संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १८६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १८६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८६ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि महादेवो कामं दग्ध्वा स्वमालयम् ।कैलासमगमत्पश्चात्पार्वती खिन्नमानसा ॥१॥पितुर्गृहे ततो गत्वा मिलित्वा मातरं स्वयम्।पुनर्जातं तदा मेने स्वात्मानं विकला भृशम् ॥२॥निनिन्द च स्वरूपं सा लेभे शर्म न कुत्रचित् ।स्वापे पाने क्रमे स्नाने याने विहरणे शिवा ॥३॥गमने च सखीमध्ये न किंचित्सुखमाप वै ।धिक्स्वरूपं मदीय च तथा जन्म च कर्म च ॥४॥शुशोचाति शिवा नित्यं मुमोह च मुहुर्मुहुः ।सुखं न लेभे किंचिद्वाऽब्रवीच्छिवशिवेति च ॥५॥अथापि जातनैष्फल्ये महेन्द्रेण तु नारदः ।स्मारितो देवकार्यार्थं जगामेन्द्रं तदा च सः ॥६॥प्रेषयामास शैलेन्द्रं नारदं देवराट् तदा ।नारदश्चागतः शैलं जग्राह पूजनादिकम् ॥७॥शुश्राव कामदहनं पार्वतीदुःखमित्यपि ।श्रुप्वोवाच तदा कालीं नारदो दुःखभंजनः ॥८॥शृणु कालि सेवितः सः त्वयेह तपसा विना ।विरक्तश्च स ते स्वामी स्मरं दग्ध्वा विसृष्टवान् ॥९॥त्वामतः सुतपोयुत्ता चिरमाराधयेश्वरम् ।सोपि तपति सत्यर्थे द्वयोर्योगो भविष्यति ॥१०॥न सिद्ध्यति क्रिया कापि सद्गुरोर्हि कृपां विना ।'शिवाय नम इति मन्त्रं ददामि जप सर्वदा ॥११॥श्रवणात् मन्त्रराजस्य शंकरः सुप्रसीदति ।अनेनाराधितः शंभुः प्रत्यक्षः संभविष्यति ॥१२॥चिन्तयमाना तद्रूपं जप मन्त्रं तपः कुरु ।तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ॥१३॥एवमाज्ञाप्य देवर्षिर्निर्जगाम स्थलान्तरम् ।सती सख्यौ समादाय जयां च विजयां तथा ॥१४॥अप्रच्छयत् सखीभ्यां सा मातरं पितरं तदा ।हिमाद्रे! तव पुत्रीयं देहस्य च कुलस्य च ॥१५॥तपःसाध्यं हरं प्राप्य साफल्यं कर्तुमिच्छति ।देवाऽऽज्ञा गिरिजा गत्वा वनं करोतु सत्तपः ॥१६॥शैलः प्राह रोचते मे मेनाया रोचतां पुनः ।गत्वाऽथ मेनकां नत्वोचतुर्देवि! नमोऽस्तु ते ॥१७॥शिवार्थं तप्तकामेयं प्राप्ताऽनुज्ञा पितुस्ततः ।त्वदाज्ञा यदि लभ्येत मातस्ते परिपृच्छति ॥१८॥नांगीचकार मेना सा किं त्वभूत् खिन्नमानसा ।ततः प्राह करौ बध्वा पार्वती स्वीयमातरम् ॥१९॥दुर्भगेन शरीरेण को लाभो मे पतिं विना ।कथं लभ्येत शंभुः सः सुखदो मे पतिः सदा ॥२०॥तपोभिः प्राप्यतेऽभीष्टं नाऽसाध्यं तु तपस्यतः ।दुर्भगत्वं वृथा लोको वहते सति साधने ॥२१॥मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् ।अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् ॥२२॥मेना प्राह शिवे पूर्वतपसाऽऽप्तवती च किम् ।प्रत्युत दुःखिता भूत्वा लब्धं जन्मात्र मद्गृहे ॥२३॥तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति! ।सर्वे देवाश्च तीर्थानि वसन्त्यस्मद्गृहे सदा ॥२४॥कर्तव्यो न हठः पुत्रि गन्तव्यं न बहिः क्वचित् ।शरीरं कोमलं तेऽस्ति तपस्तु कठिनं महत् ॥२५॥मा गन्तव्यं मम पुत्रि स्त्रीणां तदुचितं नहि ।इति मात्रा निषिद्धा सा उमानाम्नाऽभवत्ततः ॥२६॥साधयामि पतिं शंभुं पातयामि तु वर्ष्म वा ।देह्याज्ञां तपसे मह्यं नो चेन्नास्तीह पार्वती ॥२७॥इत्याग्रहं परं दृष्ट्वा निदेशं सा ददौ ततः ।मातरं पितरं नत्वा सखीभ्यां सह निर्ययौ ॥२८॥हित्वा भोग्यानि सर्वाणि वस्त्राणि विविधानि च ।धृत्वा च वल्कलान्याशु मौंजी बध्वा च मेखलाम् ॥२९॥हित्वा हारं तथा चर्म धृत्वा मृगस्य शोभनम् ।शैलजा प्रययौ प्रस्थं गंगावतरणं प्रति ॥३०॥यत्र स्थित्वा पुरा शंभुः सत्यर्थे तप्तवाँस्तपः ।हरशून्यं च तं प्रस्थं विलोक्य हिमभूभृतः ॥३१॥हा हरेति क्षणं तत्र स्मृत्वाऽभूत् शोकसंप्लुता ।गौरीशिखरमेवैतत् शिखरं ख्यातिमाप्तवत् ॥३२॥पुण्यं गंगावतरणं नानाधातुविभूषितम् ।दिव्यपुष्पलताव्याप्तं द्विरेफस्वनितद्रुमम् ॥३३॥शीतनिर्झरणं दिव्यं पशुपक्षिसमाश्रितम् ।जलजस्थलजाब्जैस्तत् प्रफुल्लितैः सुगन्धितम् ॥३४॥गभीरकन्दरागर्भं दिव्यवासाऽऽलयान्वितम् ।कल्पद्रुमलतावल्लीतृणशाखिहरित्प्रभम् ॥३५॥सर्वर्तुपुष्पकलिकाफलकिंजल्कसमृद्धम् ।नियमायाऽभवत् तत्र दीक्षिता पार्वती सती ॥३६॥तया श्रेष्ठा द्रुमास्तत्राऽऽरोपिता वर्धिता जलैः ।भुवं संस्कृत्य वेदीं च स्वयं निर्माय पार्वती ॥३७॥त्रिःस्नाता प्रारभत् शुष्कपत्राहारा महत्तपः ।निगृह्य मनसा सर्वाणीन्द्रियाणि सहाऽऽन्तरे ॥३८॥संस्थिता वृत्तिमाकृष्य स्वात्मन्येव शिवात्मनि ।ग्रीष्मे च परितो वह्निं प्रज्वलन्तं दिवानिशम् ॥३९॥कृत्वा तस्थौ च तन्मध्ये पंचाग्निमतपत्तपः ।पंचाक्षरं सदा मन्त्रं जपमानाऽन्तरे हरम् ॥४०॥वर्षासु वृष्टिधारायां शिलासु सुस्थिरासना ।शीते शश्वज्जलमध्ये तस्थौ शिवाग्नितत्परा ॥४१॥झंझावातातितापेषु नीहारेषु निशासु च ।दध्यौ तपः प्रकुर्वाणा शिवं भाविपतिं हृदि ॥४२।प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः ।तृतीयं चैकपर्णेन सहस्रं यापितं तया ॥४३॥ततः पर्णान्यपि त्यक्त्वा अपर्णा तपसि स्थिता ।एकपादस्थिता वाय्वाहारा संस्मृत्य शंकरम् ॥४४॥त्रीणि वर्षसहस्राणि जग्मुः काल्यास्तपोवने ।षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः ॥४५॥दुःखं च त्रिविधं सत्या गणितं नाऽगतं गतम् ।हरस्थले क्षणं स्थित्वा चिन्तयामास सा सती ॥४६॥नियमस्था महादेव कि मां जानासि नाऽघुना ।यदि सर्वस्वानुरक्ता तर्हि प्रसीद मे पते! ॥४७॥यदि भक्त्या कृतो मन्त्रस्तर्हि प्रसीद मे पते ।यदि तवाऽस्मि जानासि तर्हि प्रसीद मे पते ॥४८॥यदि ग्राह्यास्मि ते नाथ तर्हि प्रसीद् मे पते ।प्रत्यहं चेति संप्रार्थ्य तिष्ठति तपसे सती ॥४९॥पार्वतीतपसस्तत्र प्रभावेण निसर्गजाः ।विरोधिनः प्राणिनोऽपि नाऽबाधन्त परस्परम् ॥५०॥वृक्षाश्च सकलास्तत्र तृणानि शाद्वलानि च ।पुष्पाणि च विचित्राणि पत्राणि कोमलानि च ॥५१॥सदाऽजायन्त इत्येवं वनं कैलाससन्निभम् ।जातं तस्यास्तपोयोगात् सिद्धिरूपं सदाऽभवत् ॥५२॥एवं तपन्त्यां पार्वत्यां वर्षपंचसहस्रकम् ।व्यतीयाय तदा शैलः समागत्य जगाद ताम् ॥५३॥येन भस्मीकृतः कामो विहाय त्वां सुसेविकाम् ।गतः क्रुद्धो हरः पुत्रि नागमिष्यति निर्गुणः ॥५४॥वृथा मोहं गता पुत्रि त्वां न प्रार्थयति प्रभुः ।तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं पार्वति द्रुतम् ॥५५॥एवमेव कथिता सा मेनया मेरुणा तथा ।सह्येन मन्दरेणापि मैनाकक्रौंचभूधरैः ॥५६॥भ्रातृभिः स्वसृभिश्चान्यैस्तथापि नाऽत्यजत्तपः ।साधयामि हरं यद्वा पातयामि निजं वपुः ॥५७॥एकाऽस्त्येव प्रतिज्ञा मे कथं नायास्यति प्रभुः ।भद्रं तेन स्मरो दग्धस्त्यक्त्वा मां निर्गुणो गतः ॥५८॥यदि भक्तास्मि तस्याहं समानेष्ये तपोबलात् ।सर्वे भवन्तीो गच्छन्तु नाहं चायामि तद्गृहम् ॥५९॥नीत्वैव स्वामिनं शंभुमागमिष्यामि तद्गृहम् ।इत्युक्त्वा गिरिजा तूष्णीं बभूव प्रियभाषिणी ॥६०॥ज्ञात्वा दार्ढ्यं महासत्या जग्मुः सर्वे निजालयान् ।शंशमानाः संददाना आशीर्वादान्सुविस्मिताः ॥६१॥सती सखीभिः सहिता घोरं तपश्चकार सा ।तेन तप्तमभूत्सर्वं त्रैलोक्यं सचराचरम् ॥६२॥तदा सुराऽसुराः सिद्धा यक्षकिन्नरचारणाः ।गुह्यका मुनयः साध्या विद्याधरमहोरगाः ॥६३॥असुरा मानवाः प्रजापतयो लोकपास्तथा ।औष्ण्यं कष्टतमं प्राप्ताः कारणं न विदुश्च ते ॥६४॥ततो गत्वा वेधसं पप्रच्छुस्तापस्य कारणम् ।ब्रह्मापि पार्वतीतपोजन्यं विज्ञाय तापनम् ॥६५॥हरये तत्कथयितुं ययौ देवगणान्वितः ।क्षीराब्धौ विलसन्तं तं सुसंस्तूय प्रणम्य च ॥६६॥प्रोवाच प्रांजलिस्त्राहि त्राहि नः शरणागतान् ।सतीतापेन तप्ताः स्म कुरु शान्तिं जगद्गुरो ॥६७॥श्रुत्वा प्राह हरिः सर्वान् गच्छामः शंकरं प्रति ।प्रार्थयामः सतीपाणिग्रहणाय ततः सुखम् ॥६८॥इति संहत्य देवाद्या जग्मुर्द्रष्टुं सतीतपः ।प्रणेमुस्तां जगद्धात्रीं ततो जग्मुर्हरं प्रति ॥६९॥ददृशुः सुखमासीनं प्रसन्नं भक्तवत्सलम् ।योगपट्टस्थितं नत्वा तुष्टुवुः शंकरं च ते ॥७०॥नमोऽस्तु तापनाशाय शान्तिदाय नमोनमः ।पार्वतीतपसां सम्यक् फलदात्रे नमोनमः ॥७१॥यदि त्वं रागहीनः सन्पार्वतीं न ग्रहीष्यसि ।तर्हि सा तपसा सर्वं धक्ष्यत्येतच्चराचरम् ॥७२।किंच पाणिग्रहे तस्या देवकार्यं भविष्यति ।तस्मात्तस्यै वचो दत्वा तपोरोधं कुरु द्रुतम् ॥७३।श्रुत्वा प्राह च तान् शंभुः महत्कार्यं कृतं मया ।कामो दग्धश्च निष्कामास्तिष्ठन्तु ब्रह्मचारिणः ॥७४।परमानन्दसंयुक्ता निर्विकारा भवन्तु वै ।सतीग्रहे सती कामं जीवयिष्यति सा पुनः ॥७५।कामात्स्युः क्रोधसम्मोहस्मृतिभ्रंशादयस्तथा ।दुःखदास्तापदाः सर्वे ताँस्त्यजन्तु सदा सुराः ॥७६॥महानिगडसंज्ञास्ति नारी यदि विवाहिता ।कुसंगा बहवः सन्ति स्त्रीसंगोऽस्ति ततोऽधिकः ॥७७॥मुच्यते सकलैर्बन्धैर्न स्त्रीबन्धात्प्रमुच्यते ।स्त्रीयोगात्कामनाभावा वर्धन्ते योगिनोऽपि वै ॥७८॥यदीच्छेद्ब्रह्मनिर्वाणं स्त्रीपाशं दूरतस्त्यजेत् ।पुरुषस्य कृते नारी सितालिप्तेन्द्रवारुणी ॥७९॥नार्याः कृते पुमाँश्चापि सितालिप्तेन्द्रवारुणम् ।परस्परं विषं बोध्यं तथापि भवतां वचः ॥८०॥पालयिष्यामि देवानां विपत्तिहरणाय तत् ।यूयं स्वस्वालयं यात निर्भयास्तिष्ठताऽनिशम् ॥८१॥गमिष्यामि सतीतपःप्रशान्त्यर्थं हिताय च ।श्रुत्वा नत्वा सुराः सर्वे ययुः स्वं स्वं गृहं तदा ॥८२॥वशिष्ठादीन्मुनीन्सप्त ततः सस्मार शंकरः ।प्रसन्नवदनाः सप्त मुनयः शीघ्रमाययुः ॥८३॥नत्वा ह्युपाविशन सर्वे सत्कृताः शंभुना बहु ।उक्ताश्च पार्श्वतो तपश्चरत्यखण्डमानसा ॥८४॥सर्वान् कामान् विहायैव मां पतिं प्राप्तुलालसा ।तत्र गच्छत कुरुत प्रेमदार्ढ्यपरीक्षणम् ॥८५॥इत्याज्ञप्ता ययुः सर्वे यत्र तपति सा सती ।नत्वा शैलसुतां प्राहुः किमर्थं तप्यते तपः ॥८६॥वद देवि यथेष्टं ते करिष्यामो यथातथम् ।सती नत्वा ऋषीन् प्रोचे नारदोक्तविधानतः ॥८७॥रुद्रो मे स्यात्पतिश्चेति निर्णीय तपसि स्थिता ।तदाशां शंकरस्वामी पिपर्तु भक्तवत्सलः ॥८८॥श्रुत्वा विहस्य ऋषयः प्रोचुः छलवचो मृषा ।कलिप्रियः क्लेशकर्ता विश्वस्तो नारदः कथम् ॥८९॥सर्वथा कूटभावी सः क्लेशे जननियोजकः ।जानासि दक्षपुत्राँस्तु तेन ते परिव्राजिताः ॥९०॥जानासि चित्रकेतुं स राज्यमत्याजयत्खलः ।वेत्सि हिरण्यकशिपोः प्रह्लादं स व्यभेदयत् ॥९१॥नारदस्य खलविद्या यत्कर्णे पतिता मनाक् ।स स्वगेहं विहायाऽऽशु दुःखी भवति त्वं यथा ॥९२॥नारदो मलिनात्माऽस्ति बहिरुज्ज्वलदेहवान् ।जानीमस्तं विशेषेण वयं तत्सहवासिनः ॥९३॥बकं साधुं वर्णयन्ति न मत्स्यानत्ति सर्वथा ।सहवासी विजानीयाच्चरित्रं सहवासिनः ॥९४॥अपि त्वं तस्य वाण्यां वै विश्वस्य तपसि स्थिता ।वंचिताऽसि महादेवि! याहि गेहं तपस्त्यज ॥९५॥यदर्थं दुःखमाप्नोषि स तु त्वयि विरागवान् ।सदोदासी च निर्ल्लज्जोऽमंगलोऽसदनोऽकुली ॥९६॥भूतप्रेतपिशाचाभिजनो नग्नः कुवेषधृक् ।तेन शूलभृता धूर्तमूर्धन्येनाऽसि वंचिता ॥९७॥वरं दत्वा गतः पञ्चवर्षसहस्रके पुनः ।नायाति कीदृशः स्नेही तवकेवलवंचकः ॥९८॥विचारं कुरु देवेशि प्रथमं दक्षजां सतीम् ।विवाह्य पालनं नैव कृतवान् किं करिष्यति ॥९९॥स एवास्ति तथा क्रोधी निर्वाहं न करिष्यति ।त्वामेव तु पुनर्दोषं दत्वा त्यक्ष्यति वंचकः ॥१००॥यस्य हृदि कृपा नास्ति कुमारीं नहि पश्यति ।सुखदं दग्धवान् कामं कथं तेन जीविष्यसि ॥१०१॥अस्मद्वाक्यं तु सम्मान्य गृहं याहि कुमारिके ।अव्यवस्थितचित्तस्य प्रसादेहा खपुष्पवत् ॥१०२॥त्वादृशी सुन्दरी विष्णुगृहे शोभेत सर्वथा ।त्वयि सर्वे गुणाः सन्ति विष्णौ सन्ति महागुणाः ॥१०३॥गृहं तस्य महत् स्मृद्धं दिव्यं वैकुण्ठमुत्तमम् ।दासदासीकोटिजुष्टं विमानोद्यानशोभितम् ॥१०४॥तं लश्मीशं रमेशं वा राधेशं भज सुन्दरि ।तेन ते कारयिष्यामो विवाहं त्यज शंकरम् ॥१०५॥वर्षे चतुर्दशे कन्याविवाहो योग्य उच्यते ।त्वया तत्र योग्यकाले कृता सेवा तथाऽर्थितः ॥१०६॥तथापि स्वरतायास्ते पाणिं जग्राह नैव सः ।पंचवर्षसहस्राणि व्यतीतानि तदुत्तरम् ॥१०७॥तथापि नैव गृह्णाति स मूर्खस्त्वं ततोऽधिका ।तस्मात् हठं परित्यज्य सुखिता विष्णुना भव ॥१०८॥न स्यात् तृप्तिस्तृषितानां मरुमरीचिकाजलात् ।द्विविधं तु सुखं पुत्रि लोके भवति देहिनाम् ॥१०९॥देहस्य देहसंयोगश्चेतसि निर्वृतिः परा ।देहं यथा कुमार्या वै कोमलं सुरूपं शुभम् ॥११०॥तथा देहः कुमारस्य भवेत् चेत् देहजं सुखम् ।स्यादेव पतिपत्न्योश्च नाऽन्यथा देहजं सुखम् ॥१११॥प्रकृत्या स तु दिग्वासा भीमो भस्त्रास्थिभूषणः ।कपाली भिक्षुको नग्नो विरूपाक्षोऽस्थिरक्रियः ॥११२॥प्रमत्तोन्मत्तताकारो बीभत्सकृतसग्रहः ।मूर्तिमान् साऽयमनर्थो भूतावलिसभाजितः ॥११३॥स्रवन्नरवसाऽस्थिधृक् सर्पफुत्कारभीषणः ।श्मशानस्थः श्वपचवत् कथमिष्टः सुते तव ॥११४॥हरिरस्ति जगद्धाता यज्ञभुक् पाकशासनः ।देवोधिदेवो ज्वलानो वायुः प्राणश्च देहिनाम् ॥११५॥कुबेरश्चन्द्रमाः सूर्यो वरुणश्चापरे सुराः ।कामभुजः कामरूपाः कामस्मृद्धय एव ते ॥११६॥एभ्य एकतमं कस्मात्त्वं न संप्राप्तुमिच्छसि ।शिवस्य प्राप्तये क्लेशः स चापि निष्फलस्तरुः ॥११७॥तस्मादागच्छ पुत्रि त्वं गृहे स्थित्वा सुखी भव ।अन्यं वरय कल्याणि कृतं क्वापि फलिष्यति ॥११८॥इत्यादि विस्तरं श्रुत्वा विहस्योवाच पार्वती ।यथाज्ञानं भवदुक्तं मन्ये यद्यपि युक्तिमत् ॥११९॥निर्बलाया अश्रद्धाया अदृढायाः कृते हि तत्॥अहं जात्या शैलपुत्री कठिना सबला दृढा ॥१२०॥स्थिराऽप्रधृष्या हठिनी मिलेद्वा न मिलेत् हरः ।न त्यजामि तपः सौम्यं यदस्माकं निसर्गजम् ॥१२१॥मिलिष्यति वरिष्ये तं नोचेत् स्थास्ये निरीन्धना ।दुखं तपो वनं रौक्ष्यं शैलजातेर्निसर्गजम् ॥१२२॥यथेष्टं तद्धि मे सर्वं मां निषेद्धुं न चार्हथ ।नारदस्य वचः पथ्यं जात्यनुकूलमेव मे ॥१२३॥सम्पत्स्यते ध्रुवं शैलवासिनी वनवासिना ।गुरूणां वचने निष्ठा येषां तेषां जयः सदा ॥१२४॥अनिष्ठानामिहाऽमुत्र दुःखमेव न शं क्वचित् ।वित्थ कस्य तनुर्व्योम कस्याऽग्निः कस्य मारुतः ॥१२५॥कस्येन्द्रः कस्य वरुणः कस्य नेत्रेऽर्कचन्द्रकौ ।यथोन्मादादिदुष्टानां मतिरेव हि सा भवेत् ॥१२६॥इष्टानेव पदार्थान्वै विपरीतान् हि मन्वते ।विपरीतान् यथा स्वल्पान् क्षुद्रान् श्रेष्ठाँस्तु मन्वते ॥१२७॥गृहे वसामि शून्ये वा नोपयामि तदन्यकम् ।गुणालयो विहारी सुस्मृद्धो विष्णुः सदास्ति यत् ॥१२८॥स लौकिकीं प्रभुतां वै सन्दर्शयति मानवान् ।शंभुस्तु निर्गुणो निर्विकारो मानादिवर्जितः ॥१२९॥अवधूतः परो हंसः परानन्दः परः प्रभुः ।भूषणादिरुचिर्मायालिप्तानां ब्रह्मणो न च ॥१३०॥चेत् शिवः स हि मे विप्रा विवाहं न करिष्यति ।अविवाहाऽवधूतानि सदाऽहं स्यां शिवाण्यपि ॥१३१॥नाऽहं तृष्णावती कामे न कामार्थं तपाम्यहम् ।यूयं यदर्थं तपथ तदर्थं तु तपाम्यहम् ॥१३२॥यदि मे स करं शर्वो ग्रहीष्यति सुखं द्वयम् ।न ग्रहीष्यति चेत्पाणिं सुखं साध्व्यास्ततोधिकम् ॥१३३॥इदानीं साध्यते शुभ्रं साधयिष्येऽधिकं ततः ।मिलेद्वा न मिलेदत्र मोक्षेऽवश्यं मिलिष्यति ॥१३४॥यत् करोमि विचार्यैव न हानिर्लाभ एव वा ।कस्मादन्यं पतिं कांक्ष्ये नास्ति कामे स्पृहा हि मे ॥१३५॥याचे क्षमां त्वधिकोक्तेर्गृह्णन्तु सत्क्रियां मम ।योजयन्तु शुभाशीर्भिर्हंसा हंसं मिलेद् यथा ॥१३६॥भवतामाशीर्वचनैर्मार्कण्डेयश्चिरंभवः ।भवत्कृपया श्वपचो जाताऽरुन्धती चर्षिणी ॥१३७॥भवतां कृपया विश्वामित्रो ब्रह्मर्षितां गतः ।तथा युष्मत्कृपालेशाच्छैली शर्वाणिका भवेत् ॥१३८॥इत्युक्त्वा तान् प्रणम्याथ प्रपूज्य दिव्यवस्तुभिः ।विरराम शिवं स्मृत्वाऽनपायिशैवधर्मिणी ॥१३९॥ऋषयोऽपि शुभं भूयादस्तु पूर्णो मनोरथः ।तपःफलं द्रुतं भूयाद्भूयाच्छंभुसमागमः ॥१४०॥विवाहस्त्वरितो भूयाद्भूयादस्मत्प्रपूजनम् ।जनवाहा वयं स्यामो भूयात्सर्वं सुमंगलम् ॥१४१॥इत्याशीर्भिः शिवां सम्यक् वर्धयित्वा ययुर्हरम् ।प्रसन्ना देवकार्यार्थं सदाशाः सम्परीक्षकाः ॥१४२॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पार्वत्याः शोको नारदोपदेशस्तपोनिषेधस्तथापि गौरीशृंगे पंचसहस्रवर्षाणि तपः, शैलर्षिभिर्निषिद्धेऽपि तपसि स्थिता गौरी सप्तर्षिभिः परीक्षिताऽऽशीर्भिर्योजिता चेत्यादिनिरूपणनामा षडशीत्यधिकशततमोऽध्यायः ॥१८६॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP