संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २२६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २२६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२६ Translation - भाषांतर श्रीनारायण उवाच-ततो गच्छेद् ब्रह्मकुण्डं तीर्थं पापप्रणाशनम् ।कृष्णस्य दर्शनार्थं वै दैवतैः परिवारितः ॥१॥ब्रह्माऽऽजगाम च पुर्यां द्वारवत्यां समुत्सवे ।पाशीन्द्रयमवित्तेशाः सूर्याचन्द्रमसौ तथा ॥२॥अन्ये च दिक्प्रपालाद्या दर्शनार्थं समागताः ।तदा च ब्रह्मणा यत्र समाजः परिकल्पितः ॥३॥तत्स्थले वै महत्तीर्थं ब्रह्मकुण्डं च तत्तटे ।ब्रह्मणा स्थापितः सूर्यः सर्वदा यश्च तिष्ठति ॥४॥सूर्यतीर्थं च तत्प्रोक्तं सर्वपापविनाशकम् ।ब्रह्मतीर्थं सूर्यतीर्थं दृष्ट्वा चक्रे सरः शशी ॥५॥तडागं चन्द्रनाम्ना तत्प्रसिद्धं समजायत ।सूर्यस्थानं मूलस्थानं श्राद्धपुण्यसहस्रदम् ॥६॥पितृतृप्तिकरं रम्यं कोटिपातकसंहरम् ।माघे शुक्ले तु सप्तम्यां स्नात्वा लिप्त्वा स्थलं रवेः ॥७॥पूजयिष्यति सूर्यं यो पुष्पधूपनिवेदनैः ।जलपत्रफलद्रव्यदक्षिणाभिश्च मानवः ॥८॥सर्वान् कामानत्र भुक्त्वा ब्रह्मलोकं गमिष्यति ।ततश्च ब्रह्मणा सूर्यमन्दिरस्य च सन्निधौ ॥९॥सावित्र्या मन्दिरं कारयित्वा सूर्यरथे च ताम् ।स्थापयित्वाऽऽयतने तां सावित्रीं नामतः स्वयम् ॥१०॥पद्मजः पूजयामास मूर्तौ देव्या विधानतः ।चन्द्रसरस्तथा सावित्र्याश्च सन्मन्दिरं स्थलम् ॥११॥तीर्थोत्तमं कृतं तेन वेधसा परमेष्ठिना ।ब्रह्मा स्वयं तथा स्वस्य मूर्तौ निवासमाचरत् ॥१२॥प्रतिष्ठाविधिना स्वस्य प्रतिष्ठामकरोदजः ।ब्रह्मतीर्थं च तज्जातं व्याध्याधिबलनाशकम् ॥१३॥ब्रह्माणं चापि सावित्रीं सूर्यं चन्द्रमसं तथा ।पूजयिष्यन्ति ये दृष्ट्वा ते यास्यन्ति परां गतिम् ॥१४॥ततश्च ब्रह्मणा तत्र गायत्री स्थापिता शुभा ।स्वेनैव च प्रतिष्ठाया विधिस्तत्र कृतः शुभः ॥१५॥गायत्रीतीर्थमित्येतत् ब्रह्मलोकप्रदं परम् ।तांश्च देवाँस्तथा देवीः पुष्पार्घजलकुंकुमैः ॥१६॥स्नापयेत्पूजयेद् भक्त्या वस्त्रनैवेद्यभोजनैः ।भूषणैश्च तथा पात्रैः कर्पूरैलादिभिस्तथा ॥१७॥ताम्बूलैः केसरैश्चैव पूजयेद् बहुभावतः ।ध्यायेद्वन्देत च नमः कुर्याद् दण्डवदुत्सुकः ॥१८॥दीपेन यज्ञसूत्रेण तुलस्या करवीरकैः ।अन्यैः पुष्पै सुगन्धैश्चारार्त्रिकैः स्तुतिभिस्तथा ॥१९॥प्रदक्षिणैश्चतान् देवान् विष्णुना सह पूजयेत् ।कृष्णं च पूजयेत्तत्र शालग्रामं च पूजयेत् ॥२०॥शंकरं पार्वतीयुक्तं सगणं पूजयेत् ततः ।सम्पूज्य स्नापयेत् सावित्रीं च यात्राफलं भवेत् ॥२१॥न वैधव्यं न दौर्भाग्यं न वन्ध्यात्वं भवेत् ततः ।न वै मृतप्रजात्वं स्यान्नाऽप्रजात्वं कथंचन ॥२२॥धनधान्यधरास्मृद्धिः पुत्रपौत्रादिसिद्धयः ।भवन्ति रविप्रभृतिपूजकस्य दिने दिने ॥२३॥परितुष्टो भवेत् कृष्णो यात्रा च सफला भवेत् ।ततस्तत्र रुक्मिणीसहितं कृष्णं समर्चयेत् ॥२४॥ब्रह्मणा च ततस्तत्र ब्रह्मलिंगसरः कृतम् ।इन्द्रश्चक्रे तथा तत्र सरः परमशोभनम् ॥२५॥ब्रह्माणं स्थापयामास महेन्द्रं च शचीयुतम् ।तत्र चेन्द्रपदे स्नात्वा स्वर्गं सत्यं च विदन्ति ॥२६॥ब्रह्मेश्वरं तथा चेन्द्रेश्वरं वृद्धीश्वरं तथा ।स्नापयित्वा पूजयित्वा दृष्ट्वा च मुच्यते जनेः ॥२७॥अष्टम्यां च चतुर्दश्यां कृतमक्षयपुण्यदम् ।पितॄणां शाश्वती तृप्तिर्जायते तत्र श्राद्धतः ॥२८॥विशेषतस्तु सम्पूज्या मकरस्थे दिवाकरे ।उत्तरायणसंक्रान्तिशिवरात्र्यादिषु प्रगे ॥२९॥स्नात्वा तत्तत्सरःस्वेव तत्तत्तीर्थानि सञ्चरेत् ।पूजयित्वा च तद्देवान् मुक्तिभाङ् नात्र संशयः ॥३०॥शंकरश्च तथा सत्या सहितश्चाकरोत्सरः ।तत्रापि च जले स्नात्वा पूजयेत् शंकरं सतीम् ॥३१॥ब्रह्मणा विष्णुना सार्धं स्नातस्तत्र पिनाकधृक् ।महादेवसरोनामाऽभवत् तज्जगतीतले ॥३२॥पितॄणां तर्पणं श्राद्धं तत्राऽक्षयसुखप्रदम् ।दर्शनात्पापनिर्मुक्तिर्महादेवसरोवरे ॥३३।स्नानं दानं जपो होमः स्वाध्यायः सुरपूजनम् ।सर्वं तदक्षयफलप्रदं भवत्यनुष्ठितुः ॥३४॥न दौर्भाग्यं नरस्यास्ति नाऽप्रजात्वं स्त्रियस्तथा ।स्नात्वा गौरीसरस्यत्र सर्वान्कामानवाप्नुयात् ॥३५॥वरुणोऽपि च तान्येव दृष्ट्वा सर्वस्थलानि वै ।स्वनाम्ना च सरो दिव्यं कारयामास तत्र च ॥३६॥तत्तीरे वारुणीं देवीं जलदेवीं तथा स्वकाम् ।मूर्तिं च स्थापयामास पूजयामास चादरात् ॥३७॥भाद्रस्य पूर्णिमायां तु कृत्वा वरुणदर्शनम् ।श्राद्धं कुर्यात्तर्पणं च कुर्यात्तत्राऽक्षयं फलम् ॥३८॥प्रदद्यादुदकुंभाँश्च दध्योदनसुभोजनम् ।गाश्च वासांसि रत्नानि पक्वान्नानि रसाँस्तथा ॥३९॥विष्णुर्मे प्रीयतामुक्त्वा दद्याच्छत्रादिकं तथा ।साधवे ब्रह्मदेवाय साध्व्यै वा चाक्षयं फलम् ॥४०॥दातुर्ब्रह्मगतिश्चास्ति यत्र गत्वा न शोचति ।वारुणं च सरो दृष्ट्वा कुबेरश्चाऽकरोत्सरः ॥४१॥कुबेरसर इत्येवं नाम्ना ख्यातो ततोऽभवत् ।कुबेरदर्शनं स्नात्वा तीरे कृत्वा च भोजयेत् ॥४२॥विप्रान् साधूँस्तथा साध्वीर्दक्षिणां चापि धूपयेत् ।सुवर्णदानं दद्याच्च धनेशस्तुष्यति द्रुतम् ॥४३॥लक्ष्मीवृद्धिं करोत्येषः सहस्रगुणितं फलेत्॥रजतं च सुवर्णं च ताम्रं वा पित्तलं त्रपु ॥४४॥हीरकं वाथ रत्नं वा मणिं वा चाम्बरादिकम् ।धनं धान्यं तथा गाश्च महिषीश्चापि कन्यकाः ॥४५॥वस्त्रं खट्वा गेन्दुकादि कलशं पात्रमित्यपि ।पुष्पं फलं च मिष्टान्नं तैलं सुगन्धमेव वा ॥४६॥कपूरं चापि शृंगारद्रव्यं च चन्दनादिकम् ।उपानहौ तथा छत्रं चामरं वाहनं तथा ॥४७॥यानं नारीं सुतं भृत्यं पशुं स्वं शकटं तथा ।पेटिकां भूषणं चान्यद् भक्ष्यं पेयं च भोजनम् ॥४८॥यद्यद् दद्यान्मार्जनीं वा कण्डनीं पेषणीं तथा ।चुल्लीं गर्गरिकां स्थालीं सर्वं सहस्रदं भवेत् ॥४९॥कृष्णं स्मृत्वा कुबेरं च सूर्यं शिवं विचिन्त्य च ।रुक्मिण्यादिमहादेवीः स्मृत्वा दद्यादनन्तदम् ॥५०॥महापुण्यं महास्वर्गं तथा चान्ते हरेः पदम् ।प्राप्नोत्येव च कुबेरतीर्थकृन्मानवोऽव्ययम् ॥५१॥ततः पञ्चनदं तीर्थं गच्छेद्वै पावनं परम् ।गोमतीं च तथा लक्ष्मीगंगां द्वारावतीं तथा ॥५५२॥गोपीतालं तथा चान्यसरांसि प्रविलोक्य च ।प्रजानां पतयस्तीर्थं चक्रुः पञ्चनदात्मकम् ॥५३॥पञ्चनद्यः समाहूतास्तत्राऽऽजग्मुस्त्वरान्विताः ।मरीचिगोमतीमत्रिर्लक्ष्मणामाजुहाव वै ॥५४॥अङ्गिराश्चन्द्रभागां च पुलहश्च कुशावतीम् ।क्रतुर्जाम्बवतीं तत्र नदीं समाजुहाव च ॥५५॥तासु स्नाता ब्रह्मपुत्राः स्नाताश्च सर्वदेवताः ।पञ्चनदीसमाख्यातं तीर्थं तन्मोक्षदं परम् ॥५६॥स्नातव्यं तत्र विधिवत् दातव्यमर्घमित्यपि ।गृह्णन्त्वर्घमिमं नद्यो भवन्तु स्वर्गमोक्षदाः ॥५७॥स्नानं कुर्याज्जलं पेयात् पितॄन् सन्तर्पयेत्तथा ।पञ्चरत्नानि धान्यानि सप्त दद्याद् द्विजातये ॥५८॥दीनान्धकृपणेभ्यश्च दद्याद्वस्तु स्वपेक्षितम् ।सर्वान् कामानवाप्नोति विष्णुलोकं च गच्छति ॥५९॥पुत्रपौत्रसमायुक्तः परं सौख्यमवाप्नुयात् ।प्रेताश्च पितरः सर्वे मुक्तिं यास्यन्ति तत्स्थले ॥६०॥ततो गच्छेन्महत्तीर्थं सिद्धेश्वरमिति ध्रुवम् ।सनकाद्यैश्चतुःसिद्धैः स्थापितं लिंगमेव तत् ॥६१॥समीपे च तथा कूपो मिष्टोदः खनितश्च तैः ।ऋषितीर्थमिति ख्यातं जलपानाद् विमुच्यते ॥६२॥भक्तितः स्नानमात्रेण ब्रह्मलोकमवाप्यते ।असन्तो निन्दकाश्चाथ वंचकाश्च शठा जनाः ॥६३॥स्नानमात्रेण शुद्ध्यन्ति ऋषितीर्थे न संशयः ।विषुवे च मनूनां च तिथिषु युगरंभणे ॥६४॥माघकृष्णे शिवरात्र्यां सिद्धेशं यः प्रपूजयेत् ।ऋषितीर्थे वसन् जपन् परंब्रह्म सनातनम् ॥६५॥स्नात्वा देवं पूजयित्वा नमन् कुर्याच्च तर्पणम् ।श्राद्धं कुर्यात्तथा दद्याद् दानानि विविधानि च ॥६६॥तस्य हस्तगता मुक्तिर्भवत्येव न संशयः ।दातव्यानि रसवन्ति फलान्यत्र विशेषतः ॥६७॥देयौ श्यामाकनीवारौ विद्रुमश्च तिला अपि ।शालयः सप्तधान्यानि सक्तवः शर्करायुताः ॥६८॥घृतं माल्यानि ताम्बूलं गन्धो वस्त्राणि गोपयः ।देयान्येवं दीनरंकविप्रसाधुभ्य एव च ॥६९॥सिद्धेश्वरं च दुग्धेन स्नापयेत् मोक्षभाग्भवेत् ।सिद्धेश्वरमहादेवदर्शने सति मानवाः ॥७०॥अपुत्राः पुत्रिणः पौत्रिणश्च भवन्ति सर्वथा ।निर्धना धनवन्तश्च भवेयुः सुखवेदिनः ॥७१॥कन्यकाः सत्पतिं प्राप्नुयुश्च सौभाग्यसम्पदः ।दुष्कृतं विलयं याति सुकृतं चापि वर्धते ॥७२॥ततो गच्छेन्महालक्ष्मि! गदातीर्थमनुत्तमम् ।यत्र स्नानेन मनुजश्चाग्निष्टोमफलं लभेत् ॥७३॥तत्र बाराहरूपं वै भगवन्तं प्रणम्य च ।नत्वा स्तुत्वा पूजयित्वा विष्णुलोके महीयते ॥७४॥तत्राद्ये युगसंयोगे वाराहो भगवान् स्वयम् ।समागत्य विशश्राम गदां निहितवान् क्षणम् ॥७५॥ततो गच्छेन्नागतीर्थं कृष्णस्य दर्शनेच्छया ।नागाः पातालतो याता द्वारकायां क्षणं स्थिताः ॥७६॥यत्र स्नात्वा परंब्रह्म प्राप्नुयान्नात्र संशयः ।ततो गच्छेन्महत्तीर्थं चन्द्रभागाभिधं परम् ॥७७॥तत्र स्नात्वा नरो भक्त्या वाजपेयफलं व्रजेत् ।चन्द्रभागा शक्तिहस्ता खड्गखेटकधारिणी ॥७८॥कंसादिदैत्यभयदा स्वसा या रामकृष्णयोः ।यस्या दर्शनमात्रेण सर्वान् कामानवाप्नुयात् ॥७९॥ततो गच्छेन्मुक्तिद्वारनामकं तीर्थमित्यपि ।वशिष्ठेन समानीता गोमती यत्र संस्थिता ॥८०॥तज्जलं मस्तके धृत्वा स्वर्गलोकमवाप्नुयात् ।ततो गच्छेच्च कालिन्दीसरस्तीर्थमनुत्तमम् ॥८१॥सूर्यपुत्री यमी चात्राऽऽगत्य तिष्ठति सर्वथा ।कृष्णसेवापरा नित्या स्नानान्मुक्तिमवाप्नुयात् ॥८२॥साम्बतीर्थं ततो गच्छेत्तीर्थं परमपावनम् ।अम्बया सहितः शंभुः कृष्णपुत्रोऽभवत्पुरा ॥८३॥तस्य स्थलं महत्तीर्थं साम्बतीर्थं सुमुक्तिदम् ।तत्र स्नात्वा जनो भक्त्याऽऽप्नुयाद् रूपं सुवर्णकम् ॥८४॥ लक्ष्मीनदीं ततौ गच्छेन्नायणसमाश्रिताम् ।लक्ष्मीस्तत्र जलरूपा ह्यवसत् कृष्णलालसा ॥८५॥यस्याः स्पर्शनमात्रेण मुच्यते सर्वपातकैः ।कम्बुसरस्ततो गच्छेन्निर्मलं जलमापिबेत् ॥८६॥नारायणेन शंखस्य जलं यत्रास्ति वै धृतम् ।तत्र तद्वै सरोरूपं जातं शंखश्च संस्थितः ॥८७॥शरवतीर्थं च तत्प्रोक्तं स्नात्वा मुक्तिमवाप्नुयात् ।जालेश्वरं ततस्तीर्थं गच्छेद्वै लोकपावनम् ॥८८॥कण्वर्षिणा पुरा यदोः शप्ताश्चात्र कुमारकाः ।विनाशाय यदोः कुलस्यैवेति शापजालतः ॥८९॥जालेश्वरो महादेवः स्थापितस्तत्र बालकैः ।शान्त्यर्थं तस्य शापस्य तत्तीर्थं सुखदं परम् ॥९०॥सम्पूजयित्वा जालेशं शिवलोकमवाप्नुयात् ।ततो गच्छेज्जरत्कारुतीर्थं परमपावनम् ॥९१॥यत्र वै नागकन्यैका जरत्कार्वीति वर्तते ।विवाहिता जरत्कारुऋषिणा पितृतारणे ॥९२॥पुत्रलाभेन पितर उद्धृतास्तेन सर्वथा ।तच्च तीर्थं पितॄणां वै तारकं स्नानदानतः ॥९३॥आनकदुन्दुभितीर्थं ह्यक्रूरतीर्थमित्यपि ।बलतीर्थमुग्रसेनतीर्थं चार्जुनतीर्थकम् ॥९४॥देवकीतीर्थमेवाद्यं रोहिणीतीर्थमित्यपि ।सुभद्रातीर्थमेवापि कर्दमतीर्थमित्यपि ॥९५॥कृष्णपार्षदतीर्थानि पत्नीतीर्थानि चैव ह ।भक्ततीर्थानि चाप्यत्र चमत्कारकृतानि च ॥९६॥प्रसिद्धानि च लुप्तानि तीर्थानि सन्ति कोटिशः ।साक्षाद्यत्र तु गोलोकं वर्तते तत्र किं नहि ॥९७॥सर्वतीर्थानि सन्त्येव पदे पदे न संशयः ।प्लावितानि च सामुद्रजलेन पांशुना मुहुः ॥९८॥रजोपि मोक्षदं यस्य पवनः पापनाशनः ।जलं दित्यतनुदातृ कृष्णयोगान्न संशयः ॥९९॥मोक्षद्वारं स्वर्गद्वारं सुखद्वारं च द्वारिका ।लक्ष्मि! तद्वै सदा सेव्यं तीर्थं तु द्वारिकाह्वयम् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वारकायां ब्रह्मकुण्डसूर्यवरुणकुबेरप्रभतिदेवसरोवरादि पञ्चनद्यादिषड्त्रिंशत्तीर्थप्रदर्शननामा षड्-विंशत्यधिकद्विशततमोऽध्यायः ॥२२६॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP