संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ९५

कृतयुगसन्तानः - अध्यायः ९५

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच
श्रुत्वा व्रतस्य कर्तव्यं पार्वती हृष्टमानसा ।
सर्वं व्रतविधानं तु पप्रच्छ शंकर पुनः ॥१॥
पुण्यकं तद्व्रतं नाथ नियमेन युतं मया॥
कया रीत्या प्रकर्तव्यं कानि द्रव्याणि तत्र च ॥२॥
फलान्यन्यानि देयानि भवन्तीति निरूप्यताम् ।
यद्यदपेक्षितं वस्तु तन्नियोजय कल्पय ॥३॥
नारीणां व्रतकर्त्रीणां स्वामी सर्वार्थदो मतः॥
पिता कौमारसमये सदा पालयते सुताम् ॥४॥
लग्नोत्तरं पतिः पाता वार्धक्ये तु सुतादयः॥
पिता प्राणसमां पुत्रीं दत्वा सत्पतये सुखी ॥५॥
पतिः पत्नीं स्वपुत्रेषु सन्न्यस्यैव सुखी भवेत्॥
एवं त्रययुता नारी लोके भाग्यवती मता ॥६॥
एकेन रहिता मध्या सर्वहीना तु दुःखिनी ।
एतैस्तु रक्षिता धन्या निन्दिताऽन्याश्रयस्थिता ॥७॥
पितृरक्षणयोग्यं तु कौमारं विगतं मम॥
भर्तृरक्षणयोग्यं च यौवनं तु गमिष्यति ॥८॥
विना पुत्रं तु वार्धक्ये को मे रक्षां करिष्यति॥
अतो देहि सुतं नाथ मम निर्वृत्तिकारणम् ९॥
सर्वज्ञस्य समीपे वै पाण्डित्यं कलुषायते॥
न ममाऽन्यद्याचितव्यं सुतदां सत्कृपां विना ॥१०॥
इति श्रुत्वा तु पार्वत्याः शंकरः प्राह पार्वतीम्॥
शृणु देवि कृष्णव्रतात्सफलः स्यान्मनोरथः ॥११॥
माघशुक्लत्रयोदश्यां व्रतारंभः शुभः प्रिये॥
द्वादश्यां माघशुक्लस्य व्रतस्य पूर्णता भवेत् ॥१२॥
सांवत्सरं व्रतमेतत्पुण्यकं कृष्णतुष्टिकृत्॥
कर्तव्यं तु विधानेन पुत्रार्थिन्या तु योषया ॥१३॥
द्वादश्यां तु समुपोष्य शिरःसंस्कारपूर्वकम्॥
गात्रशुद्धिं वस्त्रशुद्धिं कृत्वा रात्रौ हरिं स्मरेत् ॥१४॥
निद्रोत्तरं ब्राह्मकाले तल्पादुत्थाय वै हरिम् ।
स्मरन् शौचादिकं दन्तधावनं स्नपनं तथा ॥१५॥
कृत्वा चाऽऽचम्य हरये दत्त्वाऽर्घ्यं धौतवाससी॥
धृत्वोपविश्य च ततः पुनराचम्य चान्दनम् ॥१६॥
बिन्दुं वा तिलकं कृत्वा कौंकुमं च हरिं स्मरेत् ।
स्वाह्निकं नैत्यकं कृत्वा वृणुयात्सुपुरोहितम् ॥१७॥
घटं संस्थाप्य विधिवत्स्वस्तिवाचनपूर्वकम्॥
संकल्पं वेदविहितं कारयित्वा व्रतं चरेत् ॥१८॥
उपचारैः षोडशभिः पूजनीयो हरिः स्वयम् ।
आवाहनमासनं च पाद्यमर्घ्यं ततः परम् ॥१९॥
आचमनं तथा स्नानं मधुपर्कं तथाऽम्बरम् ।
चन्दनं भूषणं पुष्पं धूपं दीपं निवेदनम् ॥२०॥
यज्ञसूत्रं च ताम्बूलं देयानि भक्तिभावतः॥
तत्र न्यूनं न कर्तव्यं फलहानिकरं हि तत् ॥२१॥
दानानि तु यथाशक्ति देयानि कृष्णविष्णवे ।
यद्यद्दानेन यत्प्राप्तिर्भवेत् तद्वच्मि संशृणु ॥२२॥
पुष्पं तु पारिजातस्य देयं सुरूपहेतवे ।
श्वेतचम्पकपुष्पं तु देयं सौन्दर्यहेतवे ॥२३॥
पद्मं देयं तु कृष्णाय मुखसौघट्यहेतवे ।
रत्नाढ्यं दर्पणं देयं नेत्रयोर्दीप्ति हेतवे ॥२४॥
नीलोत्पले तथा देये चक्षुषो रूपहेतवे ।
श्वेतं तु चामरं देयं केशसौन्दर्य हेतवे ॥२५॥
रत्नाक्तपुटकं देयं नासासौन्दर्यहेतवे॥
देये बन्धूकपुष्पे च स्वोष्ठयोः रक्तताकृते ॥२६॥
मुक्ताफलानि देयानि दन्तसौन्दर्यहेतवे ।
रत्नगण्डूषके देये गण्डसौन्दर्यहेतवे ॥२७॥
रत्नपाशास्तथा देया सुष्ठु चिबुकहेतवे॥
सरत्नकर्णभूषाश्च देयाः कर्णप्रसुष्ठवे ॥२८॥
माध्वीकं शार्करं देयं स्वरमाधुर्यहेतवे॥
मिष्टं सुधाऽमृतं देयं वाणीमाधुर्यहेतवे ॥२९॥
देयो रत्नप्रदीपश्च दृष्टिनैर्मल्यहेतवे ।
जलपात्रादयो देया बलदार्ढ्यस्य हेतवे ॥३०॥
पद्मनालानि देयानि बाहुदार्ढ्यस्य हेतवे॥
रक्तपद्मानि देयानि करसौन्दर्य हेतवे ॥३१॥
अंगुलीयानि देयानि त्वंगुलीष्टत्वहेतवे ।
देयास्तु श्वेतमणयो नखसौन्दर्य हेतवे ॥३२॥
रत्नहारास्तथा देया वक्षःसौघट्यहेतवे ।
पक्वेऽर्प्ये श्रीफले तस्मै स्तनसौन्दर्यहेतवे ॥३३॥
स्वर्णपत्रं तथा देयं देहसौन्दर्यहेतवे॥
देया रत्नकृता नाभिर्नाभिसौन्दर्यहेतवे ॥३४॥
द्वे रत्नखचिते चक्रे देये नितम्बसुष्ठवे॥
रंभास्तंभाः प्रदेयाश्च श्रोणिसौन्दर्यहेतवे ॥३५॥
स्थलपद्मानि देयानि पादसौन्दर्य हेतवे॥
स्वर्णमत्स्यानि देयानि गतिचांचल्यहेतवे ॥३६॥
स्वर्णहंसगजेन्द्राश्च देयाः सुगतिहेतवे ।
देयं चामीकरच्छत्रं मूर्ध्नः सौन्दर्य हेतवे ॥३७॥
मालतीकुसुमं देयं सौम्यहास्यादिहेतवे॥
देयान्यमूल्यरत्नानि व्रतपूर्त्यै सुखाप्तये ॥३८॥
देयाः स्फाटिकमणयो मनःप्रशान्तयेऽमलाः॥
देयाः प्रवालमणयः प्रियारागविवृद्धये ॥३९॥
देया माणिक्यमणयः स्वामिसौभाग्यहेतवे ।
कूष्माण्डं नवरंगं च जम्बीरं श्रीफलं तथा ॥४०॥
देयानि हरिकृष्णाय पूजायां पुत्रहेतवे॥
रत्नसाराणि देयानि स्वामिनो धनवृद्धये ॥४१॥
वाद्यं सम्पत्तिवृद्ध्यर्थं श्रीहरिं श्रावयेद् व्रते ।
पायसं पिष्टकं सर्पिः शर्कराः केसरं तथा ॥४२॥
देयानि हरये भक्त्या स्वामिनो भोगवृद्धये॥
पुष्पमालाः प्रदातव्या हरौ भक्तिविवृद्धये ॥४३॥
मधुरस्वादुनैवेद्यं देयं मिष्टान्नलब्धये ।
तुलसीपत्रपुष्पाणि देयानि कृष्णतुष्टये ॥४४॥
साधून् साध्वीश्च दीनाँश्च भोजयेत् सस्यवृद्धये॥
पुष्पाञ्जलिप्रणामास्तु कर्तव्या भक्तिवृद्धये ॥४५॥
षण्मासाँश्च हविष्यान्नं मासान्पंच फलादिकम् ।
हविः पक्षं पयः पक्षं भक्षयेत्तु व्रते स्थिता ॥४६॥
अखण्डदीपकं कुर्यादासंवत्सरमच्युते॥
नित्यं कुशासने मध्यरात्रिजागरणं चरेत् ॥४७॥
ब्रह्मचर्यं सदा पाल्यं व्रतस्य फललब्धये॥
क्षतौ तु निष्कृतिः कार्योपवासोऽष्टौ शतं जपाः ॥४८॥
प्रतिक्षति प्रकर्तव्या व्रताऽखण्डितताप्तये ।
माघशुक्लत्रयोदश्यां कार्यस्तदुत्सवो महान् ॥४९॥
यथाशक्ति प्रदातव्या स्वर्णमुद्रा च राजती ।
वस्त्राणां त्रिशतं षष्ट्यधिकं तावच्च रूप्यकाः ॥५०॥
स्वर्णमुद्राश्च तावत्यो भोज्यास्तावन्त आर्षकाः॥
तिलहोमः प्रकर्तव्यस्त्रिशतं चापि षष्टिकः ॥५१॥
एतत् प्रतिदिनं कृत्यं वर्षान्ते कार्यमेव वा॥
हरितुल्यो भवेत्पुत्रो विजेताऽग्र्याऽर्च्य एव च ॥५२॥
सौन्दर्यं प्रतिसौभाग्यमैश्वर्यं विपुलं धनम् ।
सर्वेष्टसिद्धयश्चास्या जायन्ते व्रतवैभवात् ॥५३॥
व्रतान्ते स्वपतिशय्या रन्तव्या न व्रतेऽन्तरा ।
व्रतस्य वत्सरे नार्या न रन्तव्यं कदाचन ॥५४॥
व्रतमध्ये तु रमणे व्रतभंगो भवेदतः ।
ऋतुकालाऽसेवनं यद्दूषणं चात्र भूषणम् ॥५५॥
एवं त्वं वार्षिकं चैकं व्रतं कुरु महेश्वरि ! ।
पुत्रस्त्वयोनिजस्ते स्यान्मम धातोस्तु पार्वति ! ॥५६॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुत्रार्थं पुण्यकाख्यवार्षिकव्रतनिरूपणदेयदाननिरूपणनामा
पंचनवतितमोऽध्यायः ॥९५॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP