संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४५७ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४५७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४५७ Translation - भाषांतर श्रीनारायण उवाच-दत्रात्रेयस्य सच्छिष्यः कार्तवीर्याऽर्जुनो नृपः ।पतिव्रतया तत्पत्न्या मनोरमाख्यया मुहुः ॥१॥रक्षितोऽपि बोधितोऽपि न मेने स्वप्रियावचः ।अनादृत्य गतो युद्धे जामदग्न्यस्य सन्निधौ ॥२॥तदा देहः परित्यक्तो मनोरमाख्ययोषिता ।ततो मृतः कार्तवीर्यः शृणु लक्ष्मि! कथां तु ताम् ॥३॥माहिष्मत्या नगर्याः स राजाऽभूदर्जुनो महान् ।एकदा कार्तवीर्यः स जगाम मृगयां वने ॥४॥रात्रौ बुभुक्षितः श्रान्तो जमदग्न्याश्रमं ययौ ।कामधेनुप्रतापेन ससैन्यो भोजितो नृपः ॥५॥जमदग्निं मारयित्वा कामधेनुं जहार सः ।ययावनु सती वह्नौ प्रविश्य रेणुका पतिम् ॥६॥पर्शुरामः क्रोधमाप्तः प्रतिज्ञां प्रचकार ह ।त्रिःसप्तकृत्वो निर्भूपां करिष्यामि महीमिमाम् ॥७॥ब्राह्मणेभ्यो धनं दत्वा ब्रह्मलोकं जगाम ह ।प्रतिज्ञां कथयामास ब्रह्मणेऽथ तमाह सः ॥८॥शिवलोकं गच्छ वत्स शंकरं शरणं व्रज ।श्रीकृष्णमन्त्रकवचग्रहणं कुरु शंकरात् ॥९॥दुर्लभं वैष्णवं तेजः शैवं शाक्तं विजेष्यति ।श्रुत्वा नत्वा वेधसं सः शिवलोकं जगाम ह ॥१०॥ननाम मूर्ध्ना शंभुं स वृत्तान्तं समुवाच तम् ।प्रसन्नः शंकरस्तस्मै ददौ श्रीकृष्णसन्मनुम् ॥११॥त्रैलोक्यविजयं वर्म तथा स्तोत्रं हरेः शुभम् ।त्रैलोक्यविजयस्याऽस्य कवचस्य प्रजापतिः ॥१२॥ऋषिश्छन्दश्च गायत्री देवो रासेश्वरः प्रभुः ।त्रैलोक्यविजयप्राप्तौ विनियोगः सदा मतः ॥१३॥प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ।पायात् कपालं 'कृष्णाय स्वाहा' पञ्चाक्षरात्मकः ॥१४॥कृष्णेति पातु नेत्रे च कृष्णः स्वाहेति तारकम् ।हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥१५॥ओं गोविन्दाय स्वाहेति नासिकां पातु सर्वदा ।गोपालाय नमो गण्डौ पातु मे सर्वतः प्रभो ॥१६॥ओं नमो गोपांगनेशाय कर्णौ पातु सदा मम ।ओं कृष्णाय नमः शश्वत्पातु मेऽधरयुग्मकम् ॥१७॥ओं गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु ।पातु कृष्णाय दन्ताऽधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥१८॥ओं श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ।रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥१९॥राधिकेशाय स्वाहेति कण्ठं पातु सदा मम ।नमो गोपांगनेशाय वक्षः पातु सदा मम ॥२०॥ओं गोपेशाय स्वाहेति स्कन्धं पातु सदा मम ।नमः किशोरवेशाय स्वाहा पृष्ठं सदाऽवतु ॥२१॥उदरं पातु मे नित्यं मुकुन्दाय नमः सदा ।औं ह्रीं क्लीं कृष्णाय स्वाहा करौ पातु सदा मम ॥२२॥ओं विष्णवे नमो बाहुयुग्मं पातु सदा मम ।ओं हीं भगवते स्वाहा नखरं पातु मे सदा ॥२३॥ओं नमो नारायणाय नखरन्ध्रं सदाऽवतु ।औं ह्रीं ह्रीं पद्मनाभाय नाभिं पातु सदा मम ॥२४॥ओं सर्वेशाय स्वाहेति ककालं पातु मे सदा ।ओं गोपीरमणाय स्वाहा नितम्बं पातु मे सदा ॥२५॥ओं गोपीरमणनाथाय पादौ सदाऽवतु मम ।ओं हीं क्लीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥२६॥ओं केशवाय स्वाहेति मम केशान् सदाऽवतु ।नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥२७॥ओं माधवाय स्वाहेति मे लोमानि सदाऽवतु ।ओं ह्रीं श्रीं रलिकेशाय स्वाहा सर्वं सदाऽवतु ॥२८॥परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु ।स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु ॥२९॥पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु ।नैर्ऋत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥३०॥गोविन्दः पातु मां शश्वद् वायव्यां दिशि नित्यशः ।उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥३१॥ऐशान्यां मां सदा पातु वृन्दावनविहारकृत् ।वृन्दावनीप्राणनाथः पातु मामूर्ध्वदेशतः ॥३२॥सदैव माधवः पातु बलिहारी बलाधिकः ।जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥३३॥स्वप्ने जागरणे शश्वत् पातु मां माधवः सदा ।सर्वात्मा श्रीकृष्णनारायणो मां पातु सर्वतः ॥३४॥इति त्रैलोक्यविजयं वर्मोक्तं ते महाऽद्भुतम् ।कण्ठे वा दक्षिणे बाहौ धारणाद् विजयः सदा ॥३५॥स भवेत् सिद्धकवचो दशलक्षं जपेत्तु यः ।दशांशहोमः कर्तव्यो यथेष्टसिद्धिमिच्छता ॥३६॥ओं श्री नमः श्रीकृष्णाय परिपूर्णतमाय स्वाहा ।सिद्धः स्यात् पञ्चलक्षैस्तु मन्त्रः सप्तदशाक्षरः ॥३७॥अथ स्तोत्रं शृणु दिव्यं सद्यस्तुष्टिकरं परम् ।दिव्यं श्रीश्रीकृष्णनारायणस्य वेधसोदितम् ॥३८॥सूक्ष्मतमं चाक्षरेशं निर्गुणं सगुणं हरिम् ।निराकारं च साकारं श्रीकृष्णं प्रणमाम्यहम् ॥३९॥सर्वाधारं स्वतन्त्रं च कमनीयं विभुं हरिम् ।साक्षिणं कर्मफलदं श्रीकृष्णं प्रणमाम्यहम् ॥४०॥जगज्जन्मादिकर्तारं सच्चिदानन्दमर्थगम् ।स्त्रीपुंनपुंसकात्मानं श्रीकृष्णं प्रणमाम्यहम् ॥४१॥तारकं धारकं सर्वकारणानां तु कारणम् ।बीजं विप्रं रविं चन्द्रं श्रीकृष्णं प्रणमाम्यहम् ॥४२॥शंकरं शेषरूपं च ब्रह्माणं कपिलं मुनिम् ।सनत्कुमारं राधेशं श्रीकृष्णं प्रणमाम्यहम् ॥४३॥विष्णुं देवीं मनुं भक्तं वसन्तं मार्गशीर्षकम् ।एकादशीं सागरं च श्रीकृष्णं प्रणमाम्यहम् ॥४४॥हिमालयं क्षितिं वृन्दां चन्दनं कल्पपादपम् ।धान्यं च पारिजातं च श्रीकृष्णं प्रणमाम्यहम् ॥४५॥ऐरावतं वैनतेयं कामधेनुं तथामृतम् ।सुवर्णं च यवं सिंहं श्रीकृष्णं प्रणमाम्यहम् ॥४६॥बृहस्पतिं कुबेरं च वेदमिन्द्रं सरस्वतीम् ।अकारं जाह्नवीं मनः श्रीकृष्णं प्रणमाम्यहम् ॥४७॥सुदर्शनं ब्रह्मतेजः कान्तं कालं बलं गुरुम् ।मातरं विश्वकर्माणं श्रीकृष्णं प्रणमाम्यहम् ॥८॥पतिव्रतां पितरं च शालग्रामं सुतं नृपम् ।सामवेदं वृषं शैत्यं श्रीकृष्णं प्रणमाम्यहम् ॥४९॥गन्धं शब्दं राजसूयं गायत्रीं पावकं पयः ।सुचित्रस्थं स्तुतिं दर्भं श्रीकृष्णं प्रणमाम्यहम् ॥५०॥शान्तिं विभुं मतिं चित्रं श्यामलं गोपिकापतिम् ।दिव्यभूषाधरं कान्तं श्रीकृष्णं प्रणमाम्यहम् ॥५१॥विहारिणं च रसिकं राधाकान्तं मनोहरम् ।लक्ष्मीशं श्रीकृष्णनारायणं नित्यं नमाम्यहम् ॥५२॥इति स्तोत्रेण त्रैलोक्ये सर्वदा विजयो भवेत् ।गच्छ साधय संकुरु प्रतिज्ञान्तं जयस्तव ॥५३॥रामो गत्वा पुष्करे संसाध्य युद्धाय निर्गतः ।ददर्श मंगलान्येव शुश्राव जयसूचकम् ॥५४॥हरिशब्दं सिंहशब्दं घण्टादुन्दुभिवादनम् ।आकाशीयस्वरगीतिं जयस्ते भवितेति वै ॥५५॥नवेङ्गितं च कल्याणं मेघशब्दं जयावहम् ।ददर्श पुरतो विप्रबन्दिदैवज्ञभिक्षुकान् ॥५६॥पुरो ददर्श दीपं च पतिपुत्रवतीं सतीम् ।शिवं शिवां पूर्णकुंभं चापं च नकुलं तथा ॥५७॥कृष्णमृगं गजं सिंहं तुरगं गण्डकं द्विपम् ।चमरीं राजहंसं च चक्रवाकं शुकं पिकम् ॥५८॥मयूरं खञ्जनं शंखचिल्लं तथा चकोरकम् ।पारावतं बलाकं च कारण्डं चातकं चटम् ॥५९॥सौदामिनीं शक्रचापं सूर्यं सूर्यप्रभां शुभाम् ।सद्योमांसं सजीवं च मत्स्यं शंखं सुवर्णकम् ॥६०॥माणिक्यं रजतं मुक्तां मणीन्द्रं च प्रवालकम् ।दधि लाजान् शुक्लधान्यं शुक्लपुष्पं च कुंकुमम् ॥६१॥पर्णं पताकां छत्रं च दर्पणं श्वेतचामरम् ।धेनुं वत्सयुतां नृपं रथस्थं हेतिसंयुतम् ॥६२॥दुग्धमाज्यं च पूगं चामृतं च पायसं शुभम् ।शालग्रामं फलं पक्वं स्वस्तिकं शर्करां मधु ॥६३॥मार्जारं च वृषं श्वेतं मेषं पर्वतमूषिकम् ।मेघाच्छन्नस्य च रवेरुदयं चन्द्रमण्डलम् ॥६४॥कस्तूरीं व्यजनं तोयं हरिद्रां तीर्थमृत्तिकाम् ।सिद्धार्थं सर्षपं दूर्वां विप्रबालं च कन्यकाम् ॥६५॥मृगं वेश्यां षट्पदं च कर्पूरं पीतवाससम् ।गोमूत्रं गोपुरीषं च गोधूलिं गोपदाऽङ्कितम् ॥६६॥गोष्ठं गवां वर्त्म रम्यां गोशालां गोगतिं तथा ।भूषणं देवमूर्तिं च ज्वलदग्निं महोत्सवम् ॥६७॥ताम्रं च स्फटिकं वन्द्यं सिन्दूरं माल्यचन्दनम् ।गन्धं च हीरकं रत्नं ददर्श दक्षिणे मुनिः ॥६८॥सुगन्धिपवनाऽऽघ्राणं प्राप्य विप्राशिषः शुभाः ।कार्तवीर्याऽर्जुनाऽभ्याशे ययौ श्रीनर्मदातटम् ॥६९॥तत्राऽक्षयवटाऽधस्ताद् रात्रौ निद्रां जगाम ह ।निशातीते ददर्शायं स्वप्नानि विविधानि च७०॥न चिन्तितं यन्मनसा वायुपित्तकफं विना ।गजाश्वशैलप्रासादगोवृक्षफलितेषु च ॥७१॥आरुह्यमाणमात्मानं रुदन्तं कृमिभक्षितम् ।आरुह्यमाणमात्मानं नौकायां चन्दनोक्षितम् ॥७२॥पुष्पमालां धृतवन्तं पीतवस्त्रैः सुशोभितम् ।विण्मूत्रोक्षितसर्वांगं वसापूयसमन्वितम् ॥७३॥वीणां वरां वादयन्तमात्मानं स ददर्श ह ।विस्तीर्णपद्मपत्राढ्यं स्वं ददर्श सरित्तटे ॥७४॥दध्याज्यमधुसंयुक्तं भुक्तवन्तं च पायसम् ।भुक्तवन्तं च ताम्बूलं लभन्तं व्राह्मणाशिषम् ॥७५॥फलपुष्पप्रदीपं च पश्यन्तं स्वं ददर्श ह ।परिपक्वफलं क्षीरमुष्णान्नं शर्करान्वितम् ॥७६॥स्वस्तिकं भुक्तवन्तं च मिष्टान्नं श्वेतचूर्णजम् ।शर्करायुग्वारिपानं कुर्वन्तं स्वं ददर्श सः ॥७७॥जलौकसा वृश्चिकेन मीनेन भुजगेन च ।भक्षितं भीतमात्मानं पलायन्तं ददर्श सः ॥७८॥ततो ददर्श चात्मानं मण्डले शशिसूर्ययोः ।पतिपुत्रवतीं नारीं ददर्श सस्मितां ततः ॥७९॥सुवेषया कन्यया सस्मितेन च द्विजेन च ।ददर्श श्लिष्टमात्मानं तुष्टेन परितुष्टया ॥८०॥फलितं पुष्पितं वृक्षं देवताप्रतिमां नृपम् ।गजस्थं च रथस्थं च पश्यन्तं स्वं ददर्श सः ॥८१॥पीतवस्त्रपरीधानां रत्नालंकारभूषिताम् ।विशन्तीं ब्राह्मणीं गेहं पश्यन्तं स्वं ददर्श सः ॥८२॥शंखं च स्फटिकं श्वेतमालां मुक्तां च चन्दनम् ।सुवर्णं रजतं रत्नं पश्यन्तं स्वं ददर्श सः ॥८३॥गजं वृषं च सर्पं च श्वेतं च श्वेतचामरम् ।नीलोत्पलं दर्पणं च पर्शुरामो ददर्श ह ॥८४॥रथस्थं नवरत्नाढ्यं मालतीमाल्यभूषितम् ।रत्नसिंहासनस्थं स्वं रामः स्वप्ने ददर्श ह ॥८५॥पद्मश्रेणीं पद्मकुंभं दधि लाजान् घृतं मधु ।पर्णच्छत्रं छत्रिणं च रामः स्वप्ने ददर्श ह ॥८६॥बकपंक्तिं हंसपंक्तिं कन्यापंक्तिं व्रतान्विताम् ।पूजयन्ती घटं शुभ्रं रामः स्वप्ने ददर्श ह ॥८७॥मण्डपस्थं द्विजगणं पूजयन्तं हरं हरिम् ।जयोऽस्त्वित्युक्तवन्तं तं रामः स्वप्ने ददर्श ह ॥८८॥सुधावृष्टिं पर्णवृष्टिं फलवृष्टिं गवागमम् ।पुष्पचन्दनवृष्टिं च रामः स्वप्ने ददर्श ह ॥८९॥सद्योमांसं जीवमत्स्यं मयूरं श्वेतखञ्जनम् ।सरोवरं च तीर्थानि रामः स्वप्ने ददर्श ह ॥९०॥पारावतं शुकं चापं शंखं चिल्लं च चातकम् ।व्याघ्रं सिंहं च सुरभीं रामः स्वप्ने ददर्श ह ॥९१॥गोरोचनां हरिद्रां च शुक्लधान्यचयं शुभम् ।ज्वलदग्निं तथा दूर्वां रामः स्वप्ने ददर्श ह ॥९२॥देवालयसमूहं च शिवलिंगं च पूजितम् ।अर्चितां मृन्मयीं शैवां रामः स्वप्ने ददर्श ह ॥९३॥यवगोधूमचूर्णानां भक्ष्याणि विविधानि च ।भुक्तवन्तं मुहुः स्वं च रामः स्वप्ने ददर्श ह ॥९४॥दिव्यवस्त्रविभूषाढ्या नारीः स्वप्ने स भुक्तवान् ।अगम्यागमनं स्वप्ने चकार परशुप्रधिः ॥९५॥ददर्श नर्तकीं वेश्यां रुधिरं च सुरां पपौ ।रुधिरोक्षितसर्वांगं स्वात्मानं स ददर्श ह ॥९६॥पक्षिणां पीतवर्णानां मानुषाणां च पद्मजे ।मांसानि बुभुजे रामो हृष्टः स्वप्नेऽरुणोदये ॥९७॥अकस्मान्निगडैर्बद्धं क्षतं शस्त्रेण स्वं पुनः ।दृष्ट्वैवं बुबुघे प्रातः समुत्तस्थौ हरिं स्मरन् ॥९८॥मनसा बुबुधे सर्वं विजेष्यामि रिपून् ध्रुवम् ।कार्तवीर्यार्जुनो रात्रावनिष्टानि ददर्श ह ॥९९॥तैलाऽभ्यंगितमात्मानं ददर्श गर्दभोपरि ।औढपुष्पस्य माल्यं च बिभ्रतं रक्तचन्दनम् ॥१००॥रक्तवस्त्रपरीधानं लोहालंकारभूषितम् ।क्रीडन्तं च हसन्तं च निर्वाणांगारराशिना ॥१०१॥भस्मच्छन्नां च पृथिवीं जयापुष्पान्वितां भुवम् ।रहितं चन्द्रसूर्याभ्यां रक्तसन्ध्यान्वितं नभः ॥१०२॥मुक्तकेशां च नृत्यन्तीं विधवां छिन्ननासिकाम् ।रक्तवस्त्रपरीधानां ददर्श चाट्टहासिनीम् ॥१०३॥सशरामग्निरहितां चितां भस्मसमन्विताम् ।भस्मवृष्टिमसृग्वृष्टिमग्निवृष्टिं ददर्श सः ॥१०४॥पक्वतालफलाकीर्णां पृथिवीमस्थिसंभृताम् ।कर्परौघं ददर्शाऽपि छिन्नकेशनखान्विताम् ॥१०५॥पर्वतां लवणानां च राशीभूतं कपर्दकम् ।चूर्णानां चैव तैलानां ददर्श कन्दरं निशि ॥१०६॥ददर्श पुष्पितं वृक्षमशोककरवीरयोः ।तालवृक्षं च फलितं ददर्श सः पतत्फलम् ॥१०७॥स्वकरात्पूर्णकलशः पपात च बभञ्ज च ।ददर्शाऽपि च गगनात् सम्पतत्सूर्यमण्डलम् ॥१०८॥एवं ददर्श गगनात् सम्पतच्चन्द्रमण्डलम् ।उल्कापातं धूमकेतुं ग्रहणं चन्द्रसूर्ययोः ॥१०९॥विकृताकारपुरुषं विकटास्यं दिगम्बरम् ।आगच्छन्तं त्वग्रतस्तं स्वप्ने ददर्श चार्जुनः ॥११०॥बाला द्वादशवर्षीया वस्त्रभूषणभूषिता ।संरुष्टा याति स्वगेहादेवं स्वप्ने ददर्श सः ॥१११॥मनोरमा निजपत्नी याचते काननं प्रति ।गमनायैकला चेति स्वप्ने ददर्श चार्जुनः ॥११२॥रुष्टो विप्रो मां शपते सन्यासी च यतिर्गुरुः ।भित्तौ पुत्तलिकाश्चित्रा नृत्यन्तीश्च ददर्श सः ॥११३॥गृध्रैः काकैर्महिषैश्च पीडितं स्वं ददर्श सः ।पीडितं तैलयन्त्रेण भ्रामितं तैलकारिणा ॥११४॥धृतं नग्नैः पाशहस्तैरात्मानं स ददर्श ह ।नृत्यन्ति गायकाः सर्वे गानं गायन्ति मे गृहे ॥११५॥विवाहं परमानन्दं रमतो लोकनायकान् ।केशाकेशि कुर्वतश्चाऽर्जुनो ददर्श वै निशि ॥११६॥ददर्श समरं रात्रौ काकानां च शुनां तथा ।मोटकानि च पिण्डानि श्मशानं शवसंयुतम् ॥११७॥रक्तवस्त्रं शुक्लवस्त्रं ददर्श चार्जुनो निशि ।कृष्णाम्बरा कृष्णवर्णा विवस्त्रा मुक्तमूर्धजा ॥११८॥विधवाऽऽश्लिष्यति स्वं तत् स्वप्नेऽर्जुनो ददर्श ह ।नापितो मुण्डते मुण्डं श्मश्रुश्रेणीं च वक्षसम् ॥११९॥नखैर्विदारितं वक्षः स्वप्नेऽर्जुनो ददर्श ह ।पादुकाश्चर्मरज्जूनां राशिं स्वप्ने ददर्श सः ॥१२०॥चक्रं भ्रमन्तं भूमौ च कुलालस्य ददर्श सः ।वात्यया घूर्णमानं च शुष्कवृक्षं समुत्थितम् ॥१२१॥पूर्णमानं कबन्धं च स्वप्नेऽर्जुनो ददर्श ह ।ग्रथितां मुण्डमालां च चूर्ण्यमाना तु वात्यया ॥१२२॥अतीव घोरदशनान् भूतप्रेतान् भयंकरान् ।हुताशनं वमतश्च स्वप्नेऽर्जुनो ददर्श ह ॥१२३॥दग्धजीवं दग्धवृक्षं व्याधिग्रस्तं नरं परम् ।अंगहीनं च वृषलं स्वप्नेऽर्जुनो ददर्श ह ॥१२४॥कुहपर्वतवृक्षाणां सहसा पतनं तथा ।मुहुर्मुहुर्वज्रपातं स्वप्नेऽर्जुनो ददर्श ह ॥१२५॥कुक्कुराणां शृगालानां मुहुः शुश्राव रोदनम् ।अधःशीर्षमूर्ध्वपादं मुक्तकेशं दिगम्बरम् ॥१२६॥भूमौ भ्रमन्तं गच्छन्तं ददर्श चार्जुनो निशि ।विकृतध्वनिशन्दं च ग्रामाग्रे देवरोदनम् ॥१२७॥श्रुत्वा प्रातर्जजागार कार्तवीर्याऽर्जुनो नृपः ।क्षुवँश्च शयनाद् यातः प्रस्खलन् स्वपतिव्रताम् ॥१२८॥मनोरमां निशि दृष्टदुष्टस्वप्नातिदुःखिताम् ।सती साध्वी प्रिया नाथं पतिं दृष्ट्वा पतिव्रता ॥१२९॥सिषेवे त्वन्तिमां सेवां क्रोडे कृत्वा पतिं स्वकम् ।शतपुत्राधिकः प्रेम्णा सतीनां वै पतिर्यतः ॥१३०॥किन्तु दुष्टापशकुनैर्ज्ञात्वा भाविविनाशनम् ।पतिर्मे श्रीकृष्णनारायणांशेन द्विजेन वै ॥१३१॥योद्धुं याति च विज्ञाय प्राणान् सर्वान् निरुद्ध्य सा ।षटचक्राणि भेदयित्वा ब्रह्मरन्ध्रं जगाम सा ॥१३२॥त्वरितं दिव्यरूपा सा सतीलोकं तु प्राग् ययौ ।अथाऽर्जुनो ययौ योद्धुं ददर्शाऽमंगलानि सः ॥१३३॥सती दिव्यशरीरेण स्वामिना सह सङ्गरम् ।रथमारुह्य पार्श्वस्थाऽदृश्या सहचरी ययौ ॥१३४॥ददर्श द्वारि विधवां छिन्ननासां कुरूपिणीम् ।अर्जुनः कृष्णवस्त्राढ्यां रुदतीं मुण्डिनीं खलाम् ॥१३५॥मुखदुष्टां योनिदुष्टां व्याधियुक्तां च कुट्टिनीम् ।पतिपुत्रविहीनां चाऽपरां ददर्श पुंश्चलीम् ॥१३६॥कुंभकारं तैलकारं व्याधं सर्पोपजीविनम् ।कुचैलमतिरूक्षांगं नग्नं काषायवाससम् ॥१३७॥चितादग्धं शवं भस्म निर्वाणांगारमित्यपि ।वसाविक्रयिणं चापि कन्याविक्रयिणं तथा ॥१३८॥सर्पक्षतं नरं सर्पं गोधां च शशकं विषम् ।श्राद्धपाकं च पिण्डं च मोटकं च तिलांस्तथा ॥१३९॥शूद्रान्नभोजकं विप्रं देवलं ग्रामयाजकम् ।कुशपुत्तलिकां चैव शवदाहनकारिणम् ॥१४०॥शून्यकुंभं भग्नकुंभं तैलं लवणमस्थि च ।कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणम् ॥१४१॥दक्षिणे तु शृगालं च कुर्वन्तं भैरवं रवम् ।कपर्दकं च क्षौरं च छिन्नकेशं नखं मलम् ॥१४२॥कलहं च विलापं च तथा क्लेशकरं जनम् ।अमंगलं रुदन्तं च रुदन्तं शोकिनं जनम् ॥१४३॥मिथ्यासाक्ष्यप्रदातारं चौरं च नरघातिनम् ।पुंश्चलीपतिपुत्रौ च पुंश्चल्योदनभक्षकम् ॥१४४॥देवतागुरुविप्राणां वस्तुवित्तापहारकम् ।दत्तापहारिणं दस्युं हिंसकं सूचकं खलम् ॥१४५॥पितृमातृविरक्तं च द्विजाऽश्वत्थविघातिनम् ।सत्यघ्नं च कृतघ्नं च क्षतं विश्वासघातिनम् ॥१४६॥गुरुदेवद्विजानां च निन्दकं स्वागहीनकम् ।नपुंसकं कुष्ठिनं च काणं बधिरमित्यपि ॥१४७॥पुल्कस छिन्नलिंगं च खल्वाटं श्मश्रुहीनकम् ।सुरामत्तं सुरां रण्डामुष्टेर महिषगर्दभ१ ॥१४८॥क्षिप्तं वमन्तं रुधिरं लूकं काकं ददर्श सः ।मूत्रं पुरीषं श्लेष्माणं रूक्षिणं नृकपालकम् ॥१४९॥चण्डवातं रक्तवृष्टिं कुवाद्यं वृक्षपातनम् ।वृकं च सूकर गृध्रं श्येनं कंकं च भल्लुकम् ॥१५०॥निगडं शुष्ककाष्ठं च वायसं गन्धकं तथा ।अभिचारोपजीवं कुवैद्य तुषं तथौषधम् ॥१५१॥रक्तपुष्पं मृतवार्ता विप्रशापं क्षुवं तथा ।यष्टिमुकुटपतनं कार्तवीर्यो ददर्श ह ॥१५२॥वामांगस्पन्दनं देहजाड्य रथाश्वपश्चनम् ।रथचक्रक्रूररावो हृदि त्रासश्च जज्ञिरे ॥१५३॥तथापि राजा निःशंकः प्रविवेश रणाजिरम् ।प्रणम्य परशुरामं ब्राह्मणेभ्यो ददौ धनम् ॥१५४॥रणतूर्याण्यवाद्यन्त सन्नाहोऽभूच्च सैन्ययोः ।पर्शुरामोऽर्जुनमाह न्याय्यं यत् सर्वश्पृण्वताम् ॥१५५॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कामधेनुहरणमिषेगा जमदग्निनाशः, रेणुकायाः सतीत्वं, पर्शुरामस्य शकरात् श्रीकृष्णमन्त्रकवचस्तोत्रलाभः, स्वप्ने जागरणे पर्शुरामस्य शकुनानि, सहस्रार्जुनस्याऽपशकुनानि, पतिव्रतायाः मनोरमायाः पातिव्रत्येन सतीत्वं, रणागमश्चेत्यादिनिरूपणनामा सप्तपञ्चाशदधिकचतुश्शत तमोऽध्यायः ॥४५७॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP