संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १९४ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १९४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९४ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! ततो दुर्गां शैलाऽन्तःपुरचारिकाः ।बहिर्जग्मुः पूजयितुमादाय कुलदेवताम् ॥१॥शंभोर्निवाससौधस्य राजमार्गेण पार्वती ।विनिर्जगाम सा पद्भ्यां चारिणी स्पष्टदर्शना ॥२॥तत्र तां ददृशुर्देवा निमेषरहितास्तदा ।कान्तिश्चान्द्री शारदीव प्रोज्ज्वला स्वर्णभूषणा ॥३॥ताम्ररक्ता सुवर्णाभा स्थलपद्मस्वरूपणी ।कमलकुसुममृद्वी तेजःपरिधिमण्डिता ॥४॥कोटिकोटिरतिगर्वशोभालावण्यसंभृता ।दृश्यते च चतुर्दशाऽवरवर्षा हि कन्यका ॥५॥ब्रह्मतेजःसुसंराजत्प्रत्येकांगोत्तमोत्तमा ।रमालक्ष्मीमहालक्ष्मीन्द्राणीतेजोऽधिकप्रभा ॥६॥दृश्यते सर्वनारीणां देवीनामुत्तमश्रिया ।ईषद्धास्यप्रसन्नास्या सकटाक्षा मनोहरा ॥७॥सुचारुकबरीभारा भालपत्रकसत्प्रभा ।सिन्दूरकुंकुमकस्तूरिकाबिन्दुसुमण्डिता ॥८॥मणिसद्रत्नहीरकस्फटिकस्वर्णमालिका ।रत्नकेयूरवलयवंगिडीकंकणान्विता ॥९॥सद्रत्नकुण्डलफुल्लकर्णपूरकटान्विता ।सुचन्द्रटपकीराजच्चारुगण्डस्थलोज्ज्वला ॥१०॥स्वल्पमणिकलिकावद्दन्तराजिविराजिता ।मधुबिम्बाधरौष्ठा सद्रत्नयावकसंयुता ॥११॥काश्मीररससक्तालक्तकाढ्यकरपत्तला ।रत्नदर्पणहस्ता चोर्मिकाधृगंगुलीवरा ॥१२॥रशनामित्रताप्राप्तश्रोणीदेशातिचंचला ।चन्दनाऽगुरुकस्तूरीकुंकुमाऽऽवासचर्चिता ॥१३॥क्वणत्किंकिणिकाराजज्झांझराढ्यप्रकोष्ठका ।स्वर्णमञ्जिरसंशोभज्जंघाऽधोगुल्फकण्डिका ॥१४॥स्वर्णमालान्विता रंगक्रीडापद्मविभूषिता ।सर्वसमाजनेत्राब्जविषया गतिमन्थरा ॥१५॥विकसत्स्वल्पस्तनयुगीषत्प्रोद्भिन्नयौवना ।स्वर्णतारावलिराजद्वस्त्रलज्जावगुण्ठिता ॥१६॥शुशुभे स्वसखीकन्याप्रमदावर्गमध्यगा ।ध्यानेऽधोमुखदृष्ट्याढ्या हृदि चोर्ध्वं हराभिगा ॥१७॥चरणाभ्यां तु मार्गस्था मनोहृद्भ्यां हरान्तिका ।स्थूलदेहेन भूमिस्था सूक्ष्मदेहेन शंभुगा ॥१८॥यदा शंभोर्वाससौधपार्श्वमार्गत आगता ।शुशुभे सुन्दरी रम्या सर्वदृष्ट्यैकपात्रिका ॥१९॥सुराः प्रणेमुः शिरसा यान्तीं देवीं सुमेनकाम् ।त्रिनेत्रो नेत्रकोणेन दृष्ट्वा विरहवेदनाम् ॥२०॥जहौ सर्वं विसस्मार हर्षाद् गौरीगलोचनः ।अथ काली बहिः पुर्या गत्वा प्रार्च्य कुलाम्बिकाम् ॥२१॥प्रपूज्याऽऽवृत्य जनकाऽऽलयं विवेश सांगना ।ततः शैलवरः पुण्या प्रीत्या यज्ञोपवीतकम् ॥२२॥कारयामास सोत्साहं वेदमन्त्रैः शिवस्य च ।अथ देवाः समुनयः प्रविश्याऽन्तर्गृहं गिरेः ॥२३॥श्रुत्याचार भवाचारं विधाय च यथार्थतः ।ददुर्वस्त्रविभूषाश्च शिवाधारणहेतवे ॥२४॥प्रथमं स्नपयित्वा तां भूषयित्वाऽथ कन्यकाः ।नीराजयित्वा शृंगारं कारयामासुरुत्तमम् ॥२५॥दिव्यस्वर्णमयी मृद्वी घर्घरी संधृता तथा ।स्वर्णरत्नान्विता दिव्या कंचुकी शाटिका शुभा ॥२६॥विधृता च तथा देवी शोभते सूर्यसूज्ज्वला ।सन्धृतः सुभगो हारो दिव्यरत्नसमन्वितः ॥२७॥वलयानि महार्हाणि पौरटानि धृतानि च ।अन्यान्यानखकेशान्तं भूषणानि धृतानि च ॥२८॥यथापेक्षं यथायोग्यं वस्त्रभूषणसद्द्रवैः ।एवं शिवामलंचक्रुः शिवप्रेषितभूषणैः ॥२९॥दानं बभूव विविधं साधुविप्रेभ्य आदरात् ।गीतवाद्यविनोदाश्च बभूवुश्चोत्सवोत्तमाः ॥३०॥अथ गर्गः सुदैवज्ञो हिमवन्तमभाषत ।शंभुं पाणिग्रहार्थं त्वमानय स्वीयमण्डपम् ॥३१॥शैलस्तदा महाशैलान् पत्नीव्रतमुखान् द्विजान् ।प्रेषयामास सुप्रीत्या शिवस्याऽऽनयनाय च ॥३२॥सवादित्रमहाघोषैः रम्यमंगलपाणिभिः ।शैलैर्विप्रैश्च सहितान् ब्रह्मघोषकरान् द्विजान् ॥३३॥दृष्ट्वा समागतान् सर्वे शंभुपक्षीयसेवकाः ।सज्जाश्चाऽऽसन् शिवश्चापि सस्नौ सुगन्धवारिणा ॥३४॥तावदागत्य शैलस्य मन्त्रिणः शंकरं तथा ।विष्ण्वादीन् जनवाहाँश्च कृष्णं च वनितास्तथा ॥३५॥प्रार्थयांचक्रुरादरविनीतभावनाभृताः ।कन्यादानोचितः कालो वर्तते गम्यतामिति ॥३६॥शिवो मांगलिकैर्द्रव्यैः स्नातः शृंगारितस्तथा ।वस्त्रभूषामुकुटादिवरवेषादिशोभितः ॥३७॥आरोपितो वृषस्कन्धे तैः सर्वै परिवारितः ।नीतः शैलगृहं विप्रैर्जयशब्दैश्च वर्धितः ॥३८॥पुरो वाद्यान्यवाद्यन्ताऽग्रगाश्चासन् द्विजाऽद्रयः ।ततः कृष्णब्रह्मविष्णुदेवकोट्यो ययुः शनैः ॥३९॥शंभुर्बभौ सुछत्रेण संधृतेन तु मूर्धनि ।चामरैर्व्यजनैर्वीज्यमानश्च सद्वितानकः ॥४०॥विकीर्यमाणः कुसुमैर्ययौ शनैःशनैः शिवःतदा शंखाश्च भेर्यश्च पटहानकगोमुखाः ॥४१॥पुनःपुनरवाद्यन्त वादित्राणि वरोत्सवे ।तदा तु गायकाश्चाग्रे जगुः सन्मंगलानि वै ॥४२॥नर्तक्यो ननृतुः सर्वा नानातालसमन्विताः ।एवं समाजमध्यस्थः प्राप शैलांगणं हरः ॥४३॥वृषादुत्तारयामासुर्महेशं पर्वतादयः ।संपूजितस्ततः शंभुः प्रविष्टो यज्ञमण्डपम् ॥४४॥निन्युर्गृहान्तरं शंभुं प्रणेमुः पुपुजुस्तथा ।हिमालयश्च विधिवन्नीराजनमथाऽकरोत् ॥४५॥सुरादीन्संप्रणम्याऽथ सम्मानमकरोन्मुदा ।प्रांगणे स्थापयामास रत्नसिंहासनेषु तान् ॥४६॥मेना नीराजनं चक्रे सर्वनारीसमन्विता ।गर्गेण मधुपर्कादि यत्कृत्यं तत्कृतं तदा ॥४७॥सुमंगलं च यत्कर्म प्रस्तावसदृशं कृतम् ।अन्तर्वेद्यां महादेवो हिमशैलेन वेशितः ॥४८॥हुतभुक्सहितां वेदीमारुरोह च शंकरः ।अथ शृंगारिता स्त्रीभिः सर्वाभरणभूषिताम् ॥४९॥भ्राता सुनाभः शंभोश्चाऽभ्याशं कालीं निनाय ताम् ।वेदिकायां पार्वती च निषसाद ननाम तम् ॥५०॥तत्रोपविष्टो गर्गश्च प्रतीक्षन् घटिकां तदा ।यावच्छेषा घटी तावत्कृतवान्प्रणवस्वरम् ॥५१॥पुण्याहं प्रवदन् गर्गः समादध्रेऽक्षताञ्जलिम् ।पार्वत्युपरि ववृषे ववृषे च शिवोपरि ॥५२॥तया संपूजितो रुद्रो दध्यक्षतकुशांबुभिः ।समानर्च शिवां शंभुर्लौकिकाचारसंरतः ॥५३॥एवं परस्परं तौ तु पार्वतीपरमेश्वरौ ।अर्चयन्तौ शुशुभाते निरीक्षन्तौ परस्परम् ॥५४॥नीराजितौ च लक्ष्म्यादिस्त्रीभिर्देव्यादिभिस्तदा ।अथ स्थाल्यां महत्यां च मुक्तास्वर्णोर्मिकादिभिः ॥५५॥रंगात्मजलमग्नैश्च रेमाते विजयाय तौ ।अथ गुलालपुंजैश्च क्षणं चिक्रिडतुश्च तौ ॥५६॥अथ गर्गेण चाज्ञप्तो हिमवान् मेनया सह ।हैमं कलशमादाय सजलं साक्षतादिकम् ॥५७॥पुरोहितोक्तविधिना वस्त्रचन्दनभूषणैः ।पाद्यार्घ्यादिभिश्च वरं वरयामास भावतः ॥५८॥तिथ्यादिकीर्तनं चक्रुः कालज्ञा द्विजसत्तमा ।पत्नीव्रतस्तदा विप्रः सस्वस्तिसलिलं तदा ॥५९॥प्रोक्षितवान् वरवध्वोः शिरसोः साक्षतं मुदा ।हिमाचलस्तदा प्राह शंभुं गोत्रं कुलं वद ॥६०॥प्रवरं नाम वेदं च शाखां श्रावय सर्वथा ।निरुत्तरमुखः शंभुर्मौनमाश्रित्य संस्थितः ॥६१॥तदा तु नारदः प्राह गोत्रं नादोऽस्य विद्यते ।कुलं ब्रह्मकुलं बोध्यं वेदः सत्यसंकल्पता ॥६२॥प्रवरास्तु त्रयोऽस्याऽऽद्याः हरिर्नारायणो विराट ।शाखा सदाशिवा बोध्या पिता कृष्णो यतो जनिः ॥६३॥माता कृष्णमहेच्छा च नान्यज्जानामि किंचन ।अथ हिमालयः श्रुत्वा प्रसन्नोऽभूच्छिवोपरि ॥६४॥योगिनां कुलगोत्रप्रवरैर्वा किं प्रयोजनम् ।एवं वदन्स्वकन्यादानं चाकरोद्विधानतः ॥६५॥मत्पुत्री भगवन् कालीं पार्वतीं गिरिवंशजाम् ।पितृणामपि दौहित्रीं प्रतीच्छेमां मयाऽर्पिताम् ॥६६॥इमां कन्यां तुभ्यमहं ददामि परमेश्वर ।भार्यार्थं परिगृह्णीष्व प्रसीद सकलेश्वर ॥६७॥इत्थं शिवाकरं शैलः शिवहस्ते ददौ तदा ।तस्मै रुद्राय महते मन्त्रेणाऽनेन दत्तवान् ॥६८॥इत्येवमुक्त्वा शैलेन्द्रो हस्तं हस्तेन योजयन् ।प्रादात् प्रतीच्छ भगवन्निदमुच्चैरुदीरयन ॥६९॥वेढमन्त्रेण गिरिशो गिरिजाकरपंकजम् ।जग्राह स्वकरेणाऽऽशु प्रसन्नः परमेश्वरः ॥७०॥क्षितिं संस्पृश्य कामस्य कोऽदादिति मनुं ब्रुवन् ।जग्राह शंकरः प्रीत्या दर्शयन् लौकिकीं गतिम् ॥७१॥न मे माता पिता नास्ति न ज्ञातिर्न च बान्धवाः ।न कुलं पर्वतवासी प्रतीच्छामि सुतां तव ॥७२॥इत्युक्त्वाऽपीड्यच्छैलपुत्र्याः करं करेण सः ।संस्पृष्टौ तौ पुलकितौ सस्वेदसुप्रकोष्ठकौ ॥७३॥चीरदूरस्थौ द्राक्जातौ मिलितौ शाश्वताय च ।जयशब्दा नमःशब्दास्तदाऽऽसन् भूःस्वरादिषु ॥७४॥गन्धर्वाः सुजगुः प्रीत्या ननृतुश्चाप्सरोगणाः ।मुमुदिरे वरवधूपक्षगाश्च महोत्सवाः ॥७५॥द्वयोश्च वस्त्रयोः प्रान्तग्रन्थिं विप्रो बबन्ध ह ।सिन्दूरं प्रददौ शंभुस्तदा वध्वाः शिरस्यथ ॥७६॥ततः शैलः शिवायाऽदात् कन्यादानस्य सांगताम् ।बान्धवाश्च शिवां नत्वा ददुर्द्रव्यं शिवाय च ॥७७॥हिमालयोऽपि सन्तुष्टः पार्वतीशिवप्रीतये ।नानाविधानि द्रव्याणि रत्नानि कौतुकानि च ॥७८॥चारुरत्नविकाराणि पात्राणि शयनानि च ।गवां लक्षं हयानां चाऽयुतं दासीसुलक्षकम् ॥७९॥नागानां च रथानां च शतलक्षं ददौ तदा ।स्वर्णं रौप्यं मणींश्चापि रत्नमौक्तिकहीरकान् ॥८०॥असंख्यातान् ददौ ताभ्यां प्रहृष्टो गिरिराट् तदा ।शिरोभिषेकं पार्वत्याश्चक्रुस्ते मुनयोऽखिलाः ॥८१॥शिवाभिधानमुच्चार्य पर्युक्षणविधिं व्यधुः ।अथ शिवाशिवौ तत्र मधुपर्कं समश्नुतः ॥८२॥ब्राह्मणैः स्थापिते वह्नौ होमं चक्रतुरादरात् ।दत्वा लाजान्कलभस्य शुक्लान् ससर्पिषा तथा ॥८३॥ऋग्यजुः साममन्त्रैश्चाऽऽहुतिं ददतुरग्नये ।लाजांजलिं ददौ कालीभ्राता मैनाकनामतः ॥८४॥अथ काली शिवश्चोभौ चक्रतुर्विधिवन्मुदा ।वह्निप्रदक्षिणं तत्र लोकाचारं विधाय च ॥८५॥वरमालासमायुक्तौ लग्नग्रन्थिसुयोजितौ ।गिरिजया गिरीशेन हुताशस्त्रिप्रदक्षिणम् ॥८६॥कृतो लाजाश्च हविषा समं क्षिप्ता हुताशने ।निषेदतुर्वधूवरौ तावत्तत्र च मालिनी ॥८७॥जग्राह शंकरांघ्रिं वै दायस्य प्राप्तये तदा ।किं याचसे ते प्रदास्ये मुञ्चस्वेति हरोऽब्रवीत् ॥८८॥मालिनी प्राह मत्सख्या देहि शंकर शाश्वतम् ।सौभाग्यं निजगोत्रीयं ततौ मोक्षमवाप्स्यसि ॥८९॥अथोवाच महादेवो दत्तो मालिनि मुञ्च माम् ।योऽसौ कृष्णोऽखिलनाथो गणेशाख्यः सुतस्तव ॥९०॥सख्या भविष्यति चैतत्सौभाग्यं चार्पितं मया ।तदन्तरे तु पार्वत्याः उद्गृह्य मुखवस्त्रकम् ॥९१॥ब्रह्मणा दृष्टमास्यं तत् शशितेजोऽधिकप्रभम् ।तद्दृष्ट्वा मोहमगमच्छुक्रं च्युतिमवाप च ॥९२॥तच्छुक्रं वालुकायां च खिलीचक्रे ससाध्वसः ।मर्दिताच्च मुहुस्तस्मात्कणका वै सहस्रशः ॥९३॥परोज्ज्वलाः समुत्पन्नाः शंकरः प्राह वेधसम् ।इमे महर्षयो जाता न द्विजान् हन्तुमर्हसि ॥९४॥जातास्ते ऋषयस्तत्र वालखिल्याभिधा द्रुतम् ।आज्ञप्ताश्च चिरं स्थातुं गन्धमादनपर्वते ॥९५॥गतास्तत्र तपस्तप्त्वा भविष्यन्त्यर्कसेवकाः ।इत्येते वालखिल्याश्चोद्भूताश्चात्र पुनः प्रिये ॥९६॥दृष्ट्वैतान् देवताः सर्वे चकिता ह्यभवँस्तदा ।तयोः शिरोऽभिषेकोऽथ बभूवाऽऽदरतस्ततः ॥९७॥ध्रुवस्य दर्शनं विप्राः कारयामासुरादरात् ।हृदयालंभनं कर्म बभूव तदनन्तरम् ॥९८॥स्वस्तिपाठश्चाभवच्च महोत्सवपुरःसरः ।शिवाशिरसि सिन्दूरं ददौ शंभुर्द्विजाज्ञया ॥९९॥ततो विप्राज्ञया तौ द्वावेकासनसमास्थितौ ।नरैर्नारीभिराशीर्भिर्वर्धितौ मुदितौ तदा ॥१००॥मण्डपात्तौ समुत्थाय वह्निवेदीं प्रणम्य च ।निवासस्थानमागत्य संस्रवप्राशनं ततः ॥१०१॥चक्रतुर्विशश्रमतुर्यज्ञश्च पूर्णतां गतः ।निवृत्तं विधिवत् सर्वं कर्म वैवाहिकं ततः ॥१०२॥ब्रह्मणे पूर्णपात्रं च ददौ लोककृतः शिवः ।गोदानं विधिवच्छंभुराचार्याय ददौ ततः ॥१०३॥महादानानि सर्वाणि मंगलादीनि यानि च ।आचार्याय द्विगुणं तत् ददौ श्रीशंकरः स्वयम् ॥१०४॥विप्रेभ्यश्च शतं स्वर्णमुद्राद्यं तु ददौ पृथक् ।रत्नकोटिं बहुभ्यश्च पृथक्द्रव्याणि सन्ददौ ॥१०५॥नृत्यं गानं वाद्यवादा जयशब्दः सुकीर्तयः ।समभवन् शैलराजगृहे मोदप्रवर्धकाः ॥१०६॥विष्णुप्रभृतयस्ततो भोजनार्थं हिमाद्रिणा ।समाहूताः कोटिकोट्यर्बुदाब्जवरपक्षगाः ॥१०७॥संभोजिता बहुभोज्यैस्तर्पिताः क्षीरवारिभिः ।न कश्चित्तद्गृहे प्राणी क्षुधितः शिष्यतेऽधुना ॥१०८॥अथैवं शैलनगरे स्त्रियश्च मुदिता ततः ।वरं वधू समानीय ययुः कुहवरालयम् ॥१०९॥लौकिकाचारमाजह्रुस्ता महादरसंभृताः ।ततस्तास्तौ समानीय वासालयमगुस्ततः ॥११०॥चक्रुर्दिव्यं भवाचारं पूजाचारं व्यधुश्च ताः ।हस्तिरथं समादाय प्रमदाः कृष्णधामजम् ॥१११॥संस्थाप्य दम्पती तत्र जगुर्गीतानि भावतः ।नगरे वाहयामास महाराजपथेऽभितः ॥११२॥नागराश्च नरा नार्यो देशिकाश्च जनाः स्त्रियः ।चक्रुर्दम्पत्यर्हणां ते स्थानिनो वै स्थले स्थले ॥११३॥तदा गुलालं बहुधा सिन्दूरं चापि कृत्स्नशः ।क्षिपतो दम्पती भूमिं रक्तां चक्रे हि नागरीम् ॥११४॥शीघ्रं स्वीयां प्रसृतिं च तौ प्रपूर्य परस्परम् ।प्रक्षिप्य बहु रेमाते जनानन्दो ह्यभून्महान् ॥११५॥एवं समग्रनगरं भ्रामयित्वा रथेन तौ ।सवाद्यगीतनिददैर्जग्मुर्वरालयं तदा ॥११६॥एवं शैलेन्द्रनगरीवनिता मोदनिर्भराः ।निर्वर्त्य मंगलं कर्म प्रापयन् दम्पती गृहम् ॥११७॥कृत्वा जयध्वनिं चक्रुर्ग्रन्थिनिर्मोचनादिकम् ।वासगृहं सम्प्रविश्य प्रशशंसुश्च तौ स्त्रियः ॥११८॥सरस्वती तथा लक्ष्मीः सावित्री जाह्नवी शची ।लोपामुद्राऽरुन्धती चाऽदितिस्तुलसी रोहिणी ॥११९॥शतरूपा रतिः संज्ञा स्वाहाऽहल्या वसुन्धरा ।तौ दम्पती च संद्रष्टुमेता देव्यः समाययुः ॥१२०॥मुनिकन्याः पितृकन्या देवकन्या नृकन्यकाः ।अदेवकन्या नागानां कन्या याश्चान्यकन्यकाः ॥१२१॥नर्ममधुरहास्यं ताश्चक्रुः शंभोस्तदा मुदा ।त्वया फलं नवं मिष्टं प्राप्तं भक्षय मा चिरम् ॥१२२॥मधुरं शीतलं पेयं पिब तृप्तिं प्रदेहि ताम् ।स्थानं वक्षसि दत्वा संभज देवं मनोभवम् ॥१२३॥भक्ष्यं विना क्षुधा नैव शाम्यतीमां प्रभोजय ।स्वर्णहस्ततले विद्युत्केशान् कृत्वाऽभिमार्जय ॥१२४॥पूर्णिमाचन्द्रबिम्बं तत् सूर्यबिम्बेन योजय ।नागवल्लीदलं भुक्त्वा तामालीं सफलां कुरु ॥१२५।आत्मनश्च कृते ह्यात्मा प्रियः समर्थय श्रुतिम् ।आनन्दाख्ये परे तत्त्वे समाधिं कुरु योगतः ॥१२६॥अवग्रहमयीं भूमिं वृष्ट्या तर्पय गुप्तभुक् ।गिरिश्रोणीप्रदेशस्थो मेघः शृंगे स्पृशत्विमे ॥१२७॥संजीवनी भवताप्ता युनक्तु भस्मितं भवम् ।शैलपुत्री त्वया लब्धा मृत्युपुत्री च माऽस्तु ते ॥१२८॥माऽति स्वपिहि निद्रालो गृहलक्ष्मीं निभालय ।माऽतिप्रवर्तयेः स्वार्थे परार्थो मोक्षणे भव ॥१२९।क्षुधां दशगुणां शान्त्वा ततो मोक्षमवाप्नुयात् ।तदा स्ववसरं प्राप्य रतिः प्राह कपर्दिनम् ॥१३०॥येन विनाऽस्म्यहं साध्वी तं विना किं भवेत् तव ।विवाहिताऽद्य वर्तते ते व्यर्था जानासि किं न तत् ॥१३१॥तदत्र रत्याः पार्वत्याः सार्थक्यं कुरु शंकर ।श्रुत्वैतन्मर्मवेत्ता स दयालुः शंकरस्तदा ॥१३२॥रत्या तु रक्षितां कामभस्मपोटलिकां प्रति ।ददर्श यावत्तावत्तु भस्मतो निर्गतः स्मरः ॥१३३॥मूर्तिमान्सर्वदा कामो बभूवाऽमूर्तकोऽपि च ।आज्ञापितः सर्वसृष्टौ स्थातुं देवादिभिस्ततः ॥१३४॥तद्रूपवेषचिह्नात्मा यथापूर्वधनुश्शरः ।अव्याप्नोत् सर्वतः सृष्टौ न कदापि मरिष्यति ॥१३५॥देव्यो नर्म समाप्यैव गालं कृष्ट्वाऽऽगता बहिः ।शंभुर्नैजे वासगेहे त्वंके संस्थाप्य पार्वतीम् ॥१३६॥मिष्टान्नं भोजयामास तं च सापि मुदान्विता ।मेनाद्र्यामन्त्र्य सस्त्रीशो जनावासं ययौ तदा ॥१३७॥वाद्यानि वादयामासुर्जनाः सर्वविधानि च ।अथ शैलो वरपक्षान् नरान् नारीश्च सर्वशः ॥१३८॥भोजयामास दुग्धान्नपक्वान्नादीनि भूरिशः ।ततः स्वपक्षान्सर्वान् भोजयामास च कृत्स्नशः ॥१३९॥अथाऽशयिष्ट शर्वः सः पार्वत्या परिसेवितः ।व्यतीता रजनी सर्वा प्रातःकालो बभूव ह ॥१४०॥नानाप्रकारवाद्यानि वादयांचक्रिरे जनाः ।अथ शंभुः स्वपक्षैश्च कैलासं गन्तुमुत्सुकः ॥१४१॥मेनां शैलं समापृच्छ्य त्वरावानभवत्तदा ।शैलः सबान्धवश्चक्रे प्रार्थनां समयोचिताम् ॥१४२॥कियद्दिनानि सन्तिष्ठ मद्गेहे सफलैः सह ।शंभो कृष्ण महाविष्णो विष्णो ब्रह्मन् सुरेश्वर ॥१४३॥सूर्य चन्द्र सुरा देव्यो पितरो मुनयोऽपरे ।ऋषयो लोकपालाश्च दिक्पाला भुवनेश्वराः ॥१४४॥दर्शनेन च युष्माकं कृतार्थो ह्यभवं खलु ।धन्योऽहं मद्गृहं पुण्यं कुटुम्बं श्रेष्ठतांगतम् ॥१४५॥सर्वे मे पावनं जातं शश्वद् यशोऽभिवृद्धये ।इत्युक्त्वाऽऽदरसत्कारपूर्वं प्रणम्य सांजलिः ॥१४६॥हरं निमन्त्रयामास सह विष्णुसुरादिभिः ।हरेणाऽऽज्ञापिता देवा नत्वा हिमालयं तदा ॥१४७॥मुनयः ऋषयश्चापि प्रत्यूचुः समयंविदः ।भूभृत्! विष्णुसमा कीर्तिस्त्रिषु लोकेषु तेऽधुना ॥१४८॥नहि पुण्यतमश्चान्यस्त्वत्समो वै भविष्यति ।यस्य द्वारि भगवन्त ईश्वरा देवकोट्यः ॥१४९॥अनाहूता अपि शंभोर्विवाहे स्वयमागताः ।जनवासाः कृता रम्या व्यवहारोऽपि सत्कृतः ॥१५०॥सन्मानं वस्तुसामग्र्युपस्थितिर्भोजनानि च ।पेयानि दासदास्यश्च सेवायां नियताश्च याः ॥१५१॥सर्वमपूर्वमवर्ण्यमनवशेषमादृतम् ।परिपूर्णं कृतं शैल त्वया तव च बान्धवैः ॥१५२॥इत्थं शैलस्य पक्षस्य प्रशंसाऽभवदुत्तमा ।स्नानसन्ध्याजपहोमस्वाध्यायतर्पणोत्तरम् ॥१५३॥भोजनार्थं हरं प्रीत्याऽऽनयामास वधूयुतम् ।प्रक्षाल्य चरणौ शंभोस्तथा भगवतामपि ॥१५४॥सर्वेषां जनवाहानां कृत्वा चापि समादरम् ।आसयामास दीर्घेषु मण्डपेषु सुपंक्तिशः ॥१५५॥सुरसैर्विविधान्नैश्च मिष्टैः स्वादुतमैर्बहु ।भक्ष्यभोज्यैर्लेह्यचोष्यैस्तिक्तकैश्च प्रवाहिभिः ॥१५६॥शंकरं तर्पयामास सवधूं च जनाँस्तथा ।लौकिकाचाररीत्या च पुरनार्यश्च भुञ्जतः ॥१५७॥वरपक्षजनवाहान् श्रावयामासुराफटान् ।मृदुवाण्या हसन्त्यश्च गालीवाचो व्यधुर्बहु ॥१५८॥ते भुक्त्वाऽऽचम्य विधिवद् गिरिमामन्त्र्य शांकराः ।ऊषुः सुखतो दिवसे द्वितीये तृतीयके ॥१५९॥चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः ।बभूव विधिवद् येन विना खण्डित उत्सवः ॥१६०॥पञ्चमे दिवसे देवा नगं यात्रार्थमूचिरे ।तदाकर्ण्य गिरिः प्राह कृपां कुर्वन्तु मां सुराः ॥१६१॥कियद्दिनानि तिष्ठन्तु सर्वं युष्माकमेव मे ।इत्युक्त्वा वासयामास बह्वहान्येव चादरात् ॥१६२॥प्रत्यहं भोजनं दिव्यं नूतनं नूतनं सदा ।पानानि नूतनान्येव सेवाः पूर्णतया तथा ॥१६३॥प्रत्यहं नृत्यगीतानि वाद्यानि सोत्सवानि च ।बहुदानानि गानानि प्रत्यहं कारयत्ययम् ॥१६४॥प्रत्यहं मल्लयुद्धं च प्रत्यहं नटनर्तनम् ।प्रत्यहं नाटकं दिव्य यज्ञकार्यं च नित्यदा ॥१६५॥प्रत्यहं चारणीगाथा व्याख्यानानि च नित्यशः ।नारीणां चापि रम्याश्च विलासाः प्रत्यहं तथा ॥१६६॥अभवन्महीमानाना सुखार्थं गिरिकारिताः ।न न्यूनं चाऽभवत् किंचित् काचिद्बाधा न चाऽभवत् ॥१६७॥इत्थं व्यतीयुर्दिवसा बहवो वसतां ततः ।स्वयं निर्णयतो यात्रामर्थयामास शंकरः ॥१६८॥शैलो ऽपि सुप्रसन्नः सन्नाज्ञां ददौ प्रवासने ।सज्जाः सर्वेऽभवन् मेना शिवं प्राह सुकालिकम् ॥१६९॥मम पुत्रीं कृपां कृत्वा सर्वथा पालयिष्यसि ।तव वध्वा लक्षदोषानाशुतोषः क्षमिष्यसे ॥१७०॥धनं चेद्ं चेतनं ते मा व्यत्येयं जडार्थवत् ।तनुवत् सा सदा रक्ष्या न दण्ड्या विगतार्थवत् ॥१७१॥त्वदर्थं मानसा वाचा कर्मणा तपसा बहु ।कष्ट प्राप्तं फल प्राप्तस्त्वं प्राप्तां पाहि किंकरीम् ॥१७२॥यदी मां सा स्मरेत् यद्वा द्रष्टुमिच्छेदिहाऽऽनय ।ममापि सुसुखं स्याच्च युवयोर्दर्शनात्तदा ॥१७३॥समाचारश्च वृत्तान्तो दूतैर्देयो यथामुहुः ।सुखिनौ भवतं स्वस्थौ स्मरिष्यामि सदा युवाम् ॥१७४॥शृणु पुत्रि हितं तेऽत्र वधूभावेऽर्थदं वचः ।पतिव्रता सदा लोके जयं प्राप्य प्रपूज्यते ॥१७५॥पातिव्रत्यसमो धर्मो नास्ति सर्वार्थदः स्त्रियाः ।सेवते सर्वभावेन सर्वथा सर्वदा पतिम् ॥१७६॥सेह भुक्त्वाऽखिलान्भोगानन्ते पत्या शुभां गतिम् ।पावनी सर्वलोकानां पूज्या धन्या विशेषतः ॥१७७॥भुंज्याद् भुक्ते प्रिये पत्यौ तिष्ठेत् पत्यौ च तिष्ठति ।स्वप्यात् स्वपिति पत्यौ च बुध्येद् वै प्रथमं सदा ॥१७८॥सर्वथा तद्धितं कुर्यादकैतवसुवर्तना ।अनलंकृतमात्मानं स्वामिने दर्शयेन्न वै ॥१७९॥कार्यार्थं प्रोषिते पत्यौ भवेच्छृंगारवर्जिता ।आक्रुष्टापि न चाक्रोशेत् प्रसीदेत्ताडितापि च ॥१८०॥ताडयामीति चेद्ब्रूयात् स्वामिन्निति कृपां कुरु ।आहूता गृहकार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ॥१८१॥चिरं तिष्ठेन्न च द्वारे तिष्ठेन्नैव परगृहे ।गृहतत्त्वं तु नान्यस्मै कस्मैचित्त्वपि दर्शयेत् ॥१८२॥पूजोपकरणं सेवामनुक्ताऽपि प्रसाधयेत् ।प्रतीक्षमाणा सेवाया अवसरं च वर्तयेत्॥ १८३॥पत्युर्नाम न गृह्णीयात् गृहच्छिद्रं न दर्शयेत् ।तीर्थयात्रां च पत्याज्ञां विना गच्छेन्न सर्वथा ॥१८४॥पतिं विना समाजादौ न च यायात्कदाचन ।पतिपादोदकं तीर्थं सर्वतीर्थोत्तमं मतम् ॥१८५॥भुंज्यात् पतिप्रसादान्नं मत्वा महाप्रसादनम् ।अविभज्य च नाश्नीयाद् देवपित्रतिथिष्वपि ॥१८६॥परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ।संयतोपस्करा दक्षा हृष्टा व्ययपराङमुखी ॥१८७॥पत्याज्ञया व्रतं कुर्यादन्यथा निष्फलं भवेत् ।सुखपूर्वं सुखासीनं रममाणं यदृच्छया ॥१८८॥आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत् क्वचित् ।सुप्ते पत्यौ न वै निद्राभंगं कुर्यात् कदाचन ॥१८९॥क्लीबं वा दुरवस्थं वा व्याधितं वृद्धमित्यपि ।निर्धनं दुःखितं वापि पतिमेकं न लंघयेत् ॥१९०॥स्त्रीधर्मिणी त्रिरात्रं स्वमुखं नैव प्रदर्शयेत् ।स्ववाक्यं श्रावयेन्नापि यावत् स्नानान्न शुद्ध्यति ॥१९१॥स्नात्वा स्वपतिवदनमीक्षेतान्यस्य नैव हि ।पत्यौ दूरे तु तं स्मृत्वा सूर्यदर्शनमाचरेत् ॥१९२।सौभाग्योपकरणानि हरिद्रां कुंकुमं तथा ।सिन्दूरं कज्जलं चाऽलक्तकं तैलं सुगन्धिमत् ॥१९३॥कूपासिकं च ताम्बूलं तथा मंगलसूत्रकम् ।तन्तिकां नत्थिकां कण्ठीं कर्णफुल्लीमिरीणिकान् ॥१९४॥कटकं वंगिडी चैवोर्मिकां च रशनां तथा ।शृंखलां झांझरीं केशसंस्कारकबरीं तथा ॥१९५॥दत्यूहं दूरयेन्नैव भर्त्रायुष्येच्छुकी वधूः ।न घर्मनाशयित्र्या वाऽटन्त्या मैत्रीं समाचरेत् ॥१९६॥पतिनिन्दां न शृणुयात् स्नायान्नग्ना नहि क्वचित् ।विना व्यवायसमयं नैर्लज्ज्यं नाऽऽचरेत् क्वचित् ॥१९७॥नोलूखले न वर्धन्यां प्रस्तरे मूशले न च ।न पेषण्यां न मार्जन्यां देहल्यामासनं क्रियात् ॥१९८॥प्रेमवत्या तत्र भाव्यं यत्र भर्तूरुचिर्भवेत् ।हृष्टे हृष्टे विषण्णे च विषण्णा च प्रिये प्रिया ॥१९९॥पत्युर्हिता चैकरूपा सम्पत्सु च विपत्सु च ।सधैर्या विकृतिं नेयात् प्रसन्नास्या सदा भवेत् ॥२००॥तैलगूडाद्यसत्त्वेऽपि पतिं दुःखे न योजयेत् ।पत्युर्भोजनकाले स्वोद्वेगं नैव प्रकाशयेत् ॥२०१॥विधेर्विष्णोर्हराद्वापि पतिर्नारायणोऽधिकः ।उक्ता प्रत्युत्तरं दद्याद् विनयेन न रोषतः ॥२०२॥उच्चासनं न सेवेत न चोद्वेगकरं वदेत् ।अपवादं न वै ब्रूयान्न कुर्यात्कलहं क्वचित् ॥२०३॥गुरूणां सन्निधौ हास्यं न कुर्यान्नोच्चमावदेत् ।बाह्यादायान्तमालोक्योत्थातव्यं सस्मितं तथा ॥२०४॥जलान्नताम्बूलवस्त्रासनपादांगमर्दनैः ।श्रमखेदहरैर्वाक्यैः प्रीणनीयः पतिः सदा ॥२०५॥ददाति पिता स्वल्पं च भ्राता स्वल्पं सुतस्तथा ।अनल्पस्य प्रदातारं स्वामिनं संप्रसन्नयेत् ॥२०६॥भर्ता देवो गुरुर्भर्ता उभलोकप्रदः पतिः ।धर्मस्तीर्थं व्रतं भर्ता पत्न्याः सर्वं पतिर्मतः ॥२०७॥पतिं विना शवतुल्या ह्यशुचिः प्रमदा मता ।माता पिता पतिर्धन्या यद्गेहेऽस्ति पतिव्रता ॥२०८॥पितुर्मातुश्च पत्युश्च दिवं वंश्यास्त्रयस्त्रयः ।यान्ति पतिव्रतापुण्यादन्यथा पातयन्ति तान् ॥२०९॥पतिव्रतापादरजः पावनं साधुपादवत् ।पूयन्ते पादरजसा सूर्यचन्द्रानिलानलाः ॥२१०॥जलान्यपि च पूयन्ते सा गंगातोऽधिका मता ।पतिव्रतावलोकात्तु साधुदर्शनजं फलम् ॥२११॥पत्युस्तिरस्करी नारी शृगाली सरमा भवेत् ।भर्तुस्त्यागकरी नारी उलुकी वृक्षगा भवेत् ॥२१२॥भवेद्भर्तुस्ताडयित्री व्याघ्री च वृषदंशिका ।नेत्ररोषं दर्शयित्री केकराक्षी तु सा भवेत् ॥२१३॥पतिं विना मिष्टभोक्त्री वल्गुर्वा शुकरी भवेत् ।पतिं तूँकृत्यब्रूवा सा मूका संजायते जनेः ॥२१४॥सपत्नीं चेर्ष्यति या सा दुर्भगा रोगिणी भवेत् ।कामतोऽभर्तृपश्या सा भवेत् काणा कुरूपिणी ॥२१५॥गार्हस्थ्यस्य सुखस्याथ धर्मस्य मूलमेव सा ।देवपित्रतिथीज्यादिकर्ममूलं पतिव्रता ॥२१६॥सन्ति गृहे गृहे नार्यो रूपलावण्यगर्विताः ।ग्रसन्ते पुरुषान् दुःखे क्षिप्त्वा राक्षस्य एव ताः ॥२१७॥पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धतीशाण्डिल्या शतरूपाऽनसूया लक्ष्मीः स्वधा सती ॥२१८॥संज्ञा च सुमतिः श्रद्धा मेना स्वाहा पतिव्रता ।पातिव्रत्यवृषेणैव ता गताः सर्वपूज्यताम् ॥२१९॥श्रेष्ठा मध्या कनिष्ठाऽतिकनिष्ठास्ताश्चतुर्विधाः ।त्र्यवस्थासु भर्तृपरा श्रेष्ठा नान्यपरा क्वचित् ॥२२०॥स्वप्ने देहेन चान्यं न स्पृशति मध्यमा च सा ।जाग्रत्यन्यं शरीरेण न स्पृशति कनिष्ठिका ॥२२१॥यं कमपि स्पृशत्यन्यं व्यभिचारं करोति न ।पत्युर्भयाल्लोकभयात् साऽतिकन्ष्ठिका मता ॥२२२॥परप्रसंगकर्त्री या सा प्रोक्ता व्यभिचारिणी ।जगदम्बा महेशी त्वं शिवः साक्षात्पतिस्तव ॥२२३॥तव स्मरणतो नार्यो भविष्यन्ति पतिव्रताः ।किं त्वग्रे कथनेन कथितं लोकचारतः ॥२२४॥इत्येवं च समादिश्य प्रिये पुत्रि प्रगच्छसि! ।आगन्तव्यं योग्यकाले इतिकृत्वाऽऽश्लिषत् सुताम् ॥२२५॥किंचिदाचाररक्षार्थं सा रुरोद मनाक् ततः ।शिवापि जननीस्नेहाद् रुरोद गद्गदा सती ॥२२६॥तदा सर्वं कुटुम्बं च रुरोद प्रेमविह्वलम् ।उभयोः पक्षयोश्चापि स्नेहबद्धहृदादिभिः ॥२२७॥नरा नार्यः सुरा देव्यः पर्यश्चाप्सरसस्तथा ।साश्रुनेत्राः समभवन् प्रयाणसमये जनाः ॥२२८॥अथाऽऽनयामास शैलः शिबिकां पार्वतीकृते ।शिवामारोहयामासुस्तत्र विप्रांगनाश्च ताम् ॥२२९॥आशिषं प्रददुः सर्वे पिता माता द्विजादयः ।महाराज्ञ्युपचाराँश्च ददू रत्नादि यौतकम् ॥२३०॥शिवा नत्वा गुरून्सर्वान् जनकं जननीं तथा ।द्विजान्पुरोहितं नत्वा यामीत्युक्त्वा ययौ ततः ॥२३१॥हिमाचलादयः शंभुं गत्वाऽभिरेभिरे च ते ।सुमण्डपजनाः सर्वे जनवाहजनास्तथा ॥२३२॥परस्परं समाश्लिष्य नत्वाऽभिरेभिरे मुहुः ।जयेत्युच्चारयन्तस्ते जग्मुः स्वां स्वां पुरीं प्रति ॥२३३॥नार्यश्च दम्पती यात्रां कारयित्वा गृहं ययुः ।शिवपक्षास्तथा चान्ये यात्रां प्रचक्रिरे ततः ॥२३४॥यात्रापयितुं शैलस्तान् सीमान्तं सह तैर्ययौ ।प्रशंसन्तो विवाहं च सर्वे स्वस्वगृहं ययुः ॥२३५॥हिमालयमहीमानाश्चामन्त्र्याऽत्त्वा गृहं ययुः ।शिवः सर्वसहितः स्वपुरीं प्राप्तो जनाँस्तदा ॥२३६॥भोजयामास च कृष्णनारायणपुरोगमान् ।तथाऽन्यान्निखिलान् प्रीत्या स्वविवाहसमागतान् ॥२३७॥योग्यां पूजां प्रदत्वा प्रसादयामास शंकरः ।तेऽप्यामन्त्र्य च प्रययुः स्वस्थलोकान् सुरादयः ॥२३८॥ब्रह्मब्राह्म्योश्च दिव्योऽयं विवाहः कथितः प्रिये ।पठनाच्छ्रवणाच्चायं पापघ्नः स्वेष्टपूरकः ॥२३९॥आयुष्यो धनदो मुक्तिप्रदो भुक्तिप्रदोऽपि च ।विध्नव्याधिप्रशमनः सर्वथा मंगलायनः ॥२४०॥सुयशस्यः स्वर्ग्योऽपत्यवंशदः कामदः परः ।शिवोत्सवेषु सर्वत्र पठनीयो विशेषतः ॥२४१॥इत्येवं कथितं लक्ष्मि! चरितं लग्नमंगलम् ।वैवाहिकं च सर्वेषां गृहस्थानां हिताय वै ॥२४२॥कन्यानां च कुमाराणां पक्षयोश्चोभयोरपि ।शिक्षाऽर्हं सर्वथा शोकनाशनं सुखदं महत् ॥२४३॥विवाहे च तव लक्ष्मि! एवमेवाऽभवत्पुरा ।वद चेत्ते समुत्साहः किमन्यच्छ्रोतुमिच्छसि ॥२४४॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कुलदेवीपूजनं, पार्वत्या यज्ञोपवीतं, शिवप्रेषिताऽऽभरणादीनि, मण्डपादावागमनं, मधुपर्कादि, नामगोत्रादि,पाणिग्रहणविधिः, दानं, वह्निप्रदक्षिणं, ब्रह्णणोऽन्ये वालखिल्या उत्पन्नाः, वेदिकाचारोलोकाचारः, व्यंग्यादि, रतिप्रार्थनया कामसजीवनता, भोज्यसत्कारादि, पतिव्रताधर्माः, दम्पती-प्रभृतीनां कैलासाभिगमनं चेत्यादिनिरूपणनामा चतुर्नवत्यधिकशततमोऽध्यायः ॥१९४॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP