संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३०३ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३०३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३०३ Translation - भाषांतर N/Aश्रीनारायण उवाच--अधिमासैकादशिकाकथां दिव्यां हरिप्रदाम् ।शृणु लक्ष्मि! समारंभे सृष्टेर्जाता तपोमयीम् ॥१॥ब्रह्मणो वक्षसो जातो धर्मदेवः समूर्तिकः ।मूर्तिर्देवी तिरोभूता सदाऽऽस्ते धर्मवर्ष्मणि ॥२॥सा च धर्मे समुत्पन्ने सहैवोत्पद्यतेऽपि सा ।लोकरीत्या तु संजज्ञे दक्षपुत्रीस्वरूपिणी ॥३॥पुनर्धर्मस्य सा पत्नी लोकरीत्या तु जायते ।यदा साऽभूद् धर्मदेवे ह्यदृश्या चाविवाहिता ॥४॥तदा लक्ष्मि! कुमारी सा ब्रह्मचर्यसमन्विता ।सेवते सर्वदा भक्त्या स्वामिनं ब्रह्मचारिणम् ॥५॥सत्यलोके स्थिता वेधोगृहे धर्मसहायिनी ।ब्रह्मा जानाति वै सर्वं नान्ये जानन्ति तां स्थिताम् ॥६॥बाला बालस्वरूपाद्वै समारभ्यैव नित्यशः ।स्नानं पूजां जपं होमं ध्यानं स्वामिप्रसेवनम् ॥७॥करोत्येव च वृद्धेभ्यो नमनं वन्दनं तथा ।दयाशान्तिप्रसन्तोषाऽऽर्जवोपकारकादयः ॥८॥सत्यातिमार्दवकृच्छ्रगुणा मूर्तौ वसन्ति हि ।सिद्धदेहा तु सा मूर्तिस्तपस्सु वर्ततेऽति वै ॥९॥वृष्टौ तिष्ठति वर्षासु शैत्ये शीतजलादिषु ।आतपे पञ्चवह्निस्था निराहारा व्रतेषु च ॥१०॥आर्द्राम्बरान्विता नित्यं स्वर्णदीतो गृहं स्वकम् ।समागत्य पतिं नत्वा करोति कृष्णपूजनम् ॥११॥पतिं जलादिभिः पूर्वं स्नपयित्वा समर्च्य च ।ददाति भोजनं चास्मै जलं खाद्यं फलादिकम् ॥१२॥स्वयं तु तुलसीपत्रैः कमलैः पारिजातकैः ।पतिं नित्यं पूजयति दिव्यज्ञानातिभक्तितः ॥१३॥एवं प्रातः सदा स्नानं देवपूजां धवाऽर्चनम् ।पतिसेवा भोजनादि कारयित्वा विधाय च ॥१४॥पत्युर्देहे विलीना सा मूर्तिर्भवति सर्वदा ।एवं नित्यानुवृत्त्या सा प्रेमपात्रोत्तमोत्तमा ॥१५॥धर्मदेवस्य वै जाता सुखदाऽपि कुमारिका ।धर्मदेवोऽप्यनुवृत्तिसेवाभक्त्याऽतितोषणम् ॥१६॥प्रत्यहं समवाप्नोति ददात्यस्यै शुभाशिषः ।पतिसेवापरा नित्यं सुखिनि मूर्तिके भव ॥१७॥लोकरीत्याऽऽप्तदेहेन विवाह्य सेविका भव ।ततः सौभाग्यसत्पुत्रस्मृद्ध्यादिसंभृता भव ॥१८॥नित्यभक्तिफलरूपः साध्यस्ते केशवो भवेत् ।हरिः कृष्णः परब्रह्म श्रीपतिः पुरुषोत्तमः ॥१९॥इत्याशीर्वादभूमिः सा महापुण्याधिवासनी ।अधिमासैकादशिकाप्रातरुत्थाय नित्यवत् ॥२०॥स्नातुं सा स्वर्णदी याता तत्र शुश्राव दुन्दुभिम् ।अद्याऽस्त्येकादशी देव्यः पुरुषोत्तममासगा ॥२१॥अस्या व्रतेन सन्तुष्टः कृष्णनारायणः प्रभुः ।यथेष्टं दास्यते सौख्यमैहिकं पारलौकिकम् ॥२२॥यद् ददाम्यधिमासस्य दिनेष्वन्येषु वै व्रतान् ।ततः कोटिगुणं दास्ये फलमेकादशीव्रते ॥२३॥एकादशीनामन्यासां व्रतेन यत्फलं भवेत् ।ततोऽर्बुदगुणं पुण्यं दास्ये ह्यस्या व्रतेन वै ॥२४॥अहं ब्रह्मेश्वरश्चाधिमासस्यास्म्यधिदैवतः ।तत्राप्येकादशीनाथोऽस्म्यहं श्रीपुरुषोत्तमः ॥२५॥मासोऽपि पुण्यश्च दिनं च पुण्यं देवोऽस्मि पुण्यश्च व्रतं कृपालोः ।ममाऽऽज्ञया येऽनुचरन्ति भक्त्या तेभ्यो यथेष्टं वितरामि सर्वम् ॥२६॥यथा यथा स्यान्मनसीषणात्रयम् व्रतस्य कर्तुश्च तथातथाऽन्वहम् ।परार्धतुल्यं तु ददामि तत्फलं लक्ष्मीं च मां चापि च धाम मामकम् ॥२७॥सिंहासनं मेऽपि ददामि तस्मै ददामि सिद्धीश्च चमत्कृतिं च ।ऐश्वर्यसर्वस्वमथापि भूतिं सकौस्तुभं मे मुकुटं च भूषा ॥२८॥यथाऽधिमासे कृपया प्रवर्षये जनार्थितं पूरयितुं च वर्षितुम् ।तथा न कुत्रापि तु नैजवाञ्च्छया प्रवर्षयिष्येऽधिकमासमन्तरा ॥२९॥व्रतं प्रकुर्वन्तु नराः स्त्रियश्च बालाश्च वृद्धाश्च सुतोषणाय ।फलं प्रदास्ये मम शाश्वतं वै पदं सुदिव्यं तु परात्परं यत् ॥३०॥गोलोकं चापि वैकुण्ठं धामाऽव्याकृतमेव वा ।श्वेतद्वीपं च वा सौर्यं त्वन्ये भौमं तथाऽपरम् ॥३१॥यद्यदिच्छेद् व्रतं कृत्वा प्रदास्यामि कृपावशः ।अल्पायासे फलानन्त्यं गृह्णन्तु व्रतीनो मम ॥३२॥नात्र यज्ञाः पृथक् कार्या नात्र तप्यं तपः पृथक् ।तीर्थं नात्र पृथक् कार्यं ह्येकाहस्य फले हि तत् ॥३३॥पयोव्रतं च पुत्रेष्टियजनं नेष्यते पृथक् ।एकादश्या व्रतेनात्र दास्यामि पुत्रमित्यपि ॥३४॥ज्योतिष्टोमेन यजनं पृथक् साध्यं न वेष्यते ।स्वर्गं ददामि तस्मै य एकादश्या व्रतं चरेत् ॥३५॥न तस्य राजसूयेन साध्यं किमपि शिष्यते ।एकादशीव्रतेनाऽत्र सार्वभौमं ददाम्यहम् ॥३६॥अग्निहोत्रेण किं तस्य दास्ये वैराजकं पदम् ।एकादश्यां तु मे येनार्पितं फलजलादिकम् ॥३७॥श्राद्धैर्विविधकल्पैश्च विविधैर्देवपूजनैः ।या तृप्तिस्त्विष्यते तां वै दास्ये चैकादशीव्रते ॥३८॥यां मुक्तिं यां च सम्पत्तिं यां सिद्धिं योगमैश्वरम् ।यद्यद् वाञ्च्छति यत् कृत्वा तद् दास्येऽत्र दिने व्रते ॥३९॥यावज्जीवं फलाहारैर्यत् सुपुण्यं समर्ज्यते ।तत्पुण्यं यान्तु वै चैकादशीव्रतेन मे जनाः ॥४०॥एकभुक्तं कृतं येनाऽऽजीवनं तत्फलं त्वहम् ।ददाम्यधिकमासैकादशीव्रतेन मेंऽजसा ॥४१॥मस्तके ज्वलदङ्गाराङ्गिष्ठिकां मध्यरात्रिके ।काले उदूह्य या नारी ह्येकार्द्रवस्त्रसंवृता ॥४२॥अनुपानच्चरणाभ्यामसहायाऽप्यरण्यके ।गत्वा कालीं प्रपूज्यैव प्रत्यहं वार्षिकं व्रतम् ॥४३॥एकभुक्तं माषमात्रादनं कुर्यादखण्डितम् ।वर्षायां शीतकाले चातपकालेऽपि सर्वदा ॥४४॥गत्वाऽऽपूज्य पुनरायाद् गृहं स्वं मध्यरात्रिके ।ततो रन्धितमाषान्नं गृह्णीयाच्च जलं सदा ॥४५॥एवं कष्टतरं पुत्रप्राप्त्यर्थं यन्महद्व्रतम् ।तद्वै पृथङ् न कर्तव्यमेकादश्या व्रते कृते ॥४६॥महाकालीव्रतं तद् यद् वार्षिकं प्रतिरात्रिकम् ।यद् ददाति फलं पुत्रात्मकं तत्तु विनश्वरम् ॥४७॥एकादशीव्रतं त्वेतत्पुत्रस्वर्गप्रमुक्तिदम् ।एकेन दिवसेनैव तद्व्रताधिकपुण्यदम् ॥४८॥सहस्रवर्षपर्यन्तं वाय्वाहारं व्रतं तु यत् ।पृथक् तन्नास्ति कर्तव्यं ह्येकादश्या व्रते कृते ॥४९॥सहस्रकन्यकादानं यत्र कन्या विभूषिताः ।प्रत्येकं स्वर्णसाहस्रमुद्राश्च दक्षिणास्तथा ॥५०॥प्रतिकन्यं तु दासीनां शतं स्वर्णविभूषितम् ।प्रतिदासि च हस्तीनां शतं त्वम्बालिकायुतम् ॥५१॥प्रतिहस्ति तुरगाणां शतं स्वर्णविभूषितम् ।प्रत्यश्वं गोवृषभाणां शतं द्वन्द्वं रथान्वितम् ॥५२॥रथं रथं प्रति दोग्ध्रीगवा चापि शतं शतम् ।गां गां प्रति ह्यजानां च शतं शतं ददेत्तु यः ॥५३॥अजां अजां प्रति वृत्तिं क्षेत्रं गृहं ददेच्च यः ।तस्य दातुः कुरुक्षेत्रे फलं सूर्यग्रहे तु यत् ॥५४॥तस्माल्लक्षगुणं पुण्यं ददाम्येकादशीव्रते ।अहं नारायणश्चास्मि शाश्वतः पुण्यशेवधिः ॥५५॥नाऽन्तोऽस्ति मयि पुण्यानां गृह्णन्तु वृष्टिवज्जनाः ।संकल्पो मे पुण्यभूमिर्भक्तिर्मे मोक्षभूमिका ॥५६॥संकल्पस्य च भक्तेश्चाऽक्षयवार्धिरहं हरिः ।ददाम्येव ददाम्येव रिक्तताभयवर्जितः ॥५७॥पुरुषोत्तममासस्यैकादश्यां व्रतकारिणे ।सर्वं ददामि चोन्मत्तत्यागिवत् कमलामपि ॥५८॥अहं स्वयं तु मां समर्पये किमुत चापरम् ।वृणुताऽतो यथेष्टं वै वदामि दुन्दुभिर्हरेः ॥५९॥एतल्लाभं न चेदीयुर्नेदृशः शास्यते पुनः ।इति श्रुत्वा दुन्दुभिं तु पुरुषोत्तमघोषणाम् ॥६०॥चिन्तयामास मूर्तिः सा जन्म लग्नं सुतं हरिम् ।दुन्दुभीशं समपृच्छन्नत्वा नम्रा विधिं व्रते ॥६१॥दुन्दुभिस्तु तदा प्राह मूर्तिं त्वेकादशीविधिम् ।स्नात्वा ब्राह्मे मुहूर्ते च ध्यात्वा श्रीपुरुषोत्तमम् ॥६२॥सर्वोपचारैरन्यूनैः पूजयेत्परमेश्वरम् ।मूर्तिं तु पौरटीं लक्ष्मीनारायणस्य शोभिताम् ॥६३॥सत्पात्रे पञ्चपात्रे वै निधाय सोपचारिकाम् ।ततो व्रती जलपात्रं स्थापयेज्जलसद्धटम् ॥६४॥पञ्चामृतादि सन्न्यस्य पूजां मूर्तौ समाचरेत् ।प्रथमं देहशुद्ध्यर्थं त्र्याचमनानि कल्पयेत् ॥६५॥ततः पूर्वे मुखं कृत्वा निषद्य च शुभासने ।मूर्तावावाहयेत् कृष्णनारायणं समन्त्रकम् ॥६६॥घण्टां प्रवादयेदावाहनकाले शुभस्वराम् ।आसनं पट्टिकां स्थालीं स्वर्णां दद्यात्तु शार्ङ्गिणे ॥६७॥पादप्रक्षालनार्थाय पाद्यं दद्याज्जलं शुभम् ।ततस्तीर्थजलं दद्यादर्घ्यं पूजानिमित्तकम् ॥६८॥ततस्तीर्थजलमाचमनार्थं च ददेच्छुभम् ।पुनश्चाऽथ प्रशुद्ध्यर्थं दद्याद् दर्भजलं शुभम् ॥६९॥ततो दन्तप्रशुद्ध्यर्थं दद्याद्वै दन्तधावनम् ।जिह्वोल्लेखनकार्यार्थं दद्यात् स्वर्णशलाकिकाम् ॥७०॥ततः शुद्धं जलं दद्याद् गण्डूषार्थे ततः पुनः ।मुखप्रक्षालनार्थाय जलं दद्यात्पुनर्नवम् ॥७१॥अथ शौचं प्रकल्प्यैव दद्याज्जलघटं तथा ।मृदं वापि प्रदद्याच्च करादिशुद्धिहेतवे ॥७२॥जलं शुद्धं तथा दद्याद्धस्तप्रक्षालनाय वै ।ततः शुद्धं जलं दद्यान्मुखादिक्षालनाय च ॥७३॥स्वर्णासनं शुभं दद्यात् स्नानार्थं पट्टिकात्मकम् ।तैलेन तु सुगन्धेन मर्दयेत्परमेश्वरम् ॥७४॥आमलकैस्तिलचूर्णैस्तथा संमर्दयेद्धरिम् ।तत उष्णोदकेनापि स्नापयेत्पुरुषोत्तमम् ॥७५॥ततो दुग्धेन दध्ना च घृतेन मधुना तथा ।स्नापयेच्छर्करा वार्भिः समृद्य पुरुषोत्तमम् ॥७६॥ततः शुद्धजलैरुष्णैः स्नापयेत्परमेश्वरम् ।ततो नैर्मल्यकारिण्या प्रोष्णोदकेन मिश्रया ॥७७॥हरिं गूटिकयाऽऽमृद्य स्नापयेदभिषेचनम् ।कस्तूरिकाचन्दनादिपुष्पसारादि लेपयेत् ॥७८॥वस्त्रेण मार्जयेत् कृष्णं धौत्राम्बराणि धारयेत् ।केशप्रसाधनं तैलं दत्वा कुर्याच्च दन्तकैः ॥७९॥ललाटे तिलकं चन्द्रं कुर्याच्चन्दनकुंकुमैः ।नेत्रयोः कज्जलं दद्यादोष्ठयोः रंगरञ्जनम् ॥८०॥हस्तपादतलादीनि रञ्जयेद् रंगसुद्रवैः ।स्वर्णकिरीटसद्रत्नमालिकाकुण्डलादिकम् ॥८१॥मणिमौक्तिकहारादि रशनाकंकणादिकम् ।ऊर्मिकाशृंखलासत्किंकिणीनुपूरकादिकम् ॥८२॥आभूषणानि सर्वाणि यथास्थानं प्रधारयेत् ।पादयोः पादुके दद्याद्धस्तयोर्यष्टिमालिके ॥८३॥कण्ठे सत्पुष्पहाराँश्च तुलसीपत्रमालिकाम् ।पुष्पाणां शेखरान् गुच्छानर्पयेत्परमादरात् ॥८४॥पवित्रं त्वर्पयेद् यज्ञोपवीतं योगपट्टकम् ।तुलसीमणिमालां च दद्यान्मंगलसूत्रकम् ॥८५॥कौस्तुभं च मणिं दद्यात् तथा रक्षां प्रकोष्ठके ।नक्तकं हस्तके दद्यात् प्रोक्षयेद् गन्धसारकम् ॥८६॥राजाधिराजसद्वेषं शृंगारं कारयेत्परम् ।छत्रं च चामरे दद्याद् व्यजनं वायुदं तथा ॥८७॥दर्पणं मुखलोकार्थं दद्यात् पर्यंकमित्यपि ।गेन्दुकं प्रच्छदपटीं कशिपुं गुप्तदोरकम् ॥८८॥कपोलकशिपुं दद्यात् दंशमशकरोधिनीम् ।धूपं सुगन्धं कृत्वा च दीपं प्रज्वालयेत्तथा ॥८९॥श्वेतचूर्णं रक्तचूर्णं कुंकुमं चाक्षतान् ददेत् ।नैवेद्यं लड्डुकान् मिष्टं विविधान्नं सुपायसम् ॥९०॥शाकानि चारनालानि दधि दुग्धं सशर्करम् ।सूपौदनादिकं दद्यात् क्वथिकां चटनीं तथा ॥९१॥भक्ष्यं भोज्यं लेह्यचोश्ये पेयं दद्याज्जलं तथा ।चुलुकं कारयेत्ताम्बूलकं चूर्णं समर्पयेत् ॥९२॥एलालवंगधानात्वग्वरीयः पूगिकाफलम् ।दद्याच्च फलमाम्रस्य जम्बूपनसकादलम् ॥९३॥द्राक्षाश्रीफलदाडीम नवरंगादिकं ददेत् ।शुष्कफलान्यपि दद्याद् बदामकाजुखारिकाः ॥९४॥एवं समर्पणं कृत्वा हरिं सन्तर्प्य भावतः ।कदलीस्तम्भवशादिकृते वस्त्रादिशोभिते ॥९५॥अशोकाऽऽम्रदलपुष्पफलतोरणराजिते ।मण्डपे मध्यदेशे वै सप्तधान्यैः कृते शुभे ॥९६॥सर्वतोभद्रके तत्र मण्डले मध्यवर्तिनि ।सुवर्णस्य घटे ताम्रे तीर्थवारिप्रपूरिते ॥९७॥मणिमौक्तिकसौवर्णरूप्यताम्रादिकान्विते ।वस्त्रेण वेष्टिते चाम्राशोकादिपल्लवान्विते ॥९८॥सुशोभितेऽक्षतचन्दनाक्तकुंकुमपूजिते ।तत्र घटे स्थापिता या स्थाली ताम्रा च कानकी ॥९९॥खारिकाम्रफलैः पूगीश्रीफलैः शर्करातिलैः ।पूरितायां तु तस्यां वै स्थापयेत् पुरुषोत्तमम् ॥१००॥नीराजयेन्नववारं घृताक्तपञ्चवर्तिभिः ।वस्त्रं च भ्रामयेत् पश्चाच्छंखोदकेन वर्तयेत् ॥१०१॥धूपं संभ्रामयेच्चापि स्तुतिं कुर्याद् यथेष्टदाम् ।नमेच्च दण्डवत् कुर्यात् पञ्चवारं प्रदक्षिणम् ॥१०२॥क्षमां याचेत चार्घ्यं वै सफलं पुनरर्पयेत् ।पुष्पांजलिं साक्षतं वै दद्याच्छ्रीहरये ततः ॥१०३॥दक्षिणां कानकीं मुद्रां राजतं चाप्युपायनम् ।इष्टं वस्तु प्रदद्याच्च हरये त्वभिवाञ्च्छितम् ॥१०४॥आन्दोलय्रेच्च दोलायां पर्यंके शयनं ददेत् ।पादसंवाहनं कुर्याद् ददेद् यानं सवाहनम् ॥१०५॥नृत्यं कुर्यात् तथा गीतं वादित्रं वादयेत् तथा ।चरणामृतदानं च भक्तेभ्यस्तत्र वर्तयेत् ॥१०६॥अथापि जलपानं च कारयेत्पुनरादरात् ।ताम्बूलकं पुनर्दद्यादेलालवंगकादिकम् ॥१०७॥मिलेत् संश्लिष्य बाहुभ्यां समापीड्य हरिं मुदा ।प्रस्थापयेत् ततो देवं दूरं गत्वा विसर्जयेत् ॥१०८॥आगन्तव्यमिति ब्रूयान्नत्वा त्वायात्पुनर्गृहम् ।इत्यष्टोत्तरशतकोपचारैः परमेश्वरम् ॥१०९॥पूजयेद्बहुभक्त्यैकादश्यां प्रातर्व्रती जनः ।यदि सम्पदधिका स्याद्धोमयज्ञादि कारयेत् ॥११०॥द्वादश्यां भोजयेद्विप्रान् सतीः साध्वी सतो जनान् ।ततः स्वः पारणां कुर्यात् संभोज्याश्रितवर्गकान् ॥१११॥दद्याच्छ्रेष्ठानि दानानि भजेत श्रीहरिं मुदा ।एवं मध्याह्नके कुर्यात् सायं कुर्यात्तथैव ह ॥११२॥रात्रौ जागरणं कुर्यान्नृत्यगीतपुरःसरम् ।कीर्तनं श्रीहरेः कुर्यान्निरुन्ध्यादिन्द्रियाणि च ॥११३॥एवं त्वधिकमासस्यैकादशीव्रतमत्र यः।कुर्यात् तेन कृतं सर्वं कर्तव्यं नावशिष्यते ॥११४॥अधिमासश्चातिपुण्यः पुण्याः त्वेकादशी तिथिः ।तद्देवः पावनश्चाहं किं तस्मादतिरिच्यते ॥११५॥अधिमासो मम शाला वसामि पुरुषोत्तमः ।एकादशी मदुत्पन्ना किं तस्मादतिरिच्यते ॥११६॥एतत् त्रिकं महापुण्यं सर्वेभ्यः श्रेष्ठतां गतम् ।तत्रापि मत्कृपा प्राप्ता किमस्मादतिरिच्यते ॥११७॥तस्मादष्टोत्तरशतवस्तुभिर्मां प्रपूज्य च ।गृह्णन्तु भवपारं वा गृह्णन्तु भवसाम्यताम् ॥११८॥मूर्ते त्वं चाद्य दिवसे तथाविधि कुरु व्रतम् ।येन ते दास्यते कृष्णो दुन्दुभ्यात्मा यथेप्सितम् ॥११९॥मूर्तिः प्राह तदा ह्येनं दुन्दुभिं विनयेन वै ।न मदग्रेऽस्ति सामग्र्यः प्रच्छन्नाऽहं वसामि च ॥१२०॥कथंकारं त्वदुक्तं वै पूजनं तु मया भवेत् ।इच्छाम्यहं शुभं जन्म विवाहं च सुतं हरिम् ॥१२१॥दुर्लभं तद्विना पूजा तादृशी स्यान्न चेप्सितम् ।इत्युक्त्वा भग्नहृदया साश्रुकण्ठा बभूव सा ॥१२२॥एकादश्या व्रतं कार्यमिति संकल्प्य शोचति ।स्मृत्वा नारायणं कृष्णं बाला त्वश्रूणि मुञ्चति ॥१२३॥तावत् कृपानिधिस्तत्र हरिर्नारायणः स्वयम् ।कृपां कृत्वा दुन्दुभेरग्रतः सुप्रकटोऽभवत् ॥१२४॥प्रमार्ज्याऽश्रूणि कन्यायाः प्राह मातर्नमाम्यहम् ।शोकं मा कुरु पूज्यासि यथेष्टं प्रददाम्यहम् ॥१२५॥भावेनास्मि सदा तुष्टो नाऽभावे तु कदाचन ।तव भावेन सन्तुष्टो ददामि वृणु तद्वरम् ॥१२६॥अर्च्यते भावहीनेन सहस्रवस्तुभिर्यदि ।न सन्तुष्टो भवाम्यत्र भावहीनेऽर्थसाधके ॥१२७॥पत्रपुष्पजलैश्चापि भावभक्त्या मदर्चनम् ।मम सन्तोषकृत् तत्स्याद् भावस्य क्षुधितोऽस्म्यहम् ॥१२८॥अष्टोत्तरशतसंख्योपचारैरपि हार्दिकैः ।मातः सम्पूजय त्वं मां ध्यानमात्रेण चान्तरे ॥१२९॥मानसं पूजनं तेऽहं स्वीकरिष्येऽतिभावतः ।फलं यथेष्टं ते दास्ये ह्यद्यतनव्रतस्य वै ॥१३०॥इत्युक्त्वा श्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।ननाम पादयोर्मूर्तेर्मातृभावेन पुत्रवत् ॥१३१॥माता शोकं विहायैव प्रसन्नाऽभूत् हृदन्तरे ।प्रोवाच शनकैः कृष्णं जन्म चेच्छामि लौकिकम् ॥१३२॥धर्मेण पतिना साकं लग्नमिच्छामि वैदिकम् ।अंके लालयितुं पुत्रं सुतं चेच्छाम्यलौकिकम् ॥१३३॥अलौकिकस्त्वमेवासि वक्तुं नोत्सहते मनः ।निवेदितं हृदय्यं मे यथेच्छसि तथा कुरु ॥१३४॥इत्यादिष्टो हरिः स्वाभिलषितं प्रियमुत्तमम् ।मूर्तेर्मुखात्समाकर्ण्य जहर्ष भाविजन्मधृक् ॥१३५॥उवाचाऽतिप्रसन्नः सन् सर्वं मातर्भविष्यति ।इष्टं सर्वं करिष्येऽहं ददामि वचनं तु ते ॥१३६॥गच्छ दक्षगृहं मूर्ते धर्ममापृच्छ्य सत्पतिम् ।भव पुत्री तु दक्षस्य स ते धर्माय दास्यति ॥१३७॥अहं बालस्वरूपेण सह भ्रात्रा त्वदंकके ।ग्रहीष्यामि जनु मातः श्वो याहि त्वं व्रतोत्तरम् ॥१३८॥मानसी त्वं हि दक्षस्य पुत्री वै भाविनी ततः ।धर्मो विवाह्य मातस्त्वां हिमशैले निवत्स्यति ॥१३९॥अहं ते मानसस्तत्र चतुरात्मा सुतः स्वयम् ।नरो नारायणश्चेति हरिः कृष्णश्च ते गृहे ॥१४०॥रमिष्ये सुखदो ब्रह्मव्रतं संधारयन् सदा ।लोककल्याणसंकल्पं पूरयस्तव सन्निधौ ॥१४१॥इत्युक्त्वा च पुनर्नत्वा तिरोऽभूत्पुरुषोत्तमः ।मूर्तिश्चापि व्रतं कृत्वाऽर्चनं तत्र च मानसम् ॥१४२॥द्वादश्यां पारणं कृत्वा प्रातः कृत्वाऽर्चनं हृदि ।धर्मदेवस्य संगृह्य शुभाज्ञां दक्षसद्ग्रहम् ॥१४३॥ययौ जज्ञे च संकल्पादसिक्न्यां मानसी सुता ।श्रद्धामैत्र्यादिकाश्चान्या द्वादशापि प्रजज्ञिरे ॥१४४॥त्रयोदशापि दक्षेण दत्ता धर्माय पुत्रिकाः ।मूर्तेर्जाता नरो नारायणः कृष्णो हरिस्तथा ॥१४५॥लोकानां रक्षणार्थाय कुर्वन्तस्तप उत्तमम् ।इति ते कथितं लक्ष्मि मासे वै पुरुषोत्तमे ॥१४६॥व्रतसंकल्पमात्रेण पूर्णं व्रतफलं भवेत् ।किं पुनः सांगविधिना कर्तुः फलेऽवशिष्यते ॥१४७॥तस्मादेकादशीतुल्यं व्रतं नान्यद् भविष्यति ।शाश्वताऽक्षयसत्पुण्यप्रदं मोक्षप्रदं तथा ॥१४८॥यथालब्धोपचारैस्तु प्रातः संकल्प्य पूजनम् ।व्रतं चापि करिष्यन्ति तेषां गृहेष्वहं सदा ॥१४९॥वत्स्याम्येव न सन्देहस्तद्भक्त्या वश्यतां गतः ।सुखयिष्ये सुतो भूत्वा व्रतिनौ दम्पती कुलम् ॥१५०॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये धर्मदेवस्य भाव्यंगनया मूर्त्याधिमासैकादश्यामष्टोत्तरशतमानसोपचारैर्नारायणपूजन व्रते कृते सति मूर्तेर्दक्षगृहे जन्म धर्मेण सह विवाहस्ततो हिमालये नरो नारायणः कृष्णो हरिश्चेति- पुत्रचतुष्टयफललाभश्चेत्यादिनिरूपणनामा त्र्यधिकत्रिशततमोऽध्यायः ॥३०३॥ N/A References : N/A Last Updated : March 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP