संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३२१ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३२१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३२१ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! चतुर्दश्या व्रतेन नृपसत्तमः ।चित्रधर्मस्य सत्पुत्रो दृढधन्वेति विश्रुतः ॥१॥प्रापद् राज्यं पुत्रपौत्रान् ललनां च पतिव्रताम् ।अन्ते च भगवल्लोकमवाप योगिदुर्लभम् ॥२॥सर्वसद्गुणसम्पन्नो दृष्टवान् वेदपारगः ।प्रजारक्षाकरः पुत्रो बभूवेति च तत्पिता ॥३॥विचार्य चित्रधर्मा तं स्वराज्ये त्वभ्यषेचयत् ।अथ चाराधयामीशं कृष्णनारायणं प्रभुम् ॥४॥तदर्थं वनभूमिर्वै योग्या भवति सर्वथा ।ध्रुवाम्बरीषशर्यातिययातिशशबिन्दवः ॥५॥भगीरथ शिबि रन्तिदेव रुक्मांगदादयः ।दिवोदासाऽभयखट्वांगदराजर्षिसत्तमाः ॥६॥एते चान्ये च कल्पेषु कल्पान्तरेषु भूभृतः ।वनं ययुर्महासत्त्वास्त्यक्त्वा भोगाननेकशः ॥७॥अध्रुवेण ध्रुवं प्राप्ता आराध्य पुरुषोत्तमम् ।अतो मयाऽपि कर्तव्यमरण्ये हरिसेवनम् ॥८॥छित्वा पाशं वासनाख्यं दारापुत्रगृहादिषु ।इति निश्चित्य मनसा चित्रधर्मा ययौ वनम् ॥९॥पुलहाश्रममासाद्य तपस्तेपे हरिं स्मरन् ।शुद्धो भूत्वा दिव्यतनुर्हरेर्धाम जगाम सः ॥१०॥दृढधन्वा पितुश्चौर्ध्वदैहिकं चाकरोत्ततः ।पुष्करावर्तनगरे राजधानीं विधाय सः ॥११॥भार्यया गुणसुन्दर्या वैदर्भ्या सह भूपतिः ।शशास सकलां पृथ्वीं चतुर्भिस्तनयैः सह ॥१२॥चित्रवाक्चित्रवाट्चित्रकुण्डलमणिकुण्डलैः ।एकदा निशि सुप्तस्य चिन्ताऽऽसीद् दृढधन्वनः ॥१३॥दानं तपो जपं होमं नाऽहं वै कृतवान् क्वचित् ।तथापि वैभवा राज्यं केन भाग्येन मे ननु ॥१४॥ब्राह्मे मुहूर्ते उत्थाय स राजा मृगयामनाः ।जगामाऽश्वं समारुह्याऽरण्ये वै सरसस्तटम् ॥१५॥समागमद्वटे तत्र कश्चिन्मानुषवाक् शुकः ।स तु पपाठ सुश्लोकमेकमेव पुनः पुनः ॥१६॥‘सत्यपि वैभवे राज्ये देहादौ सुखदे तथा ।न चिन्तयसि लक्ष्मीशं कथं पारं समेष्यसि' ॥१७॥श्रुत्वा राजा कीरवाक्यं मुमुदे भवतारकम् ।कृत्वा तु मृगयां राजा कीरवाक्यं विचारयन् ॥१८॥आजगाम गृहं तावत् तत्र वाल्मीकिराययौ ।राजा प्रपूज्य वाल्मीकिं पप्रच्छ कीरभाषितम् ॥१९॥किमुवाच कथं प्राह कोऽसावासीच्छुको मुने! ।श्रुत्वा क्षणं च तद्ध्यात्वा वाल्मीकिराह भूपतिम् ॥२०॥शृणु राजँस्तव पूर्वजन्मनश्चरितं यथा ।ताम्रपर्णीतटे देशे द्रविडे त्वं द्विजोऽभवः ॥२१॥सुदेवाख्यश्च ते पत्नीं गौतमी गौतमोद्भवा ।अप्रजा सा पतिं प्राहाऽपत्यं विना सुदुःखिता ॥२२॥सन्ततिः शुद्धवंश्या स्यादत्र परत्र शर्मणे ।तमप्राप्य वरं पुत्रं जीवितं त्वत्र निष्फलम् ॥२३॥तस्मात्सत्पुत्रलाभार्थमावाभ्यां परमेश्वरः ।आराधनीयः सततं तपसा पुरुषोत्तमः ॥२४॥धर्मपत्न्या वचो मत्वा ताम्रपर्णीतटे शुभे ।शुष्कपर्णजलाहारौ पंचमे पंचमे दिने ॥२५॥चत्वार्यब्दसहस्राणि चेरतुः परमं तपः ।लोकाश्चकम्पिरे तेन प्रादुर्बभूव माधवः ॥२६॥गरुडस्थो हरिः प्राह सुदेव! भद्रमस्तु ते ।गौतमि! श्रीरस्तु तेऽपि कुरुतं मा तपो बहु ॥२७॥श्रुत्वा तौ नेमतुः कृष्णमूचतुर्जय माधव! ।सुदेवः प्राह भगवन्! पुत्रं देहि हरे प्रभो! ॥२८॥हरिः प्राह ललाटे ते वर्णाः सर्वे मयेक्षिताः ।तत्र नैवाऽस्ति ते पुत्रसुखं सप्तसु जन्मसु ॥२९॥गौतम्युवाच भाग्याग्रे रमानाथो निरर्थकः ।दैवमालंबनीयं चेत्! हरिणा किं प्रयोजनम् ॥३०॥श्रुत्वा हरिं गरुडस्तु प्राह कृष्णं जनार्दनम् ।भक्तदुःखाऽसहिष्णो! त्वं हर्यर्थं सार्थकं कुरु ॥३१॥त्वदाराधनमाहात्म्यं निष्फलं नैव नैव हि ।कर्तुमकर्तुं सामर्थ्यं मा कुरु त्वं निरर्थकम् ॥३२॥गरुडस्याऽऽग्रहं दृष्ट्वा तथास्त्वित्यवदद्धरिः ।परं तज्जनितं दुःखं दम्पत्योर्भविता ध्रुवम् ॥३३॥इत्युक्त्वा गरुडे स्थित्वा गोलोकं हरिराययौ ।गते काले सुदेवस्य पत्न्यां पुत्रोऽभवच्छुभः ॥३४॥व्यवर्धत गते काले चोपनीतोऽथ पाठितः ।देवलर्षिः क्वचित्तत्र समायात् पापनाशनः ॥३५॥करं दृष्ट्वा छत्रपद्मयवचामरचिह्नितम् ।स्फुटदायुष्यरेखं च प्राहाऽऽधुन्वन् शिरस्तदा ॥३६॥सुदेव! तनयोऽयं ते द्वादशे हायने जले ।मृत्युमेष्यति तस्मात्ते माऽस्तु शोकोऽनुभाविनि ॥३७॥श्रुत्वा शुशूचतुस्तौ च देवलो निर्ययौ ततः ।अथ प्राप्तेऽनिष्टकालेऽगच्छद्वापीं हि तत्सुतः ॥३८॥पतितोऽगाधतोयेऽसौ ममज्ज च ममार च ।ज्ञात्वा पुत्रस्य निधनं वयस्येभ्यः पिता प्रसूः ॥३९॥ययतुस्तत्र संगृह्य शवं रुरुदतुर्बहु ।विलापं चक्रतुश्चाति तत्यजतुर्जलान्नकम् ॥४०॥श्रीकृष्णवल्लभो मासः सोऽभवत्पुरुषोत्तमः ।अजानतोस्तयोरासीत्पुरुषोत्तमसेवनम् ॥४१॥तेनाऽत्यन्तप्रसन्नः सन्प्रादुरासीद्धरिः स्वयम् ।सपत्नीको नमश्चक्रे दण्डवच्छ्रीहरिं द्विजः ॥४२॥हरिः प्राह सुदेव! त्वं भाग्यवानसि साम्प्रतम् ।द्वादशाब्दसहस्रायुः पुत्रस्तेऽयं कृतो मया ॥४३॥पुरुषोत्तममाहात्म्यात् प्रसन्नेन मया द्विज! ।सुचिरं जीवितोऽयं हि तनयः सुखदोऽस्तु ते ॥४४॥गार्हस्थ्यमतुलं भुक्त्वा सह पुत्रेण सर्वदा ।ततस्त्वं ब्रह्मणो लोकं गत्वा तत्र महत् सुखम् ॥४५॥दिव्याब्दवर्षसाहस्रं भुक्त्वा गन्तासि भूतले ।ततो राजा चक्रवर्ती दृढधन्वा भविष्यसि ॥४६॥सम्वत्सराणामयुतं राज्यं भोक्ष्यसि पार्थिवम् ।गौतमीयं तव पत्नी नाम्ना तु गुणसुन्दरी ॥४७।पुत्राश्चत्वार एका च कन्या ते तत्र भाविनः ।यदा विरमसे मां त्वं कृष्णनारायणं प्रभुम् ॥४८॥अयं ते तनयो विप्र! शुको भूत्वा तदा वने ।बोधयिष्यति भक्तेस्तु वाक्यं कृष्णविचिन्तकम् ॥४९॥वाल्मीकिस्त्वां कथां सर्वां यथार्थां कथयिष्यति ।ततो वैराग्यमापन्नः कृत्वा भक्तिं परां हरेः ॥५०॥गमिष्यसि सपत्नीको मोक्षं परं हरेः पदम् ।वदत्येवं महाविष्णौ समुत्तस्थौ द्विजात्मजः ॥५१॥दम्पती तं सुतं दृष्ट्वा महानन्दौ बभूवतुः ।ननाम शुकदेवोऽपि श्रीहरिं पितरौ तु तौ ॥५२॥गरुडो ब्राह्मणश्चापि नेमुर्हरिं सभार्यकः ।कृष्णः प्राहाऽधिमासस्याऽनायासेनापि पालनात् ।५३॥सुतदारापतिपत्नीक्षेत्रराज्यसुखानि वै ।भवन्त्येव न सन्देहः किमु पुत्रसजीवनम् ॥५४॥एकमप्युपवासं यः करोति पुरुषोत्तमे ।दग्ध्वाऽनन्तान्यनिष्टानि लब्ध्वा पुण्यनिधीन् स तु ।५५॥सुरयानं समारुह्य वैकुण्ठं याति देहवान् ।एकतः सर्वपुण्यानि त्वेकतः पुरुषोत्तमम् ॥५६॥तोलयामास वेधोऽभूद् गुरुर्वै पुरुषोत्तमः ।ईशसृष्टौ जीवसृष्टौ ब्रह्मसृष्टावपि स्वयम् ॥५७॥पुरुषोत्तममासस्तु सर्वत्र वर्तते महान् ।तस्य वै पालनेनाऽत्र विजयस्ते भविष्यति ॥५८॥इत्युक्त्वा श्रीहरिर्धाम ययौ गरुडवाहनः ।सुदेवः सः सपत्नीकस्तं मासं समपूजयत् ॥५९॥भुक्त्वाऽथ विषयान् सर्वान् सहस्राब्दान्यहर्निशम् ।जगाम ब्रह्मणो लोकं सपत्नीको द्विजोत्तमः ॥६०॥तत्रत्यं सुखमासाद्य सपत्नीको भुवं गतः ।स एव दृढधन्वा त्वं प्रथितः पृथिवीपतिः ॥६१॥महिषीयं तव पत्नी गौतमी गुणसुन्दरी ।शुकदेवश्च ते पुत्रो हरिणा योऽनुजीवितः ॥६२॥द्वादशाब्दसहस्रायुर्भुक्त्वा वैकुण्ठमेयिवान् ।स एव वै शुको भूत्वाऽबोधयत् त्वां स्मृतिं हरेः ॥६३॥पुन्नामनरकात् त्राता पुत्रस्ते सार्थकोऽभवत् ।इत्येतत् कथितं राजन् प्राग्वृत्तं ते यथा ह्यभूत् ॥६४॥शतधन्वा तदाऽपृच्छत् पूजाविधिं मुनिं तदा ।वाल्मीकिस्त्वाह तं सर्वं विधिं विस्तरतो नृपम् ॥६५॥ब्राह्मे मुहूर्ते चोत्थाय परंब्रह्म विचिन्तयेत् ।ततो व्रजेन्नैर्ऋताशां शौचार्थं जलभाजनः ॥६६॥कर्णे कृत्वा ब्रह्मसूत्रं शौचं मूत्रं विसर्जयेत् ।जलेनेन्द्रिययुगलं प्रक्षाल्य मृज्जलादिभिः ॥६७॥गन्धलेपक्षयशुद्धिं कृत्वा गण्डूषकान् बहून् ।दन्तशुद्धिं तथा कृत्वा स्नायात्तीर्थादिवारिषु ॥६८॥आयुर्बलं यशो वर्चः प्रजा पशुवसूनि च ।ब्रह्म प्रज्ञा च मेधा च वर्धन्ते स्नायिनोऽन्वहम् ॥६९॥शुद्धे वस्त्रे परिधाय प्राङ्मुखो बद्धसंशिखः ।सपवित्रेण हस्तेन कुर्यादाचमन ततः ॥७०॥ऊर्ध्वपुण्ड्रं सबिन्दुं च कुर्याच्चन्दनमृत्स्नया ।शंखचक्रादि कुर्याच्च धारयेत् तुलसीस्रजम् ॥७१॥प्राणायामं तथा सन्ध्यां गायत्रीजपनं चरेत् ।शुचौ देशे गोमयेन मण्डलं तण्डुलादिभिः ॥७२॥कारयित्वा च तन्मध्ये कलशं सजले न्यसेत् ।कलशस्य मुखे विष्णुः कण्ठे रुद्रः सदा स्थितः ॥७३॥तस्य मूले स्थितो ब्रह्मा मध्ये तिष्ठन्ति मातरः ।कुक्षौ तिष्ठन्ति भूद्वीपसहिताः सप्त सागराः ॥७४॥तिष्ठन्ति ऋग्यजुःसामाऽथर्वाणोऽङ्गयुतास्तथा ।गंगा गोदावरी सौर्या कावेरी च सरस्वती ॥७५॥तिष्ठन्त्वत्र जले नद्यः पापनाशविधायिकाः ।चन्दनाऽक्षतपुष्पाणि समर्पयामि ओं नमः ॥७६॥नैवेद्यं फलताम्बूले समर्पयामि ओं नमः ।इत्यभ्यर्च्य ततः शंखं पूजयेदक्षतादिभिः ॥७७॥घण्टां च पूजयेद् रम्यामक्षतैः कुंकुमादिभिः ।पात्रं घटोपरि न्यस्येत् तिलयुक्शर्करान्वितम् ॥७८॥पीताम्बरं शुभं चापि हैमं राधायुतं हरिम् ।पुरुषोत्तममासस्य दैवतं तं प्रपूजयेत् ॥७९॥अनलोत्तारणं कृत्वा कुर्वीत प्राणधारणाम् ।स्पृष्ट्वा द्वौ तत्कपालौ तु दक्षिणेन करेण वै ॥८०॥दत्वा च हृदयेऽङ्गुष्ठं प्राणाँस्तत्र सुधारयेत् ।अस्यै प्राणाः प्रतिष्ठन्तु चास्यै प्राणाः क्षरन्तु च ॥८१॥अस्यै देवत्वयुक्तायै स्वाहा नारायणाय वै ।ध्यायेद् देवं तत आवाहयेन्नाथं हृदि स्थितम् ॥८२॥आवाहयामि राधाश्रीसहितं पुरुषोत्तमम् ।आसनं चार्पयाम्यस्मै श्रीकृष्णाय तु शार्ङ्गिणे ॥८३॥समर्पयामि सलिलं पादप्रक्षालनाय ते ।अर्घ्यं फलान्वितं चैवाऽर्पयामि परमात्मने ॥८४॥तीर्थजलान्याचमनं तेऽर्पयामि राधिकापते ।पयो दधि घृतं क्षौद्रं शर्करा चार्पयामि ते ॥८५॥पञ्चस्नानं जलस्नानं तथा ते कारयाम्यहम् ।पीतधौत्रं चोत्तरीयं समर्पयामि केशव! ॥८६॥कौस्तुभं ब्रह्मसूत्रं च भूषां ददामि ते प्रभो ।सुगन्धतैलसारादि चन्दनं चार्पयामि ते ॥८७॥कुंकुमाक्षतपुष्पाणि चार्पयानि गृहाण वै ।धूपं दिव्यरसोपेतं त्वर्पयामि च ते प्रभो ॥८८॥दीपं घृतोज्ज्वलं तुभ्यं चार्पयामि हरे प्रभो ।पायसाद्यं च नैवेद्यं समर्पयामि केशव ॥८९॥आचमनं जलपानं फलं ताम्बूलकं तथा ।करोद्वर्तनकं चैव समर्पयामि माधव ॥९०॥सुवर्णदक्षिणां हाराऽक्षतान् ददामि केशव! ।नीराजयामि देवेशं प्रदक्षिणं करोमि च ॥९१॥पुष्पांजलिं चार्पयामि नमस्कारं करोमि च ।न्यूनं ते पूजने किंचित् क्षमस्व पुरुषोत्तम ॥९२॥होमं कुर्यादखण्डं च घृतदीपं समाचरेत् ।पुरुषोत्तमतुष्ट्यर्थे सर्वार्थफलसिद्धये ॥९३॥इति नित्यं पूजयेत्तं दद्याद्दानानि शक्तितः ।भोजयेद् भोज्यपात्राणि वृद्धाँश्च पादयोर्नमेत् ॥९४॥हविष्यभोजनं कुर्याद् व्रती देवप्रसादकम् ।गोधूमाः शालयो मुद्गा यवास्तिलाश्च शर्कराः ॥९५॥कङ्गूखर्जूरनीवारा द्राक्षाः कन्दाश्च कर्कटी ।मूलं शाकानि पत्राणि खाद्यपुष्पाणि मूलकम् ॥९६॥कान्दकानि कदलानि दधिं दुग्धं तथाऽऽर्द्रकम् ।शुण्ठी चाम्रफलं तक्रं पनसं च हरीतकीं ॥९७॥पिप्पलीजीरकं चामलकं तिन्तिडिका तथा ।क्रमुकं चैक्षवं सर्वं सात्त्विकं व्रतिभोजनम् ॥९८॥राजसं राजिकाराद्धं तामसं चामिषादिकम् ।वातुलं द्विदलाद्यं च परान्नादि विवर्जयेत् ॥९९॥ब्रह्मचर्यमधःशय्यां पत्रावल्यां च भोजनम् ।एकभुक्तं च कुर्वीत निन्दामात्रं विवर्जयेत् ॥१००॥उपोषणेन दुग्धेन दध्ना जलेन सर्पिषा ।पत्रेणापि फलेनापि कर्तव्यः पुरुषोत्तमः ॥१०१॥व्रतभंगो यथा न स्यात्तथा कार्यं प्रभोजनम् ।तुलसीदललक्षेणाऽऽर्चने पुण्यमनन्तकम् ॥१०२॥पुरुषोत्तममासस्य व्रत्यपि पुरुषोत्तमः ।चतुर्भुजो भवेदेव वैकुण्ठे वसति ध्रुवम् ॥१०३॥अखण्डदीपो दातव्यो मासे श्रीपुरुषोत्तमे ।सौभाग्यनगरे राजा चित्रबाहुरभूत्पुरा ॥१०४॥तस्य चन्द्रकला भार्या ह्युभावास्तां सुधार्मिकौ ।अगस्त्यश्च मुनिस्तस्य भवनं त्वाजगाम ह ॥१०५॥पूजयित्वा विनयेन चित्रबाहुरुवाच ह ।अद्य मे गृहसाम्राज्यजन्मादि सफलं खलु ॥१०६॥यस्त्वं समागतो मेऽद्य गृहे श्रीकृष्णवल्लभः ।तुभ्यं सर्वं ददाम्यद्य वैष्णवाय महात्मने ॥१०७॥मेरुतुल्यफलं स्याच्च मनागप्यर्पितं तु ते ।विष्णवे विष्णुभक्तायाऽनर्पितो दिवसोऽफलः ॥१०८॥वैष्णवा वाङ्मनःकायकर्मभिः सेवनार्हणाः ।तस्य धन्याः प्रजाः सर्वा यद्गृहे वैष्णवो जनः ॥१०९॥वस्तव्यं वैष्णवे देशे राज्ये वैष्णवभूभृति ।अमंगलं तथा काणं बोध्यं राष्ट्रमवैष्णवम् ॥११०॥श्रीकृष्णाश्रितभक्तस्य राज्ञो राज्यं विवर्धते ।मुने! लक्ष्मीर्विपुलं मे तथा राज्यमकंटकम् ॥१११॥पतिव्रता च मे पत्नी केन पुण्येन मे वद ।श्रुत्वाऽगस्त्यश्च तं प्राह चमत्कारपुरे पुरा ॥११२॥त्वमभूः शूद्रजातीयो मणिग्रीवोऽतिनास्तिकः ।सुरा मांस व्यवायाति चौर्य दुर्गुणवारिधिः ॥११३॥पतिभक्ता त्वियं भार्या सदा सद्भावनावती ।राज्ञा विवासितस्त्वं तु गतोऽरण्यं प्रियायुतः ॥११४॥मृगयाजीवनस्त्वं तु वने संदृष्टवान् मुनिम् ।तृषितं च मुमूर्षुँ च ह्युग्रदेवं द्विजं तदा ॥११५॥उत्थायोत्तोल्य सलिलं फलं दत्वाऽप्रमोदयत् ।मुनिः प्राह सुसन्तुष्टो मणिग्रीव! सुखी भव ॥११६॥जीवितं दत्तवाँस्त्वं मे ब्रूहि किं ते ददाम्यहम् ।मणिग्रीवस्तदा प्राह दारिद्र्यं नश्यतान्मम ॥११७॥अतुला वैभवाः सन्तु पूर्णा मे स्युर्मनोरथाः ।इतीच्छामि तदा प्राह मुनिस्तथा भवन्तु ते ॥११८॥आगामिन्यधिमासे वै पावने पुरुषोत्तमे ।दीपो देयो मन्दिरे श्रीपुरुषोत्तमतुष्टये ॥११९॥न ते तीव्रदारिद्र्यं समूलं नाशमेष्यति ।तिलतैलेन वाऽऽज्येनेङ्गुदीतैलेन वापि च ॥१२०॥मासमेकं सदा स्नात्वा देवं नत्वा प्रदीपकम् ।देहि तेन महाराज्यं पृथ्व्यां ते वै भविष्यति ॥१२१॥यज्ञादीनि तु कर्माणि कृच्छ्रचान्द्रायणानि च ।वेदपाठो गयाश्राद्धं कुरुक्षेत्रग्रहास्तथा ॥१२२॥तीर्थानि सर्वदानानि धर्मकार्याणि यानि च ।पुरुषोत्तमदीपस्य कलां नार्हन्ति षोडशीम् ॥१२३॥अधिमासव्रतं श्रेष्ठं दीपश्चान्तःप्रकाशकः ।धनधान्यपशुपुत्रपौत्रदारायशस्करम् ॥१२४॥वन्ध्यात्वनाशकं नार्या अवैधव्यकरं व्रतम् ।राज्यदं चेष्टदं भर्तृप्रदं पत्नीप्रदं व्रतम् ॥१२५॥विद्यासिद्धिकोशमोक्षप्रदं दीपार्पणव्रतम् ।इति पूर्वं त्वया दत्तो दीपं श्रीहरये वने ॥१२६॥तेन पुण्येन सद्राज्यं लक्ष्मीं पत्नीं पतिव्रताम् ।प्राप्तवानसि राजेन्द्र! पुनः कुर्या लभिष्यसि ॥१२७॥इत्युक्त्वाऽगस्त्यऋषिराट् प्रयागं संजगाम ह ।राज्ञा तेनापि विधिना प्राप्ते श्रीपुरुषोत्तमे ॥१२८॥कृतं दीपप्रदानं च ततो मोक्षमवाप सः ।इत्युक्त्वाऽर्हणमादाय वाल्मीको निर्जगाम ह ॥१२९॥ततो मासे समायाते श्रेष्ठे श्रीपुरुषोत्तमे ।चतुर्दश्यां प्रगे कृष्णदुन्दुभिर्दृढधन्वना ॥१३०॥श्रुतः कुर्वन्तु चाऽद्यैव व्रतं दीपं सजागरम् ।स्वर्गं मोक्षं प्राप्नुवन्तु तेन पुण्येन मद्वरात् ॥१३१॥इति श्रुत्वा दृढधन्वा स्मृत्वा सर्वं व्रतं तदा ।सकुटुम्बो निराहारश्चक्रे सदीपजागरम् ॥१३२॥महान्तमुत्सवं चक्रे ददौ दानानि गोभुवाम् ।रात्रौ समाजगामाऽयं श्रीकृष्णः पुरुषोत्तमः ॥१३३॥सकुटुम्बं गरुडेन ब्रह्मलोकं निनाय तम् ।किमु कथ्यं महालक्ष्मि! माहात्म्यमाधिमासिकम् ॥१३४॥कर्ता धर्ता समुद्धर्ता यत्र श्रीपुरुषोत्तमः ।पोष्टा तुष्टः प्रदाता च भोक्ता श्रीपुरुषोत्तमः ॥१३५॥य इदं शृणुयाल्लक्ष्मि! पठेद्वा पाठयेदपि ।सोऽधिमासफलं लब्ध्वा ब्रह्मलोकं प्रयाति हि ॥१३६॥सकामः स्वर्गमासाद्य पारमेष्ठ्यपदं तथा ।महेशादिपदं प्राप्य ब्रह्मलोके महीयते ॥१३७॥यैस्तु संपूजितो मासः सर्वं तैरभिपूजितम् ।सर्वं प्राप्तं भवेत् तेन प्राप्तः श्रीपुरुषोत्तमः ॥१३८॥येन नीतोऽधिमासोऽयं वन्ध्यस्तस्य तु सम्पदः ।वन्ध्याः पुण्यं कृतं सर्वे वन्ध्यं स्यान्नात्र संशयः ॥१३९॥ये केचित् सुखिनः सन्ति सुरमानवदानवाः ।पुरुषोत्तममासस्य फलं लक्ष्मि! न चेतरत् ॥१४०॥इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये दृढधन्वाऽरण्ये शुकोक्तश्लोकं श्रुत्वा तदर्थं वाल्मीकं पृष्ट्वा, स्वीयं प्राग्भवीयं सुदेवद्विजत्वं पुत्रवत्त्वं च पुत्रनिधने च पुरुषोत्तममासकरणेन पुत्रजीवितत्वं स त्वयं पुत्रः शुकः श्लोकवक्ता त्वं त्विदानीं दृढधन्वा जात इति वृत्तान्तं ज्ञातवान्; पुरुषोत्तममासपूजाविधिं च ज्ञातवान्, अधिकमासे दीपदानेन मणिग्रीवशूद्रस्य जन्मान्तरे चित्रबाहुनृपतित्वं राज्यप्राप्तिश्चागस्त्येन कथिता, तदपि ज्ञातवान् , ततश्च चतुर्दशीव्रतं कृत्वा दृढधन्वा सकुटुम्बो मोक्षमवापेत्यादिनिरूपणनामा एक-विंशत्यधिकत्रिशततमोऽध्यायः ॥३२१॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP