संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३७० कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३७० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३७० Translation - भाषांतर श्रीनारायण उवाच-हरेर्भक्तेर्महिमानं श्रुत्वा सती यमं पुनः ।पप्रच्छ केन विधिना भजनीयो हरिः स्वयम् ॥१॥यमः श्रुत्वा तु सावित्रीं प्राह रीतिं सुमोक्षदाम् ।शृणु लक्ष्मि! कथयामि यथा प्राह सतीं यमः ॥२॥प्रातरुत्थाय तु कृष्णनारायणं हृदि स्मरेत् ।मूर्तिं ध्यायेत् सौम्यरूपां चिन्तयेत्तु पुनः पुनः ॥३॥स्नाने शौचे क्रियायां च बाह्ये चान्तरकर्मणि ।भोज्ये विहारे शयने गृहकार्ये हरिं स्मरेत् ॥४॥श्रद्धया परया तत्र हरौ सर्वेन्द्रियाणि वै ।तथाऽन्तःकरणान्येवं योजयेच्छ्रीहरौ मुदा ॥५॥पाने निषदने स्वप्ने निद्रायां जाग्रति क्रमे ।शुभेऽशुभे तथा कार्ये स्मरणीयो हरिः सदा ॥६॥जिह्वा तत्कीर्तनं कुर्यात्कर्णस्तच्छ्रवणं चरेत् ।नेत्रं तद्दर्शनं कुर्याद् घ्राणं तद्गन्धमाप्नुयात् ॥७॥चर्म तत्स्पर्शनं कुर्यात्करस्तत्पादसेवनम् ।पादस्तन्मन्दिरं गच्छेद् वाणी तद्भजनं चरेत् ॥८॥मलमूत्रेन्द्रियं विघ्ननाशार्थं गुणतां व्रजेत् ।आनन्दं श्रीहरेर्लब्ध्वा श्रीहरेर्मननं चरेत् ॥९॥निर्णयं माननं चापि चिन्तनं श्रीहरेश्च तु ।एवं सर्वं हरेरेव कुर्यान्नान्यस्य कस्यचित् ॥१०॥न स्वार्थं न परार्थं च कुर्याद्धर्यर्थमेव वै ।तथा कृत्वा नचिरेण हरेर्धामगतिर्भवेत् ॥११॥इत्युक्ता सा तु सावित्री यमं भक्तवरं परम् ।ज्ञात्वा यमाष्टकं प्राह शृणु लक्ष्मि! वदामि ते ॥१२।सूर्यंनारायणस्तीर्थे पुष्करे तपसा पुरा ।धर्माशं यं सुतं प्राप धर्मराजं नमाम्यहम् ॥१३॥सर्वेषां प्राणिनां कर्मभोगान्तं संविधाय यः ।शान्तिं करोति यो देवः शमनाय तु ते नमः ॥१४॥कृतानां कर्मणां त्वन्तं न्यायरीत्या करोति यः ।सर्वेषां देहिनां सोऽयं तं कृतान्तं नमाम्यहम् ॥१५॥पापिनां दण्डकर्ता यो दण्डं बिभर्ति शुद्धिदम् ।शास्त्रे तस्मै नीतियुजे दण्डिने ते नमो नमः ॥१६॥सर्वेषां वस्तुकार्याणां परिच्छेदं करोति यः ।सर्वायुःकलनं देवं कालरूपं नमाम्यहम् ॥१७॥जीवान् दण्डप्रदानैर्यो यमयत्येव सर्वथा ।कर्मानुरूपफलदस्तं यमं प्रणमामि वै ॥१८॥यथा कर्म तथा दाता न रागान्न च रोषतः ।तस्माच्छुद्धिकरं मित्रं सर्वमित्रं नमामि च ॥१९॥कृष्णनारायणमूर्तेः समुत्पन्नस्तु यः पुरा ।ब्रह्मणोंशस्ततो जातस्तं ब्राह्मं प्रणमामि च ॥२०॥इत्युक्त्वा तं प्रणनाम यमस्तुष्टो बभूव ह ।यमाष्टकं पठतस्तु भवेन्नैव यमाद्भयम् ॥२१॥कायव्यूहेन च शुद्धिः कर्मणां तस्य जायते ।मुच्यते यमपाशाच्च सतीं प्राहेति धर्मराट् ॥२२॥यमस्तस्यै कृष्णनारायणमन्त्र प्रदाय च ।'ओं श्रीकृष्णनारायणं प्रणमामि' त्रिवारकम् ॥२३॥कर्माऽशुभविपाकं च तामुवाच यमः स्वयम् ।कुकर्मणा जनो याति नरकान् बहुदारुणान् ॥२४॥नरकाणां तु कुण्डानि सन्ति नानाविधानि च ।विस्तृतानि गभीराणि भयक्लेशकराणि हि ॥२५॥षडशीतिश्च कुण्डानि घोराणि कुत्सितानि च ।संयमन्यां प्रविद्यन्ते तानि निबोध नामतः ॥२६॥वह्निकुण्डं तप्तकुण्डं क्षयकुण्डं भयानकम् ।विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं तु दुःसहम् ॥२७॥गरकुण्डं दाहकुण्डं वसाकुण्डं तथा महत् ।शुक्रकुण्डमसृक्कुण्डमश्रुकुण्डं च कुत्सितम् ॥२८॥मलकुण्डं वीर्यकुण्डं रजःकुण्डं विगन्धकृत् ।कर्णविट्कुण्डमुग्रं च नखकुण्डं च दुःखरम् ॥२०३॥मज्जाकुण्डं मांसकुण्डमस्थिकुण्डं च दुःखदम् ।लोमकुण्डं क्लेशकुण्डं ताम्रलोहप्रकुण्डकम् ॥३०॥तीक्ष्णकण्टककुण्डं च विषकुण्डं च दाहकम् ।घर्मकुण्डं तप्तसुराकुण्डं वृश्चिककुण्डकम् ॥३१॥तप्ततैलप्रकुण्डं च दन्तकुण्डं च विघ्नदम् ।कृमिकुण्डं पूयकुण्डं सर्पकुण्डं भयावहम् ॥३२॥दंशमशककुण्डं च वज्रदंष्ट्राप्रकुण्डकम् ।शरकुण्डं शूलकुण्डं खड्गकुण्डं तु वैशसम् ॥३३॥गोधाकुण्डं नक्रकुण्डं काककुण्डं महाभयम् ।घृष्टिकुण्डं चूर्णकुण्डं बन्धकुण्डं निराश्रयम् ॥३४॥तप्तपाषाणकुण्डं च तीक्ष्णग्रावाग्रकुण्डकम् ।लालाकुण्डमसिकुण्डं चूर्णकुण्डं च मर्दनम् ॥३५॥चक्रकुण्डं वज्रकुण्डं कूर्मकुण्डं महोल्बणम् ।ज्वालाकुण्डं भस्मकुण्डं पूतिकुण्डं भयावहम् ॥३६॥तप्तसूर्मीमसिपत्रं क्षुरधारं सुचीमुखम् ।कृकलासप्रकुण्डं च जगदंशं चिपीटकम् ॥३७॥कुंभीपाकं कालसूत्रमधःकन्धरमुग्रकम् ।पांशुभोज्यं पाशकण्ठं शूलप्रोतं सुकीलकम् ॥३८॥उल्कामुखं त्वन्धकूपं वेधनं दण्डताडनम् ।जालबन्धं देहचूर्णं दलनं शोषणंकरम् ॥३९॥सर्पज्वालामयं क्ष्वेडधूम्रान्धं नागपाशनम् ।द्वैधीभावप्रकुण्डं च लावणं कुण्डमित्यपि ॥४०॥भगुप्रपातनं चापि वैतरणीप्रपातनम् ।चर्मोत्कर्तनकुण्डं च भ्राष्ट्रकटाहमित्यपि ॥४१॥कुण्डान्येतानि सावित्रि! पापानां शोधकानि वै ।पापिनां दुःखदान्येव रक्षितानि यमानुगैः ॥४२॥दण्डहस्तैः शूलपाशशक्तितोमरहस्तकैः ।मदोन्मत्तैस्तामसैश्च निर्दयैस्ताम्रपिंगलैः ॥४३॥नानारूपधरैः सर्वाऽधृष्यैर्दृश्यैस्तु पापिनाम् ।पुण्यकृतामदृश्यैश्च धार्मिकाणां च योगिनाम् ॥४४॥शृणु केषां कुत्र वासो दण्डरूपोऽस्ति कुण्डके ।कटुवाण्या खलत्वेन दग्धान् करोति बान्धवान् ॥४५॥गात्रलोमप्रमाणाब्दं वह्निकुण्डं प्रयाति सः ।दग्ध्वा वह्नौ पातकानि लभेज्जन्मत्रयं पशोः ॥४६॥गृहाऽऽगतातिथिं यो न भोजयेत् स्वाश्रितं तथा ।लोममानसमास्तप्तकुण्डे स्थित्वा ततः स वै ॥४७॥उष्णभूमौ मरौ देशे पक्षी स्यात्सप्तजन्मसु ।रविवाराऽर्कसंक्रान्त्याममायां श्राद्धवासरे ॥४८॥व्रते क्षारेण वस्त्रस्थकीटानां नाशकस्तु यः ।क्षारकुण्डं स वै याति सूत्रमानाब्दमेव ह ॥४९॥व्रजेच्च राजकीं योनिं सप्तजन्मसु सुन्दरि! ।स्वदत्तां परदत्तां च जीविकां तु हरेद्धि यः ॥५०॥षष्टिवर्षसहस्राणि विट्कुण्डं तु प्रयाति सः ।षष्टिवर्षसहस्राणि विड्भोजी विट्कृमिस्ततः ॥५१॥तडागं नाशयेद् यस्तु मूत्रकुण्डं प्रयाति सः ।तद्रेणुमानवर्षं च मूत्रपायी ततो भुवि ॥५२॥सप्तजन्मसु गोधा स्याद् भित्तिवासकरी गृहे ।एकाकी मिष्टभुग् याति श्लेष्मकुण्डं समाशतम् ॥५३॥श्लेष्माभोजी भवेत् प्रेतो मूत्रपूयादिपानकृत् ।पितरं मातरं पत्नीं गुरुं पुत्रीं सुतं सखीन् ॥५४॥अनाथं च न पुष्णाति क्ष्वेणकुण्डं प्रयाति सः ।अब्दसहस्रं तद्भोजी ततः प्रेतः शतं समाः ॥५५॥अतिथिं क्रूरभावेन द्रष्टुर्जलं च पिण्डकान् ।पितृदेवा न गृह्णन्ति कुलनाशस्ततो भवेत् ॥५६॥तेषां तु घातकानां च मलकुण्डे प्रपातनम् ।शतं समा मलभोजी ततः स सप्तजन्मसु ॥५७॥दरिद्रो जायते दुःखी पतितश्च पदे पदे ।दत्वा दानं तु चैकस्मै त्वन्यस्मै दीयते तु तत् ॥५८॥वसाकुण्डं प्रयात्येव शतवर्षं वसादनः ।जन्मत्रयं स चाण्डालः कृकलासश्च सप्तकृत् ॥५९॥दरिद्रश्च भवेदल्पजीवी च पापकृत्ततः ।नरो नारी स्वकं शुक्रं रजो वापि परस्परम् ॥६०॥पाययत्येव कामाद्वा शुक्रकुण्डं प्रयाति सः ।शतवर्षं च तद्भोजी योनिकीटः शतं समाः ॥६१॥अथ पूज्यं ताडयित्वा गुरुं च पितरौ तथा ।रक्तं प्रवाहयेद् यः स यात्यसृककुण्डमुल्बणम् ॥६२॥शतवर्षं रक्तभोजी ततो व्याधः प्रजायते ।सप्तजन्मसु पापानि कृत्वा पुनस्तथा व्रजेत् ॥६३॥अश्रु स्रवन्तं गायन्तं नृत्यन्तं भक्तमेव यः ।कृष्णाग्रे तु हसन् चाश्रुकुण्डं प्रयाति नर्मकृत् ॥६४॥शतवर्षं त्वश्रुभोजी चाण्डालः स्यात् त्रिजन्मसु ।खलो याति गात्रमलकुण्डं दशाब्दकं ततः ॥६५॥त्रिजन्मसु खरो जम्बूकस्त्रिजन्मसु कष्टवान् ।बधिरं यो हसत्येव निन्दत्यपि च नर्मकृत् ॥६६॥स याति कर्णविट्कुण्डे तद्भोजी शतवत्सरान् ।ततो बधिरः सप्तजन्मस्वंगहीनश्च सप्तसु ॥६७॥जीविकादं तु यो हन्ति मज्जाकुण्डे स गच्छति ।लक्षवर्षाणि तद्भोजी शशकः सप्तजन्मसु ॥६८॥मीना एणाः सप्त सप्त ततः शुद्धः प्रजायते ।कन्याविक्रयिणो यान्ति मांसकुण्डेऽतिदारुणे ॥६९॥कन्यालोमप्रमाणाब्दं मांसादना हता यमैः ।स्वमांसं रुधिरं मूर्ध्नस्ते खादन्ति क्षुधार्दिताः ॥७०॥षष्टिवर्षसहस्राणि कन्याविट्सु कृमिस्ततः ।सप्तजन्मसु व्याधः स वराहः कुक्कुरस्ततः ॥७१॥सप्तजन्मसु मण्डूको जलौकाः काक इत्यपि ।क्षौरं यत्र विधिनाऽऽप्तं न कारयेत्तु यो जनः ॥७२॥नखकुण्डं प्रयात्येव नखभोजी नखाब्दकम् ।रोमकुण्डे तथा याति रोमभोजी प्रताडितः ॥७३॥सकेशं पार्थिवं लिंगं पूजयेद् यो जनस्तु सः ।केशकुण्डे प्रयात्येव मृद्रेणुमानवर्षकम् ॥७४॥ततो वै यवनो वर्षशतं प्रजायते भुवि ।पितृपिण्डाऽप्रदाताऽस्थिकुण्डे पतति चोल्बणे ॥७५॥ततः खञ्जः सप्तजन्मस्वतिनिर्धन एव च ।यः सेवते पूर्णमासां गर्भिणीं प्रसवोन्मुखाम् ॥७६॥प्रतप्तताम्रकुण्डे स शतवर्षाणि तिष्ठति ।रजस्वलान्नं यो भुंक्ते शताब्दं लौहकुण्डके ॥७७॥पतित्वा राजकीं योनिं चर्मकारी च सप्तसु ।महाव्रणी दरिद्रश्च जायते तत्परं शुचिः ॥७८॥यश्च घर्मस्वेदहस्तं देवद्रव्ये सुयोजयेत् ।शतवर्षप्रमाणं स घर्मकुण्डे हि तिष्ठति ॥७९॥सुरापश्च सुराकुण्डे चोष्णं याति शतं समाः ।ततः शूद्रः सप्तजन्मस्वतिनिर्धन एव च ॥८०॥कटुवाण्या पतिं वक्ति सा कुण्डे तीक्ष्णकण्टके ।पतिता ताड्यते दूतैश्चतुर्युगं च तिष्ठति ॥८१॥अश्विनी जायते पश्चात् पृथिव्यां सप्तजन्मसु ।विषदाता विषकुण्डे सहस्राब्दं हि तिष्ठति ॥८२॥विषभोजी नृघाती च वृणी स्यात् सप्तजन्मसु ।सप्तजन्मसु कुष्ठी च ततः शुद्धः प्रजायते ॥८३॥वृषं भृत्यं ताडयेद् यो दण्डेन तन्नियामकः ।प्रतप्ततैलकुण्डे स तिष्ठत्येव चतुर्युगम् ॥८४॥ततो गोरोममानाब्दं वृषो भवति भूतले ।बडिशेन च कुन्तेन दन्तेन कीलकेन च ॥८५॥लौहेन हन्ति वृषभं देहिनं प्राणिनं च वा ।कुन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं खलु ॥८६॥ततो जलोदररोगी त्वेकजन्मनि जायते ।अभक्ष्यभक्षी मनुजो कृमिकुण्डं प्रयाति वै ॥८७॥स्वलोममानवर्षान्ते भुवि म्लेच्छस्त्रिजन्मसु ।पापान्नभोजी व्रजति पूयकुण्डं शत समाः ॥८८॥ततः शूद्रः सप्तजन्मस्वतिशूलधरो भवेत् ।सर्पहा सर्पकुण्डं तु याति सर्पेण भक्षितः ॥८९॥सर्पविड्भक्षणः पश्चात्सर्पो वै जायते भुवि ।ततः स्वल्पाऽऽयुरेवाऽयं दद्रुरोगी भवेत्तथा ॥९०॥सर्पेण तस्य मृत्युश्च सर्पेण भक्षणं मतम् ।जीवान् हन्ति स दंशाख्ये कुण्डे पतति पापकृत् ॥९१॥आयुर्दिनाब्दकं स्थित्वा क्षुद्रजन्तुसहस्रके ।जायते च मुहुः पश्चादंगहीनो भवेद् ध्रुवम् ॥९२॥मधुहा मक्षिकाघाती सगरे कुण्डके पतेत् ।स्वायुर्दिनात्मकं स्थित्वा मक्षिकायोनिमाप्नुयात् ॥९३॥अदण्ड्यदण्डकृत् कुण्डे वज्रकीटे पतेद्ध्रुवम् ।तल्लोममानवर्षं च स्थित्वा कीटो भवेद् भुवि ॥९४॥अन्यायधनलो राजा वृश्चिके कुण्डके पतेत् ।रोमाब्दं दुःखमासाद्य वृश्चिकः सप्तजन्मसु ॥९५॥ततोऽङ्गविकलो व्याधिग्रस्तो भुवि भवेज्जनः ।विप्रो धर्मविहीनो वै शरकुण्डे पतत्यथ ॥९६॥शरविद्धः स्वलोमाब्दं स्थित्वा शुद्धो भवेत्ततः ।कारागारे बन्धयति जीवान्निर्दोषकान् जनः ॥९७॥तप्ततोये गोलकुण्डे पतति रोमवत्सरान् ।कीटैर्विद्धस्ततो नीचभृत्यो वै जायते भुवि ॥९८॥नक्रमीनप्रहन्ता च नक्रकुण्डे पतत्यथ ।नक्रकण्टकमानाब्दं स्थित्वा नक्रस्ततो जले ॥९९॥अन्यच्छिद्रान्वेषकस्तु काककुण्डे पतत्यथ ।काकप्रक्षुण्णनेत्रश्च रोमाब्दं तत्र वर्तते ॥१००॥सप्तजन्मदरिद्रः स त्रिजन्माऽन्धश्च जायते ।स्वर्णताम्रलौहचौरो वज्रकुण्डं प्रयाति वै ॥१०१॥देवद्रव्यप्रहर्ताऽपि रोमाब्दं वज्रकुण्डगः ।वज्रैर्हतो भवेत्तत्र वज्रभुग् देहदाववान् ॥१०२॥गवां शुकानां मूर्तीनां चौरस्तप्तोपलाभिधे ।कुण्डे पतति स्वलोमाब्दं ततो बकस्त्रिजन्मसु ॥१०३॥हंसस्ततः शंखचिल्लस्ततो रक्तादिरोगवान् ।सप्तजन्मसु चाल्पायुः कूप्यचौरोऽपि तादृशः ॥१०४॥रीतिकांस्यादिचौरश्च तीक्ष्णग्रावाग्रकुण्डके ।स्वलोमाब्दं वसेत्पश्चादश्वः स्यात् सप्तजन्मसु ॥१०५॥ततोऽधिकांगकः कुब्जः पादे रुग्णश्च जायते ।पुंश्चल्यन्नादतज्जीवी लालाकुण्डे पतेद् ध्रुवम् ॥१०६॥तल्लोमाब्दं लालभोजी चक्षूरोगी च शूलवान् ।म्लेच्छसेवी मषीसेवी मषीकुण्डेऽतितप्तके ॥१०७॥स्वलोमाब्दं वसेत् पश्चात् कृष्णपशुस्त्रिजन्मसु ।छागः सर्पस्तालवृक्षस्त्रिषु त्रिषु च जन्मसु ॥१०८॥धान्यताम्बूलतल्पाऽर्घ्याऽऽसनसस्यादिचौरकः ।शताब्दं चूर्णकुण्डे वै ततो मेषश्च कुक्कुटः ॥१०९॥त्रिजन्मसु ततः कासव्याधिग्रस्तश्च मानवः ।वंशहीनो दरिद्रश्चाप्यल्पायुर्दुःखवान् भवेत् ॥११०॥चक्रशस्त्रादिकर्ता तु शताब्दं चक्रकुण्डके ।त्रिजन्मसु तैलकारो रोगी वंशहीनस्ततः ॥१११॥प्रतिस्पर्धी मत्सरी च वज्रकुण्डे युगं पतेत् ।सप्तजन्मसु वक्रांगो भार्यावंशविहीनकः ॥११२॥कूर्मादिमांसभुक् कूर्मकुण्डे पतेच्छतं समाः ।स त्रिजन्मसु कूर्मश्च सूकरोऽपि मयूरकः ॥११३॥मार्जारश्चापि प्रत्येकं त्रिजन्मसु जायते ।घृततैलादिचौरस्तु ज्वालाकुण्डे च भस्मनि ॥११४॥कुण्डे शताब्दं पतति तैलपः सप्तजन्मसु ।मत्स्यश्च मूषकः सप्तजन्मस्वथ ततः शुचिः ॥११५॥सुगन्धितैलधात्र्यादिद्रव्यचौरस्तु कुण्डके ।दुर्गन्धे लोममानाब्दं दुर्गन्धी जायते ततः ॥११६॥दुर्गन्धिकः सप्तजनौ मृगनाभिस्त्रिजन्मसु ।सप्तजन्मसुगन्धश्च ततः शुद्धो हि मानवः ॥११७॥भूमिहर्ता तप्तशूले तप्ततैले पतेत् ततः ।सप्तमन्वन्तरं पश्चाद् विट्कृमिरयुतं तु षट् ॥११८॥भूमिहीनो दरिद्रश्च ततो वै शुद्ध एव सः ।नरघाती चासिपत्रे वसेत्कल्पं ततः पुनः ॥११९॥ब्रह्महा चेच्छतमन्वन्तरं खड्गवने वसेत् ।छिन्नांगः खङ्गधारैश्च चाण्डालः शतजन्मसु ॥१२०॥सूकरः कुक्कुरो गोमायूश्च व्याघ्रो वृकस्ततः ।गण्डी महिषः प्रत्येकं सप्तजन्मसु जायते ॥१२१॥ग्रामादिदाहकः क्षुरधारे युगत्रयं पतेत् ।ततः प्रेतो वह्निमुखोऽमेध्यभोजी ततः पुनः ॥१२२॥खद्योतश्च सप्तजनौ महाशूली च तावता ।सप्तजन्मगलत्कुष्ठी ततः शुद्ध्यति वह्निदः ॥१२३॥कलंकदो निन्दकश्च सूचिमुखे युगत्रयम् ।ततो भवेद् वृश्चिकश्च सर्पश्च सप्तजन्मसु ॥१२४॥वज्रकीटः सप्तजनो भस्मकीटस्ततो नरः ।गृहभेदी स्तेनकर्ता गोगोधामेषछागकान् ॥१२५॥प्रत्येकं सप्तजन्मानि ततो रोगी नरोऽधुरः ।द्रव्यचौरो नक्रमुखो युगं पश्चाच्च रोगवान् ॥१२६॥गोगजाश्वनरहन्ता गजदंशे युगत्रयम् ।ततस्तत्तज्जातिजन्मत्रयं म्लेच्छस्ततो भवेत् ॥१२७॥गोजातिदुःखदो याति गोमुखे नरके ध्रुवम् ।कृमितप्तोदके मन्वन्तरं स्थित्वा च गोवृषः ॥१२८॥सप्तजनौ ततो रोगी दरिद्रोऽन्त्यजजातिकः ।गोब्रह्मसाधुहत्याकृत् स्त्रीमित्रभ्रूणहा तथा ॥१२९॥कुंभीपाके पतेत् कल्पं चूर्ण्यते यमदूतकैः ।वह्नौ क्षणं कुण्डके च तप्ते तैले जले तथा ॥१३०॥पाषाणे तप्तलौहे च दुःखानि पश्यति ध्रुवम् ।गृध्रकोटिसहस्राणि शतजन्मानि सूकरः ॥१३१॥काकश्च सप्तजन्मानि सर्पः स्यात्सप्तजन्मसु ।विट्कृमिश्च वृषलश्च गलत्कुष्ठी ततो भवेत् ॥१३२॥यक्ष्मग्रस्तो वंशहीनो भार्याहीनस्ततः शुचिः ।श्रीहरौ च श्रीकृष्णे च नारायणे च भूमनि ॥१३३॥वासुदेवे शिवे विष्णौ ब्रह्मणि भेदबुद्धिकृत् ।ब्रह्महत्याकरो बोध्यो भेदो हत्यासमो मतः ॥१३४॥अक्षरे राधिकायां च लक्ष्म्यां श्रियां रमातनौ ।पार्वत्यां च प्रभायां च माणिक्यायां च भेदकृत् ॥१३५॥ब्रह्महत्यासमदोषी ललिताजययोरपि ।भेदकृत् स्वे गुरौ स्वेष्टदेवे पितरि मातरि ॥१३६॥हर्यर्चायां भेदबुद्धिर्ब्रह्महत्यामदूषणम् ।विष्णोर्नैवेद्यसलिलवर्जितोऽपि तथा मतः ॥१३७॥पितृदेवगुरुपूजानिन्दकोऽपि तथा मतः ।शिवं विष्णुं शिवां लक्ष्मीं निन्दन्ति ब्रह्मघातिनः ॥१३८॥हरेर्जन्मतिथीन् शैवीं तिथिं चैकादशीं तथा ।व्रताहानि च निन्दन्ति ब्रह्महत्याकरा हि ते ॥१३९॥गुरुं च मातरं तातं साध्वीं भार्यां सुतं सुताम् ।आश्रितान् यो न पुष्णाति ब्रह्महत्याकरो हि सः ॥१४०॥अपूजकश्च देवानां गोवृषादेश्च ताडकः ।गोचरादिप्रहर्ता च ब्रह्महत्याकरो हि सः ॥१४१॥गवां दुःखकरः पापं गोहत्याजं लभेत्तथा ।गवां वृत्तिहरो गाश्च पदा संताडयेत्तु यः ॥१४२॥योनिजीवी त्रिसन्ध्यादिविहीनो धर्मनाशकः ।देवपित्रतिथिसेवाहीनो गोघातको मतः ॥१४३॥स्वभर्तरि च कृष्णे च भेदबुद्धिकरी तु या ।कटूक्त्या ताडयेत् कान्तं सा गोहत्याकरी मता ॥१४४॥गवां वृत्तिं जीविकां च जलं गृहं तथाऽऽश्रयम् ।हन्याद् यः स भवेच्चापि गोहत्यापातकी ध्रुवम् ॥१४५॥देवपूजाकृते यानि जलान्नकुसुमानि तु ।तानि यो लंघयेत्पादैर्गोहत्यापापकृद्धि सः ॥१४६॥मिथ्यावादी गुरुद्वेषी देवद्वेषी च पितृद्विट् ।गोहत्यापापवान् सोपि विज्ञेयो नात्र संशयः ॥१४७॥पितुः शतगुणा माता मातुः शतगुणो गुरुः ।विद्यामन्त्रप्रदाता च गुरुः पूज्यः सदा मतः ॥१४८॥गुरुतो गुरुपत्नी च गौरवे च गरीयसी ।यथेष्टदेवपत्नी च पूज्या चाभीष्टदेवता ॥१४९॥ब्राह्मणस्तु सुरापाणी विड्भोजी वृषलीपतिः ।हरिवासरभोजी च कुभीपाकं व्रजेत् सति! ॥१५०॥गुरुपत्नीं राजपत्नीं सपत्नीमातरं प्रसूम् ।सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं प्रियाम् ॥१५१॥सोदरभ्रातृजायां च मातुलानीं पितृप्रसूम् ।मातुः प्रसूं तत्स्वसारं भगिनीं भ्रातृकन्यकाम् ॥१५२॥शिष्यां च शिष्यपत्नीं च भागिनेयस्य कामिनीम् ।भ्रातुः पुत्रप्रियां चैवाऽप्यगम्यामाह पद्मजः ॥१५३॥एतासु गमकः कामी ब्रह्महत्याशतं लभेत् ।स याति कुंभीपाकं तु महापापी सुदुस्तरम् ॥१५४॥हरेः सेवां विना साध्वि! न लभेत् कर्मखण्डनम् ।सर्वान्नभोगी संयाति कालसूत्रं शतं समाः ॥१५५॥ततः शूद्रोऽतिरुग्णः स्याद् दरिद्रो निर्धनस्तथा ।प्रकोपवदना कोपात् स्वामिनं या तु पश्यति ॥१५६॥कटूक्तिं तं च वदति याति चोल्कामुखं हि सा ।उल्कां ददाति वक्त्रे च सततं यमकिंकरः ॥१५७॥दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् ।ततो भवेन्मानवी च विधवा सप्तजन्मसु ॥१५८॥या ब्राह्मणी सर्वभोग्या साऽन्धकूपं प्रयाति वै ।तप्तशौचोदके तप्त्वा कल्पमानं ततः परम् ॥१५९॥काकी सूकरी कुक्कुटी शृगाली च पारावती ।वानरी सप्तजन्मानि चाण्डाली च ततो भवेत् ॥१६०॥रजकी तैलकारी च ततः शुद्ध्यति सा सति! ।वेश्या वसेद् वेधकुण्डे गणिका दण्डताडने ॥१६१॥जालबन्धे पुंश्चली च कुलटा देहचूर्णके ।स्वैरिणी दलने कुण्डे यावन्मन्वन्तरं वसेत् ॥१६२॥करे धृत्वा तु तुलसीं प्रतिज्ञां यो न पालयेत् ।मिथ्या वा शपथं कुर्यात् स तु ज्वालामुखे पतेत् ॥१६३॥दत्वा तु दक्षिणं हस्तं प्रतिज्ञां यो न पालयेत् ।स्पृष्ट्वा गां ब्राह्मणं देवं वह्निं साधुं सतीं जलम् ॥१६४॥न पालयेत्प्रतिज्ञां तु स वै ज्वालामुखे पतेत् ।मित्रद्रोही कृतघ्नश्च तथा विश्वासघातकः ॥१६५॥मिथ्यासाक्ष्यप्रदश्चापि स वै ज्वालामुखं व्रजेत् ।कल्पे वसेत् ततो मूको बधिरश्च त्रिजन्मसु ॥१६६॥मित्रद्रोही नकुलः स्यात् कृतघ्नश्चापि षण्ढकः ।विश्वासघाती व्याघ्रश्च मिथ्यासाक्षी तु भल्लुकः ॥१६७॥व्रतोपवासहीनश्च सद्वाक्यपरिनिन्दकः ।जिह्मो वसेत्तु हैमे वै नरके तु शतं समाः ॥१६८॥जलजन्तुः शतजन्मक्रमेण मत्स्यको भवेत् ।देवादिद्रव्यहारी च धूम्रान्धे पतितो भवेत् ॥१६९॥चतुर्युगं वसेत्तत्र मूषकः सप्तजन्मसु ।पशौ पतत्रिणि कृमौ वृक्षजातिषु जायते ॥१७०॥ततो भार्यावंशहीनः शबरो व्याधिमान् भवेत् ।स्वर्णकारो वणिग् वैद्यो व्यापारी रसविक्रयी ॥१७१॥कूटमानो नागवेष्टं कुण्डं यात्येव दारुणम् ।ततो गोपो भवेच्चेति ततः शुद्ध्यति वै सति! ॥१७२॥प्रसिद्धानि तु कुण्डानि कथितानि पतिव्रते! ।अन्यान्यप्यप्रसिद्धानि यथाकर्म भवन्ति वे ॥१७३॥सन्ति पापप्रकर्तारः कुण्डेषु फलभोगिनः ।ततो भ्रमन्ति संसारे किंचित्तुभ्यं निवेदितम् ॥१७४॥सर्वेष्टं सारभूतं तु मंगलं कृष्णसेवनम् ।जन्ममृत्युजरारोगशोकसन्तापतारणम् ॥१७५॥भक्तिवृक्षांकुरकरं कर्मवृक्षनिकृन्तनम् ।सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभे! ॥१७६॥कुण्डानि यमदूतं च यमं च यमकिंकरान् ।स्वप्नेऽपि नहि पश्यन्ति सति! श्रीकृष्णसेवकाः ॥१७७॥हरिव्रतप्रकर्तारो गृहिणस्त्यागिनस्त्रियः ।ये स्नान्ति हरितीर्थे च नाश्नन्ति हरिवासरे ॥१७८॥संस्मरन्ति कृष्णनारायणं संपूजयन्ति च ।न यान्ति ते मम घोरां दुःखां संयमनीं पुरीम् ॥१७९॥आम्नायन्यायमार्गस्थास्त्यागिनो गृहिणश्च ते ।शुद्धा धर्मपरा यान्ति कृष्णमन्दिरमक्षरम् ॥१८०॥स्वदूतान्पाशहस्ताँश्च गच्छतस्तान् वदाम्यहम् ।यास्यथेति तु सर्वत्र हरिभक्ताश्रमं विना ॥१८१॥हरेर्भक्तांश्चित्रगुप्तः पुष्पांजलिं करोति हि ।मधुपर्कादिकं ब्रह्मा तेषां तु कुरुते सदा ॥१८२॥मम लोकं सत्यलोकं विलंघ्य गच्छतां सताम् ।स्पर्शमात्रेण पापानि नश्यन्ति याम्यदेहिनाम् ॥१८३॥पावनास्ते भागवताः पञ्चभूततनुं विना ।सूक्ष्मेणैव शरीरेण प्रयान्ति चोर्ध्ववेगिनः ॥१८४॥ब्रह्मधामसमीपे तु स्नात्वा ब्रह्महृदे च ते ।सूक्ष्मं विमुच्य मायायां ब्राह्म्या तन्वा तु धामनि ॥१८५॥आत्माऽऽत्मिकया मोदन्ते बहुशक्तिन्द्रियेन्द्रकाः ।यमलोकं गता ये तु कर्मफलाय देहिनः ॥१८६॥बिभ्रति सूक्ष्मदेहं ते नाशो यस्य न जायते ।स देहो न भवेद् भस्म ज्वलदग्नौ यमालये ॥१८७॥जले नष्टोभवेन्नैव प्रहारे नापि नश्यति ।शस्त्रे शास्त्रे कण्टके च शूले तप्तद्रवे तथा ॥१८८॥तप्ते लोहे च पाषाणे प्रतिकृतौ न नश्यति ।कर्मफलं तथा भुंक्ते सुखमात्रा न विद्यते ॥१८९॥कृष्णनारायणधाम्नि दुःखमात्रा न विद्यते ।तमेव भज सावित्रि! गच्छ कान्तेन मन्दिरम् ॥१९०॥इत्युक्त्वा सा यमेनापि न ययौ मन्दिरं स्वकम् ।सत्यवन्तं सूक्ष्मदेहं स्वायत्तीकृत्य स्वे हृदि ॥१९१॥जिज्ञासमाना पप्रच्छ कुण्डमानादिकं तदा ।शृणु लक्ष्मि! कथयिष्ये यमेन यत्तु भाषितम् ॥१९२॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये सावित्रीकृतयमाष्टकस्तोत्रं, षडशीतिनिरयकुण्डानि, यथाकर्म तत्पातः, ब्रह्महत्यागोहत्याप्रख्यपापानि, भक्तानां यमपराभवो चेत्यादिनिरूपणनामा सप्तत्यधिकत्रिशततमोऽध्यायः ॥३७०॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP