संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३८७ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३८७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३८७ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! च विप्रायाः पातिव्रत्यबलाश्रिताम् ।कथां वदामि ते रम्यां श्रवणाद्धर्मवर्धिनीम् ॥१॥विन्ध्यभूमौ बभूवाऽऽद्ययुगे योगविशारदः ।वेदश्रवा महर्षिश्च जपयज्ञपरायणः ॥२॥बहुवृक्षाकुले रम्ये शाद्वले जलसन्निधौ ।पर्णकुटीं शुभां कृत्वा वसति स्म वने सदा ॥३॥होमं देवार्चनं सन्ध्यामतिथेः पूजनादिकम् ।सूर्यमन्त्रजपादींश्च कृत्वा वन्यफलादनः ॥४॥आत्मश्रेयःपरोभार्याद्वितीयोऽरण्यकासनः ।वर्तते स्म सदाचारः पत्नीव्रतपरायणः ॥५॥क्वचिद् योगसमाधौ स तिष्ठत्येव दिनानि षट् ।भार्यापि सुव्रता तस्य नित्यं सेवापरायणा ॥६॥ब्रह्मिष्ठा योगिनी नाम्ना सुश्रुतिर्हि पतिव्रता ।स्नानध्यानार्हणाध्ययनादिसत्कार्यवर्तिनी ॥७॥ब्रह्म ध्यात्वा पतिं नत्वा सम्पूज्य प्रातरेव सा ।आत्मानं मन्यते श्रेयःपरं प्राप्तां सजीवनीम् ॥ ८॥आत्मा चास्ति परब्रह्मकिरणं स च मे पतिः ।पतिरेव परंब्रह्म धर्मः सर्वोऽस्ति वै प्रिये ॥९॥प्रियस्य या प्रियंकर्त्री तस्याः प्रियं सदा भवेत् ।छाया देहं यथा तद्वत् पत्नी पतिमनुश्रयेत् ॥१०॥पत्न्याः सर्वेविधो धर्मः पत्यावेवाऽवतिष्ठति ।पत्यौ तुष्टे हरिस्तुष्टो रुष्टे पत्यौ सरुट् हरिः ॥११॥भोगदानेन भोज्यादिप्रदानेन च सेवया ।माधुर्यादिप्रदानेनाऽर्हणया तोषयेत्पतिम् ॥१२॥संवाहनं तदंगानां मर्दनं वर्ष्मणः सदा ।शयनं स्वामिना साकं रमणे विग्रहेण च ॥१३॥आप्लवनं जलाद्यैश्च शोभनं दिव्यवस्तुभिः ।सुगन्धनं कुसुमादिसारैः संपोषणं फलैः ॥१४॥रक्षणं जाग्रतिभावैः रञ्जनं सहखेलनैः ।तोषणं तद्धृदि वासैर्गमनं चैकभावतः ॥१५॥आनन्दनं तनुदानैस्तर्पणं नेत्रदानकैः ॥१६॥हवनं चाऽपत्यदानैर्जपनं ओमितिकृतैः ।स्नपनं रतिदानैश्च ध्यानं चात्मसमर्पणैः ॥१७॥दानं ऋतुप्रदानैश्च धर्मं सह प्रवर्तनैः ।यानं सह विहारैश्च निधनं तत्समर्पणैः ॥१८॥सती साध्वी सार्थकं वै पत्यौ कुर्यात् पतिव्रता ।इति धर्मान्परान् स्वामिपरायणान् स्वमानसे ॥१९॥सर्वधर्मोत्तमान् ज्ञात्वा सेवते सा पतिं वने ।सुश्रुतिर्योगिनी योगे समाधौ तिष्ठति क्वचित् ॥२०॥तस्या अग्रेऽप्यरण्यानां पशूनां यत्परस्परम् ।वैरं साहजिकं तद्वै शान्तं चाभूत् सहस्थिते ॥२१॥ऋषिश्चापि सदा पत्नी सहायः शुभधार्मिकः ।ब्रह्मदृष्ट्या स्थितिं श्रेष्ठां प्राप्तो भार्यात्मदर्शनः ॥२२॥भार्यां भार्या न वै मेने मेने तां परमेश्वरीम् ।परब्रह्मतनोर्जातां परब्रह्मस्वरूपिणीम् ॥२३॥पत्नीं त्यक्त्वा न स विप्रो भुंक्ते कन्दफलादिकम् ।स्वसेवार्थं तथाऽऽयासे न युनक्ति मृषा क्वचित् ॥२४॥शरीरं मनुते क्षय्यं नश्वरं जलबिन्दुवत् ।प्रसन्नः सर्वदा चास्ते मत्वा ब्राह्मीं प्रियां सतीम् ॥२५॥रसनाया रसे नैव कर्णस्य श्रवणे न च ।नासिकायां न च गन्धे त्वचः स्पर्शं न वै तथा ॥२६॥चक्षुषोर्न च रूपेऽपि समासक्तो विरागवान् ।भार्या पतिव्रता ब्राह्मी रसाद्यात्मा ह्यभूत् कृता ॥२७॥पत्नीधर्मः परो धर्मो मुक्तिः पत्नीप्रसेवनात् ।पतिव्रतायास्तोषेण तुष्यन्ति देविकासुराः ॥२८॥भोजने शयने याने पाने विहरणे वने ।रंजने स्वपने कार्ये ज्ञाने जपे सुरार्हणे ॥२९॥शृंगारे चोत्सवस्थाने वैराग्ये श्रवणे रसे ।गायने नर्तने वाद्ये विश्रान्ते शाद्वलाश्रये ॥३०॥आभूषणे गृहकार्ये वनकार्ये विनोदके ।हसने श्रवणे वादे विचारे ब्रह्मभावने ॥३१॥आर्तवे विकृतौ स्वास्थ्ये सुखे दुःखे च तापने ।संशये तर्कणे खाने पाने संस्करणे गिरि ॥३२॥प्रसाधने पवित्रणे त्राणने दिनयापने ।आलस्ये जल्पने पुराख्याने सर्वत्र भूसुरः ॥३३॥पत्नीधर्मं पुरस्कृत्य वर्तते नान्यथा क्वचित् ।एवं तौ धर्ममापन्नौ परस्परं तदात्मकौ ॥३४॥वर्तेते स्माऽभिन्नधर्मौ पत्नीपतिसमार्थकौ ।परस्परं प्रकुर्वाते सेवां ब्रह्ममयीमुभौ ॥३५॥कामचारौ कामरूपौ सेवाधर्मपरायणौ ।आत्मतृप्तिप्रदौ मत्वा ब्रह्मतृप्तिं हि सेवया ॥३६॥यद्दर्शनाद्धि पापानि प्रयान्ति विलयं खलु ।तादृशीं साधुतां प्राप्तौ विन्ध्यारण्यनिवासिनौ ॥३७॥मनुष्यो न यथा पश्येत् क्वचिद् भवत ऐणकौ ।पशुर्न च यथा पश्येत् शुकौ भवतश्च क्वचित् ॥३८॥पक्षी न तौ यथा पश्येत् मत्स्यौ च भवतः क्वचित् ।यादश्च न यथा पश्येद् गोवृषौ भवतः क्वचित् ॥३९॥कश्चित्पराभवेन्नाऽतो व्याघ्रौ च भवतः क्वचित् ।सिंहौ हंसौ सरीसृपौ शाखामृगौ क्वचित्क्वचित् ॥४०॥भवतस्तौ वने तत्र क्वचित् सजटतापसौ ।क्वचित्कल्पलताकल्पद्रुमरूपौ घनागमे ॥४१॥क्वचिन्मणिस्वरूपौ च क्वचिद् वायुस्वरूपिणौ ।क्वचिद् देवस्वरूपौ च क्वचिद् बालस्वरूपिणौ ॥४२॥क्वचिद् वृद्धौ युवानौ चादृश्यौ दृश्यौ बभूवतुः ।क्वचिद् विप्राऽतिथियोगे गुरुशिष्यस्वरूपिणौ ॥४३॥पितृपुत्रस्वरूपौ वा यथापेक्षं व्यजायताम् ।पत्नीव्रतं पतिव्रते यथा लोपे न चाप्नुयात् ॥४४॥तथा तथा स्वरूपैस्तौ वर्तेते स्म वनादिषु ।अथ मासिकधर्मान्ते ऋतुस्नातां पतिव्रताम् ॥४५॥ऋतुदानप्रदानार्थं युयुजे कामधर्मतः ।ऋषिर्मानुषधर्मेण रतिकेलिपरायणः ॥४६॥कामधर्माश्रितयोर्विप्रयोराश्रमसन्निधौ ।स्फीतान्धतमसि कश्चिन्मानवो मानवीं गिरम् ॥४७॥वदन्नटन्वनं तत्राऽकस्मादागतवाँस्तदा ।तेनाऽदृष्टौ द्विजौ तावत् कामविघ्नं विचार्य च ॥४८॥शब्देन मानुषं ज्ञात्वा प्रच्छन्नौ मृगरूपिणौ ।बभूवतुस्तदा तत्राऽवियुक्तौ कामनायुतौ ॥४९॥अप्राप्तौ कामनातृप्तिं पशुधर्मं समाश्रितौ ।मनुष्यभालितौ चापि कामिनौ पशुधर्मिणौ ॥५०॥मन्येते नैव लज्जां तौ तौ न निन्दन्ति मानवाः ।कामासक्तौ पशूनैव ध्याने कुर्वन्ति मानुषाः ॥५१॥पशून्नग्नान् ज्ञानहीनान् लज्जाधर्मादिहीनकान् ।मत्वा तु मानवाः पश्वोर्विघ्नयन्ति न मैथुने ॥५२॥मैथुनस्थाः पशवोऽपि गणयन्ति न मानवान् ।ऋतुदानं कामतृप्तिः पशुरूपेऽद्य संभवेत् ॥५३॥मानुषे तु मानुषस्याऽऽतिथ्यं कर्तव्यमापतेत् ।अशुद्धौ च कथं तत् स्यात् परिहर्तव्यमेव तत् ॥५४॥रिक्तं पर्णगृहं मत्वा चाऽविलोक्य ऋषिं ततः ।वनान्तरं मानवोऽयं गमिष्यति शुभं भवेत् ॥५५॥निशा तु निष्फला न स्यात् स्यात्काले ऋतुदानकम् ।कामाऽशान्तिकृतो वह्निर्न च पत्नीं प्रतापयेत् ॥५६॥बीजं त्वर्धमथनादिप्राप्तं नो विकृतिं व्रजेत् ।ऋत्वदानसमुत्थश्च यथा दोषो न चापतेत् ॥५७॥सुखयाप्यं तथा सर्वं मृगरूपे धृते भवेत् ।इति कृत्वा मृगरूपौ कामारूढौ बभूवतुः ॥५८॥किन्तु तथापि तत्काले जातं वै विपरीतकम् ।मानुषः स तु बाणेन दृष्ट्वा विव्याध तन्मृगम् ॥५९॥मृगो मृगी दुद्रुवतुः कामधर्मं विहाय वै ।त्रासात् प्रधावितयोश्च पृष्ठं जग्राह मानवः ॥६०॥ततस्तौ मानवं व्याधं मत्वा वै पशुहिंस्रकम् ।पशुरूपं विहायैव ऋषिरूपौ बभूवतुः ॥६१॥एवं कृतेऽपि व्याधः स निववृते न मानवौ ।दृष्ट्वापि ब्राह्मणौ हृष्टो धर्तुं वेगेन संययौ ॥६२॥ब्राह्मणं धृतवाँस्तूर्णं भक्षणार्थं स राक्षसः ।ब्राह्मणी कामधर्मा सा निर्जनारण्यवासिनी ॥६३॥कान्ताऽऽधारा निराधारा विललाप जगाद च ।पादयोः पतिता तेऽत्र मां वा भक्षय भक्षक! ॥६४॥मां तु निराश्रयां ज्ञात्वा देहि पतिधनं मम ।शरण्यस्य शरणस्था नारी वै किंकरी तव ॥६५॥विलोक्य पतिधर्मां मां कामधर्मं विमोचय ।वित्तहीनं प्रमत्तं च सुप्तं पृष्ठप्रदर्शिनम् ॥६६॥प्रपन्नं चाश्रितं दीनं तवाऽस्मीतिब्रुवं जनम् ।गुरुं च पितरं रुग्णं मातरं भगिनीं प्रियाम् ॥६७॥साधुं साध्वीं बालकं गां स्त्र्यासक्तं स्त्रीं रतिस्थिताम् ।सुप्तं निष्कल्मषं नैव मारयेद् घातयेन्न वा ॥६८॥नाऽनेन ते हतं किञ्चिन्न वा दुष्टं विचिन्तितम् ।वन्यधर्मपरश्चायं न द्रोग्धा ते कदाचन ॥६९॥ब्राह्मणोऽयं न हन्तव्यो ब्रह्महत्या तु ते भवेत् ॥७०॥ऋतुहत्या महत्पापं बालहत्याकरं हि ते ।भक्ष्यार्थं प्राणिनः सन्ति मा हिंसि मे पतिं नरम् ॥७१॥अयं मे प्राणनाथोऽस्ति सर्वथा जीवनं मम ।तन्नाशे स्यां विधवा स्त्री सर्वमांगल्यवर्जिता ॥७२॥मा कुरु निष्फलं जन्म वैधव्यपापगर्भितम् ।दयालुर्भव मे वाक्ये याचे सर्वस्वमेव मे ॥७३॥अनेन पतिना सार्ध स्वर्गे मोक्षोऽत्र मेऽस्ति वै ।तन्नाशे यमलोकोऽयं देहो मे वै भविष्यति ॥७४॥मुञ्च नाथं कृपां कृत्वा स्वर्गं ते वै भविष्यति ।मा जहाहि पतिं मेऽत्र मा जहीहि वृषं मम ॥७५॥प्रसीदेक्ष्वाकुवंश्यानां तिलक! त्वं पतिं मम ।त्यज राजन् रक्ष धर्मं ययाचे त्वां मुहुर्मुहुः ॥७६॥कामधर्माऽकृतार्थायां मयि कृपाकरो भव ।न बुद्ध्यसे ऋतुधर्मसुखाऽभिज्ञोऽतिपापवान् ॥७७॥एवं याचितवत्याः स वाक्यं कर्णे चकार न ।तस्यां तु विलपन्त्यां स भर्तारं समभक्षयत् ॥७८॥रुरोद सा सती तत्र दुःखिताऽतिप्रतापिनी ।अतिकोपयुता तं राजान शशाप दुःखिनी ॥७९॥त्वया मय्यप्रतृप्तायां मत्पतिर्भक्षितो यतः ।त्वमप्यन्तं प्रियाभोगप्रवृत्तौ प्राप्स्यसि ध्रुवम् ॥८०॥इत्युक्त्वा सा पत्युरस्थिखण्डं नीत्वा करे सती ।पातिव्रत्यप्रतापेन जीवयामास तं पतिम् ॥८१॥राक्षसं दग्धुकामाऽपि व्योमवाण्या निवारिता ।वशिष्ठशापाद् दग्धोऽसौ सौदासो राक्षसो भवन् ॥८२॥कल्माषपादः संभूत्वा समाः भ्रमति द्वादश ।पश्चाच्छापविनिर्मुक्तो मदयन्तीपतिर्नृपः ॥८३॥भविष्यति प्रजापालो मैनं शापेन योजय ।वैवस्वतो मनोर्वंशे जाता नृपतयः सति! ॥८४॥इक्ष्वाकुनृगशर्यातिनाभागाद्या हरेः प्रियाः ।सुद्युम्नेलापुरूरवागयशतमुखादयः ॥८५॥करन्धमाऽविक्षिमरुत्तृणबिन्दुविशालकाः ।शर्यात्यानर्त रैवतककुद्म्यम्बरिषादयः ॥८६॥शशादककुत्स्थपृथुयुवनाश्वमान्धातृकाः ।रुक्मांगदमुचुकुन्दाऽनरण्यकत्रिशंकवः ॥८७॥हरिश्चन्द्रसगरांशुमद्दिलीपभगीरथाः ।जनकबदरर्तुपर्णसुदाससौदासकाः ॥८८॥दिवोदासेन्द्रद्युम्नतोण्डमद्रामकयाधुजाः ।एतेऽभवन् हरेर्भक्ता महाभागवता नृपाः ॥८९॥वशिष्ठादिकृपापात्रचमत्कारसमृद्धयः ।सौदासोऽयमटव्यां वै व्याघ्रद्वयमलोकयत् ॥९०॥व्याघ्राभ्यां तु वनं सर्वं खादित्वाऽपमृगं कृतम् ।मृगयां न ततो राजालब्धवानिति रोषतः ॥९१॥व्याघ्रमेकं जघानाऽथाऽपरो व्याघ्रो विदुद्रुवे ।म्रियमाणश्च वै व्याघ्रो राक्षसो भीषणाकृतिः ॥९२॥कृत्वाऽदृश्योऽभवत्तत्र द्वितीयोऽपि तु राक्षसः ।प्रतिक्रियां करिष्यामीत्युक्त्वाऽन्तर्धी जगाम ह ॥९३॥अथ कालेन सौदासो यज्ञं चकार वैष्णवम् ।आचार्ये तु वशिष्ठे च विनिष्क्रान्ते सदक्षिणे ॥९४॥वसिष्ठरूपमास्थाय राक्षसः स समागतः ।देयं मे भोजनं मांसं संस्करोतु द्रुतं त्विह ॥९५॥क्षणादिहाऽऽगमिष्यामीत्युक्त्वा निष्क्रान्त एव सः ।सूदवेषं पुनः कृत्वा राक्षसः स महानसे ॥९६॥विवेश मानुषं मांसं संस्कृत्य क्ष्माभृते ददौ ।सौदासोऽपि स्वर्णपात्रे मांसमादाय तदृषेः ॥९७॥वाटं विलोक्य भक्तिमान् प्रतीक्षातत्परोऽभवत् ।आगताय वसिष्ठाय नरमांसं स चार्पयत् ॥९८॥वसिष्ठो नैव जानाति केनोक्तं किं कृतं न्विदम् ।इति चिन्तापरो भूत्वा किं वस्त्विति व्यलोकयत् ॥९९॥ज्ञात्वा ध्यानेन मांसं तन्मानुषं वै समर्पितम् ।अहो राज्ञोऽस्य दौःशील्यं मांसं मम प्रयच्छति ॥१००॥तत्रापि मानुषं चैतद् राक्षसार्हं प्रयच्छति ।इति क्रोधपरो भूत्वा तूर्णं शशाप भूभृतम् ॥१०१॥यस्मादभोज्यमस्माकं जानन्नपि ददासि मे ।तस्मात्त्वं नरमांसादो भव राजन् विगर्हितः ॥१०२॥राज्ञा स्फुटीकृतं कृत्यं कस्येदं ज्ञातवान् ऋषिः ।नाऽपराधस्तु राजर्षेः राक्षसेन कृतं हि तत् ॥१०३॥इति विज्ञाततत्त्वश्च वसिष्ठः करुणाकरः ।सौदासे द्वादशाब्दं राक्षसत्वं कृतवान् मुनिः ॥१०४॥न त्वात्यन्तिकमित्येवमनुग्रहं चकार वै ।सौदासोऽपि करे धृत्वोदकं शप्तं समुद्यतः ॥१०५॥वशिष्ठाय तदा तस्य मदयन्ती सती प्रिया ।पतिं रुरोध सहसा गुरुं शप्तुं ददौ न सा ॥१०६॥गुरवो न हि शप्तव्या रक्षकास्तारकाश्च ते ।कल्याणं वचने तेषां शिष्याणां सर्वथा हितम् ॥१०७॥इति प्रसादितो राजा जलं चिक्षेप पादयोः ।स्वपादौ मन्त्रशापोददग्धौ कल्माषतां गतौ ॥१०८॥ततः कल्माषपादोऽसौ सौदासो मांसभक्षकः ।षष्ठे काले राक्षसत्वमुपेत्य पर्यटन् क्षितौ ॥१०९॥अनेकशो मानुषाँश्चाऽभक्षयद्विविधे वने ।सोऽयं राजाऽस्ति सौदासो वशिष्ठस्य प्रशापतः ॥११०॥दग्धोऽस्ति राक्षसे भावे तव पत्युः प्रभक्षकः ।रतिभंगकृतं पापं स्त्रीसंगेऽस्योपयास्यति ॥१११॥मरिष्यति ह्ययं राजा माऽन्यं शापं प्रदेहि तम् ।क्षमां कुरु सति! चात्र पतिस्त्वया प्रजीवितः ॥११२॥तदोक्तं च वशिष्ठेन यदा वेदश्रवाः ऋषिः ।सुश्रुतया समं वने तव नाश्यो भविष्यति ॥११३॥तदुत्तरं त्वदुद्धारो रक्षोभावाद् भविष्यति ।निधनं वेदश्रवसस्तव हस्तेन वेधसा ॥११४॥लिखितं वै तावदेव तस्याऽऽयुरस्ति नाऽधिकम् ।ततः पत्न्या जीवितोऽपि पातिव्रत्यबलेन वै ॥११५॥भूमौ स्थातुं न वै योग्यः स्वर्गं पत्न्या गमिष्यति ।सौदासश्च मदयन्त्यां वशिष्ठेन महर्षिणा ॥११६॥नियोजितेन बीजार्थं वासिष्ठान् शतपुत्रकान् ।लब्ध्वा पश्चान् मदयन्त्यां कामभोगं करिष्यति ॥११७॥मृत्युना मोहितस्तत्राऽलब्धकामविनिर्वृत्तिः ।मृत्युं प्राप्स्यति द्रागेव कालः सोऽयं समागतः ॥११८॥अश्मकाद्यास्तस्य पुत्रा भविष्यन्ति हि सात्त्वताः ।खद्वांगश्च दिलीपश्च रघुर्दशरथस्ततः ॥११९॥रामचन्द्रादयश्चान्ये भविष्यन्ति प्रमुक्तिदाः ।तदेवं निश्चितं मत्वा सुश्रुते त्वं पतिं स्वकम् ॥१२०॥चितां कृत्वाऽत्र काष्ठीयां पातिव्रत्यविधानतः ।अग्निं प्रज्वाल्य चांगुष्ठान्नारीमानुषविग्रहम् ॥१२१॥पत्यस्थ्ना सह संगग्ध्वा जीवितं स्वामिनं पुनः ।विलीयाऽत्रैव संघातकृतं सर्वं समाप्य च ॥१२२॥दिव्या त्वं दिव्यपतिना वह्निशुद्धा च नाकिना ।शरीरेण विमानेऽत्र पतिं नीत्वा प्रयाहि वै ॥१२३॥नाऽन्या पतिव्रता पत्नी ते समाऽन्या भविष्यति ।ब्रह्मणो दिनपर्यन्तं स्वर्गे सुखमवाप्य च ॥१२४॥ततो यास्यसि वैकुण्ठं तेनैव पतिना सह ।इत्युक्त्वाऽऽकाशवाणी सा विरराम च सुश्रुतिः ॥१२५॥ननाम तां दिशं राजा ननाम च सतीं तदा ।ययौ क्षमां सुयाचित्वा स्वकं वै नगरं प्रति ॥१२६॥सस्मार सुश्रुतिस्तत्र वशिष्ठं सोऽप्यदृश्यत ।नत्वा धृत्वा पतिं काष्ठचितायां निजवह्निना ॥१२७॥भस्मीकृत्वा सती देहौ दिव्यौ विधाय च ।नत्वा वशिष्ठं यानेन ययतुः स्वर्गमेव तौ ॥१२८॥देवदुन्दुभयो नेदुः पुष्पवृष्टिर्बभूव ह ।इति ते कथितं लक्ष्मि! चमत्कारकरं परम् ॥१२९॥प्राग्वृत्तं दिव्यसिद्ध्यादिप्रदं तत्पठनात्तथा ।श्रवणाच्च भवेद्धर्मदार्ढ्यं स्वर्गं च मोक्षणम् ॥१३०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये वेदश्रवसः पत्न्याः पतिव्रतायाः सुश्रुतेश्चमत्काराः, कल्माषपादात्मकराक्षसस्य कामासक्तयोर्वेदश्रवःसुश्रुत्योराश्रमं प्रत्यागमनं, वेदश्रवसो राक्षसकृतभक्षणं, सुश्रुतिदत्तशापः, आकाशवाण्यासौदासस्य राक्षसत्वे निमित्तकारणाख्यानकथनं, वशिष्ठसन्निधौ सुश्रुतिवेदश्रवसोः सतीबलेन स्वर्गमनमित्यादिनिरूपणनामा सप्ताऽशीत्यधिकत्रिशततमोऽध्यायः ॥३८७॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP