संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४७६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४७६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४७६ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि यथा प्राह दुर्वाससं द्विजाऽर्भकः ।कृष्णनारायणो विष्णुः समयोचितमेव तत् ॥१॥दुर्वाससं प्रणमन्त शोचन्तं कर्म वै स्वकम् ।पूजयन्तं वासयन्तं कुशासनेऽतिभावतः ॥२॥उवाच ब्राह्मणबटुस्तस्मै दत्वा सदाशिषम् ।सर्वं जानासि दुर्वासर्गुरोर्मन्त्रप्रसादतः ॥३॥तथापि ब्राह्मणबटुः कथयामि निबोध मे ।ब्राह्मणानां तपो धर्मस्तपः साध्यं जगत्त्रयम् ॥४॥वैष्णवानां हरेर्भक्तिर्दास्यं च परमं तपः ।हरेः कथायाः श्रवणं भजनं तस्य सर्वदा ॥५॥सेवनं पूजनं सर्वं कर्तव्यं वैष्णवस्य वै ।मुनेस्तु ते विशेषेण श्रेयः कार्यं शुभं सदा ॥६॥एतत् सर्वं परित्यज्य शोकं च शोककारणम् ।कथं दुःखप्रदं बुद्धेर्नाशकं त्ववलम्बसे ॥७॥का कस्य पत्नी कः कान्तः कस्या वा भवचक्रके ।मूर्खाणां वञ्चनां कर्तुं करोति मायया हरिः ॥८॥मिथ्या पत्नी तवेयं तु क्षणान्तेन गताऽधुना ।नहि मिथ्या भवेन्नित्यं नित्यं नाऽदृश्यतां व्रजेत् ॥९॥तव पत्नी सदा चेयं कन्दली निर्मिता सती ।नारायणेन ते छाया तव शिक्षाप्रदायिनी ॥१०॥यत् त्वया कल्पितो लोकस्त्वत्कम्पार्थं तु सा कृता ।मा शोकं कुरु चात्रार्थे सा ते पत्नी पुनर्मुने ॥११॥भविष्यति न सन्देहो द्वेधा भूत्वा वरिष्यति ।वद कान्तां प्रार्थनाढ्यामाकाशस्थां पतिव्रताम् ॥१२॥प्रतीक्षमाणां ते त्वाज्ञां ब्रूहि किं सा करिष्यति ।तावद् दुर्वाससा दृष्टा कथिता कदली भव ॥१३॥शुभदा फलदा कान्ता सकृत्सूता सुदुर्लभा ।बहुपुत्रीमती मूलात् सदा पतिव्रता भव ॥१४॥इत्युक्ता सा प्रत्युवाच त्वं चापि कर्दमो भव ।यथा नाम तथा दुर्वासात्मकः कर्दमो मम ॥१५॥मूले क्लेदमयो नित्यं शैत्यभावान्वितो भव ।इत्युक्तः कर्दमो भूत्वा रूपान्तरेण वै मुनिः ॥१६॥दुर्वासः कर्दमो नित्यं कदलीमूलगोऽभवत् ।कन्दली कदलीजातिर्भूता कदलदायिनी ॥१७॥सकृत्प्रसूता फलदा मूलापत्यप्रदायिनी ।संजाता वनमध्ये च वन्ध्या कदली चेत्यपि ॥१८॥हस्तीनां भोजनं सा तु ह्यभवत् सर्वदा वने ।अथ तं ब्राह्मणबटुः पुनः प्राह मुनिं हितम् ॥१९॥शृणु विप्र तव पत्नी कल्पे कल्पे पुनः पुनः ।कदली शान्तरूपा च भविष्यति सुखप्रदा ॥२०॥एकानंशाभिधा कृष्णस्वसा श्रीदेवकीसुता ।पार्वत्यंशसमुद्भूता सुशीला चिरजीविनी ॥२१॥कल्पे कल्पे तव पत्नी सुन्दरी सा भविष्यति ।मनो देहि तपस्यायां मुदा तत्काल आगते ॥२२॥शान्तस्वरूपा सा बाला कृष्णद्वारा मिलिष्यति ।इत्युक्त्वा भगवान् कृष्णनारायणश्चतुर्भुजः ॥२३॥दत्वा स्वदर्शनं तस्मै सोऽन्तर्धानो बभूव ह ।मुनिः सर्वं भ्रमं त्यक्त्वा तपस्यायां मनो दधे ॥२४॥अत्युच्छ्रितस्य दमनं सूचितं जायते क्वचित् ।द्विगुणाऽभ्युदयश्चाऽनुजायते दमितस्य वै ॥२५॥कन्दली कदलीजातिर्बभूव धरणीतले ।यादृशी साऽभवत्तूग्रा तादृशीं शीततां गता ॥२६॥कन्दल्यास्तु पितुः सरस्वत्या नद्यास्तटे शुभे ।आसीद् भव्याश्रमस्तत्र कन्दल्याः पातिव्रत्यतः ॥२७॥ब्रह्मशीलव्रतेनापि भक्त्या श्रीमाधवस्य च ।पितुर्वस्त्राणि सर्वाणि शुष्काण्यार्द्राणि यानि च ॥२८॥वायुना धार्यमाणानि तिष्ठन्ति त्वम्बरे सदा ।विना तु कीलकं लक्ष्मि! चमत्कारोऽयमद्भुतः ॥२९॥यावत् सा कन्दली दग्धा दुर्वासःशापतस्तदा ।तत्क्षणं धौतवस्त्राणि पेतुरूर्ध्वाद् भुवस्तले ॥३०॥पृथिव्यां पतिते वस्त्रे तपस्त्यक्त्वौर्व एव तु ।ध्यानेन बुबुधे सर्वं कन्याभस्मादि संकटम् ॥३१॥शोकाविष्टो जगामाशु जामातुराश्रमं क्षणात् ।सिषेच पृथिवीरेणून् रुदन् नयनबिन्दुभिः ॥३२॥हे वत्से कदलीत्येवं रुरोदोच्चार्य वै पुनः ।श्वशुरस्य स्वरं ज्ञात्वा दुर्वासा भयविह्वलः ॥३३॥ऊटजाया बहिर्भूत्वा पपात' तत्पदाम्बुजे ।विललाप भृशं पश्चात् सान्त्वयित्वा गुरुं मुनिम् ॥३४॥वृत्तान्तं कथयामास मूलमारभ्य तं मुनिम् ।श्रुत्वा वार्तां पुनरौर्वः शुशोच बहुधा पुनः ॥३५॥जामातारं समुवाच भीतं प्रणतकन्धरम् ।अये ब्रह्मन्नत्रिपुत्र पौत्रस्त्वं ब्रह्मणः शुभः ॥३६॥स्वल्पदोषे बहुतरः कृतो दण्डस्त्वया कथम् ।त्वज्जन्मशंकरांशेन शिष्यस्त्वं ब्रह्मणस्तथा ॥३७॥वेदविज्ञश्च गुणवान् ज्ञानवाँश्च व्रतस्थितः ।अनसूया महासाध्वी कमलांशा तव प्रसूः ॥३८॥गुणवान् जनको यस्य माता गुणवती सती ।तयोः पुत्रो दयाहीनः सृष्टेः सूक्ष्मा त्यहो गतिः ॥३९॥न जाने केन दोषेण तव त्वैतादृशी मतिः ।हिंसाप्रधाना शश्वद्वंशसम्पद्विनाशिनी ॥४०॥मम प्राणाधिका त्वेका कन्या त्वयि समर्पिता ।महापतिव्रता वाणीमात्रदोषसमन्विता ॥४१॥वाग्दुष्टायास्तु दण्डो हि परित्यागो नयः स्मृतः ।परित्यक्तां पुनः पुत्रीं पिता पालयति ध्रुवम् ॥४२॥मदपत्यं स्वल्पदोषे यतो भस्मीकृतं त्वया ।पराभवस्तेऽपि महान् भविष्यति न संशयः ॥४३॥द्रोग्धुः कर्मफलं तूर्णे ददाति करुणानिधिः ।इत्युक्त्वाऽतिविलप्यैव हा पुत्रीति वहन् मुहुः ॥४४॥ज्ञात्वा तां कदलीवृक्षस्वरूपां सरितस्तटे ।आमूलात्तां खनयित्वा सहनीत्वा ययौ गृहम् ॥४५॥अस्वामिनीं फलहीनां पुत्रीं कुमारिकां तु ताम् ।कन्दलीं कदलीरूपां पुपोष जलसेचनैः ॥४६॥कर्दमस्तन्मूलदेशे क्लिद्यमानोऽभवत्ततः ।दुर्गन्धः स च दुर्वासो दुर्वासाः शापतोऽभवत् ॥४७॥तयोर्योगे त्वपत्यानि निष्फलान्यभवन्पुनः ।वनानि तानि जातानि गजभुक्तिप्रदानि वै ॥४८॥दुर्वाससस्तु चत्वारिंशदपत्यानि यानि वै ।कदलीगर्भजातानि तान्यौर्वाश्रममाययुः ॥४९॥और्वेण पालितान्येव तेषां वंशो व्यवर्धत ।अथ स्मृत्वा प्रियां दुर्वासास्तपस्यापरोऽभवत् ॥५०॥ततः कालान्तरे राजाऽम्बरीषात् स पराभवम् ।श्वशुरशापतो लेभे शृणु लक्ष्मि! वदामि ते ॥५१॥अम्बरीषः सूर्यवंशी राजा परमधार्मिकः ।श्रीकृष्णचरणाम्भोजे तन्मनः सततं ह्यभूत् ॥५२॥न राज्येषु न भार्यासु न पुत्रेषु प्रजासु न ।न सम्पत्सु क्षणं चित्तं पुण्यकर्माऽर्जितास्वपि ॥५३॥ध्यायतेऽहर्निशं भक्तो ज्ञाने स्वप्ने हरिं सदा ।महाभागवतः शान्तो विष्णुव्रतपरायणः ॥५४॥एकादशीव्रतरतः कृष्णपूजासु तत्परः ।सर्वकर्मस्वलिप्तश्च कर्ता कृष्णार्पितेषु च ॥५५॥सुतीक्ष्णं षोडशारं च हरेश्चक्रं सुदर्शनम् ।प्रभुणा रक्षितं शश्वद् रक्षायै नृपसन्निधौ ॥५६॥एकादशीव्रतं कृत्वा द्वादशी दिवसे सति ।स्नात्वाऽभ्यर्च्य हरिं दानं दत्वा सौवर्णराजतम् ॥५७॥साधून् विप्रान् भोजयित्वा भोजनार्थमुवास सः ।तावत्तत्र समायातो दुर्वासाः क्षुधितो मुनिः ॥५८॥दृष्ट्वा नत्वा समुत्थाय दत्वा तं पाद्यमासनम् ।पप्रच्छ राजा तं प्रीतः काऽऽज्ञा ते वद कामितम् ॥५९॥दुर्वासाः प्राह देह्यन्नं विधिना क्षुधितस्य मे ।किन्त्वघमर्षणमन्त्रं जप्त्वाऽऽयाम्यचिरेण वै ॥६०॥क्षणं प्रतीक्षतां राजन्नित्युक्त्वा प्रययौ ततः ।शीघ्रं नाऽऽयाति दुर्वासाः द्वादशीं विगतोन्मुखीम् ॥६१॥विलोक्य राजा पप्रच्छ वशिष्ठं धर्मसंकटम् ।नायाति मुनिशार्दूलः प्रयाति द्वादशी तिथिः ॥६२॥संकटेऽस्मिन् विधेयं किं वदेति प्रत्युवाच तम् ।वशिष्ठो हितकृत् तथ्यं पुण्यदं सर्वसम्मतम् ॥६३॥द्वादश्यां समतीतायां त्रयोदश्यां तु पारणम् ।उपवासफलं हत्वा व्रतिनं हन्ति निश्चितम् ॥६४॥न भोजयित्वा मूढश्चेदतिथिं समुपस्थितम् ।स त्रस्तः क्षुधितो भुंक्ते कुंभीपाके व्रजेद् ध्रुवम् ॥६५॥शतवर्षं तत्र तिष्ठन् नरश्चाण्डालतां व्रजेत् ।व्याधियुक्तो दरिद्रश्च भवेज्जन्मनि जन्मनि ॥६६॥अतोऽतिसूक्ष्मं ते ब्रूमोऽधुना परमसंकटे ।रक्षां कुरु द्वयोर्धर्मं समालोक्य वदामि ते ॥६७॥उपवासफलं रक्ष कृष्णस्य चरणोदकम् ।भुक्त्वा शीघ्रमपो राजाँस्तद्भक्षणमभक्षणम् ॥६८॥इत्युक्तो बुभुजे राजा किञ्चिद्वारि हरिं स्मरन् ।एतस्मिन्नन्तरे तत्राऽऽजगाम क्रोधनो मुनिः ॥६९॥चिच्छेद कोपात् सर्वज्ञः स्वजटां नृपतेः पुरः ।ततः समुत्थितः खड्गहस्तो नरोऽग्निसन्निभः ॥७०॥राजेन्द्रं हन्तुमायान्तं तं दृष्ट्वा चक्रमाच्युतम् ।चिच्छेद कृत्यापुरुषं छेत्तुं दुर्वाससं प्रति ॥७१॥गतं चक्रं विलोक्यैव विप्रो दुद्राव भीतवत् ।ब्रह्माण्डक्रमणे चक्रं पश्चाद्धावत्सुदर्शनम् ॥७२॥दृष्ट्वा त्राहीत्यभिगृणन् ब्रह्माणं शरणं ययौ ।ब्रह्मा प्राह हरेर्दासं शप्तुं गतः कथं मुने ॥७३॥रक्षिता यस्य भगवाँस्तं को हन्ति जगत्त्रये ।क्षुद्राणां महतां चापि भक्तानां रक्षणाय तु ॥७४॥ररक्ष सततं चक्रं श्रीहरिर्भक्तवत्सलः ।यो मूढ वैष्णवं द्वेष्टि विष्णुप्राणसमं जनम् ॥७५॥तस्य द्वेष्टुः स्वयं कृष्णनारायणोऽन्तमाचरेत् ।शीघ्रं स्थानान्तरं गच्छ वत्स त्राणं न वाऽधुना ॥७६॥अन्यथा त्वां मया सार्धं हनिष्यति सुदर्शनम् ।किं ब्रह्मलोकं ब्रह्माण्डं दग्धुं शक्तं क्षणेन यत् ॥७७॥तेजसा विष्णुतुल्यं यत् केनाऽन्येन निवार्यते ।इति श्रुत्वा प्रदुद्राव जगाम शरणं शिवम् ॥७८॥कृपानिधान मां रक्षेत्युवाच शंकरं भिया ।न तं पप्रच्छ कुशलं कैलासस्थोऽपि शंकरः ॥७९॥संहर्ता जगतां शंभुस्तूर्णमुवाच वै भिया ।पौत्रस्त्वं जगतां धातुरत्रेस्तु तनयो मुने! ॥८०॥ममांशो वेदविज्ञोऽसि मूर्खतुल्यं तु कर्म ते ।वयं यस्मात् समुत्पन्नास्तद्भक्तं हंसि वै कथम् ॥८१॥अहं ब्रह्मा च कमला दुर्गा वाणी च राधिका ।प्रभा लक्ष्मीः पार्वती च माणिकी श्रीः रमा जया ॥८२॥नहि भक्तात्पराः सर्वे भक्तोऽस्मभ्यः परो यतः ।क्षुद्राँश्च महतो भक्तान् शश्वद् रक्षति यत्नतः ॥८३॥चक्रेण भगवान् भक्तं रक्षति दुःसहेन वै ।दुर्निवार्यं यदा चक्रं न प्रतीतं सुरक्षणे ॥८४॥तदा चतुर्भुजः श्रीमान् स्वयं गच्छति रक्षितुम् ।भक्तकृते भ्रमत्येव छायेव सततं हरिः ॥८५॥कान्ता प्राणाधिका शश्वन्नहि लोके ततोऽधिकः ।भक्तान् द्वेष्टि स्वयं सा चेत् तूर्णं त्यजति तां प्रभुः ॥८६॥सर्वेषां तु प्रिया विप्राः स्वशरीरादपि हरेः ।ब्राह्मणेभ्यः प्रिया भक्ताः साधवः प्राणतः प्रियाः ॥८७॥विप्रेभ्यः साधवः श्रेष्ठाः सदाऽच्युतसुगोत्रकाः ।साधुधर्मशीलरक्षाकरास्ते सर्वतः प्रियाः ॥८८॥अयं राजापि साधूनां धर्मान् रक्षति माधवे ।भज ब्राह्मण गोविन्दं स्मर तस्य पदाम्बुजम् ॥८९॥व्रज शीघ्रं तु वैकुण्ठं श्रीकृष्णः शरणं तव ।चक्रं कैलासवासाँस्तु प्रदहत् तत्र वर्तते ॥९०॥पार्वती तु तदा प्राह सत्यं चेन्मे पतिव्रतम् ।तेजः सत्यं तपः सत्यं यदि चेच्चिरसञ्चितम् ॥९१॥कैलासस्थास्तथा चायं सर्वे भवन्तु विज्वराः ।ममाशिषा हरेर्भक्त्या ब्राह्मणः शरणागतः ॥९२॥दुर्वासा वैष्णवो भक्तः शीघ्रं भवतु विज्वरः ।इत्येवमुक्त्वा कृपया विरराम शिवा, शिवः ॥९३॥सुदर्शनं क्षणं तिष्ठत् प्रतीक्षते मुनिं मुहुः ।मुनिः प्रणम्य तौ देवौ वैकुण्ठं शरणं ययौ ॥९४॥दृष्ट्वा सुदर्शनं पश्चात् पपात पादयोर्हरेः ।त्राहि मां कमलाकान्त त्राहि मां करुणानिधे ॥९५॥दीनबन्धो महाविष्णो त्राहि मां संकटार्णवे ।भगवन्नव मां भीतं रक्ष मां भवसागरे ॥९६॥किं स्तौमि पाहि मां कृष्णनारायण नमोऽस्तु ते ।इत्युक्त्वा नेत्रनीरैः संसिसेच चरणाम्बुजे ॥९७॥नारायणस्तु तं प्राह समुत्तिष्ठ स्थिरो भव ।शृणु मे वचनं भद्रं भविष्यति सुखं तव ॥९८॥अन्येषां भवति ज्ञानं श्रुत्वा शास्त्रं सतां मुखात् ।मन्मूर्तयस्तु शास्त्राणि सन्तस्तु शास्त्रमूर्तयः ॥९९॥मूर्तिमन्ति तु शास्त्राणि सन्तो मे विचरन्ति हि ।तदुक्तं शास्त्रमेवाऽस्ति मदुक्तं तद्धृदि ह्यहम् ॥१००॥ब्राह्मणेभ्यश्च वेदेभ्यः सन्तः श्रेष्ठाः सदा मम ।मत्तोऽपि साधवः श्रेष्ठास्तान् भजामि सदा हृदि ॥१०१॥अहं प्राणो वैष्णवानां मम प्राणास्तु वैष्णवाः ।तान् द्वेष्टि यः स मां द्वेष्टि मम प्राणस्य हिंसकः ॥१०२॥पुत्रान् पौत्रान् कलत्राणि राज्यं लक्ष्मीं विहाय च ।ध्यायन्ते सततं ये मां को मे तेभ्यः परः प्रियः ॥१०३॥परा भक्तान्न मे प्राणा नहि लक्ष्मीर्न शंकरः ।न भारती न वै ब्रह्मा न दुर्गा न गणेश्वरः ॥१०४॥न ब्राह्मणा न वेदाश्च न वेदजननी परा ।न राधा नहि गोपाला न गोप्यः प्राणतः प्रियाः ॥१०५॥यथा प्रिया मम सन्तः सर्वपूज्या ममापि च ।मयैतत् कथितं सर्वं सत्यं सारं च वास्तवम् ॥१०६॥न प्रशंसापरं तेषां ते मे प्राणाधिकाः प्रियाः ।ये द्विषन्ति तु मद्भक्तान् प्राणानामधिकं प्रियान् ॥१०७॥तेषां शास्ता त्वहं पूर्णस्तूर्णं दण्डप्रदः प्रभुः ।स्वतन्त्रः सर्वतत्त्वेषु परतन्त्रस्तु साधुषु ॥१०८॥गोलोके वाऽथ वैकुण्ठे द्विभुजं वा चतुर्भुजम् ।अक्षरे शाश्वतं रूपं रूपमात्रं हि तन्मम ॥१०९॥प्राणास्तु सर्वथा भक्ते सत्सु वसन्ति मेऽनघ ।जलान्नं भक्तदत्तं च भक्षणीयं हि तन्मम ॥११०॥अभक्ष्यं द्रव्यमन्येन दत्तं चेदमृतोपमम् ।अम्बरीषं नृपश्रेष्ठं निरीहं तमहिंसकम् ॥१११॥कथं हंसि दयाशीलं सन्तं प्राणिहिते रतम् ।दयां कुर्वन्ति ये सन्तः सततं सर्वजन्तुषु ॥११२।ये भजन्ति तु मां भक्त्या मद्भाग्याश्च मयि स्थिताः ।तान् द्विषन्ति तु ये मूढास्तेषां हन्ताऽहमेव वै ॥११३॥भक्तानां हिंसकं शत्रुमहं रक्षितुमक्षमः ।अम्बरीषालयं गच्छ स त्वां रक्षितुमीश्वरः ॥११४॥करोतु पारणं तत्र राज्ञः संप्रीतये भवान् ।पूर्णं वर्षं भवान् भीतो भ्रमत्येव स्थले स्थले ॥११५॥उपवासी स राजेन्द्रः सभार्यः प्रशुचाऽन्वितः ।ततोऽहमुपवासी च भक्तोपवासकारणात् ॥११६॥ममाऽऽशिषा तु दुर्वासो विज्वरस्त्वं भविष्यसि ।पथि हिंसां च मच्चक्रं तव नैव करिष्यति ॥११७॥अहमद्य च निश्चिन्तः सुखं भोक्ष्यामि निश्चितम् ।भक्तदत्तं पारणायां प्रीत्या कृत्वा सुधौपमम् ॥११८॥लक्ष्मीदत्तमपि द्रव्यं नाहं भोक्तुमपीश्वरः ।यावद्भक्तो मम त्वास्ते ह्युपवासी मम प्रियः ॥११९॥गच्छ शीघ्रं त्वम्बरीषं कुरु त्वं भोजनं मुने! ।इत्युक्तः प्रययौ शीघ्रं सचक्रः क्रोधनो मुनिः ॥१२०॥उपोष्य वत्सरं राजा प्रतीक्षते मुनीश्वरम् ।ददर्श त्वागतं नत्वा भोजयित्वाऽन्नमुत्तमम् ॥१२१॥स्वयं राजा तु बुभुजे चक्रं प्रापूजयत्ततः ।तुष्टो विप्रोऽपि युयुजे नृपस्य परमाशिषम् ॥१२२॥जगाम स्वालयं तूर्णं प्रशशंस पुनः पुनः ।माहात्म्यं सर्वतः श्रेष्ठं वैष्णवानां सतामहो ॥१२२॥अथ कालान्तरे तप्त्वा तपश्च क्रोधनो मुनिः ।एकानंशां प्राप पत्नीं वसुदेवसुतां पुनः ॥१२४॥पतिव्रतया दुर्वासाः सेवितः सत्त्वकाम्यया ।पत्नीयुतः सत्यलोके राजते क्रोधनो मुनिः ॥१२५॥एतस्य श्रवणाल्लक्ष्मि! पातिव्रत्यं दृढं भवेत् ।भक्तसेवां परं धर्मं ज्ञात्वा भक्ता भवेत् सती ॥१२६॥कृष्णनारायणभक्ता भूत्वा कृष्णपतिव्रता ।नाऽपराधं प्रकुर्वीत भक्तानां स्वामिनः सती ॥१२७॥पत्युः सहेत सर्वस्वं क्षमावती यथा क्षितिः ।शीता भवेत् कदलीवत् स्वामिनं सुखयेत् सती ॥१२८॥कन्दल्यास्तु समाख्यानं श्रावितं बोधनाय वै ।मम भवन्तु तथा नार्यो गालीदा कन्दली यथा ॥१२९॥मा भवन्तु नराश्चापि दुर्वासाश्च यथा सरुट् ।पठनाच्छ्रवणात्त्वस्य भुक्तिर्मुक्तिर्भवेत् प्रिये! ॥१३०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दुर्वाससो बटुविप्ररूपनारायणदर्शनं, कन्दल्याः कदलीवृक्षत्वं, दुर्वाससःकर्दमात्मकदुर्वासत्वं, और्वस्य शापेनाऽम्बरीषापराधजन्यमहद्भयागमः, पातिव्रत्यदार्ढ्यं, वसुदेवसुतया एकानंशया दुर्वाससो विवाहचेत्यादिनिरूपणनामा षट्सप्तत्यधिकचतुश्शततमोऽध्यायः ॥४७६॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP