संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २३५

कृतयुगसन्तानः - अध्यायः २३५

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
हरे कथय षड्विंशत्येकादशीव्रतानि मे ।
कथं कार्याणि विधिना पूजनीयं च यद्यथा ॥१॥
कानि नामानि पतयः फलं कर्म विधिस्तथा ।
एकादशीनां सर्वासां पृथक्त्वेनोपवर्णय ॥२॥
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां तासां पावनीं मोक्षदां तथा ।
मम योगवतीं दिव्यां वैकुण्ठादिप्रदायिनीम् ॥३॥
उन्मीलनीं तथा पक्षवर्धिनीं चापि मे शृणु ।
जागरणफलं चापि मनो दत्वा निबोध मे ॥४॥
एकादशी ह्यहोरात्रं प्रभाते घटिका भवेत् ।
उन्मीलनी तु सा बोध्या हरेश्चातिप्रियाऽस्ति सा ॥५॥
त्रैलोक्ये यानि तीर्थानि यानि पुण्यस्थलानि च ।
तपो वेदा मखास्त्रैते कोट्यंशेनापि तानि वै ॥६॥
उन्मीलनीप्रतुल्यानि भवन्त्येव न वै क्वचित् ।
उन्मीलनीसमं किञ्चिन्न भूतं न भविष्यति ॥७॥
न काशी न गया नैव प्रयागः कुरुभूमिका ।
पुष्करं न सरो नारायणं नो हिमवान् गिरिः ॥८॥
रैवतो न च विन्ध्याद्रिर्मलयो मेरुरप्यथ ।
कुंकुमवापी नैमिषं कालक्षेत्रं वनं न वा ॥९॥
चन्द्रभागा न कावेरी सरयूश्च न गोमती ।
गोदावरी नर्मदा न स्वर्णलेखा न वेदिका ॥१०॥
न तापी नापि वै भद्रा न च सिन्धुर्न चन्दना ।
शत्रुंजिता न चोजस्वती विपाशा न गण्डकी ॥११॥
न शोणो नो तुंगभद्रा तथा नापि सरस्वती ।
अन्यान्यपि च तीर्थानि नोन्मीलनीसमानि वै ॥१२॥
नोन्मीलनीसमं पुण्यं न देवः श्रीहरेः परः ।
उन्मीलनीदिनं प्राप्य यैः कृतं हरिपूजनम् ॥१२॥
पापपुञ्जं विधूयैव यान्ति ते धाम चाक्षरम् ।
यन्मासे स्यादुन्मीलन्येकादशी तु शुभा तिथिः ॥१४॥
मासनाम्ना स्वर्णमयो हरिः कार्यस्तमर्चयेत् ।
श्रद्धया परया भक्त्या बहुभिः सूपचारकैः ॥१५॥
पवित्रजलसंयुक्तं पञ्चरत्नसमन्वितम् ।
गन्धपुष्पाक्षतैर्युक्तं कुंभं स्रग्वस्त्रभूषितम् ॥१६॥
नारीकेलादिफलकं स्थापयेन्मध्यमण्डले ।
सर्वतोभद्रसंज्ञेऽत्र मूर्तिं संस्थाप्य पूजयेत् ॥१७॥
पात्रं गोधूमपूर्णं च नानारत्नसमन्वितम् ।
नानागन्धसमायुक्तं मल्लिकामोदवासितम् ॥१८॥
जातीकुसुमसंयुक्तं स्थापयेद्वटसन्निधौ ।
श्वेताक्षैस्तण्डुलैश्चैव पूरितं पात्रमित्यपि ॥१९॥
स्थापयेत्तु घटपार्श्वे पूजयेच्च हरिं मुहुः ।
प्रदद्याद्वस्त्रयुग्मं च सोत्तरीयोपवीतकम् ॥२०॥
उपानहौ चातपत्रं स्थालीं जलकमण्डलुम् ।
सप्तधान्यप्रपात्राणि तिलान् दद्याच्च भूरिशः ॥२१॥
रूप्यं स्वर्णं प्रदद्याच्च कार्पासं पायसं तथा ।
मुद्रिका ऊर्मिकाश्चैव धेनूर्दद्याच्च शोभना ॥२२॥
अलंकारान् प्रदद्याच्च पात्राणि विविधानि च ।
स्वर्णशृगीं रौप्यखुरीं ताम्रपृष्ठीं सझुल्लिकाम् ॥२३॥
कांस्यदोहां रत्नपुच्छां गां दद्याद् गुरवे तदा ।
शय्यां दद्यात् सपर्यंकां गेन्दुकोपस्करान्विताम् ॥२४॥
धूपं दीपं च नैवेद्यं फलं पत्रादि चार्पयेत् ।
तुलसीपत्रकमलपुष्पाणि विविधानि च ॥२५॥
पूजायां हरये दद्याद् दक्षिणा विविधास्ततः ।
चिन्तयेच्छ्रीहरेर्मूर्ति प्रत्यंगं च विशेषतः ॥२६॥
मासनाम्ना तु चरणौ विष्णुनाम्ना च जानुनी ।
श्रीशनाम्ना प्रगुह्यं च कृष्णनाम्ना कटिं स्मरेत् ॥२७॥
ब्रह्मनाम्ना स्मरेन्नाभिमुदरं विश्वपाख्यया ।
हृद् वै ज्ञात्राख्यया कण्ठं वैकुण्ठवासिवाचिना ॥२८॥
ललाटं गुरुनाम्ना च परेण ब्रह्मणा शिरः ।
सर्वांगानि तथाऽन्तर्यामिनाम्ना संस्मरेद् बुधः ॥२९॥
आयुधानि विभूषाश्च वस्त्रालंकरणानि च ।
ध्यानं कृत्वा पूजयेद् वै भक्त्याऽर्घ्यादीनि चार्पयेत् ॥३०॥
शंखोपरि फलं कृत्वा गन्धपुष्पाक्षतान्वितम् ।
सूत्रेण वेष्टनं कृत्वा दद्यादर्घ्यं च भावतः ॥३१॥
एवं वै षोडशवस्तुप्रवर्यैः पूजयेद्धरिम् ।
प्रार्थयेच्च हरिं नत्वा समुद्धर महार्णवात् ॥३२॥
समुद्धाराय किञ्चिद्वै कृतं नो सुकृतं मया ।
तथापि त्वं मम स्वामी समुद्धर महार्णवात् ॥३३॥
उन्मिलिन्या व्रतेनात्र पूर्वजान्मे समुद्धर ।
वियोनिं च गतान्पापान् विमृत्यं गमिताँस्तथा ॥३४॥
अतीतान् भाविनश्चान्यान् समुद्धर महार्णवात् ।
प्रेतान्सर्वान्महामुक्तिं देहि श्रीकृष्ण माधव ॥३५॥
आर्तस्य मम मूर्तौ ते भक्तिं देहि च शाश्वतीम् ।
एवं धूपैस्तथा दीपैर्नैवेद्यैर्जलभोजनैः ॥३६॥
स्तोत्रैर्नीराजनैर्नृत्यैः श्रीहरिं सम्प्रतोषयेत् ।
वस्त्रदानैश्च गोदानैर्भोजनैः सेवनैस्तथा ॥३७॥
गुरुं सन्तोषयेद् भक्तो यथा सन्तोषमाप्नुयात् ।
तथा तथा विधातव्यं गुरौ तुष्टे फलं महत् ॥३८॥
लोकानां तारणार्थाय धात्रा सृष्टो गुरुर्यतः ।
अतः सर्वस्वसेवाद्यैर्गुरुं सन्तोषयेत् सदा ॥३९॥
गुरोः पूजा प्रकर्तव्या मोक्षदोऽस्ति गुरुर्हरिः ।
अहितं मोचयेद् यो वै सुहितं दर्शयेत् सदा ॥४०॥
ज्ञानदानेन चाऽज्ञानं नाशयेत् सुखदो भवेत् ।
अनादिबन्धनं छिन्द्यात् शाश्वतं सुखमर्पयेत् ॥४१॥
धर्मार्थकोविदं तं वै गुरुं हरिं सदाऽऽश्रयेत् ।
सेवयेत् सर्वदा भक्त्या वित्तशाठ्यं न चाचरेत् ॥४२॥
गुरोः प्रसादः प्राप्तव्यः परिपूर्णं व्रतं भवेत् ।
द्वादश्यां च कृतस्नानो भक्तो हरिं प्रपूजयेत् ॥४३॥
गुरुं च भोजयेत् पश्चाद् बहून् विप्राँश्च भोजयेत् ।
साधून् साध्वीर्भोजयित्वा पारणां स्वः समाचरेत् ॥४४॥
कृष्णकथानकैः कालो नेतव्यो व्रतकारिणा ।
दानं ज्ञानस्य दानं वै नान्यत् तत्तुल्यमस्ति हि ॥४५॥
प्रदातव्यं सदा ज्ञानं नित्यं शास्त्रकथादिभिः ।
विष्णुर्ज्ञाने प्रदातव्यो दाता मोक्षमवाप्नुयात् ॥४६॥
एवं यः कुरुते चोन्मीलन्यैकादशिकाव्रतम् ।
अनन्तकल्पकालं स वैकुण्ठे वसति ध्रुवम् ॥४७॥
वैष्णवं व्रतमेवैतल्लक्ष्मि तुभ्यं प्रकीर्तितम् ।
यच्छ्रुत्वा पापिनः सर्वे मुक्तिमायान्ति तत्क्षणात् ॥४८॥
उन्मीलनीव्रतकर्ता स्वर्गे लोके महीयते ।
देवाश्च पितरश्चैव दिव्यां गतिमवाप्नुयुः ॥४९॥
विद्यार्थी लभते विद्यां सर्वस्मृद्धिकरां शुभाम् ।
एकादश्या व्रतं विष्णोः पूजनं वैष्णवार्चनम् ॥५०॥
साधुसाध्वीसुसेवा च दुर्लभं तच्चतुष्टयम् ॥
एतस्याः श्रवणान्मुच्येदाजन्ममृत्युबन्धनात् ॥५१॥
विष्णुश्च वैष्णवाश्चैव नाऽपकार्याः कदाचन ।
पूजयित्वा भोजयित्वा ततो भोजनमाचरेत्॥ ॥५२॥
शालग्रामः समभ्यर्च्यो वैष्णवोऽपि विशेषतः ।
धूपमारार्त्रिकं शखोदकं दद्याच्च विष्णवे ॥५३॥
नैवेद्यं विष्णवे दद्याद् वैष्णवेभ्यस्ततोऽपि च ।
ह्येकादशीव्रतकर्ता ततो भोजनमाचरेत् ॥५४॥
दीपं दद्यात्तथा गीतं नित्यं कुर्याच्च वन्दनम् ।
श्यामांऽकुरैः पूजनं च कुर्यात्प्रेमपरिप्लुतः ॥५५॥
पृष्वीदानसमं पुण्यं दूर्वया पूजने कृते ।
श्यामांकुरैश्च दूर्वायाः पूजनं चातिवल्लभम् ॥५६॥
नास्ति लोकेऽत्र दूर्वाया अंकुरैः सदृशं शुभम् ।
तैश्च संपूजनं कार्यं विष्णुसायुज्यमिच्छता ॥५७॥
दूर्वाभिश्च यवैश्चाऽप्यक्षतैः सम्पूजयेद्धरिम् ।
पक्षे पक्षे च विधिवद् द्वादश्यां पूजनं प्रगे ॥५८॥
मोक्षदं सुखदं चैव तथाऽऽयुष्यप्रदं शुभम् ।
एतद्विष्णुव्रतं प्रोक्तं वैष्णवानां समृद्धिदम् ॥५९॥
गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम् ।
सर्वरोगादिशमनं देहत्रयविशोधनम् ॥६०॥
दशमीवेधरहितं महत्तून्मीलनीव्रतम् ।
सजागरं प्रकर्तव्यं भुक्तिमुक्तिप्रदं परम् ॥६१॥
तुलसीपत्रलक्षैश्च पूजयेत्परमेश्वरम् ।
गोपीचन्दनचन्द्रं च तिलकं पुण्ड्रमूर्ध्वगम् ॥६२॥
धारयेत्पूजनार्थाय दर्शनान्मोक्षदं हि तत् ।
अस्त्रं च वैष्णवं वर्म धारयेद् दुःखनाशकम् ॥६३॥
ब्रह्महा हेमहारी च मद्यपो मांसभक्षकः ।
अगम्यागो महापापो निन्दाऽनृतप्रभाषकः ॥६४॥
ते पापान्मुक्तिमायान्ति तूर्ध्वपुंड्रस्य धारणात् ।
कण्ठे धात्रीफलमालां तुलसीमालिकां तथा ॥६५॥
धारयेद् वैष्णवो भक्तो पूजादीक्षांगरूपिणीम् ।
चक्रशिलां द्वारकाया गण्डक्या विष्णुमित्यपि ॥६६॥
तुलस्या पूजयेन्नित्यं भुक्तिमुक्तिफलं भवेत् ।
सवेधो वासरो विष्णोर्नोपोषितव्य एव वै ॥६७॥
सवेधो वासरो यस्य राज्ञो राज्ये प्रवर्तते ।
राजा च लिप्यते तेन पापेन नारकी भवेत् ॥६८॥
वेधं सर्वविधं त्यक्त्वा समुपोष्य हरेर्दिनम् ।
कुलकोटिसमुद्धारो विष्णुधामगतिर्भवेत् ॥६९॥
पञ्चपञ्चाशद्धटिका दशम्युदयतोऽस्ति चेत् ।
परदिनैकादशी सा विद्धैकादशिकोच्यते ॥७०॥
एकादशी त्वहोरात्रं दशमीघटिकाऽपि चेत् ।
सा तिथिर्न ह्युपोष्या वै द्वादशीव्रतमिष्यते ॥७१॥
एकादशीद्वये प्राप्ते परोपोष्या न पूर्वजा ।
द्वादशीद्वितये प्राप्ते पूर्वोपोष्या तु द्वादशी ॥७२॥
एकादश्याः क्षये प्राप्ते ह्युपोष्या द्वादशी व्रते ।
दशम्याश्च क्षये प्राप्ते ह्युपोष्या द्वादशी व्रते ॥७३॥
दशमी युगले प्राप्ते ह्युपोष्यैकादशी तदा ।
द्वादश्याश्च क्षये प्राप्ते ह्युपोष्यैकादशी भवेत् ॥७४॥
इति ज्ञात्वा व्रतं कुर्यात् हरिर्याति प्रसन्नताम् ।
व्रतकर्ता हरेर्धाम याति श्रीहरिवाञ्छया ॥७५॥
द्वादश्यां च प्रभाते याऽरुणोदयोत्तरं भवेत् ।
एकाटशी घटिकाऽपि दिनोन्मीलनकालिनी ॥७६॥
मनुष्याणां तथोन्मीलनार्थप्रबोधकालिनी ।
तस्मात्तस्या उन्मीलनी नाम प्रोक्तं मया प्रिये ॥७७॥
उत् ऊर्ध्वं ब्रह्मवैकुण्ठं परं धामाऽक्षरं तथा ।
गोलोकं मेलयेत् सोन्मीलनी संकथिता मया ॥७८॥
उत् ऊर्ध्वं वै परंब्रह्म कृष्णं नारायणं हरिम् ।
मेलयेद्या व्रताचारात् सोन्मीलनी समुच्यते ॥७९॥
अज्ञानं पापरूपं च भयं मृत्युं विदार्य या ।
ऊर्ध्वं लोकं प्रकाशं च मेलयेत् सार्थका हि सा ॥८०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने उन्मीलनीनामैकादशीव्रतपूजादिनिरूपणनामा पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥२३५॥

N/A

References : N/A
Last Updated : March 28, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP