संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३४९ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३४९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३४९ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! यमुनाया विश्रान्तिघट्टनिर्वचः ।उज्जयिन्यामभूद् विप्रो भ्रष्टाचारः प्रणास्तिकः ॥१॥सदाचारपरित्यागी न तु स्नानं करोति सः ।स न पूजयते देवान्न स साधून्नमस्यति ॥२॥कामनाव्याकुलः सन्ध्याशयनः पितृनिन्दकः ।श्राद्धखण्डनकर्ता च पापसंगः सुदुर्मतिः ॥३॥स्वकुटुम्बोदरभरश्चौर्यादिभिः सदा निशि ।एकदा स निशि चौर्यं कुर्वाणः पापिभिः सह ॥४॥राजभटैर्वीक्ष्यमाणो द्रवन्वेगाद्विमार्गगः ।पलायमानः स परमन्धकूपेऽपतत्तदा ॥५॥मृतोऽसौ पतितश्चाथ राक्षसत्वमुपागतः ।स तु पार्श्वगमार्गस्थजीर्वावृक्षे वसन् सदा ॥६॥पशून्पक्षवतः प्राणान् रक्तं पिबति खादति ।कदाचित्तेन मार्गेण महान्सार्थ उपागतः ॥७॥तन्मध्यस्थेन विप्रेण रक्षोघ्नमन्त्ररक्षितः ।सार्थः सुष्वाप सुश्रान्तो वृक्षाऽधःकूपसन्निधौ ॥८॥तत्रागत्य च रक्षस्तु ब्राह्मणं प्राह भो द्विज! ।अहं दास्यामि ते द्रव्यं यत्ते मनसि वर्तते ॥९॥बहुकालेन संप्राप्तं भोजनं बहुमानवम् ।देहि भक्षयितुं विप्र! गच्छान्यत्र कृपां कुरु ॥१०॥येनाऽहं भक्षये सार्थं यावत् तृप्तिर्भवेन्मम ।विप्रः प्राह कृतघ्नोऽहं न भवामि कथंचन ॥११॥दुष्टेन मम का मैत्री को लाभो रक्षसा सह ।रक्षसा मित्रतालाभौ प्राणान्तामन्त्रणाप्रदौ ॥१२॥सार्थेन मम लाभोऽस्ति न त्वया तु कथंचन ।एकसार्थप्रयातोऽहं नोत्सृजामि सहार्थकम् ॥१३॥तस्माद् राक्षस! गच्छ त्वं विहाय मम सार्थकम् ।निरीक्षितुं न शक्तोऽसि मम मन्त्रबलेन वै ॥१४॥रक्षः प्राह हते भक्ष्ये मे दोषस्ते भविष्यति ।दयां कुरु त्वं विप्रेन्द्र! भोजनं मम दीयताम् ॥१५॥एवमर्थमर्थयन्तं पप्रच्छ राक्षसं द्विजः ।केन कर्मप्रदोषेण राक्षसत्वमुपागतः ॥१६॥रक्षः प्रकथयामास चौर्याऽनाचारदूषणैः ।विप्रोऽपि पापकार्यैश्च राक्षसत्वमुपागतः ॥१७॥तदा सार्थगतः क्ष्मादेवोऽपि श्रुत्वा कृपां गतः ।उवाच रक्षो वद मे मार्जयामि द्विजस्य ते ॥१८॥यानि कानि च पापानि मुक्तिश्चापि यथा भवेत् ।मया कृतोपकारेण प्रियं किं करवाणि ते ॥१९॥श्रुत्वाऽऽह राक्षसो विप्रं त्वया यात्रा बहुकृता ।मथुरायां तु यत् स्नानं कृतं विश्रान्तितीर्थके ॥२०॥तच्च स्नानफलं देहि येन मुक्तिं व्रजाम्यहम् ।विप्रः पप्रच्छ तच्छ्रुत्वा राक्षसं प्रागुदन्तकम् ॥२१॥कथं जानासि रक्षस्त्वं तीर्थं विश्रान्तिसंज्ञकम् ।कथं च तादृशी संज्ञा सर्वं कथय वित्सि चेत्। ॥२२॥राक्षसः प्राह विप्रेन्द्र! उज्जयिन्यां पुरा मम ।पुर्यां वासः सदाऽऽसीन्मे तत्र वै .विष्णुमन्दिरे ॥२३॥लक्ष्मीनारायणसंहितायाः कथां तु भूसुरः ।करोति नित्यमेवातिभावतो जनताकृते ॥२४॥विश्रान्तितीर्थमाहात्म्यं श्रुतं द्विज मया तदा ।तस्य श्रवणमात्रेण मम भक्तिर्हृदि स्थिता ॥२५॥सा तु संज्ञा श्रुता तत्र विश्रान्तेरर्थबोधिका ।वासुदेवः परं ब्रह्म कृष्णनारायणो हरिः ॥२६॥विश्रामं कुरुते नित्यं यत्र वै यमुनातटे ।तत्स्थानं जलसान्निध्ये विश्रान्तिसंज्ञकं ह्यभूत् ॥२७॥तत्र स्नाता कोटियुगान्स्वर्गं भुक्त्वा ततः परम् ।वैराजसंज्ञकान् लोकान् भुक्त्वा याति परं पदम् ॥२८॥तस्मात् प्रयच्छ विप्रेन्द्र! ह्येकस्नानस्य मे फलम् ।येन मे राक्षसभावान्मुक्तिः स्वर्गगतिस्तथा ॥२९॥अन्ते मुक्तिर्भवेच्चापि कृपां कुरु ममोपरि ।राक्षसस्य वचः श्रुत्वा सार्थविप्रोऽब्रवीत्तदा ॥३०॥एकस्नानस्य हि फलं तव दत्तं तु राक्षस! ।इत्यभिधाय यावत् स जलं ददाति रक्षसे ॥३१॥तावच्छुद्धो दिव्यतनुमवाप्य स दिवं ययौ ।तत्र भोगान्परान् भुक्त्वा मोक्षमवाप पद्मजे ॥३२॥ततः सार्थः स विप्रो हि ययौ देशं प्रति स्वकम् ।शृणु लक्ष्मि! पुरा शंभुर्हरेस्तोषणहेतवे ॥३३॥चकारोग्रं तपस्तेन प्रसन्नः सन्नहं तदा ।शंकरं तु समागत्य दत्वा दर्शनमेव मे ॥३४॥वरं वरय चेत्युक्तो वव्रे मत्तो वरं हरः ।यदि तुष्टोऽसि भगवन्! मथुराक्षेत्रमण्डले ॥३५॥यत्र क्वापि च मे स्थानं सदा कृष्ण! प्रदीयताम् ।तदा मया कथितं त्वं क्षेत्रपालो भविष्यसि ॥३६॥त्वयि दृष्टे महादेव! मम क्षेत्रफलं भवेत् ।मम क्षेत्रस्य संरक्षां कुरु शंभो! सदाऽभितः ॥३७॥मम क्षेत्रप्रवेशे च संसारो वै निवर्तते ।यथा वैकुण्ठनगरी वल्लभा मथुरा मम ॥३८॥विंशतिर्योजनानां हि माथुरं मम मण्डलम् ।पदे पदेऽश्वमेधानां फलं मद्योगतो भवेत् ॥३९॥अत्र तिष्ठन्ति तीर्थानि स्वर्गमोक्षप्रदानि वै ।षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥४०॥इति श्रुत्वा वरं प्राप्य शंभुस्तत्रैव संस्थितः ।क्षेत्रपालस्वरूपो मे भक्तराड् वैष्णवः परः ॥४१॥इति ते कथितं लक्ष्मि! माहात्म्यं मोक्षदं परम् ।ये पठन्ति च शृण्वन्ति ते यान्ति परमं पदम् ॥४२॥कुलान्यपि तारयन्ति द्वे शते विंशयोर्द्वयोः ।प्राप्ते च मरणे तीर्थं स्मरेद् यो माथुरं जनः ॥४३॥स गच्छेत् परमां सिद्धिमिह संसारनाशिनीम् ।सर्वेषामेव तीर्थानां माथुरं परमं महत् ॥४४॥कृष्णेन क्रीडितं तीर्थं तच्छुद्धं हि पदे पदे ।दक्षिणोत्तरवसुधामण्डलं माथुरं सदा ॥४५॥गृहान्निःसृत्य मौनेन यावत्स्नानं हि वर्तयेत् ।प्रपूजानन्तरं ब्रूयाद् धेनूर्दद्यात्पयस्विनीः ॥४६॥हिरण्यं च वसुं दद्याद् भोजयेद् भूसुरान सतः ।चातुर्मास्ये मथुरायां वसेद् दादानि वर्तयेत् ॥४७॥न तस्य पुनरावृत्तिर्मम लोके महीयते ।माथुरे तु मृता लक्ष्मि! मम लोकं व्रजन्ति वै ॥४८॥अन्यत्र च मृतानां वै दाहे माथुरमण्डले ।कृते स्वर्गं तथा वासो मम गोलोकधामनि ॥४९॥माथुराणां तु यद्ररूपं तद्रूपं मे चतुर्भुजम् ।माथुरेण तु तृप्तेन तृप्तोऽहं वार्धिजे! सदा ॥५०॥शृणु लक्ष्मि! यथावृत्तं गरुडस्य महात्मनः ।आगतस्य मथुरायां कृष्गदर्शनकांक्षया ॥५१॥कृष्णस्याऽग्रे गरुडः स स्तुतिं चक्रे ननाम च ।जय लक्ष्मीपते! कृष्ण! जयस्व माणिकीपते! ॥५२॥प्रभापते! जय राधापते! श्रीपार्वतीपते! ।जय विष्णो! जय कृष्णनारायण! रमापते! ॥५३॥जय गोपीपते! कृष्ण! गरुडाधिपते! जय ।जय सर्वपते! ब्रह्म जय कृष्ण! नमोऽस्तु ते ॥५४॥इत्येवं संस्तुतो देवो गरुडेन महात्मना ।गरुडस्य पुरः कृष्ण स्थितोऽभूत् सुशरीरवान् ॥५५॥उवाच पक्षिराट् किं ते चिकीर्षितं तथाऽऽगमः ।वद शीघ्रं प्रदास्येऽहं श्रुत्वाऽऽह गरुडस्तदा ॥५६॥मथुरामागतश्चाऽहं तव दर्शनकांक्षया ।न दृष्टं तव रूपं च मां तु मोहः समाविशत्। ॥५७॥मथुरायां भवान लोकैः समं धृत्वा स्वरूपकम् ।वर्तते न मया ज्ञातस्ततो मां मोहमाविशत् ॥५८॥इदानीं दिव्यरूपं ते दृष्ट्वा शान्तिरभूत्तु मे ।गरुडस्य वचः श्रुत्वा प्रहस्योवाच माधवः ॥५९॥माथुराणां स्वरूपेण वर्ताम्यहं द्विजोत्तम ।ये पापस्ते न पश्यन्ति मद्रूप्रान् माथुरान् जनान् ॥६०॥अहं वसामि तत्रैव विचरामि क्वचित् पृथक् ।एवमुक्त्वा ततः कृष्णस्तत्रैवान्तरधीयत ॥६१॥गरुडोऽपि गतः कृष्णपदे वैकुण्ठमेव ह ।माथुरा मथुरायां वै स्थित्वा देवत्वमागताः ॥६२॥पवित्रयन्ति सर्वांस्ते यथा कृष्णस्य पार्षदाः ।अपि कीटः पतंगो वा तिर्यग्योनिस्थितोऽपि वा ॥६३॥चतुर्भुजा भवन्त्येव श्रीकृष्णस्य प्रतापतः ।अथ लक्ष्मि! शृणु त्वन्यत् चमत्कारं तु माथुरम् ॥६४॥सौराष्ट्रस्य रैवताद्रेर्वास्तव्यो ब्राह्मणो हरिः ।पत्नीव्रताभिधानः स्वकुटुम्बेन पुरा युगे ॥६५॥यमुनायास्तु यात्रार्थं गतो माथुरमण्डलम् ।विश्रान्तौ स यमुनायां स्नातश्चक्रे प्रदक्षिणम् ॥६६॥मथुरायास्तथा गोवर्धनस्याऽन्यवनस्य च ।वृन्दावनस्य तुलसीवनस्यापि प्रदक्षिणम् ॥६७॥भोजयित्वा बहून् विप्रान् नीत्वा तीर्थजलानि च ।न्यवर्तत स्वकं देशं मरुदेशः समागतः ॥६८॥तत्राऽरण्ये शमीप्राये शुष्के शृंगमये स्थले ।ददर्श डाकिनीशाकिनीनां सार्थं शतोत्तरम् ॥६९॥नृत्यन्तं भक्षय खादयेति ब्रूवन्तमुद्धतम् ।वीरूपं च विवस्त्रं च कृष्णवर्णं भयंकरम् ॥७०॥कृत्यासार्थं विलोक्यैव पत्नीव्रतस्तु तत्क्षणम् ।चक्रे सस्मार कृष्णस्य द्रागेवोपस्थितं ज्वलत् ॥७१॥प्रेतस्वरूपिकास्तास्तच्चक्रं ददाह बाह्यतः ।रुरुदुस्ताश्चुक्रुशुश्च प्रार्थयांचक्रुरत्यति ॥७२॥त्राहि ब्रह्मन्! न भक्ष्यामो मरिष्यामोऽत्र रक्ष नः ।वयं मरुनृपतेर्वै पत्न्योऽभवन् शतोत्तरम् ॥७३॥मद्यमांसाशनाः पापकारिण्यो धर्मवर्जिताः ।महामारीमहारोगे राजा तु निधनं गतः ॥७४॥राज्यं हृतं त्रिपुरेण भ्रष्टास्तेन कृता वयम् ।भूकम्पे भवने भग्ने सर्वास्तत्राऽर्दिता मृताः ॥७५॥डाकिनीशाकिनीभौतियोनिं गताः स्म भूसुर! ।मोक्षं कुरु तदस्माकं तीर्थजलेन केशव! ॥७६॥श्रत्वा पत्नीव्रतः सोऽयं कृष्णांशो ब्राह्मणो जलम् ।यमुनायाः करे धृत्वा प्रोक्षयामास तास्तदा ॥७७॥प्रेतरूपाणि सन्त्यज्य दिव्याश्चतुर्भुजास्तु ताः ।रमारूपास्तदा जाता नत्वा तुष्टुवुरादरात् ॥७८॥कृष्णः स्वयं त्वमेवाऽसि ह्युद्धृता दुःखसागरात्॥नय धाम स्वकं कृष्णेत्युक्ते विमानमागतम् ॥७९॥विप्रः कृष्णस्वरूपः स गोलोकं तां निनाय वै ।पुनः कुटुम्बसहितः स्वदेशं रैवतं ययौ ॥८०॥इति विश्रान्तितीर्थस्य यमुनासलिलस्य च ।प्रेतोद्धारकरं दिव्यं माहात्म्यं ते प्रकीर्तितम् ॥८१॥कृष्णनारायणश्चाऽहं यमुनाजलसंगतः ।यत्र तत्र तदा स्वर्गं गोलोकं मोक्ष एव च ॥८२॥य इदं शृणुयाच्चापि वाचयेच्छ्रावयेत्तथा ।तेषां लक्ष्मि! भवेत् स्वर्गं गोलोके मुक्तिरेव च॥ ॥८३॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुराक्षेत्रमाहात्म्ये उजयिनीपुरीवासिभ्रष्टाचारविप्रस्य राक्षसत्वमुपगतस्य विश्रान्तिस्नानफलदानान्मुक्तिः, शंभुकृतक्षेत्रसरक्षणं, गरुडस्य माथुररूपकृष्णाऽपरिचये स्तवनेन दिव्यदर्शनं,पत्नीव्रतविप्रात्मककृष्णनारायणकृतो विश्रान्तिजलप्रोक्षणेन डाकिनीशाकिनीशतोत्तरमोक्षश्चेत्यादि- निरूपणनामैकोनपञ्चाशदधिकत्रिशत-तमोऽध्यायः ॥३४९॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP