संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३६६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३६६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३६६ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! महासत्याः सावित्र्याः परमोत्तमम् ।पातिव्रत्यप्रभावं त्वं येन संजीवितः पतिः ॥१॥या वेदजननी प्रोक्ता ब्रह्मणा पूजिता पुरा ।देवव्रातैः पूजिता च पूजिता विदुषां गणैः ॥२॥राज्ञाऽश्वपतिना त्वाद्ये सत्ययुगेऽर्चिता तथा ।सर्वैस्तु मानवैः पश्चात्पूजिता सा पतिव्रता ॥३॥मद्रदेशे महाराजो बभूवाश्वपतिः शुभः ।आसीत्तस्य महाराज्ञी मालती नाम नामतः ॥४॥चकाराऽऽराधनं साध्वी पत्युर्निर्देशकारिणी ।सावित्र्याः परया भक्त्या वशिष्ठस्योपदेशतः ॥५॥आराधितवती ब्राह्मीं सावित्रीं बहुवत्सरान् ।सा ददर्श न सावित्रीं फलं नाऽवाप वै मनाक् ॥६॥संभग्नहृदया जाता दुःखिता भोगवर्जिता ।राजा तां सान्त्ववचनैर्धैर्यं प्रदर्श्य नीतियुक् ॥७॥राज्ञीं गृहे सन्नियुज्य राज्यभारं प्रदाय च ।सावित्र्याः साधनार्थं सः पुष्करं तपसे ययौ ॥८॥तत्र समाहितो भूत्वा तपश्चक्रे शतं समाः ।ततः शुश्राव दिव्यां स वाणीं व्योम्न्यशरीरिणीम् ॥९॥गायत्रीदशलक्षं त्वं जा। कुरु नृपेति वै ।एतच्छ्रुत्वा त्वश्वपतिश्चिन्तयामास तद्विधिम् ॥१०॥तावत्तत्र समायातो दिव्यदेहः पराशरः ।राजा नत्वा मुनिं तत्र पप्रच्छ कृतपूजनः ॥११॥विधिं जपस्य गायत्र्या मुनिर्नृपमुवाच ह ।सकृज्जपस्तु गायत्र्याः पापं दिनकृतं हरेत् ॥१२॥दशवारं जपः पापं दिनरात्रिकृतं हरेत् ।शतवारं जपः पापं मासकृतं विनाशयेत् ॥१३॥सहस्रधा जपः पापं वार्षिकं संविनाशयेत् ।लक्षं जपो जन्मपापं शुष्कं चार्द्रं विनाशयेत् ॥१४॥दशलक्षं जपः पापं विनाशयेत् त्रिजन्मनाम् ।शतलक्षजपः सर्वजन्माद्यं नाशयेद् घ्रुवम् ॥१५॥दशकोटिजपो मुक्तिं ददात्येव न संशयः ।करं सर्पफणाकारं कृत्वा समूर्ध्वमुद्रितम् ॥१६॥अनम्रमूर्धा ह्यचलः प्रजपेत् प्राङ्मुखो द्विजः ।जपेत्सुरालये तीर्थे तुलसीकाष्ठमालया ॥१७॥बीजानां वा स्फाटिकानां मालामष्टोत्तरं शतम् ।मणिकाग्रथितां सौम्यामश्वत्थपत्रसप्तसु ॥१८॥स्थापयित्वा स्नापयेच्च पञ्चगव्येन तां ततः ।स्नापयेत्तीर्थतोयेन पुण्यगंगोदकेन वा ॥१९॥गायत्रीशतकं जप्त्वा जपयोग्यां हि कारयेत् ।अथ क्रमेण च ततो दशलक्षं जपं कुरु ॥२०॥साक्षाद् द्रक्ष्यसि सावित्रीं सर्वपातकसंक्षये ।प्रगे मध्ये तथा सत्यं नित्यं त्रिसन्ध्यकृद् भव ॥२१॥सन्ध्याजापविहीनस्तु कर्मफलभाग् भवेत् ।यावज्जीवं त्रिसन्ध्याकृद् भवेत्सूर्यसमोज्ज्वलः ॥२२॥जीवन्मुक्ताः स विज्ञेयोऽन्येषां पापविनाशकृत् ।तत्पादरजसा पृथ्वी सद्यः पूता भवत्यपि ॥२३॥तीर्थान्यपि पवित्राणि भवन्ति तस्य संस्पृशेः ।वैष्णवत्वविहीनस्य त्रिसन्ध्यारहितस्य च ॥२४॥एकादशीविहीनस्य गृह्णन्ति नार्चनं सुराः ।न गृह्णन्त्यपि पितरः श्राद्धपिण्डादितर्पणम् ॥२५॥हर्यतर्पितभोजी च शवस्पर्शादिकारकः ।शूद्रयाजनकर्ता च राजस्वल्यगमस्तथा ॥२६॥असिजीवी मषीजीवी कृषिजीवी च मत्स्यभुक् ।भगजीवी सुताविद्याविक्रयी नोच्यते द्विजः ॥२७॥वैष्णवो भव राजर्षे! मध्याह्ने च जपं कुरु ।ज्येष्ठे कृष्णत्रयोदश्यां शुद्धो भूत्वा व्रती जनः ॥२८॥व्रतं कुर्याच्चतुर्दश्यां सावित्रीं संजगन्मुहुः ।निराहारं व्रतं कुर्याच्चतुर्दशसमात्मकम् ॥२९॥चतुर्दशफलैर्युक्तं नैवेद्यं च द्विसप्तकम् ।पुष्पाम्बरोपवीतं च धूपं दीपं प्रसंददेत् ॥३०॥संस्थाप्य मंगलघटं फलरत्नादिसंयुतम् ।गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥३१॥संपूज्य पूजयेन्मुख्यं घटे त्वावाहिते व्रती ।मुख्यां देवीं तु सावित्रीं ध्यायेन्मूर्तौ स्थिरो व्रती ॥३२॥माध्यन्दिने तु सावित्र्या ध्यानं शृणु तथा नृप! ।स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम् ॥३३॥तप्तकांचनसद्वर्णां ज्वलन्तीं ब्रह्मतेजसा ।ईषद्धास्यप्रसन्नास्यां स्वर्णरत्नविभूषिताम् ॥३४॥स्वर्णांशुकां दयाशान्तिसुखमुक्तिप्रदां सतीम् ।सर्वसम्पत्प्रदात्रीं च कान्तां श्रीपरमेष्ठिनः ॥३५॥वेदाधिष्ठातृदेवीं च बीजरूपां तु मातरम् ।सर्वसंकल्पदात्रीं च भजे विद्याप्रदायिनीम् ॥३६॥एवं ध्यात्वा ध्यानधार्य पुष्पं दत्वा स्वमूर्धनि ।घटे त्वावाहयेद् देवीं पूजयेत् षोडशार्पणैः ॥३७॥आसनं पाद्यमर्घ्यं चाऽऽचमनीयं तथा जलैः ।पञ्चामृतैश्च स्नानीयं सुगन्धाद्यनुलेपनम् ॥३८॥अभिषेकं तथा वस्त्रैः संमार्जनं तथाऽम्बरम् ।भूषा पुष्पाणि शृंगारद्रव्याणि त्वर्पयेत्तथा ॥३९॥धूपं यज्ञोपवीतादि सौभाग्यार्थं द्रवाणि च ।दीपं नैवेद्यकं वारि ताम्बूलं चन्दनादिकम् ॥४०॥आरार्त्रिकं फलं पत्रं सुतल्पं नमनादिकम् ।पादसंवाहनं दिव्यमनसा च क्षमापनम् ॥४१॥ततः पुष्पाञ्जलिं दत्वा मातरं तां विसर्जयेत् ।उपस्थिताय विप्राय दद्याद् व्रती तु दक्षिणाम् ॥४२॥जपेत् श्रीं ह्रीं क्लीं सावित्र्यै स्वाहे-त्यष्टोत्तरं शतम् ।सकृज्जपाद् दशकोटिजपपर्यन्तमेव हि ॥४३॥यथाशक्ति जपेन्मध्यंदिने स्तोत्रं ततः परम् ।कृष्णेन दत्ता सावित्री गोलोके ब्रह्मणे पुरा ॥४४॥ब्रह्मा राधास्वरूपां तां पर्यष्टौद् वेदमातरम् ।कृष्णशक्तिस्वरूपे! श्रीस्वरूपे! परमेश्वरि! ॥४५॥नारायणस्वरूपे! त्वं नारायणि! महेश्वरि! ।तेजोमयि! परानन्दमयि! द्विजातिवर्धिनि! ॥४६॥नित्ये! सनातनि! लक्ष्मि! सर्वमंगलरूपिणि!सर्वदेवीस्वरूपे! मोक्षदे! सुखदे! सुन्दरि! ॥४७॥ब्रह्मतेजःप्रदे! भक्तदुरीतनाशकारिणि!कायेन मनसा वाचा जाताघानां विनाशिनि! ॥४८॥ब्रह्मणा संस्तुता या त्वं सत्यलोकं गता सह ।सुखदे मोक्षदे कन्ये प्रसन्ना भव सुन्दरि! ॥४९॥इति स्तोत्रं वद त्वश्वपते! प्राप्स्यसि दर्शनम् ।स्तोत्रं चेद्ं त्रिसन्ध्यायां यः पठेन्मातरं स्मरन् ॥५०॥चतुर्वेदादिपाठानां सम्पूर्णं लभते फलम् ।प्रभा च पार्वती लक्ष्मीर्माणिक्या कमला सती ॥५१॥सावित्री वेदमाता सा ददाति दर्शनं स्वकम् ।इत्युक्त्वा स ऋषिश्रेष्ठो ययौ स्वर्गं पराशरः ॥५२॥राजा त्वश्वपतिश्चक्रे सतपोजपनार्चनम् ।ददर्श तां स सावित्रीं सहस्रार्कसमप्रभाम् ॥५३॥ततो लक्ष्मि! नृपतिः सोऽपूजयद् ध्येयदेवताम् ।प्राह तं सा प्रसन्नास्मि ते जानामि मनोगतम् ॥५४॥साध्वी कन्याभिलाषं ते करोति महिषी यतः ।वाञ्छितं तव पत्न्यास्तत् सर्वं दास्यामि निश्चितम् ॥५५॥त्वं तु प्रार्थयसि पुत्र भविष्यति क्रमात् सुतः ।इत्युक्त्वा सा महादेवी ब्रह्मलोकं ययौ तिरः ॥५६॥राजा तु तां दिशं नत्वा जगाम स्वालयं ततः ।नातिचिरेण कालेन सा कन्याऽऽदावजायत ॥५७॥सवितृसदृशी रूपे सावित्रीवरदानजा ।सूयमाना सुखं सा वै सावित्रीनामतः कृता ॥५८॥तज्जन्मसमये ब्रह्मा देवैः सहाऽऽजगाम ह ।पुष्पवृष्टिं तदा कृत्वा ययौ धाम स्वकं ततः ॥५९॥नित्यं तस्यास्तु बालाया दर्शनार्थं सुरादयः ।समायान्त्यदृश्यरूपा मुदा त्वश्वपतिगृहे ॥६०॥वैकुण्ठसदृशं राज्ञो भवनं समशोभत ।कालेन यौवनं प्राप्ता दिव्या देवी व्यराजत ॥६१॥ब्रह्मांश समभूत् काले द्युमत्सेनात्मजो बली ।सत्यवानिति नाम्ना सः कुमारो गुणवारिधिः ॥६२॥सा वरं वरयामास सत्यवन्तं स्वयंवरे ।राजा तस्मै ददौ तां च रत्नाभूषणभूषिताम् ॥६३॥विवाहविधिना तां स नीत्वा वरो गृहं ययौ ।गार्हस्थ्यपातिव्रत्यादिधर्माश्चरति सा सती ॥६४॥संवत्सरे व्यतीते च सत्यवान् पितुराज्ञया ।जगाम फलकाष्ठार्थमरण्यं घातके दिने ॥६५॥सावित्री पातिव्रताख्यधर्मबलेन तन्मृतेः ।कालं ज्ञात्वा तत्पश्चाद् ययौ यत्र गतः पतिः ॥६६॥शुष्ककाष्ठानि चादातुं यतते सत्यवान् भुवि ।शिरोवेदनया प्राणाँस्तत्याज तं तदा यमः ॥६७॥बद्ध्वा सूक्ष्मशरीरेण युक्तं ययौ यमालयम् ।तद्देहं वृक्षपत्रेषु रक्षित्वाऽनुययौ सती ॥६८॥सतीं दृष्ट्वा यमस्तां वै प्रोवाच न्याययुग्वचः ।अहो क्व यासि सावित्रि! मानुषी सशरीरिणि ॥६९॥यदि वाञ्छति चागन्तुं कान्तेन सह धर्मिणी ।देहं त्यक्त्वा समायाहि सदेहा न गतिः खलु ॥७०॥तव भर्तुः समायातः पूर्णः कालोऽत्र मानवे ।स कर्मफलभोगार्थं सत्यवान् याति मद्गृहम् ॥७१॥कर्मणा जन्म जन्तूनां मृत्युश्चापि तु कर्मणा ।सुखं दुःखं भयं शोकः प्रपद्यन्ते हि कर्मभिः ॥७२॥कर्मणा तु दिवं याति सत्यलोकं प्रयाति च ।कर्मणा त्वीशतां याति हरेर्दास्यं च कर्मणा ॥७३॥शुभेन कर्मणा यायात् सालोक्यादि चतुष्टयम् ।इन्द्रत्वं वैधसत्वं च मुनित्वं विप्रजातिताम् ॥७४॥मुक्ततां राजतां राजेन्द्रतां गुर्वी तपस्विताम् ।क्षत्रियतां वैश्यतां च शूद्रतां चान्त्यजातिताम् ॥७५॥म्लेच्छतां जंगमतां च स्थावरात्मकतां तथा ।शैलतां वृक्षतां चापि पशुतां पक्षितां तथा ॥७६॥कृमितां जन्तुतां चापि गन्धर्वतां च नागताम् ।राक्षसतां किन्नरतां कूष्माण्डतां च यक्षताम् ॥७७॥वेतालतां भूततां च प्रेततां च पिशाचताम् ।डाकिनीत्वं च दैत्यत्वं दानवत्वं सुरारिताम् ॥७८॥प्राप्नोति कर्मभिर्जन्तुर्लोकान्तराणि कर्मभिः ।कर्मभिः पुण्यवान् जीवो पापवाँश्चापि कर्मभिः ॥७९॥सुन्दरश्च सुरूपश्च नीरोगी कर्मणा तथा ।अन्धः काणः कुत्सितश्च महारोगी च कर्मणा ॥८०॥सत्यं च निरयं स्वर्गं कर्मणा प्राप्यते तथा ।शक्रलोकं सूर्यलोकं चन्द्रलोकं तथा परम् ॥८१॥वह्निलोकं वायुलोकं वरुणालयमित्यपि ।ध्रुवलोकं च कौबेरं पदं शिवगृहं तथा ॥८२ ॥नक्षत्रलोकं च जनलोकं तपो महस्तथा ।पातालानि च वैकुण्ठं गोलोकं चापि कर्मभिः ॥८३॥क्षणजीवित्वमथ च चिरजीवित्वमित्यपि ।कोटिकल्पादिजीवित्वं क्षीणायुष्ट्वं च कर्मभिः ॥८४॥जीवसञ्चारमात्रायुर्गर्भे मृत्युः स्वकर्मणा ।तव भर्तुस्तथा मृत्युः कर्मणा समुपस्थितः ॥८५॥तस्मात् सावित्रि! मन्मार्गात् परावृत्य यथासुखम् ।त्यक्त्वा भर्तुरभिलाषां प्रयाहि स्वगृहं प्रति ॥८६॥इत्युक्त्वा विररामाऽसौ यमो नत्वा सतीं ततः ।सावित्री न परावृत्ता पातिव्रत्यपरायणा ॥८७॥किन्तु पप्रच्छ विज्ञेयं कर्माऽकर्मादि सादरम् ।शुभं तथाऽप्यशुभादि लक्ष्मि! कर्मफलं तथा ॥८८॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये मद्रदेशाधिपतिनाऽश्वपतिना सावित्र्याराधनेन सावित्री सुता लब्धा, सा च सत्यवते दत्ता, सत्यवतो मरणे सावित्री पातिव्रत्यबलेन प्रेतमनुययौ, यमराजस्य संवादश्चेत्यादिनिरूपणनामा षट्-षष्ट्यधिकत्रिशततमोऽध्यायः ॥३६६॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP