संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३६३ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३६३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३६३ Translation - भाषांतर श्रीनारायण उवाच-नाचिकेता पातिव्रत्यधर्मं श्रुत्वा यमाननात् ।यमं पप्रच्छ कुशलं सर्वलोकहितावहम् ॥१॥शृणु वच्मि यथा पृष्टं लक्ष्मि! वै नाचिकेतसा ।धर्मराज! महाबाहो! कथयस्व महातपाः ॥२॥कांक्षन्ते सर्वजनता सुखं तपोव्रतादिभिः ।एवं कृच्छ्राश्रितानां धीः कथं पापे प्रजायते? ॥३॥नानाव्रतशतोपायाः श्रेयोधर्मा हि मानवाः ।कस्यैतच्चेष्टितं पापं कर्ता कारयिता तु कः ॥४॥कथं द्वेषे मतिर्यद्वा कथं रागे प्रजायते ।कः कर्षति जगत्त्वेको भूतग्रामं चतुर्विधम् ॥५॥श्रुत्वा प्राह यमो देवो ब्रह्मर्षे! श्रूयतां तु तत् ।मानवा ब्रह्मणा सृष्टाः श्रेयोर्थं त्वेव केवलम् ॥६॥अन्ययोनिगता दुःखाः सुखिनः खलु मानवे ।धर्मज्ञानपरा भूत्वा भक्त्या श्रेयःपरायणाः ॥७॥तपसा व्रतदानैश्च स्वर्गं मोक्षं प्रयान्त्विति ।ऐन्द्रियिकं सुखं तत्र रागिणां सुखलब्धये ॥८॥प्रदत्तं धनदारादि स्पर्शादि सार्वकालिकम् ।सन्तुष्टाश्च सदा तृप्ता आत्मस्मरणकारकाः ॥९॥नाकृष्यन्तेऽति तद्वेगे निर्वर्तन्ते यतः सुखाः ।उपभोगेन तृष्णा स्याद् बलं तस्याः प्रजायते ॥१०॥न्यायमार्गं परित्यज्य तया पापे प्रवर्तते ।तृष्णया स्वार्थबुद्ध्या च कामक्रोधादिमिश्रया ॥११॥मृगतृष्णारूपया च स्वाप्नार्थहादितुल्यया ।प्रायो निष्फलया बन्धफलयाऽऽव्रियतेऽवशः ॥१२॥नान्यस्य चेष्टितं पापं सतृष्णस्यैव चेष्टितम् ।कर्ता कारयिता नान्यः स्वतृष्णामन्तरा भवेत् ॥१३॥इष्टाऽलाभे भवेद् द्वेष्टा लाभे रागी प्रजायते ।तृष्णया तत्र संकृष्टोऽविवेक्यग्रे प्रवर्तते ॥१४॥करोति कार्यं चाकार्यं तत् सञ्चितं प्रजायते ।आत्मानं पातयत्यात्मा भुंक्ते कर्म कृतं स्वयम् ॥१५॥आगतं भजते पूर्वं सुकृतं वाऽथ दुष्कृतम् ।आत्मा शत्रुश्च बन्धुश्च स्वस्य भवति भूसुर! ॥१६॥स्वस्य भोग्यं परिक्लेशं निर्मितं पूर्वकर्मभिः ।जगत्यामुपभुंक्ते वै जीवो योनिशतं गतः ॥१७॥अन्तरात्मा हृदयस्थो जगत्सर्वं प्रपश्यति ।संकल्पेन तथा शक्त्या जीवकर्मानुसारतः ॥१८॥प्रकाशते यथाकालं शुभं वाऽप्यथवाऽशुभम् ।ज्ञानं क्रियां हि जीवानां ताभ्यां कुर्वन्ति कर्म च ॥१९॥ज्ञानक्रिये तु जीवस्थे जीवायत्ते हि पक्षिणी ।पक्षाभ्यां विषये देशे धावत्यग्रे हि तृष्णया ॥२ ०॥साधुकारी भवत्येव साधुः स्वर्गादिपुण्यभाक् ।असाधुकारी भवत्यसाधुर्निरयपापभाक् ॥२१॥मायया वर्ष्मणोपादानत्वं तु ब्रह्मणो भवेत् ।कालेन तु महाशक्त्या सहकारित्वमुच्यते ॥ २२॥संकल्पेन हरेस्तत्र निमित्तमात्रताऽस्ति वै ।यथा सृष्टौ भगवतस्तथा जीवस्य कर्मणि ॥२३॥पुत्रोत्पादे ह्युपादानत्वं जीवस्य शरीरिणः ।ऋतुकाले समागृह्य सहकारित्वमित्यपि ॥२४॥कामनायुक्तजीवस्य निमित्तमात्रतापि च ।एवं सर्वत्र जीवानां हेतुता फलभागिता ॥२५॥तस्माच्छास्त्रादिभिर्ज्ञात्वा श्रेयः कर्म समाचरेत् ।अश्रेयः सर्वथा ज्ञानयत्नाभ्यां वै परित्यजेत् ॥२६॥यथा यथा क्षयं याति ह्यशुभं तु जनस्य वै ।तथा तथा शुभा बुद्धिर्वर्धते च प्रवर्तते ॥२७॥क्लेशक्षयं पापहरं शुभं कर्म करोति च ।अर्जिते विमले पुण्ये ह्यमरेषु महीयते ॥२८॥फलप्रकाशनप्राप्तिश्चान्तर्यामिकृताऽस्ति वै ।स्वर्गः शुभफलप्राप्तिर्निरयः पापसंभवः २९॥नाचिकेतः शृणु तत्र स्वकृते शुभवर्त्मनि ।मनसा कर्मणा वाचा तपसा चरितेन वा ॥३०॥शुभमेवाऽवलम्बेन पापेभ्यः स प्रमुच्यते ।यः समः सर्वभूतेषु जितात्मा शान्तमानसः ॥३१॥परोपकारकर्ता च परदुःखान्निवर्तते ।परेषां सुखदो नित्यं स पापेभ्यो विमुच्यते ॥३२॥तत्त्वार्थं वेत्ति यः सम्यग् जड चेतनं तद्गुणान् ।मोहशून्योऽनपेक्षश्च पदं प्राप्नोति शाश्वतम् ॥३३॥गुणाऽगुणपरिज्ञाता क्षयाऽक्षयविवेकवान् ।आत्मध्यानपरो ज्ञाता स पापेभ्यः प्रमुच्यते ॥३४॥स्वदेहे परदेहे च स्वार्थपरार्थसदृशः ।अहिंसाव्रतवान् विज्ञः स मुच्येतैनसा ध्रुवम् ॥३५॥अनुद्वेगकरो यस्तु तृष्णाक्रोधादिवर्जितः ।न्यायमार्गानुसारी यः स पापेभ्यः प्रमुच्यते ॥३६॥प्राणायामपरो नित्यं धारणाध्यानवाँश्च यः ।विनिर्वृत्तमना यश्च स पापेभ्यः प्रमुच्यते ॥३७॥यस्य कुत्रापि नाऽऽशाऽस्ति लोलुपो नेष्टवस्तुषु ।नित्यतृप्तस्त्यजेद् देहं स याति परमं पदम् ॥३८॥श्रद्धावान् सुरपूजादौ पितृसेवापरायणः ।परद्रव्याऽनभिलाषी स पापेभ्यः प्रमुच्यते ॥३९॥गुरुशुश्रूषणपरोऽनसूयोऽमत्सरोऽघृणी ।उदारचरितोऽक्षुद्रशीलो मुच्येत बन्धनात् ॥४०॥प्रशस्तानां तु यः कर्ताऽनृशंसपरिहारवान् ।मंगलोत्सवकर्ता यः स पापेभ्यः प्रमुच्यते ॥४१॥तीर्थं गच्छति यो नित्यं शुद्धं ब्रह्म स्मरन् सदा ।अपापां वर्तयन् वृत्तिं स पापेभ्यः प्रमुच्यते ॥४२॥उत्थाय पितरं देवं मातरं च गुरुं द्विजम् ।सन्तं साध्वीं नमस्कुर्यात् स पापेभ्यः प्रमुच्यते ॥४३॥दाता नाऽऽप्नोति दुःखं वै प्रहर्ता सुखवान्न वै ।भक्तो नाप्नोति संसारं विषयी मोक्षवान्न वै ॥४४॥एतच्छ्रेयो हितं चैव सर्वेषां समुदाहृतम् ।अथापि वक्ष्ये पापानां नाशाय साधनं द्रुतम् ॥४५॥सरलं क्षणसाध्यं च नाऽऽयासो यत्र विद्यते ।संसारतारका ये च गुरवः साधवो जनाः ॥४६॥हरेर्भक्ताश्च देवाश्च मुनयश्च महर्षयः ।सत्य_ साध्व्यो ब्रह्मचर्यशीला भागवताश्च ये ॥४७॥तेषां तु पादयोर्धार्यं शिरोऽर्प्यं हृदये मनः ।तदाज्ञायां वर्तनीयं भाव्यं सेवापरेण च ॥४८॥सन्तो यथा यथा येन केनापि कर्मणा मुहुः ।प्रसन्नाः स्युस्तथा वृत्यं स पापेभ्यः प्रमुच्यते ॥४९॥सोमं सूर्यं च गायत्रीजपेन स्मर्तुरेव च ।दर्शनं ब्रह्मभावेन कर्तुः पापं प्रणश्यति ॥५०॥गुरु प्रदक्षिणं कुर्याद् ध्यायेत् तं सम्प्रपूजयेत् ।गुरुं हरिं प्रसेवेत स पापेभ्यः प्रमुच्यते ॥५१॥प्राणायामशतं कृत्वा सर्वपापैः प्रमुच्यते ।सूर्यं चन्द्रं चक्षुषोर्वै ध्यायेदथ हृदि स्थितम् ॥ ५२॥सम्पूर्णौ विमलौ सम्यग् भ्राजमानौ प्रपश्यति ।तस्य स्वल्पं च वा वार्धिसमं पापं प्रणश्यति ॥५३॥वामनं ब्राह्मणं दृष्ट्वा वाराहं च जलोत्थितम् ।सिंहं च सिंहिकारूढं नमस्यतोऽघनाशनम् ॥॥५४॥गावः पवित्रा मांगल्या देवानामपि देवताः ।यस्ताः शुश्रूषते भक्त्या स पापेभ्यः प्रमुच्यते ॥॥५५॥सौम्ये मुहूर्ते संयुक्ते पञ्चगव्यं तु यः पिबेत् ।यावज्जीवकृतात्पापात् तत्क्षणादेव मुच्यते ॥५६॥लाङ्गूलेनोद्धृतं तोयं मूर्ध्ना गृह्णाति यो जनः ।सर्वतीर्थफलं प्राप्य स पापेभ्यः प्रमुच्यते ॥५७॥गोमूत्रेण तु यः स्नायाद् रोहिण्या मूत्रधारया ।सर्वपापकृता दोषा दह्यन्ते द्राङ् न संशयः ॥५८॥धेनुस्तनाद् विनिष्कान्तां धारां दुग्धस्य मस्तके ।धारयेद् यः पिबेच्चापि स पापेभ्यः प्रमुच्यते ॥५९॥गां सूर्यं ब्राह्मणं सन्तं सतीं प्रातर्नमश्चरेत् ।ददेद् दध्यक्षतवारि स पापेभ्यः प्रमुच्यते ॥६०॥ददेद् दध्यक्षतवारि सोमाय पूर्णिमातिथौ ।अरुन्धतीं ग्रहान्नत्वा सर्वपापैः प्रमुच्यते ॥६१॥द्विजं शुश्रूषते शूद्रस्तस्य पापं प्रणश्यति ।विषुवेषु च योगेषु संक्रान्त्यादिषु सर्वदा ॥ ६२ ॥व्रताहेषु च सर्वेषु समुत्सवगृहेषु च ।शूद्रः पयो दधिं दत्वा सर्वपापैः प्रमुच्यते ॥६३॥प्राचीनाग्रान् कुशान् कृत्वा स्थापयित्वा वृषं तथा ।द्विजैः सह नमस्कृत्य सर्वपापैः प्रमुच्यते ॥६४॥दक्षिणे तु तटे नद्यां स्नात्वा प्रागभिवाहिनीम् ।आचामेत् संनमस्येत् स मुच्यते सर्वपातकैः ॥६५॥दक्षिणावर्तशंखेन गृहीत्वा वारि मस्तके ।जन्मकृतानि पापानि शमयत्येव मानवः ॥६६॥प्राक्स्रोतसं जलं गत्वा नाभिमात्रजलेः स्थितः ।स्नात्वा कृष्णतिलैर्मिश्रा दद्यात् सप्ताञ्जलीन्नरः ॥६७॥प्राणायामत्रयं कृत्वा कृष्णनारायणं स्मरेत् ।यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥६८॥अच्छिद्रपद्मपत्रेण सर्वरत्नोदकेन च ।त्रिवारं यो नरः स्नायात् सर्वपापैः प्रमुच्यते ॥६९॥एकादशीनां व्रतकृद् द्वादशीनां प्रपालकः ।नारायणप्रभक्तो यस्तस्याऽघं स्पृशते नहि ॥७०॥ब्रह्मस्वहरणे रक्तास्तथा ब्राह्मणघातकाः ।गुरुद्रोहरता देवमित्रद्रोहरतास्तथा ॥७१॥स्वामिद्रोहरता ये च परदाराभिमर्षकाः ।परद्रव्यहरा ये चाऽभक्ष्यभक्षणकारिणः ॥७२॥दांभिका भिन्नमर्यादा वेदब्राह्मणनिन्दकाः ।असत्प्रतिग्रहे सक्ता ह्यगम्यागमने रताः ॥७३॥हिंसकाः पाशकाश्चापि मारका हारकाश्च ये ।धूर्ताः शठाः कापटाश्च तथा सुकृतवर्जिताः ॥७४॥एकादशीं द्वादशीं च श्रद्धया पालयन्ति चेत् ।तामुपोष्याऽद्यशून्याश्च भूत्वा यान्ति परं पदम् ॥७५॥उपायोऽतः परो नान्यो विद्यते पापनाशकः ।शुक्ला भक्तिप्रदा बोध्या कृष्णा मुक्तिं प्रयच्छति ॥७६॥मनसा वचसा चैव कर्मणा समुपार्जितम् ।पापं मासकृतं पुंसां दहत्येकादशी कृता ॥७७॥न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ।एकादशीं तु यः पूर्णामसमर्थ उपोषितुम् ॥७८॥तेन नक्तं प्रकर्तव्यं तथाऽयाचितमित्यथ ।एकभक्तेन दानेन कर्तव्यं द्वादशीव्रतम् ॥७९॥उपवासासमर्थैस्तु द्वादशी च प्रबोधिनी ।एकोपोष्या तु सा सर्वं पापं दहति जन्मकृत् ॥८०॥तस्यामाराध्य श्रीकृष्णनारायणं परमेश्वरम् ।प्राप्नोति सकलं चैतद् द्वादशद्वादशीफलम् ॥८१॥पूर्वाभाद्रपदायुक्तद्वादश्यां कृतमक्षयम् ।उत्तराभाद्रयुक्तायां ततः कोटिगुणं फलम् ॥८२॥प्रबोधन्यां कृतं सर्वमनन्तफलदं भवेत् ।शयने बोधने चैव हरेस्तु परिवर्तने ॥८३॥उपोष्यैव विधानेन व्रती निर्मलतां व्रजेत् ।एकादशी सोमयुता कार्तिके धवले दले ॥८४॥उत्तराभाद्रसंयुक्ता त्वनन्तफलदा मता ।एकादशी भौमयुक्ता द्वादशद्वादशीफला ॥८५॥तस्मात् सर्वप्रयत्नेन द्वादशीं समुपोषयेत् ।ते धन्यास्ते कृतार्थाश्च तैरेव सुकृतं कृतम् ॥८६॥जन्मान्तरसहस्रेषु समाराध्य परेश्वरम् ।वैष्णवत्वं लभेद्विप्र! सर्वपापक्षये सति ॥८७॥वैष्णवा हि महाभागाः पुनन्ति सकलं जगत् ।मामाराध्य तथा याति तद्विष्णोः परमं पदम् ॥८८॥संस्मृतः कीर्तितो वापि दृष्टः स्पृष्टोऽपि वा द्विज! ।पुनाति भगवद्भक्तश्चाण्डालोऽपि हरीच्छया ॥८९॥ये वैष्णवा महात्मानो विष्णुपूजनतत्पराः ।तरन्ति तारयन्त्यन्यान् स्त्रीशूद्रान् पापिनो जनान् ॥९०॥नाचिकेतः! शृणु गोप्यं रहस्यं पावनं परम् ।महापापातिपापानां द्रागेव नाशकं महत् ॥९१॥अत्यशुद्धजनानां च भ्रष्टानां कर्मिणां तथा ।चाण्डालानां हिंसकानां मद्यचौर्यकृतां तथा ॥९२॥व्यवायिनां वर्णप्रसांकर्यकृतां विशोधनम् ।पापानां वज्रलेपानां क्षालनं प्रवदामि ते ॥९३॥वैष्णवानां हि साधूनां पादप्रक्षालितं जलम् ।स्नातं चापि जलं तैस्तु पीतं चापि जलं तु यत्। ॥९४॥स्पृष्टं चापि जलं यद्वै तत्पातव्यं हि पापिना ।पीते तद् बिन्दुमात्रे वै पापानि प्रज्वलन्ति हि ॥९५॥पाने स्नाने प्रोक्षणे च शिरःक्षेपेऽङ्गलेपने ।नेत्रस्पर्शे च तद्वारि निघ्नन्त्यघानि जन्मनाम् ॥९६॥यानि कानि च पापानि पापजातीयकान्यपि ।दह्यन्ति जलपानेन सतां प्रासादिकेन वै ॥९७॥सतां दृष्ट्या स्त्रियः शूद्राः शुद्ध्यन्ति श्वपचा अपि ।सतां स्पर्शेन पापाश्च भवन्ति पावनाः क्षयात् ॥१८॥सतां सेवापरो देहो दिव्यो भवत्यभौतिकः ।सतां सेवापरो लक्ष्मीर्दिव्या भवति मोक्षदा ॥९९॥सतां चरणरजसा स्नातास्ते मुक्तिभागिनः ।सतां स्नेहस्य पात्रं यत् तत्पात्रं श्रीहरेः स्मृतम् ॥१००॥नाचिकेतः! सतां योगो हरेर्योगो न संशयः ।मे दूतास्तत्र न यत्र विष्णोर्दूता हि साधवः ॥१०१॥यमदूतैर्धर्षिता ये नार्यो नरा नपुंसकाः ।आश्लिष्यन्ति तदा साधून् मुच्यन्ते ते द्रुतं यमात्। ॥१०२॥सर्वैन्द्रियैः सतां योगो मुक्तिदो ब्रह्मभावदः ।साधुसंयोजनं दिव्यं नाऽस्माच्छ्रेष्ठं तथेतरत् ॥१०३॥हरेर्योगात्साधवो वै निर्गुणा ब्रह्ममूर्तयः ।साधुयोगात्पापिजीवा भवन्ति ब्रह्ममूर्तयः ॥१०४॥सद्भिर्मुक्तं वस्तुमात्रं दिव्यं भवति निर्गुणम् ।गुप्तं प्रकाशं तत्सर्वं ब्रह्मभूयाय कल्पते ॥१०५॥इति ते कथितं विप्र! समुद्धारस्य साधनम् ।गच्छात्मज्ञानसहितश्चान्यद् दत्तमवाप्य च ॥१०६॥इत्युक्त्वा यमराजः स समुत्थायाऽऽसनात् स्वकात् ।कृत्वा पूजां च मे युक्तां प्रियमुक्त्वा च भूसुरः! ॥१०७॥विसर्जयामास विभुः सुप्रीतेनाऽऽन्तरात्मना ।एतद्वः कथितं विप्रास्तस्य राज्ञः पुरोत्तमे ॥१०८॥यथादृष्टं श्रुतं चापि यथा चेहाऽऽमतोऽस्म्यहम् ।हति लक्ष्मि! नाचिकेतोवचः श्रुत्वा तु भूसुराः ॥१०९॥सर्वमूर्धन्यमूर्धन्यं सतां प्रासादिकं जलम् ।ज्ञात्वा हर्ष समापन्नाः साधवो दीनवत्सलाः ॥११०॥केचिद् वैखानसास्तत्र केचिदासन्निरासनाः ।यायावरास्तथा चान्ये वानप्रस्थास्तथाऽपरे ॥१११॥शालीनाश्च तथा केचित् कापोतीं वृत्तिमास्थिताः ।शिलोञ्छाश्चाभवन्नन्ये पाकिनोऽपाकपाचिनः ॥११२॥नानायज्ञकराः केचिज्जितात्मानस्तु केचन ।स्थानमौनधरास्त्वन्ये जलवासास्तथाऽपरे ॥११३॥तथोर्ध्वशायिकावृक्षे तथान्ये मृगचारिणः ।पंचाग्नयस्तथा चान्ये केचित् पर्णफलाशिनः ॥११४॥अब्भक्षा वायुभक्षाश्च तथाऽन्ये शाकभक्षिणः ।तापसा विविधास्त्वेते शाश्वतीं धियमाश्रिताः ॥११५॥श्रुत्वा चैवं कथामेतामृषयो दिव्यवर्चसः ।विस्मिता जलमाहात्म्यं श्रुत्वा साधुसमाश्रयम् ॥११६॥ययुर्बद्र्याश्रमं साधोर्नरनारायागस्य वै ।चरणयोर्जलं पातुमिच्छवो भक्तितत्पराः ॥११७॥नचिकेतोऽपि धर्मात्मा पुत्रं दृष्ट्वा यमाऽर्चितम् ।तपोधनं पुनःप्राप्तं धर्ममेवाऽन्वचिन्तयत् ॥११८॥नाचिकेता अपि शिष्यान् आत्मज्ञानमशिक्षयत् ।साधुधर्मं पावनं च पालयामास निर्भरम् ॥११९॥इति ते कथितं लक्ष्मि! याम्यचक्रे महाबलम् ।तदुद्धारकरं वारि सतां प्रासादिकं महत् ॥१२०॥यमुनायाश्च गंगाया गोमत्याश्चापि सर्वथा ।गोदावर्याः सरय्वाश्च रेवायाश्चापि सर्वथा ॥१२१॥गण्डक्याः स्वर्णरेखायास्तपत्याश्चापि सर्वथा ।कावेर्यास्ताम्रपर्णायाः समुद्राणां च सर्वथा ॥१२२॥तीर्थानां यानि वारीणि तेभ्यः सर्वेभ्य एव यत् ।दिव्यं श्रेष्ठं पावनं च साधुपादजलं सदा ॥१२३॥सर्वकामप्रदं मोक्षप्रदं लक्ष्मीप्रदं महत् ।श्रवणात्पठनादस्य फलं सर्वप्रदं भवेत् ॥१२४॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने यमराजोक्तं शुभाशुभप्रवृत्तिकारणं, पापमोचनोपायः, धेनुसेवैकादशीप्रभतिव्रतसाधुचरणामृतपानसेवनादिभिः परमश्रेयइत्यादिश्रुतमुक्त्वा नाचिकेता विरराम, ऋषयो बद्रीनारायणं जग्मुरित्यादिनिरूपणनामा त्रिषष्ट्यधिकत्रिशततमोऽध्यायः ॥३६३॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP