संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २०९ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २०९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०९ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि ययौ पश्चान्नारदो मेरुसंज्ञकम् ।स्थलं तीर्थं शुभं ब्रह्मकुण्डाद्दक्षिणतः स्थितम् ॥१॥नराऽऽवासगिरिर्मेरुः स्थापितो हरिणाऽत्र सः ।यदा भगवता वासो विशालायां कृतः शुभः ॥२॥तदा मेरुं विहायैव सविद्याधरचारणाः ।देवा महर्षयः सिद्धा हरेर्दर्शनलालसाः ॥३॥विशालायां सदा स्थातुं समायाताः समुत्सुकाः ।भगवद्दर्शनलब्धितिरस्कृततदालयाः ॥४॥मेरुर्देवादिहीनो ३जातः शोकं चकार ह ।भूत्वा दीनो ययौ नारायणं प्रार्थनहेतवे ॥५॥प्राह हे भगवन् सर्वे तव दर्शनलालसाः ।मां विहायाऽत्र संयाता विनाऽहं वसतिं शुभाम् ॥६॥शोभे नातो मया तत्र नैव वस्तव्यमेव ह ।अहमप्यत्र वसितुमिच्छामि चरणे तव ॥७॥भगवाँश्च तदा प्राह नैवं क्षेमाय वै भवेत् ।तव स्थित्या चतुर्दशभुवनानां स्थितिर्मता ॥८॥तस्माद्देवादिभिस्तत्र स्थातव्यं वै मदाज्ञया ।द्वितीयस्वस्वरूपैश्च स्थातव्यमत्र चैव यत् ॥९॥त्वयाऽप्यत्र द्वितीयेन स्वरूपेण ममाश्रमे ।सदा स्थातव्यमेवाऽत्र मत्सेवा लाभसंभवात् ॥१०॥इत्याज्ञां समनुप्राप्य मेरुशृंगाणि सर्वशः ।रूपं द्वितीयमासाद्य समायातानि सूक्ष्मतः ॥११॥तानि कांचनरूपाणि हरिणा स्वकरेण हि ।गृहीतानि स्थापितानि सर्ववासाय तत्र वै ॥१२॥सर्वे चालोक्य शृंगाणि स्वर्णरूपाणि हर्षिताः ।प्रसन्नास्तुष्टुवुर्देवं नारायणं कृपाकरम् ॥१३॥दयालुर्भगवान् देवो दिवानां सुखहेतवे ।मेरोः 'शृंगाण्यानिनाय तस्मै नमो विधेम च ॥१४॥भक्तकृपाल्पभक्तेस्तु बहुधा फलदोऽस्ति यः ।सोऽयं कृपालयो देवस्तुष्यतां श्रीनरायणः ॥१५॥सकरुणः सदा शिक्षां पितेव विधाति नः ।करुणासागरः कृष्णः प्रपायाद् विपदोऽपि नः ॥१६॥विद्याधराणां सिद्धानामृषीणां मानसेष्टदः ।सदा रक्षतु नश्चात्र भगवान् भक्तरक्षकः ॥१७॥ततस्तुष्टो हि भगवान् वरं वृणुध्वमाह तान् ।देवाः प्राहुर्मेरुशृंगाणि पश्यन्ति च ये जनाः ॥१८॥तेषां तव प्रसादेन मेरौ वासौ हि जायताम् ।त्वया नैतत्स्थलं त्याज्यं मेरुस्त्याज्यो न वै तथा ॥१९॥मेरौ वासं च लब्धानां भोगाऽन्तेऽस्तु लयस्त्वयि ।एवमस्त्विति संभाष्य तत्रैवाऽन्तर्हितो हरिः ॥२०॥ततः प्रभृति देवाद्या नरनारायणाश्रमे ।क्वचिन्मेरौ क्वचित्स्वर्गे क्वचिद्वै रैवताचले ॥२१॥निर्विशंका निवसन्ति यत्र नारायणो नरः ।एवं वै नारदो मेरुतीर्थं कृत्वा ययौ ततः ॥२२॥लोकपालैरधिश्रितं तीर्थं सौम्यं सरोयुतम् ।हरिः स्वयं गतो मेरौ दृष्टास्तत्र च देवताः ॥२३॥ऋषयश्चाथ मुनयो लोकपालाः सुरादयः ।दृष्ट्वाऽऽह लोकपालान्सः यूयं राजान एव वै ॥२४॥ऋष्यादिवसतौ वासो न योग्यौ भवतां कृते ।आगच्छन्तु मया क्लृप्ते स्थाने योग्ये भवत्कृते ॥२५॥निवसन्तु च तत्रैव मम सान्निध्यमाश्रिताः।इत्यानीता लोकपाला मेरुमध्यप्रदेशतः ॥२६॥स्थापितास्तत्सुखार्थं च जलाशयो महान् कृतः ।दण्डेन च भुवं हत्वा क्रीडापुष्करिणी कृता ॥२७॥लोकपालाश्च गन्धर्वा गीर्वाणाः प्रमदायुताः ।विचरन्त्यनुमोदन्ते प्रगायन्ति च सर्वदा ॥२८॥वनानि कुसुमामोदरम्याणि च कृतानि वै ।भगवानपि सर्वेषामत्यानन्दं समावहन् ॥२९॥द्वादश्यां पौर्णमास्यां च स्वयमायाति मज्जने ।दृश्यते परमं तेजो जले मध्याह्नकालतः ॥३०॥सर्वतीर्थावगाहस्य फलं तत्रैव लभ्यते ।दण्डपुष्करिणीतीर्थमिहाऽमुत्र फलप्रदम् ॥३१॥पिण्डदानाच्च जायेत गयातोऽष्टगुणं फलम् ।द्वादश्यां शुक्लपक्षस्य ज्येष्ठमासेऽत्र पुष्करे ॥३२॥यज्ञं दानं तपः कृत्वा कृतकृत्यो भवेज्जनः ।अक्षय्यं फलमश्नाति मोक्षं याति ततः परम् ॥३३॥बदरीतीर्थमध्ये तु गुप्तमेतद्धि वर्तते ।बहुप्रसूतपुण्या वै पश्यन्त्येतन्न चेतरे ॥३४॥इति दण्डोदकं तीर्थं कृत्वा च नारदो ययौ ।गंगायां मानसोद्भेदसंगमे तीर्थसूत्तमे ॥३५॥त्रिंशद्वर्षसहस्राणि प्रयागे तपसः फलम् ।तत्फलं मानसोद्भेदे तीर्थे स्नानकृतं भवेत् ॥३६॥संगमाद्दक्षिणे भागे धर्मस्य भवनं शुभम् ।यत्र मूर्त्यां जन्म चाप्तौ नरनारायणावृषी ॥३७॥यत्र धर्मश्चतुष्पादः सत्यं यज्ञस्तपस्तथा ।दानं चेति वर्तते स्माऽनुष्ठितस्याऽक्षयं फलम् ॥३८॥ततो दक्षिणदिग्भागे उर्वशीसंगमाभिधम् ।कूर्मोद्धारस्ततस्तीर्थं स्नानात्सत्त्वस्य शुद्धिकृत् ॥३९॥ब्रह्मावर्तस्ततस्तीर्थं ब्रह्मलोकप्रदं हि तत् ।एवं बहूनि तीर्थानि भवन्ति बदरीवने ॥४०॥दर्शनात्स्मरणात्स्नानात्पानादाचमनात्तथा ।मार्जनात्पापहन्तॄणि मोक्षदानि च योगतः ॥४१॥कृत्वा सर्वाणि तीर्थानि नारदः पुनराययौ ।नरस्याऽऽश्रममादिव्यं स्थित्वा नरमुखात्ततः ॥४२॥शुश्राव क्षेत्रमाहात्म्यं शान्त्यैकाग्रधियाऽऽर्त्तिहृत् ।बदर्याख्यं हरेः क्षेत्रं त्रिषु लोकेषु दुर्लभम् ॥४३॥स्मरणाश्चास्य पापानि नश्यन्ति दारुणान्यपि ।अन्यतीर्थे कृतं पुण्यं बदर्याः स्मरणाद्भवेत् ॥४४॥अश्वमेधसहस्राणां वायुभोज्यस्य यत्फलम् ।क्षेत्रान्तरे बदर्यां तु तत्फलं क्षणमात्रतः ॥४५॥कृते मुक्तिप्रदा नाम्ना त्रेतायां योगसिद्धिदा ।विशाला द्वापरे नाम्ना कलौ बद्र्याश्रमो हि सः ॥४६॥मुक्तेः प्रदा च योगस्य सिद्धिदा सर्वथा यथा ।शालात्मकस्य देहस्य विशाला तु विनाशनात् ॥४७॥बदरीतरुयोगाद्धि बदरिकाश्रमो हि सः ।त्यजेत्सर्वाणि तीर्थानि काले युगान्तरेऽपि च ॥४८॥बदरीं तु हरिर्नारायणो मुञ्चति नैव हि ।षष्टिवर्षसहस्राणि योगात्काश्यां तु यत्फलम् ॥४९॥बदर्या तु दिनैकेन तत्फलं समवाप्यते ।देवतीर्थर्षीणां शाला विशिष्टाः सन्ति यत्र हि ॥५०॥विशाला च मता सार्था शाला ज्ञानस्य वेस्तथा ।विशालाऽनादिसिद्धा सा यथा वेदा हरेस्तनुः ॥५१॥अन्यत्र मरणान्मुक्तिः स्वधर्मविधिपूर्वकात् ।बदरीदर्शनादेव मुक्तिं पुंसां करे स्थिता ॥५२॥धर्माधर्मौ विजित्याऽथ बदरीशं नरायणम् ।दृष्ट्वा मुक्तिं तूपयाति विनाऽऽयासं जनोऽत्र वै ॥५३॥सर्वयुगेषु भगवान् वैकुण्ठसदृशीं शुभाम् ।बदरीं समनुप्राप्य साक्षादेवाऽवतिष्ठते ॥५४॥विना ज्ञानेन योगेन तीर्थाटनपरिश्रमैः ।एकेन जन्मना जन्तुः कैवल्यपदमश्रुते ॥५५॥जन्मान्तरसहस्रैश्च येन चाराधितो हरिः ।स गच्छेद् बदरीं द्रष्टुं यत्र गत्वा न शोचति ॥५६॥बदरीबदरीत्युक्त्वा प्रसंगान्मुक्तिभाग्भवेत् ।विशालां बदरीं दृष्ट्वा पुंसो मृत्युभयं कुतः ॥५७॥सशैलकानना पृथ्वी दशधा दक्षिणीकृता ।हरेः प्रदक्षिणं भूमौ बदर्यां तु पदे पदे ॥५८॥अश्वमेधस्य यज्ञस्य वाजपेयशतस्य च ।हरेः प्रदक्षिणायाश्च पुण्यं पदे पदेत्र वै ॥५९॥बदर्यां भगवानत्ति यदन्नं दिव्यतां गतम् ।तत्सत्त्वशुद्धये सर्वैर्भोक्तव्यमविचारितम् ॥६०॥अमरा हरिनैवेद्यं भोक्तुं भवन्ति तत्पराः ।बाल्ययौवनवार्धक्ये कृतं प्राणान्तपातकम् ॥६१॥विष्णोर्निवेदितं भुक्त्वा बदर्यां तन्निवर्तते ।नैवेद्यभक्षणादत्र सालोक्यं लभते हरेः ॥६२॥हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।पादोदकं सनिर्माल्यं मस्तके यस्य सोऽच्युतः ॥६३॥ब्रह्महत्यादिपापानि नश्यन्ति चरणामृतात् ।किं दानैस्तपसा तीर्थैर्नियमैश्च परिश्रमैः ॥६४॥बदर्या विष्णुपादादेर्बिन्दुमात्रं मिलेद् यदि ।सूर्यग्रहे कुरुक्षेत्रे महादानफलं हि यत् ॥६५॥बदर्यां ग्रासमात्रेण चातुर्मास्यफलाधिकम् ।वेदान्तश्रवणात्पुण्यं बदर्यां चरणामृतात् ॥६६॥बदर्यां वैष्णवीं दीक्षां ये गृह्णन्ति जडा अपि ।मुक्तिः करतले तेषां भूमिकादर्शनादपि ॥६७॥य इदं शृणुयान्नित्यं श्रावयेच्चापि पाठयेत् ।पठेद्वा पापमुक्तः सः पदं विष्णोः प्रपद्यते ॥६८॥राजा विजयमाप्नोति सुतार्थी लभते सुतम् ।कन्यार्थी लभते कन्यां कन्या विन्दति सत्पतिम् ॥६९॥धनार्थी धनमाप्नोति व्याध्याध्यधननाशनम् ।दौर्भाग्याऽपमृत्युग्रहदुःस्वप्नादिविनाशनम् ॥७०॥श्रुत्वा नत्वा नरनारायणौ भुक्त्वा प्रसादकम् ।ययौ सत्यं ब्रह्मलोकं विवाहार्थं स नारदः ॥७१॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मेरुतीर्थदण्डपुष्करिणीमानसोद्भेदनरनारायणजन्मस्थानधर्मोर्वशीसॆगमकूर्मोद्धारब्रह्मावर्तादितीर्थ-तत्क्षेत्रप्रसादचरणामृतमाहात्म्यादिनिरूपणनामा नवाऽधिकद्विशततमोऽध्यायः ॥२०९॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP