संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३०१ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३०१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३०१ Translation - भाषांतर N/Aश्रीनारायण उवाच-श्रूयतां च त्वया लक्ष्मि! पुरुषोत्तमयोगिनी ।पुरुषोत्तममासस्य कथा दिव्याऽघनाशिनी ॥१॥परब्रह्मसकाशात्तु वासुदेवो व्यजायत ।वासुदेवात् समभवद् भूमाख्यः पुरुषोऽग्रणीः ॥२॥भूम्नोऽभवद् विराडस्य मुखादग्निरजायत ।अग्नेरपत्यं लोकेषु हिरण्यं विश्रुतं त्रिषु ॥३॥सृष्ट्यारंभे न वै कश्चिदग्नेः सत्कारमाचरत् ।अत्युष्णत्वाद् दाहकत्वात् कृष्णवर्त्मकृतेस्तथा ॥४॥आश्रयापयितुर्भस्मीकरणप्रकृतेस्तथा ।अग्निमेतादृशं दृष्ट्वा ब्रह्माद्या अपि बान्धवाः ॥५॥भयं प्राप्ता न सत्कारं सहवासं चरन्त्यपि ।भोजने तूत्सवे पाने दूरं कुर्वन्ति चाऽनलम् ॥६॥त्रैलोक्ये नाऽऽप स क्वापि विश्रान्तिं भोजनादिकम् ।सर्वदिग्भ्यः सर्वदेहिभ्यस्तिरस्कारमाप्य सः ॥७॥केभ्यश्चित्तु स्थलेभ्यः स प्राप्तवाँस्ताडनादिकम् ।अतो ज्वालादिकं तूष्णगुणं जिह्वा निगूह्य च ॥८॥अन्यैरलक्षितो वह्निर्लोकालोकाचलं ययौ ।क्षुधितः शिखरं लोकालोकाचलस्य जग्धवान् ॥९॥उदरे पच्यमानं तद् पुत्ररूपं व्यजायत ।हिरण्यं तत्तु संजातं कांचनी भूमिका तु सा ॥१०॥लोकाऽलोकाचलपार्श्वे प्रकाशिता व्यजायत ।एवं स पर्वते प्रदक्षिणां कुर्वन् प्रयाति वै ॥११॥भवति क्षुधितो यत्र शृंगं तत्राऽत्ति पार्वतम् ।पचमानं तु तत्पुत्ररूपेण जायते ततः ॥१२॥एवं पुत्राः सुवर्णानि समजायन्त सर्वतः ।सर्वत्र काञ्चनी भूमिर्लोकालोकाचलं त्वनु ॥१३॥सञ्जाता वर्तुलाकारा पश्चात् शृंगं महत्तमम् ।ब्रह्माण्डसदृशं भक्षयित्वा पृथ्व्यां समन्तरे ॥१४॥मध्यदेशे ययौ दिव्यानलस्तत्राऽश्रमत् क्षणम् ।पच्यमानं महच्छ्रंगं पुत्ररूपं व्यजायत ॥१५॥सुवर्णे तन्महामेरौ व्याप्तं चाऽभूत् समन्ततः ।मेरुस्तस्मात् सुवर्णस्य प्रख्यातिमगमत्ततः ॥१६॥जडं सुगन्धहीनं च खनिग्रावात्मकं गुरु ।यत्र यत्र पतितं तत् तत्र तत्रैव संस्थितम् ॥१७॥वह्नेरिव सुवर्णस्यापि न मानं कृतं जनैः ।कल्पवृक्षजवस्त्वाद्यैर्निर्वहन्ति हि देहिनः ॥१८॥किं सुवर्णं च कौ वह्निरित्येवं नाऽभवद्धि धीः ।किं कायं वै सुवर्णस्य किं कार्यं चाऽनलस्य वै ॥१९॥अप्येवं नाऽभवत्प्रज्ञा कल्पवृक्षबलात्तदा ।सुवर्णं चाऽनलश्चोभौ मूल्यहीनौ शुशूचतुः ॥२०॥अथात्र खलु नास्माकं ब्रह्माण्डेस्ति परीक्षकः ।विना प्रयोजनं नैव मूल्यं कस्यापि जायते ॥२१॥तृणं प्राप्तेऽपि समये कोटिस्वर्णसमं भवेत् ।अग्निर्वै शैत्यकलहे बहुमूल्योऽभिजायते ॥२२॥त्यक्तं मयूरपिच्छं तु गोलोके कृष्णसंधृतम् ।स्वस्यैव मकुटे तेन पूज्यतां मूल्यतां गतम् ॥२३॥ब्रह्मणा विधृतं गंगाजलं पुरा कमण्डलौ ।विसृष्टं मूल्यवज्जातं महद्भूतं हि मूल्यवत् ॥२४॥कंकरः खलु कृष्णेन धृतो वक्षसि मूल्यवान।न धृतः कर्दमः कैश्चिन्मूल्यं नाप्तो मनागपि ॥२५॥तस्मादहं महानग्निर्मम पुत्रः सुवर्णकम् ।विना प्रयोजनं यद्वा महद्भिः संधृतिं विना ॥२६॥मूल्यवन्तौ न वै स्याव दुःखं तद्वै महत्तमम् ।गुणिनां गणनारंभे यद्यंगुलिर्न तिष्ठति ॥२७॥वरं तस्यात्र मृत्युर्वै प्राणनं क्लेशदं वृथा ।विद्या वा राज्यसत्ता वा सिद्धिरैश्वर्यमेव वा ॥२८॥ख्यातिर्वा धनिता वापि भक्तिर्वा जीवने वरम् ।तद्विहीनेन मर्तव्यं मरिष्यावस्ततोऽद्य वै ॥२९॥इति विचार्य वह्निस्तत्पुत्रो ययतुरुच्चकैः ।मेरोस्तु शिखरे तस्मात्पातेन मरणार्थिनौ ॥३०॥तावत् तत्र सत्यलोके घोषयन् दुन्दुभिर्हरेः ।ताभ्यां श्रुतोऽधिके मासे शोकं कुर्वन्तु मा जनाः ॥३१॥नारायणं तु संस्मृत्य नवम्यामद्य ये जनाः ।करिष्यन्ति व्रतं पूजां तेषामिष्टं भविष्यति ॥३२॥एकभुक्तेन नक्तेन तथैवाऽयाचितेन वा ।फलेन पयसा त्वद्य द्विकालं त्वैककालिकम् ॥३३॥व्रतं कृत्वाऽर्चनं कृत्वा कृष्णस्य शरणागताः ।अपि चेत्ते मानहीना दरिद्रा निष्प्रयोजनाः ॥३४॥गणनाहीनकाश्चापि यास्यन्ति चोत्तमं पदम् ।अहं वै दुन्दुभिर्वच्मि पुरुषोत्तमदेशनाम् ॥३५॥दुःखो वा क्लेशसन्दृब्धोऽतितिरस्कृत एव वा ।अस्थानो वाऽल्पमूल्यो वा जडो वा तूग्र एव वा ॥३६॥यः कश्चिच्छरणं प्राप्याऽधिकमासे व्रतं चरेत् ।विधूय तस्य दुःखानि करिष्याम्यवनं सदा ॥३७॥पुरुषोत्तममासस्य मानकृन्मान्य एव मे ।पुरुषोत्तममासे वै पुण्यकृत्पूततां व्रजेत् ॥३८॥ममाऽर्चनप्रकर्ताऽत्र सर्वाऽर्च्यतामवाप्नुयात् ।यस्य वै रक्षिता कोऽपि भवत्येव न वै क्वचित् ॥३९॥चेत् स रक्षत्यधिमासं तथा मां पुरुषोत्तमम् ।रक्षयिष्ये तु तमहं वदामि पुरुषोत्तमः ॥४०॥पूजयन्तु च मां भक्त्या भोजयन्तु सुपायसम् ।प्रार्थयन्तु यथेष्टं च मत्तो गृह्णन्त्वभीष्टकम् ॥४१॥अनुग्रहेण दातास्मि त्वकृतस्यापि चेष्टदः ।अल्पस्य बहुदश्चापि गृह्णन्तु पुरुषोत्तमात् ॥४२॥अद्य ये न करिष्यन्ति व्रतं वा वरणं च वा ।तेषां हानिरलाभश्च नान्यः कश्चिदतोऽधिकः ॥४३॥तस्मादायान्तु गृह्णन्तु वरान् कुवन्तु पूजनम् ।आचरन्तु मलमासे नवम्यां व्रतमुत्तमम् ॥४४॥प्रदाताऽस्मि समृद्धोऽस्मि समुदारोऽस्मि सर्वथा ।दुन्दुभिः प्रवदाम्यत्र नारायणान्तरात्मकः ॥४५॥नारायणस्वरूपोऽहं पुरुषोत्तमदेशनः ।प्रसन्नं दासभक्तं वा करोमि पुरुषोत्तमम् ॥४६॥पत्रं पुष्पं फलं तोयं यो मयि सन्नियोक्ष्यते ।अहं तस्मिन्नियोक्ष्यामि श्रेष्ठं रत्नादिकं पुनः ॥४७॥भोज्यं भक्ष्यं तथा लेह्यं चोष्यं यो मेऽर्पयिष्यति ।तस्मै कोटिगुणितं तदर्पयिष्येऽप्यहं तथा ॥४८॥यस्य द्रष्टाऽऽश्रयदाता पोष्टा मानयिताऽविता ।कोऽपि नास्ति तु तस्याऽहं सर्वकर्ताऽविताऽस्मि वै ॥४९॥आगच्छन्तु महाभागाः सत्कृता वाऽप्यसत्कृताः ।बाला वा बालिका वापि युवत्यः सधवाऽधवाः ॥५०॥युवानो भाग्यवन्तो वा भाग्यहीना दरिद्रकाः ।वृद्धा पलितवल्यंगाः सुचित्ता वाऽप्यचित्तकाः ॥५१॥तृतीयप्रकृतिव्याप्ता नामसंज्ञाविहीनकाः ।स्थावरा जंगमाः केऽपि जडा वा जडसन्निभाः ॥५२॥तिर्यञ्चोऽपि विवरस्था गर्तस्थाः खनिखातजाः ।मुखजाः पृष्ठजाश्चापि मलजा अमलोद्भवाः ॥५३॥मलमासं समाश्रित्य तोषयित्वा पुमुत्तमम् ।पारमेष्ठ्यपदं यान्तु यान्तु वाऽक्षरधाम तत् ॥५४॥स्वर्गे सुखं परं यान्तु यान्तु श्रीपुरुषोत्तमम् ।सुतं यान्तु पतिं यान्तु पत्नीं यान्तु च पद्मिनीम् ॥५५॥गृहं कीर्तिं धनं यान्तु यान्तु शाश्वतपूजनम् ।सर्वाधिक्योत्तमस्थानं गृह्णन्त्वनुग्रहान्मम ॥५६॥इत्युदारां घोषणां संश्रुत्वाऽग्निश्च सुवर्णकम् ।लेभाते स्म महाधैर्यं शोकं तत्यजतुस्ततः ॥५७॥मेरोः शृंगे सत्यलोके दुन्दुभिं शरणं गतौ ।नत्वा च दुन्दुभिं तस्य पूजां चक्रतुरादरात् ॥५८॥वह्निना तु सुतं स्वर्णं दुन्दुभेस्तस्य पादयोः ।अकारयन्नतिं तावद् दृष्ट्वा रूपोत्तरं सुतम् ॥५९॥दुन्दुभिना समुत्तोल्य गृहीत्वा करयोनिजे ।मस्तके च तथा स्कन्धे क्षणं सुवर्णको धृतः ॥६०॥अर्पितो वह्नये पश्चाद् वह्निः प्राह सगद्गदः ।नावयोः रक्षिता कोऽपि सत्कर्ताऽपि न विद्यते ॥६१॥महद्दुःखमनुभूय मृत्य्वर्थं त्वागतावुभौ ।दुन्दुभे यदि ते वाक्याद् व्रतं कुर्वोऽद्य नक्तकम् ॥६२॥पूजनं च हरेः कुर्वो रक्षिता चेद्भवेद्धरिः ।एवं संवदतोर्नेत्रादश्रवो न्यपतन् भुवि ॥६३॥रजतं तत्समुत्पन्नं स्थले स्थल्यां समुज्ज्वलम् ।वीक्ष्यैवं भग्नहृदयं दयमानं महानलम् ॥६४॥सपुत्रं दुन्दुभिस्तं चाऽऽश्वासयामास सद्गिरा ।नवम्यां अधिमासस्य व्रतं कुरुत नक्तकम् ॥६५॥पूजां कुरुत वै कृष्णनारायणस्य चाद्य ह ।सौवर्णीं प्रतिमां कारयित्वा नारायणस्य च ॥६६॥पञ्चामृतेन संस्नाप्य समर्च्याऽक्षतचन्दनैः ।विभूष्य स्वर्णभूषाभिर्हारैर्मालाभिरित्यपि ॥६७॥सद्रत्नैरम्बरैर्द्रव्यैर्विभिन्नैर्भोजनैः फलैः ।जलैस्ताम्बूलपानैश्च धूपदीपप्रदक्षिणैः ॥६८॥तोषयित्वाऽर्थयेद् देवं कृष्णं श्रीपुरुषोत्तमम् ।असत्कृतमनाधारमनादृतमनाश्रयम् ॥६९॥क्षुधितं तृषितं द्वेष्यं दाहकं मां समुद्धर ।जडं निर्गन्धमतिं वै गुरुं प्रस्तररूक्षकम् ॥७०॥निर्गुणं चेतनाहीनं वाऽकिञ्चित्करमित्यपि ।समुद्धर कृपासिन्धो गणनां प्रापय प्रभो ॥७१॥एवं स्तुतिं प्रकुर्याच्च श्रीफलार्घ्यं समर्पयेत् ।पुष्पांजलिं प्रदद्याच्च नत्वा नाथं विसर्जयेत् ॥७२॥मध्याह्नेऽपि तथा कुर्यात् कुर्यान्निशीथके तथा ।सवाद्यनर्तनगीतैर्नीराजयेद्विसर्जयेत् ॥७३॥एवं कुरु कृशानो त्वं हाटक त्वं तथा कुरु ।नारायणः प्रसन्नः सन् युवामुद्धारयिष्यति ॥७४॥इत्याश्रुत्य महादुन्दुभ्युक्तं नारायणोदितम् ।वह्निश्चकार सौवर्णीं मूर्तिं नारायणस्य वै ॥७५॥लक्ष्म्या मूर्तिं चकाराऽथ पूजयामासतुश्च तौ ।पिता पुत्रश्च विधिवद् व्रतं नक्त प्रचक्रतुः ॥७६॥रात्रौ प्रार्थयतो यावत् कृष्णनारायणं हरिम् ।लक्ष्मीसमन्वितं तावत् प्रादुर्बभूव चाग्रतः ॥७७॥तेजःपरिधि संव्याप्ताननं लक्ष्मीप्रसेवितम् ।मन्दं मन्दं हसन्तं तं विलोक्य पुरुषोत्तमम् ॥७८॥वह्निस्वर्णौ प्रार्थयतः कृपानाथ समुद्धर ।ऊष्णस्वभावयुक्तस्य दाहकस्य मम स्थलम् ॥७९॥नास्ति कुत्रापि तन्नाथ देहि मे भोजनं तथा ।मूल्यं मूर्खस्य पुत्रस्य सुवर्णस्य तु नास्ति वै ॥८०॥प्रस्तरस्य न सत्कारो दृश्यते तद्यशः कुरु ।सर्वदा तव सेवां च प्रदेहि भगवन् विभो ॥८१॥शरणे तेऽस्मि पतितो मामुद्धर सपुत्रकम् ।इत्यर्थितो हरिकृष्णो वह्निं प्राह नरायणः ॥८२॥शोकं त्यज कृशानो त्वं तुष्टोऽस्मि त्वद्व्रतेन वै ।ममाऽऽननात् समुत्पन्नः सदा त्वस्तु ममाननम् ॥८३॥वरं ददाम्यहं पुत्र यज्ञादौ भोजनं त्वयि ।स्थापयिष्यन्ति ये होष्यन्त्यनले कुण्डमध्यगे ॥८४॥अग्निहोत्रस्य हवनं त्वयि न्यस्यन्ति ये जनाः ।त्वद्द्वारा तन्मया सर्वं जक्षितव्यं न चाऽन्यथा ॥८५॥वह्नि विना जना ये मे दास्यन्ति भोजनादिकम् ।तदहं न ग्रहीष्यामि सर्वथाऽनुग्रहात् त्वयि ॥८६॥अद्यदिनादहं लोकेऽग्निमुखो भगवानिति ।ख्यातिं यास्ये जनास्तेन मदर्थे भोजनादिकम् ॥८७॥त्वयि क्षेप्स्यन्ति तत्सर्वं भक्षयिष्यामि त्वन्मुखात् ।शमीष्वदृश्यरूपेण तव वासो विशेषतः ॥८८॥हीरकादिषु तद्वच्च सर्वत्राऽस्तु तवाऽऽश्रयः ।यथा वस्तुप्रदहनं न स्याद्वासस्तथा तव ॥८९॥सर्वत्राऽस्तु कृशानो त्वं सुखी भव जनादिषु ।सम्मानं सर्वथा तेऽस्तु सत्कारः सर्वथा तव ॥९०॥कल्पवृक्षलये काले चूल्यादौ पाचनाय वै ।प्रज्वालनं तवैवाऽस्तु सर्वथैव गृहे गृहे ॥९१॥चिन्तामण्यादि नाशे तु प्रदीपस्य गृहे गृहे ।सम्मानं सर्वथा ते स्याद् धैर्यमावह तावता ॥९२॥द्वितीयेन च दिव्येन रूपेण पार्षदेन मे ।धाम्नि सेवां वह नित्यं वह्ने मुक्तोऽसि मेऽनघ ॥९३॥प्रथमे युगपर्याये व्यतीते त्वनलं विना ।कार्यं किमपि सर्वेषां भविष्यति न वै तदा ॥९४॥तव मूल्यं च सम्मानं सत्कारादरपूजनम् ।पराकाष्ठागतं सर्वे भविष्यति न संशयः ॥९५॥सुवर्णोऽयं च ते पुत्रो ममाऽतिवल्लभः खलु ।अद्यारभ्य मया स्वस्य मस्तके धार्य एव च ॥९६॥मुकुटोऽयं तु मे ह्यस्तु भवतां कुण्डले मम ।मम भूषास्वरूपोऽस्तु शृंखलाकटकोर्मिकाः ॥९७॥रशनाहारपात्राणि स्वर्णोऽस्तु सर्ववस्तुकः ।मया धृतस्तव पुत्रो मस्तके मुकुटात्मकः ॥९८॥सोऽथ सर्वत्र सत्कारं यास्यति कालनिर्गमे ।समूल्यश्च सुगूह्यश्च संरक्ष्यश्च भविष्यति ॥९९॥कल्पवृक्षादिविलये कल्पद्रुः स भविष्यति ।किञ्च दिव्यं स्वरूपं वै सुवर्णाय ददामि ह ॥१००॥मूलरूपेण मे धाम्नि सेविष्यते स मां सदा ।हाटकाख्यः पार्षदो मेऽक्षरे धाम्नि निवत्स्यति ॥१०१॥अथ कालान्तरे कार्यावश्यकत्वेऽनलात्मकः ।महातेजोमयः सोऽयं हाटकेश्वरसंज्ञकः ॥१०२॥पाताले च पृथिव्यां च महादेवो भविष्यति ।ममाऽवतारः सर्वत्र पूजां प्राप्स्यति मद्बलात् ॥१०३॥भक्तानां मुक्तिदाता च भविष्यति महेश्वरः ।सर्वब्रह्माण्डसृष्टौ च ख्यातिं त्वमिव यास्यति ॥१०४॥यथाहं भगवान् व्याप्तस्तथा वह्निः सुवर्णकम् ।व्याप्तिं यास्यति सृष्टौ मे सत्कारं च प्रयास्यति ॥१०५॥रक्षणं चापि संस्थानं सर्वं भविष्यति ध्रुवम् ।इत्युक्त्वा च तयोर्दिव्ये रूपे कृत्वा हरिः स्वयम् ॥१०६॥निनाय स्वालयं चान्ये रूपे वस्तुषु वासिते ।एतद्रूपं च वृत्तान्तं परिज्ञाय सुरादयः ॥१०७॥वह्निद्वारा भक्षयन्ति तृप्यन्ति तत्र भोजनात् ।सुवर्णस्य विभूषाश्च धारयन्ति स्थले स्थले ॥१०८॥एवं वह्निस्तथा स्वर्णो नवमीपूजनं व्रतम् ।कृत्वा मुक्तौ प्रशस्तौ संमूल्यकौ च बभूवतुः ॥१०९॥पावित्र्यं सर्वदा प्राप्तौ यत्र क्वापि गतौ हि तौ ।वृद्धिं च सर्वदा प्राप्तौ तथा सुखं तु शाश्वतम् ॥११०॥नवम्यास्तु व्रताख्यानं पठिष्यन्ति तु ये जनाः ।श्रोष्यन्ति वा नरा नार्यो यास्यन्ति भुक्तिमोक्षणे ॥१११॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये विराटपुत्रस्य वह्नेस्तत्पुत्रसुवर्णस्य च दाहकत्वजडत्वादिदोषान्वितस्य कल्पवृक्षाश्रितजनताभिरनादरे कृते मेरौ मरणोन्मुखस्य दुन्दुभिश्रवणेऽधिमास- नवमीव्रतपूजनकरणेन यज्ञादौ सर्वमान्यताभगवन्मुखता भगवदाभूषणरूपता धामप्राप्तिर्दिव्यपार्षदता चेत्यादिनिरूपणनामैकाधिकत्रिशततमोऽध्यायः ॥३०१॥ N/A References : N/A Last Updated : March 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP