिष्ठिताग्रं ब्रह्माधिष्ठितमध्यमम् ।शिवाधिष्ठितमूलं च कालाधिष्ठितधारकम् ॥९४॥दुर्निवार्यं तथाऽव्यर्थं सर्वशस्त्रविघातकम् ।शंकरकेशवाऽन्यैर्दुर्वहं ब्रह्माण्डनाशकम् ॥९९॥धनुःसहस्र दैर्घ्येण विस्तृत्या शतहस्तकम् ।सजीवं ब्रह्मरूपं च शंभुश्चिक्षेप दानवे ॥९६॥मया त्वयि कृतं वीर्याधानं दैत्या ममार यत् ।बभूव भस्मसाच्छंखचूडो रथयुतस्तदा ॥९७॥बभूव च पुनर्दिव्यो द्विभुजो मुरलीधरः ।नानारत्नसुभूषाढ्यगोपकोटिभिरावृतम् ॥९८॥गोलोकादागतं यानमारुह्य तत्पुरं ययौ ।अथ शूलश्च वेगेन प्रययौ शूलिनः करम् ॥९९॥शंकरस्तेन शूलेन दानवस्याऽस्थिजालकम् ।प्रेम्णा न्यक्षेपयच्छीघ्रं लवणोदे तु सागरे ॥१००॥शंखजातिर्जायते सा श्रेष्ठा पूता सुरार्चने ।प्रशस्तं शंखतोयं च देवानां प्रीतिदं भवेत् ॥१०१॥यत्र शंखस्तत्र लक्ष्मीस्तुलसी तीर्थमत्र च ।शंखतोयं तीर्थतोयं यत्र शंखस्ततो हरिः ॥१०२॥शोकं त्यज मम पद्मे! भव जातिस्मरा प्रिये! ।तपस्त्वया कृतं साध्वि! मदर्थे बदरीवने ॥१०३॥त्वदर्थे शंखचूडश्च चकार पुष्करे तपः ।कृत्वा त्वां कामिनीं कामी विजहार च तत्फलात् ॥१०४॥गतः स शरणं राधाकृष्णयोः रासमण्डले ।गोलोके वर्तत भक्तो मम त्वं याहि सुन्दरि! ॥१०५॥इदं शरीरं त्यक्त्वेह दिव्यं देहं विधाय च ।रासे मे रमया सार्धं त्वं रमासदृशी भव ॥१०६॥तव शापेन पाषाणः शालग्रामो भवामि वै ।त्वद्वियोगाऽसहमानः शपामि त्वां नदी भव ॥१०७॥इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ।पूता मोक्षप्रदा नॄणां भवतु पुण्यदाऽऽप्लवात् ॥१०८॥तव रोमसमूहाश्च पुण्यवृक्षा भवन्तु वै ।तुलसीरोमजा वृक्षास्तुलस्यः प्रभवन्तु वै ॥१०९॥नद्यामहं शालग्रामो वहामि जलतुलसीम् ।त्रिलोकेषु च पुष्पाणां पत्राणां देवपूजने ॥११०॥प्रधानरूपा तुलसी सदा भवतु मत्प्रिया ।राधाशापकृतस्ते मद्वियोगः सान्ततां गतः ॥१११॥कृपया मे भव पद्मे धाम्नि रमाऽत्र तुलसी ।विवाहविधिना वृन्दावनेऽहं त्वां सुकन्यकाम् ॥११२॥ग्रहीष्यामि गमिष्यामि नीत्वा त्वां मत्सहायिनीम् ।इत्युक्त्वा प्रययौ विष्णुर्यत्र शंभुर्मृधे स्थितः ॥११३॥ववन्दाते शशंसतुः परस्परं हरो हरिः ।देवारुत्थापिताः सर्वे शिवसेना प्रजीविता ॥११४॥विष्णुना शंकरेणापि मृता उज्जीवितास्तदा ।शुक्रेण दानवसेना सञ्जीविन्या च जीविता ॥११५॥चक्रुर्मोत्सवं तत्रोपदार्पणं कृतं ततः ।सर्वे ययुर्हरेः शालग्रामता यत्र भाविनी ॥११६॥गण्डकीरूपता यत्र तुलस्याश्चापि भाविनी!ततस्तद्रूपतां प्राप्तौ पूजयित्वा सुरादयः ॥११७॥ययुर्वृन्द्रावनं रम्यं भाविनी यत्र तुलसीयमुनायां कृतस्नानाश्चक्रुस्तत्र महोत्सवम् ॥११८॥तुलसीवृक्षरूपा च जाता तत्र हरीच्छया ।कन्यारूपा तथा दिव्या वरारोहाऽप्यभूत्तदा ॥११९॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने शंकरं प्रति दानववचनं, स्कंदराहुतत्सेनयोर्युद्धं, काल्यास्त्रकृतयुद्धं, विप्ररूपविष्णुकृतदानवकवचभिक्षा, शंखचूडरूपविष्णुकृततुलसीवीर्याधानं, शंखचूडमरणं, तुलस्याः पाषाणशालग्रामो भवेति विष्णोस्तुगण्डकीनदी तुलसीवृक्षिका च भवेति शापौ, युद्धे मृतानामुज्जीवनं, वृन्दावनागमनं चेत्यादिनिरूपणनामा सप्तत्रिंशदधिकत्रिशततमोऽध्यायः ॥३३७॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP