संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३८२ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३८२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३८२ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! प्रवक्ष्यामि पातिव्रत्यं परं तव ।मां विहाय कदापि त्वं तिष्ठसे न जनान्तरे ॥१॥यत्र यत्रास्ति मेंऽशो वै तत्र तत्रासि चांशतः ।पातिव्रत्यं परं मुख्यं धर्मं धृत्वा हि वर्तसे ॥२॥अहं चापि हृदि रक्षन् पत्नीव्रतपरायणः ।वर्तामि च त्वयि लक्ष्मि! सर्वात्मनाऽऽन्तरे बहिः ॥३॥मदिच्छातः पुरा जाता लक्ष्मीस्त्वं हृदयाद् बहिः ।वैकुण्ठे त्वं ततो जाता सती नारायणप्रिया ॥४॥गोलोके राधिकारूपा कृष्णप्रियाऽसि सर्वदा ।श्रीश्च त्वं वर्तसे चाऽव्याकृते धाम्नि मम प्रिया ॥५॥श्वेतद्वीपेऽपि मे पत्नी क्षीराब्धौ त्वं रमासि मे ।प्रभा च पार्वती चासि मम धाम्नि चिदम्बरे ॥६॥माणिकी च वरारोहा सर्वदाऽसि ममाऽऽसनम् ।क्षीराब्धौ त्वं ततो जाता जाता केदारपुत्रिका ॥७॥भृगोः ख्यात्यां समुत्पन्ना जाता पद्मा तथा प्रिया ।अनरण्यगृहे त्वं वै धरण्यां चापि मे प्रिया ॥८॥तथा त्वं कम्भरालक्ष्मीर्जाता सौराष्ट्रके शुभे ।सा त्वं नित्या जगन्माता विष्णोः श्रीरनपायिनी ॥९॥कृष्णनारायणसक्थ्नि वामे गौरस्वरूपिणी ।वर्तसे त्वं सदा लक्ष्मीरदृश्या सेविका सती ॥१०॥यथा सर्वगतश्चाऽहं तथा सर्वगताऽसि वै ।न त्वां विना क्वचिच्चाहं मां विना त्वं न च क्वचित् ॥११॥अपृथकसिद्धतादात्म्यं वर्तते लक्ष्मि! नौ सदा ।सदा सर्वत्र सर्वाऽसि सर्वश्चास्मि तथाप्यहम् ॥१२॥पतित्वं मे सदा ते च पत्नीत्वं सर्वदा प्रिये ।कर्मणा मनसा वाचा वर्ष्मणा गुणचिन्तनैः ॥१३॥जाग्रति स्वापने घोरे सुषुप्तावपि तुर्यके ।स्थाने चात्मनि सर्वत्र विषये विलये तथा ॥१४॥सृष्टौ लये चिदाकाशे जडे चेतनवर्गके ।कार्ये वा कारणे लक्ष्मि! सदा त्वं मे पतिव्रता ॥१५॥पत्नीव्रतस्तथाऽजस्रं भवाम्येव न संशयः ।अहं विष्णुश्च सर्वत्र व्यापकोऽस्मि सती सदा ॥१६॥त्वं तत्र व्यापिनी देवी मम शक्तिस्वरूपिणी ।अक्षरेशोऽप्यहं त्वं चाक्षरी भवसि मत्प्रिया ॥१७॥मुक्तेशोऽहं यदा लक्ष्मि! मुक्तानी त्वं हि वर्तसे ।जया च ललिता त्वं वै हरिकृष्णस्तदाऽप्यहम् ॥१८॥अह चार्थस्त्वं च वाणी नीतिस्त्वं च नयोऽस्म्यहम् ।बोधश्चाहं त्वं च बुद्धिर्धर्मोऽहं त्वं च सत्क्रिया ॥१९॥स्रष्टा चाहं त्वं च सृष्टिर्भूमिस्त्वं भूएधरोऽस्म्यहम् ।सन्तोषोऽह त्वं च तुष्टिः कामोऽहं त्वं च कामना ॥२०॥यज्ञोऽहं दक्षिणा वै त्वं वेदोऽहं त्वं च वेदिका ।आज्याहुतिस्त्वमेवासि पुरोडाशोऽस्मि वै तदा ॥२१॥पत्नीशाला त्वमेवाऽसि प्राग्वंशोऽहं भवामि च ।यूपोऽहं च चितिस्त्वं च त्वमिध्मा च कुशोऽस्म्यहम् ॥२२ ॥उद्गीतिस्त्वं च सामाऽहं त्वं स्वाहाऽहं हुताशनः ।गौरी त्वं शंकरश्चाहं त्वं प्रभाऽहं दिवाकरः ॥२३॥अहं पितृणस्त्वं च स्वधा शाश्वतपुष्टिदा ।आकाशोऽहं तथा त्वं द्यौश्चन्द्रोऽहं त्वं च कौमुदी ॥२४॥वायुश्चाऽहं धृतिस्त्वं वै वेला त्वं सागरोऽस्म्यहम् ।इन्द्राणी त्वं महेन्द्रोऽहं धूमोर्णा त्वं यमोऽस्म्यहम् ॥२५॥ऋद्धिस्त्वं च कुबेरोऽहं गौरी त्वं वरुणोऽस्म्यहम् ।देवसेना त्वमेवाऽसि सेनान्यहं च कार्तिकः ॥२६॥अवष्टंभोऽस्म्यहं यत्र तत्र शक्तिस्त्वमेव मे ।त्वं काष्ठाऽसि निमेषोऽस्मि मुहूर्तोऽहं कलासि मे ॥२७॥त्वं ज्योत्स्नाऽहं प्रदीपोऽस्मि द्रुमोऽहं त्वं लतासि वै ।दिवसोऽहं निशा त्वं च वधूस्त्वं च वरोऽस्म्यहम् ॥२८॥नदोऽहं त्वं नदीरूपा पताका त्वं ध्वजोऽस्म्यहम् ।लोभोऽहं त्वमसि तृष्णा रागोऽहं त्वं रतिर्मता ॥ २९॥देवतिर्यङ्मनुष्यादौ माया त्वं मायिकोऽस्म्यहम् ।दुर्वासःशापतस्त्वं तु महेन्द्राद्रिं विहाय वै ॥३०॥समुदेऽतीव संमग्ना पुनश्चाविर्बभूविथ ।त्वं सिद्धिस्त्वं पद्मिनी च ख्यात्यां लक्ष्मीर्भृगोः सुता ॥३१॥नर्मदायास्तटे त्वं तु भार्गवी दिव्यविग्रहा ।जातमात्रा युवती त्वं तेपिषे दुष्करं तपः ॥३२ ॥नारायणः पतिर्मेऽस्तु चतुर्बाहुः स्वयं हरिः ।इति वर्षाऽयुतं साध्वि! त्वया तप्तं परं तपः ॥३३॥नित्यं षोडशवर्षीया वृद्धिहासविवर्जिता ।तेजोमण्डलमध्यस्था भृगुकृच्छोच्छ्रयस्थिता ॥३४॥वर्षसहस्रं पञ्चाग्नौ तपश्चकर्थ दारुणम् ।ततो वर्षसहस्रं वै तण्डुलाहारकं तपः ॥३५॥ततो वर्षसहस्रं वै फलाहारपरायणा ।ततो वर्षसहस्रं वै कन्दाहारपरायणा ॥३६॥ततो वर्षसहस्रं वै पत्राहारपरायणा ।ततो वर्षसहस्रं त्वं शुष्कपत्रपरायणा ॥३७॥ततो वर्षसहस्रं त्वं जलफेनपरायणा ।ततो वर्षसहस्रं त्वं क्वचिज्जलपरायणा ॥३८॥ततो वर्षसहस्रं त्वं धूम्रबाष्पपरायणा ।ततो वर्षसहस्रं वै वायुपानपरायणा ॥३९॥एकादशे सहस्रे त्वं सर्वेन्द्रियनिरोधिनी ।ब्रह्मरंध्रं समासाद्य समाधिं मयि चागता ॥४०॥त्वया स्तुतोऽप्यहं नेति विवाहार्थं जगाद् ह ।त्वया प्राणान् परित्यक्तुं ज्ञापयित्वा द्रुतं तु मे ॥४१॥ब्रह्मरन्ध्रं समुद्धाट्य यावदूर्ध्वं गतिः कृता ।तावन्मया समागत्य पुना रन्ध्रे निवेशिता ॥४२ ॥त्वयोक्तं तु तदा लक्ष्मि! या त्वं मे पतिर्भव ।तदा रोधय मे प्राणानन्यथा त्वं वियोजय ॥४३॥विहस्य साश्रुनेत्रोऽहं प्रेमपुलकितांऽगकः ।हृष्टरोमा स्वेदगात्रोऽभवमाश्लिष्टवानपि ॥४४॥प्रोक्तवाँस्त्वं निवर्तस्व तपसश्चातिदारुणात् ।यावत्सृष्टिर्ब्रह्मलोकस्तावत्पत्नीं करोमि वै ॥४५॥गच्छ त्वं पितरं लक्ष्मि! मातरं वद सर्वथा ।आगच्छति विवाहार्थं कृष्णनारायणः प्रभुः ॥४६॥इत्युक्ता त्वं समुत्थाय नत्वा स्पृष्ट्वाऽऽननं मम ।सर्वं समर्पितं कृत्वा गता स्वपितृमन्दिरम् ॥४७॥अहं यातश्च वैकुण्ठं तदा सस्मार नारदम् ।सप्तर्षीन् राधिकां श्रीं च माणिकीं पार्वतीं प्रभाम् ॥४८॥ते सर्वे तु समागत्य पप्रच्छुः कारणं तु माम् ।मया गदितो वृत्तान्तो भार्गवीयोगसंभवः ॥४९॥नर्मदायास्तटे रम्ये भगुर्ब्राह्मणसत्तमः ।दिव्यं वर्षसहस्रं तु समुपास्ते हरं प्रभुम् ॥५०॥वल्मीकावस्थितश्चासौ दक्षिणं च निकेतनम् ।तं ध्यायति समाधिस्थो वरं प्रार्थयते तथा ॥५१॥आश्चर्यं तु महज्जातमुमायाः शंकरस्य च ।गौरी पृच्छति शंभुं तु वल्मीकस्थोऽयमस्ति कः? ॥५२॥शंभुः प्राह भृगुर्नामा ऋषीणां प्रवरो मुनिः ।वरं ध्यायति तपति प्रार्थयत्येव शंकरात् ॥५३॥तदा प्रहसिता गौरी शंकरं प्रत्यभाषत ।धूमवत्तु शिखा जाता ततोऽद्यापि न तुष्यसि ॥५४॥दुराराध्योऽसि मे नाथ कथमेवं तु वर्तसे ।शिवः प्राह महादेवि! भृगुः क्रोधेन चेष्टितः ॥५५॥दर्शयामि तथा तथ्यं प्रियं ते च करोम्यहम् ।स्मारितो देवदेवेन धर्मरूपो वृषस्तदा ॥५६॥स्मरणाद् देवदेवस्य वृषः शीघ्रमुपस्थितः ।वदते मानुषीं वाचमादेशो दीयतां प्रभो ॥५७॥वल्मीकैश्छादितो विप्रः एव भूमौ निपातय ।योगस्थस्तु ततो ध्यायँस्ततस्तेन निपातितः ॥५८॥तत्क्षणात् क्रोधसन्तप्तो हस्तमुत्क्षिप्तवान् वृषम् ।एष संभाषमाणश्च कुत्र गच्छसि भो वृष! ॥५९॥अद्य त्वामत्र पाप्मानं प्रत्यक्षं हन्म्यहं वृष! ।धर्षितस्तु तदा विप्रो ह्यन्तरिक्षगतं वृषम् ॥६०॥आकाशे प्रेक्षते विप्रो ह्येतदद्भुतमुत्तमम् ।ततः प्रहसिते रुद्रे ऋषिरग्रे व्यवस्थितः ॥६१॥तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात् पतितो भुवि ।प्रणम्य दण्डवत् भूमौ स्तौति श्रीपरमेश्वरम् ॥६२॥अलीकाहंकारयुक्तं क्षणभंगुरवैभवम् ।क्रूरं कुपथपतितं त्राहि मां परमेश्वर ॥६३॥शीघ्रं हरस्व मे तृष्णां लक्ष्मीं देहि च हृच्छ्रयाम् ।छिन्धि पाशान् भवजातान् समुद्धारय शंकर! ॥६४॥रुद्रवेदी भवेदेषा नारायणस्वरूपिणी ।यदि तुष्टोऽसि विश्वेश चैतत्सम्पादयस्व मे ॥६५॥तथास्त्विति तदा प्राह शंभुर्लोकहिताय वै ।नारायणी महालक्ष्मीः पुत्री तेऽत्र भविष्यति ॥६६॥क्रोधस्थानं रुद्रवेदी भृगुक्षेत्रं भविष्यति ।न पिता पुत्रयोश्चात्र ह्येकवाक्यं भविष्यति ॥६७॥इत्युक्त्वा च हरस्तस्मात्तिरोभूच्च भृगोर्गृहे ।दिव्या संकल्पजा पुत्री लक्ष्मीर्जाताऽतिशोभना ॥६८॥ख्यातिः पुत्रीमती जाता पुष्पवृष्टिर्दिवौकसाम् ।बभूव चोत्सवश्चापि वैकुण्ठमिव भूरभूत् ॥६९॥तदा प्रभृति ब्रह्माद्याः सर्वे देवाः सकिन्नराः ।उपासते भृगोस्तीर्थं तुष्टो यत्र महेश्वरः ॥७०॥नित्यं यत्राऽभवल्लक्ष्मीर्भार्गवी वै नरायणी ।नारायणं पतिं लब्धुं तपस्तेपेऽतिदारुणम् ॥७१॥अहं तुष्टश्च तपसाऽयुतवर्षोत्तरं ययौ ।तस्यै पणं मया दत्तं विवाहाय ततो मया ॥७२॥गन्तव्यं वै भृगुक्षेत्रं वररूपेण वै यतः ।वैकुण्ठात्तु गमिष्यामः कुर्वन्तु सज्जतां प्रियाः ॥७३॥भृगुतुंगे मुनिवर्यो भृगुः ख्यात्या विराजते ।अष्टाशीतिसहस्रैश्च ब्रह्मर्षिभिस्तपोधनः ॥७४॥ततो दूरं नर्मदायास्तटे विष्णुर्विराजिते ।पञ्चाशद्योजने भागे विष्णुतीर्थे वयं खलु ॥७५॥वैकुण्ठं कारयित्वैव पार्थिवं विश्वकर्मणा ।स्थास्यामश्च त्रयस्त्रिंशत्कोटि देवा अपि प्रियाः ॥७६॥देवतीर्थे तटे तत्र नः स्थास्यन्ति प्रवाहितः ।ऋषितीर्थे च ऋषयो मानवाश्चक्रतीर्थके ॥७७॥शुक्लतीर्थे च कृष्णाद्याः सर्वे वै परमेश्वराः ।ब्रह्मतीर्थे तथा मुक्ताः स्थास्यन्ति महीमानकाः ॥७८॥एवं वै नार्मदे देशे वत्स्यामो वयमादरात् ।कार्तिक्यां च करिष्यामो वैकुण्ठं तत्र नूतनम् ॥७९॥माघ्यां विवाहविधये यास्यामो भृगुपत्तनम् ।इति सर्वान् विनिर्दिश्य कृष्णनारायणः प्रभुः ॥८०॥आहूय पृथिवीं देवीं समाज्ञापयदच्युतः ।कुरु रेवातटं रिक्तं शतयोजनविस्तरम् ॥८१॥समतलं समुद्यानैर्व्यवस्थितैः सुशोभितम् ।सर्वखाद्यखनियुक्ताः शालास्तत्र च कारय ॥८२॥वस्तूनि चापि सर्वाणि तत्रोपस्थापय प्रिये ।सस्यान्नानि फलपत्रकन्दमूलानि सर्वथा ॥८३॥वेषवाराणि दिव्यानि गन्धचूर्णानि यानि च ।मिष्टान्नानि च मृष्टानि शर्करादीनि चापि वै ॥८४॥उपस्थापय ते गर्भे गह्वरेषु बहूनि च ।भव दिव्या मम योगाद् वैकुण्ठाभा वसुन्धरा ॥८५॥इत्याशीर्वादमादाय भूमिस्तत्र समागता ।शतयोजनविस्तारे भूगर्भे सर्वसम्पदः ॥८६॥रचयित्वा निधायैव स्वस्था चास्ते मुदान्विता ।वरुणं जलदेवं च समाहूय नरायणः ॥८७॥आदिदेशाऽमृतादीनां पेयानां पयसामपाम् ।दध्नां च मादकानां च घृतानां रसिनां तथा ॥८८॥मधूनां गूडवारीणां द्रुमाणां रसशालिनाम् ।सोमवल्लीकल्पलताकल्पद्रुमादिसम्पदाम् ॥८९॥रसानां च प्रवाहाणां पेयानां विपुलान् ह्रदान् ।कर्तुं भर्तुं दिदेशाऽपि सोऽपि गत्वा तथाऽकरोत् ॥९०॥सूर्यं चन्द्रं विद्युतश्च वाडवाग्निं महानलम् ।कृष्णनारायणश्चाज्ञापयामास महानसान् ॥९१॥पाकशाला विविधाश्च वह्निशालाश्च बाष्पदाः ।कर्तुं रचयितुं तत्र शीतोष्णकुण्डवैभवान् ॥९२॥दीपप्रदीपशोभाश्च चन्द्रिकाशीतलप्रभाः ।स्फीतालोकान्महालोकानन्धकारप्रकल्पकान् ॥९३॥कण्डनीः पेषणीश्चुल्लीश्चोदकुंभीश्च मार्जनीः ।दिव्या दिव्यद्रवोपेताः कर्तुं दिदेश केशवः ॥९४॥वायुं तथा समाहूय प्राणाँश्च मरुतस्तथा ।व्यजनानां च तालानां मन्दसुगन्धशालिनः ॥९५॥शीतान् वायून् क्वचित्तूष्णान् कर्तुमजीज्ञपद्धरिः ।आकाशं च समाहूय चिदाकाशमथाऽकरोत् ॥९६॥विभूतिं तत्र संप्रेष्य वैकुण्ठान्यमथाऽकरोत् ।मेघान्प्राह हरिः कृष्णश्छत्राणि रचयन्त्विति ॥९७॥इन्द्रं राजोपकरणान्याहर्तुं प्राह माधवः ।कुबेरं सर्वरत्नाढ्ययन्त्रानयनमादिशत् ॥९८॥यमं प्राह महासैन्यं शोभार्थं कुरु चाग्रगम् ।शंभुं प्राह हरिस्तत्र सगणं नर्तनाय वै ॥९९॥वाद्यानां वादनार्थं तु सरस्वत्यै न्यवेदयत् ।मण्डपानां रचनार्थं दिदेश विश्वकर्मणे ॥१००॥शोभाऽऽधिक्यकरणार्थं प्रैरयद् देवशिल्पिनः ।भृग्वादिष्टो गुरुर्लग्नं दृष्ट्वा विलिख्य पत्रिकाम् ॥१०१॥धाम ययौ ददौ भूम्ने वाद्यान्यवादयच्च सः ।नारदं प्रेषयामासाऽऽह्वनार्थं त्रिषु सृष्टिषु ॥१०२॥बलिशेषादयः पातालस्था आकारितास्तथा ।पर्वताद्याः सरितश्च तीर्थानि जडचेतनाः ॥१०३॥ऋषयो मुनयो देवाः पितरो ब्रह्मचारिणः ।साध्व्यश्च साधवः सर्वे सात्वता आहुतास्तथा ॥१०४॥ईशाश्चेशेश्वराश्चापि भगवन्तो दिगीश्वराः ।लोकपालाः प्रजापालास्तत्त्वेशाः परमेश्वराः ॥१०५॥ब्रह्माणो विष्णवो रुद्रा आदित्या वसवस्तथा ।वैराजा वालखिल्याश्च याम्या ग्रहाश्च तारकाः ॥१०६॥केतवश्चावरणस्था ईश्वरा अमृताऽक्षराः ।वैकुण्ठस्थाश्च गोलोकवासिनः श्वेतधामगाः ॥१०७॥मायालोकपराश्चान्ये तेजःपरास्तथाऽपरे ।मुक्ताश्च धामवासाश्च शक्तयो मुक्तयोषितः ॥१०८॥ब्रह्माण्यः सांख्ययोगिन्यो भगवत्यश्च देवताः ।ईश्वरिण्यस्तथाऽऽर्ष्यश्च वेदा वेदान्य इत्यपि ॥१०९॥अवतारास्तथा चावतारिण्यो हरियोषितः ।मानव्यो वल्लिकाः सर्वा काश्यप्यः प्रमदास्तथा ॥११०॥कुमारिकाश्च सधवास्तथा हरिधवाः पराः ।जडाश्च चेतनाः सर्वाः समहूताश्च योषितः ॥१११॥कृष्णनारायणस्यात्र भार्गव्या सह लग्नके ।विवाहोत्सववृद्ध्यर्थं माध्यामायान्तु मद्गृहे ॥११२॥अक्षराधिपतिः साक्षात्पुरुषोत्तमसंज्ञकः ।आकारयाम्यतिप्रेम्णैकादश्यां मद्गृहे शुभे ॥११३॥मण्डपारोहणे याने कन्यापितृगृहे तथा ।सहायाः सन्तु सर्वे वै स्वयं तुष्याम्यहं हरिः ॥११४॥अक्षरे मम धाम्न्यत्र समागच्छन्तु सगृहाः ।सर्वे वयं गमिष्यामो भुवि भार्गवपत्तनम् ॥११५॥नर्मदायास्तटे रम्ये शुक्लतीर्थे कृताश्रमे ।भार्गव्यास्तु विवाहार्थं ततो यास्याम ईश्वराः ॥११६॥कुंकुमपत्रिकास्त्वेवं ब्रह्माण्डेषु प्रतिस्तरम् ।प्रेषिताः पार्षदैश्चाथ मंगलान्यभवँस्ततः ॥११७॥देव्यस्तु गीतिकाश्चक्रुर्मंगलायतनाः शुभाः ।कृष्णनारायणं पिष्टचूर्णमर्दनमाचरन् ॥११८॥वादकाश्चारुवाद्यानि सर्वतश्चाप्यवादयन् ।जगुस्तु देवगन्धर्वा नर्तक्यो नृत्यमाचरन् ॥११९॥महीमानाः समाजग्मुरक्षराख्यं गृहं प्रति ।मानं सत्कारमाचक्रे भगवान् पुरुषोत्तमः ॥१२०॥भोजयामास दिव्यानि मिष्टान्नान्यमृतानि च ।पाययामास दिव्यानि वारीण्यमृतकानि च ॥१२१॥शृंगारवेषरम्याणि यानवाहनकानि च ।कोटिशो हस्तिनः श्वेता गरुडाः कोटिशस्तथा ॥१२२॥हंसाः सिंहा वृषा नीलकण्ठाश्चापि च कोटिशः ।अश्वाश्च कोटिशो दिव्याः शरभा गवयादयः ॥१२३॥अर्बुदाः शेषशय्याश्च शिबिकाः कोटिकोटिशः ।पर्य्यः सपक्षाश्चानन्ता ईशान्यः पक्षचारिकाः ॥१२४॥संयुञ्जन्ति स्म वाहिन्यां विवाहप्रोत्सवोत्सुकाः ।अनन्ताश्चाक्षरमुक्ता गोलोकस्था अनन्तकाः ॥१२५॥श्रीकृष्णेन सह याता वैकुण्ठस्था असंख्यकाः ।अमृतस्था हिरण्यस्था आवृतिस्था विराट्स्थिताः ॥१२६॥सत्यस्थाश्च जनादिस्था देवाः सृपाश्च मानवाः ।स्थावरा जंगमाः सर्वे वाहिन्यामाययुर्मुदा ॥१२७॥कृष्णनारायणस्याऽस्ति भार्गव्या सह लग्नकम् ।गच्छामस्तद्दर्शनार्थं समायान्तु कुटुम्बिनः ॥१२८॥इति सर्वे मुदा याताः पूजिता भोजितास्तथा ।आबालवृद्धाः संभूय वाहिन्यां मिश्रितास्तदा ॥१२९॥वरः शृगारितः सम्यग् यथा राधेश्वरोऽपरः ।साऽक्षतकुंकुमपुष्पमालाम्बरविभूषणैः ॥१३०॥रत्नमौक्तिकसौवर्णशृंखलोर्मिककज्जलैः ।सुगन्धरसचूर्णाद्यैराशीर्भिर्वर्धितः पुनः ॥१३१॥भार्गव्याश्च विवाहार्थं ययौ षोडशहायनः ।अक्षरब्रह्मलोकाद्वै वैकुण्ठलोकलम्बिनी ॥१३२॥वाहिनी साऽभवद्दीर्घा वरपक्षानुयायिनी ।नृत्यमंगलवाद्यादिकण्ठघोषादिरञ्जिता ॥१३३॥अर्बुदाऽर्बुदसंख्यास्था शुक्लतीर्थं समाययौ ।ब्रह्माण्डेषु च सर्वेषु मंगलान्यभवँस्तदा ॥१३४॥कोटिभूमिकवैकुण्ठे दिव्ये रेवातटे शुभे ।शतयोजनविस्तारे लक्षयोजनसूच्छ्रये ॥१३५॥नारायणेच्छयाऽगम्याऽऽयतोच्छ्रायमये शुभे ।असंख्यवाहिनीलोका ययुस्तत्र हरीच्छया ॥१३६॥अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ।गरिमा वशिता कामावसायिता च सिद्धयः ॥१३७॥भवन्ति तु हरेर्यत्र तत्राश्चर्यं नु वै किमु! ।ब्रह्माण्डान्यप्यसंख्यानि यद्रोम्णा विवरेषु वै ॥१३८॥अणुमात्रे स्थले सन्ति तत्राऽऽश्चर्यं नु वै किमु ।एवं समागता शुक्लतीर्थे सा वरवाहिनी ॥१३९॥विशश्राम सुखं तत्र नैजे वैकुण्ठके मुदा ।स्नाताश्च भोजिताः सुप्ता धामधामनिवासिनः ॥१४०॥सर्वत्र मंगलं जातं सोत्सुकाः प्राणिनस्तदा ।आयान्ति शुक्लतीर्थं ते विवाहः पद्मयोरिति ॥१४१॥सावित्र्या सहितो ब्रह्मा भवान्या च भवः स्वयम् ।अनन्तश्चापि भोगिन्या धर्मो मूर्त्यादिभिः सह ॥१४२॥भास्करः प्रभया साकं स्वाहया तु हुताशनः ।स्मृद्ध्या साकं कुबेरश्च वरुणो वारुणीयुतः ॥१४३॥पवनश्चापि चांजन्या यमो धूम्या सहाऽऽययौ ।रोहिण्यादियुतश्चन्द्रः शचीयुक्तः सुरेश्वरः ॥१४४॥रुद्राण्यादियुता रुद्रा आदित्याः सह संज्ञया ।वसवश्चापि गन्धर्वाः किन्नरा देवदानवाः ॥१४५॥आययुः शुक्लतीर्थं ते विवाहः पद्मयोरिति ।दृष्ट्वा तु देवताद्या वै वैकुण्ठं नूतनं कृतम् ॥१४६॥आकाशाच्च विमानैश्च सम्प्राप्य नर्मदातटम् ।पत्तनं नूतनं चैव भृगुकच्छसमीपतः ॥१४७॥मुक्तामाणिक्यहीरादिरत्नराजिविराजितम् ।परितश्चतुरस्रं च शतयोजनसम्मितम् ॥१४८॥सप्तभिः परिखाभिश्च गंभीराभिस्तु वेष्टितम् ।प्राकारैः षोडशलक्षैस्त्रयस्त्रिंशत्सरोवरैः ॥१४९॥सपद्मैः सर्वतोभद्रैः पुष्पोद्यानाऽयुताऽयुतैः ।प्रफुल्लपुष्पैः पवनैः सर्वत्र सुरभीकृतम् ॥१५०॥आमोदितं च शीतेन मन्दचन्दनवायुभिः ।तरुभिः कोटिलक्षैश्च भूषितं चाम्रभूरुहैः ॥१५१॥नारीकेलैश्च पनसैर्नवरंगैश्च दाडिमैः ।द्राक्षाभिर्नागवल्लीभिरेलालवंगकैश्च ह ॥१५२॥बदरीभिश्च बिल्वैश्च जम्बूभिश्चम्पकैस्तथा ।बकुलैस्तिन्तिडीभिश्च जम्बीरैरिक्षुभिस्तथा ॥१५३॥खर्जूरैर्नागरंगैश्च धात्रीभिः फलवद्द्रुमैः ।अन्यैरुद्यानवर्यैश्च युक्तं शाद्वलसंप्लुतम् ॥१५४॥असंख्यैर्मन्दिरै रम्यैरत्युच्चैरपि संस्कृतम् ।तत्तद्धाम्नां सुचित्रैश्च राजितं कलशान्वितैः ॥१५५॥मणिसोपाननिकरैर्दिव्यस्तंभोज्ज्वलं तथा ।दर्पणैः सूक्ष्मवस्त्रैश्च शोभितं श्वेतचामरैः ॥१५६॥प्रांगणैः पद्मरागाद्यैरिन्द्रनीलपरिष्कृतम् ।सचत्वरैः राजमार्गैर्देवदेवीभिरञ्चितम् ॥१५७॥दृष्ट्वा वैकुण्ठनगरं सर्वे ते विस्मयं ययुः ।विष्णुः पद्मः श्रीश्च पद्मा श्वशुरस्तु भृगुः स्वयम् ॥१५८॥जामाता भगवान् यत्र किं न्यूनं यत्र वै भवेत् ।गान्धर्वाः किन्नरा विद्याधर्यः किन्नर्य ईशिकाः ॥१५९॥नर्तक्यो गायिका वाद्यभाण्डका गायकास्तथा ।भिक्षुका गणका भट्टा भूपा वैद्याश्च सेवकाः ॥१६०॥नटा मल्ला बहुरूपा वेषध्रा मानवास्तथा ।सोत्साहा आययुस्तत्र विवाहः पद्मयोरिति ॥१६१॥भृगुकच्छेऽपि सन्न्यासियतिनैष्ठिकयोगिनः ।भृग्वाहूता आययुर्वै विवाहः पद्मयोरिति ॥१६२॥सनकश्च सनन्दश्च सनत् सनातनस्तथा ।आययुस्त्रिकोटिशिष्यैर्विवाहः पद्मयोरिति ॥१६३॥दुर्वासा लक्षशिष्यैश्च लक्ष्यभृत्यैश्च कश्यपः ।पत्नीवतो लक्षशिष्यैर्विवाहः पद्मयोरिति ॥१६४॥गौतमोऽयुतशिष्यैश्च वाल्मीकोऽयुतशिष्यकैः ।शुक्रश्च कोटिशिष्योऽगुर्विवाहः पद्मयोरिति ॥१६५॥भारद्वाजोऽयुतशिष्यैः कोट्या बृहस्पतिः स्वयम् ।अंगिरोऽयुतशिष्यैश्च विवाहः पद्मयोरिति ॥१६६॥लक्षशिष्यैर्वशिष्ठश्च प्रचेता लक्षशिष्यवान् ।पुलस्त्यो लक्षशिष्योऽपि विवाहः पद्मयोरिति ॥१६७॥अगस्त्यो लक्षशिष्यैश्च पुलहो लक्षशिष्ययुक् ।क्रतुर्लक्षेण चात्रिस्तु कोटिशिष्येण चागतः ॥१६८॥मरीचिर्लक्षशिष्यैश्च शतानन्दः सहस्रकैः ।भृगोर्गृहं समाजग्मुर्विवाहः पद्मयोरिति ॥१६९॥सार्धं सहस्रशिष्यैश्च ऋष्यशृंगो विभाण्डकः ।पाणिनिः कोटिशिष्यैश्चाऽयुतैः कात्यायनस्तथा ॥१७०॥याज्ञवल्क्यः सहस्रैश्च व्यासः कोटिप्रशिष्यकैः ।गर्गोयुतेन शिष्याणां विवाहः पद्मयोरिति ॥१७१॥गालवोऽपि सहस्रेण सहस्रेण च सौभरिः ।कोटिना लोमशश्चापि विवाहः पद्मयोरिति ॥१७२॥सान्दीपनिर्देवलश्च मार्कण्डेयश्च लक्षकैः ।पञ्चशिखश्च गोपालो वोढुश्च लक्षशिष्यकैः ॥१७३॥स्वयंप्रकाशस्तथाऽहं नरो नारायणः प्रभुः ।विश्वामित्रः कोटिभिश्च विवाहः पद्मयोरिति ॥१७४॥जरत्कारुश्च लक्षेणाऽस्तीकश्चाऽयुतशिष्यकैः ।पर्शुरामः सहस्रेण विवाहः पद्मयोरिति ॥१७५॥वत्सः शतेन दक्षस्त्रिशतेन कपिलोऽयुतैः ।सवर्तोऽयुतशिष्याद्यैर्विवाहः पद्मयोरिति ॥१७६॥उतथ्यः शतशिष्यैश्च शतैश्चापि च भागु रिः ।समाययुस्त्वसंख्याता विवाहः पद्मयोरिति ॥१७७॥भृगोः ख्यात्यां समुत्पन्नां लक्ष्मीं नारायणप्रियाम् ।कृष्णं लग्नयितुं यामो विवाहः पद्मयोरिति ॥१७८॥देवौ धाताविधातारौ मेरोर्जामातरावुभौ ।लक्ष्म्याश्च भ्रातरौ तेषां सम्मानं वै प्रचक्रतुः ॥१७९॥आयतिर्नियतिश्चापि मेरोः कन्ये पतिव्रते ।तयोर्धातृविधातृभ्यां प्राणो मृकण्डुरौरसौ ॥१८०॥मार्कण्डेयो मृकण्डोश्च प्राणोद् वेदशिरा सुतः ।मरीचेरपि संभूतौ पूर्णमासः सुतस्तथा ॥१८१॥कन्याचतुष्टयं तुष्टिर्वृष्टिः कृष्टिश्चापचितिः ।विरजाः पर्वतश्चोभौ पूर्णमासस्य वै सुतौ ॥१८२॥पुलहस्य क्षमा पत्नी पुत्राः कर्दम इत्यथ ।वरीयाँश्च सहिष्णुश्च कनीयाँश्चेति वै ययुः ॥१८३॥अत्रेः पत्नी ह्यनसूया पुत्राः सोमश्च दत्तकः ।दुर्वासाश्चाथांगिरसः पुत्री नाम्ना स्मृतिस्तथा ॥१८४॥वासिष्ठाः शक्तिमुख्याश्च वाह्नेया क्रतुपुत्रकाः ।अग्निष्वात्ता बार्हिषदा आज्यपाः सोमपास्तथा ॥१८५॥वालखिल्याश्च ऋषयो धरणी मेरुभामिनी ।पर्वताः सरितश्चापि सरांस्युपवनानि च ॥१८६॥एवमृषीणां विस्तारा वंशास्तत्र महोत्सवे ।भृगोर्गृहं समायाता विवाहः पद्मयोरिति ॥१८७॥मत्स्यः कूर्मो वराहश्च नृसिंहः ऋषभस्तथा ।कपिलो वासुदेवाश्च पृथुर्दत्तो मुनीश्वरः ॥१८८॥हंसो हरिर्वामनश्च पर्शुरामः कुमारकाः ।यज्ञो रामो ह्यग्रीवो नारदो राजराजकः ॥१८९॥व्यासः कृष्णश्च बुद्धश्च कल्किर्नारायणः स्वयम् ।पलीव्रतस्तथा चान्ये शिष्याः योगिप्रयोगिणः ॥१९०॥सौराष्ट्रीया रैवताद्रेर्योगसिद्धाः समाययुः ।पत्नीयुक्ताः समायाता विवाहः पद्मयोरिति ॥१९१॥कन्यापक्षस्य माण्डप्या ह्यासन् कोट्यब्जकाऽधिकाः ।वरपक्षस्य वाहिन्या ह्यासँस्ततोऽप्यसंख्यकाः ॥१९२॥द्वादश्यां भोज्यपानाद्यैः सत्कृता महीमानकाः ।विशश्रमुश्च ते रात्रौ गीतनृत्यादिरञ्जिताः ॥१९३॥मंगलानि विविधानि लोकाचाराः कृताः पराः ।हृष्टसद्ध्रदयाः सर्वे ह्यासन् प्रसन्नतोषिताः ॥१९४॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये भृगोः पुत्र्या भार्गव्या लक्ष्म्या कृततपसा तुष्टः श्रीकृष्णनारायणो भृगुकच्छनिकटे शुक्लतीर्थे वैकुण्ठं कारयित्वा विवाहार्थं समागतस्तद्वाहिनीभृगुमहीमानादिवर्णननामा द्व्यशीत्यधिकत्रिशततमोऽध्यायः ॥३८२॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP