संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १७३ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १७३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७३ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि हिमाद्रौ तु तयोर्विहरतोस्तदा ।कामस्मृत्या कामदेवः प्रविष्टस्तत्र सन्निधौ ॥१॥तस्मिन्प्रविष्टे शंभौ च सत्यां च कामना शुभा ।समभवत्तदा शंभोर्भावं विज्ञाय सर्वथा ॥२॥वसन्तः स्वस्य कर्तव्यं समारेभे हरान्तिके।मन्दसुगन्धशैत्याढ्यो ववौ च मलयो मरुत् ॥३॥वृक्षाश्च पुष्पिताः सर्वे लताश्च पुष्पितास्तदा ।विरेजिरे पलाशाश्च किंशुकैः रक्तकोमलैः ॥४॥कमलानि विचित्राणि सरःस्वपि विरेजिरे ।पद्मपुष्पाढ्यपवनो ववौ तत्र हरान्तिके ॥५॥नागकेशरपुष्पाणि स्वर्णवर्णसुगन्धिभिः ।मनोज्ञान्यभवँस्तत्र शंकरस्य महात्मनः ॥६॥सुगन्धगन्धसंपृक्ता नागवल्ली च मारुतम् ।सती शंकरनिकटे प्रैरयन्मोहकारकम् ॥७॥कोकिलाश्च तदानीं सुस्वरं जगुर्मनोहरम् ।आम्राः प्रफुल्लिताः पत्रमंजरीभिर्बभुस्तदा ॥८॥जलानि निर्मलान्यभिरेजुश्च फुल्लकाशकाः ।ज्योतिश्चक्राणि संरेजुर्वासन्तिकप्रभादिभिः ॥९॥कौमुद्या सह रक्ताश्च विभावर्योऽभवन् प्रियाः ।शाद्वलाः सुप्रदेशाश्चाऽभवन् कामसुखप्रदाः ॥१०॥नदीषु च निकुंजेषु कन्दरीषु स्थलीषु च ।रेमे सत्या समं शंभुर्विरेजे शंभुना सती ॥११॥रमयामास देवेशं विविधाभिस्तु केलिभिः ।हरस्तु पुष्पमालाभिः प्रियां शृंगारयत्यपि ॥१२॥कबरीकरणैरंके स्वापनैश्चूम्बनैस्तथा ।सन्तोषयति चालापैर्हास्यवीक्षणमर्दनैः ॥१२॥तद्वक्त्रशश्यधराऽमृतपानमत्ततां गता ।नानाविधासनसेतुमादिदेश प्रियै तदा ॥१४॥सत्या वक्त्रसुगन्धेन सौन्दर्येण च नर्मणा ।प्रेम्णा रत्या सुबद्धोऽयं शंकरः संतुतोष ह ॥१५॥इत्येवं हिमवच्छृङ्गे रमयित्वा सतीं शिवः ।कैलासमगमत् स्वस्य निवासे शान्तिमावहत् ॥१६॥तापकालो व्यतीतश्च यदा मेघागमोऽभवत् ।सती प्राह तदा शंभुं शृणु मे वचनं प्रिय ॥१७॥घनागमोऽयं समयो मेघा वर्षन्ति सर्वदा ।प्रवान्ति वाता हृद्यं कम्पयन्त्यतिवेगिनः ॥१८॥स्थल्यः सर्वत्र संक्लिन्नाः कर्दमाढ्या अनाश्रया ।वृक्षा वल्ल्यः प्रभिन्नाश्च समार्द्रा जलसंभृताः ॥१९॥मेघानां गर्जना विद्युद्विलासाः प्रभवन्ति च ।मेघच्छन्नौ न दृश्येते सूर्याचन्द्रमसौ दिवि ॥२०॥वाताहता महावृक्षाः पतन्ति त्रासदा भुवि ।व्याघ्राः सिंहा महाक्रूरा विषवन्तश्च देहिनः ॥२१॥भ्रमन्ति निर्जनेऽरण्ये शीतोष्णाऽनिलवह्नयः ।एते चान्ये दुःखदाश्च विघ्ना भवन्ति सर्वदा ॥२२॥तस्मात् क्वचिन्निवासार्थं गृहं कार्यं त्वयाऽधुना ।यत्रच्छाया सुखशय्या पानभोजनवैभवाः ॥२३॥रक्षितुं च भवेयुर्वै शक्याः सामयिकाः सदा ।यदि विरामलाभाय सौधं नास्ति जनस्य तु ॥२४॥तदा को दारवहने लाभोऽस्ति वनवासिनः ।चक्रवाककपोताद्या पक्षिणोऽपि निराश्रयाः ॥२५॥प्राप्ते काले प्रकुर्वन्ति गृहाणि वृक्षकोटरे ।पिपीलिकामूषकाद्याः कुर्वन्ति भूगृहाण्यपि ॥२६॥तस्माद्गार्हस्थ्यधर्मस्यांगभूताऽपत्यरक्षणम् ।गृहे वै स्यान्निराबाधं सर्वर्तुसुखदे दृढे ॥२७॥अन्यासां मद्भगिनीनां भवनानि महान्ति वै ।दिव्यान्यसंख्यस्मृद्धीनि वर्तन्ते नास्ति मे गृहम् ॥२८॥प्रथमे गृहशून्यत्वं दुःखं संसारसागरे ।द्वितीयं धान्यहीनत्वं तृतीयं धनशून्यता ॥२९॥चतुर्थं निरपत्यत्वं मालिन्यं पंचमं मतम् ।षष्ठं रोगकृतमैत्र्यं सप्तमं चाऽगवादिकम् ॥३०॥अष्टमं च गृहे क्लेशः सिंहवृषभभोगिनाम् ।एतद्दुःखाष्टकं मेऽस्ति किं गार्हस्थ्येन योगिनः ॥३१॥योगी स्यान्न भवेद्भोगी भोगी स्यात् किन्तु योगिता ।तस्माद्योगफलं दुःखाष्टकनाशे प्रयुज्यताम् ॥३२।पश्याऽरण्ये च दावाग्निर्बहुधा जायतेऽत्र वै ।प्ररोहन्ति च सस्यानि निबीडानि निवासने ॥३३॥श्यामला राजता रक्ता विशदास्तृणजातयः ।आसनस्थलभूमौ वै प्ररोहन्ति प्रकर्दमाः ॥३४॥असमश्रीश्च कुटिला स्थली सेव्याऽतिदुःखदाः ।निद्रायां रतियोगे वा मध्यरात्रौ भयंकराः ॥३५॥शब्दाः श्रूयन्त उग्राश्च कार्यध्वंसेऽतिदुःखदाः ।मध्याह्ने तूल्बणस्तापो वर्षाधाराश्च दुःखदाः ॥३६॥पश्य मे पादयोस्तीक्ष्णकण्टकानां च शाश्वती ।कुटिका संगता तत्र कण्टकाः सन्ति कीदृशाः ॥३७॥शरीरे पश्य मे मेघकरकाणां च दुर्नयम् ।पतित्वा छादयन्त्येव शरीरं शैत्यदुःखदम् ॥३८॥एतस्मिन् विषमे काले नीडं काकाश्चकोरकाः ।कुर्वन्ति त्वां विना गेहान् कथं शान्तिमवाप्स्यसि ॥३९॥महतीवाऽद्य मे भीतिर्मेघोत्था जायते हृदि ।ततो यतस्व सौधार्थं मा चिरं वचनान्मम ॥४०॥भार्या रक्ष्या वने स्थेयं रतिः स्वाद्या न भोजनम् ।एतत्सर्वं विनाशाय नो सुखाय प्रजायते ॥४१॥कैलासे वा हिमाद्रौ वा गंगातीरेऽथवा क्षितौ ।यत्र क्वापि वासयोग्यं भवनं कुरु शंकर ॥४२॥प्राघूणिकाः समागत्य शान्ता भवेयुराश्रमे ।धनधान्यस्मृद्धिमति यथापेक्षं तथा कुरु ॥४३॥श्रुत्वा सतीव्याहृतं च मत्वा मनसि सार्थकम् ।शंभुः प्राह तदा देव्यै रञ्जयन्मानसं मुहुः ॥४४॥वद देवी यत्र मेघा गच्छन्त्येव नहि क्वचित् ।तत्र सौधं कारयेयं यदि ते रोचते शिवे ॥४५॥मेघा नितम्बपर्यन्तं संचरन्ति महीधरे ।मेरौ वा तादृशे शृंगे कुर्वे ते यदि रोचते ॥४६॥कैलासस्य तथा देवि नितम्बे प्रायशो घनाः ।वर्षास्वपि प्रचरन्ति कुर्वे ते तत्र रोचते ॥४७॥अरुणाचलशृंगै च नितम्बे प्रायशो घनाः ।संचरन्ति न गच्छन्ति तत ऊर्ध्वं कदाचन ॥४८॥सौराष्ट्रे रैवते शैले स्वर्गशृंगे सुतैजसे ।यत्र मेघा नितम्बस्था न गच्छन्त्युपरीति वा ॥४९॥हिमालये शिवशृंगे मेघा गच्छन्ति नैव यत् ।यत्रास्ति चन्द्रजं शैत्यं कुर्वे सौधं तु रोचते ॥५०॥इत्येतेषु गिरीन्द्रेषु त्वया दृष्टेषु प्राग्भवे ।मनोरुचिर्भवेद्यत्र तमाचक्ष्व द्रुतं हि मे ॥५१॥यत्र हैमे प्रोच्चशृंगे सिद्धपत्न्यो वसन्ति वै ।तत्र ते यदि वाञ्छास्ति कुर्वे तत्र महालयम् ॥५२॥स्वर्णशृंगे यत्र देव्यो निवसन्ति सकौतुकाः ।तत्र ते यदि वाञ्च्छा स्यात् कुर्वे सौधं सुवर्णजम् ॥५३॥आरुणे मणिकुट्टे वा लोकालोकेऽथ रैवते ।नागकन्या गिरिकन्याः किन्नर्यः फणिकन्यकाः ॥५४॥गान्धर्व्यश्चाऽप्सरसो विद्याध्र्यः प्रवसन्ति च ।यत्र तत्र रुचिस्तेऽस्ति कुर्वे स्वर्गोपमं गृहम् ॥६१॥सर्वास्ताः सततं सेवां करिष्यन्ति तव प्रिये ।अनुमोदैः सहयानैः सहक्रीडादिभिः सदा ॥५६॥रूपं तवेदमतुलं वदनं चारु वीक्ष्य ताः ।तव दास्यो भविष्यन्ति हेलयित्वा निजं वपुः ॥५७॥यद्वा हिमालये मेना बहुरूपगुणान्विता ।तत्र ते सा मनोमोदं करिष्यत्यतिसेवया ॥५८॥गिरीणां कन्यका हैमे शिक्षार्थं यान्ति नित्यदा ।तत्र वै शिखरं रम्यं शिवाख्यं यदि रोचते ॥५९॥विचित्रैः कोकिलालापमोदैः कुजगणावृतम् ।सदा वसन्तप्रभवं वस्तुमिच्छसि किं प्रिये ॥६०॥नानाजलसरोयुक्तं सरोजाऽसंख्यताकुलम् ।कल्पवृक्षाऽमृतवल्लीकामधेनुसमन्वितम् ॥६१॥प्रशान्तश्वापदगणं यतिसाधुसुसेवितम् ।स्फाटिकस्वर्गहीरकराजतैरुपशोभितम् ॥६२॥मानसतालहंसाऽश्वव्योमहस्तिनिषेवितम् ।हिरण्मयै रत्नजालैः पंकजैर्मुकुलैः सुमैः ॥६३॥नीलोत्पलादिभिः पुष्पैर्मंजुलैः सुनिषेवितम् ।कुंकुमैः सर्वगन्धैश्च लसद्गन्धजलैस्तथा ॥६४॥शाद्वलैस्तरुणैस्तुङ्गैर्वंशवृक्षैः सुशोभितम् ।नृत्यद्भिर्वृद्धमयूरैर्गुंजद्भिर्भ्रमरादिभिः ॥६५॥सारसैः कोकिलाभिश्च मधुराऽऽराविभिर्युतम् ।गायनैः सततं तेषां शब्दायमानमन्वहम् ॥६६॥सहेलीभिः सदायुक्तं कामोद्दीपनकारकम् ।नूत्ननूत्नसखीयुक्त वस्तुमिच्छसि किं प्रिये ॥६७॥यद्वा मेरोः सुशिखरे सारभूते महाशुभे ।संविहर्तुं सखीयुक्ता साऽप्सरोगणमण्डिता ॥६८समिच्छसि तत्र रन्तुं कुर्वे भवनमुत्तमम् ।नित्यं शची करिष्यति तव सेवां सहायताम् ॥६९॥जलेशस्य कुबेरस्येशानस्य च यमस्य च ।अग्नेर्नैर्ऋतदेवस्य मारुतस्य परस्य वा ॥७०॥पुरीभिः शोभिते शृंगे मेरोरुच्चसुरालये ।शचीरंभामेनकादिरंभोरुगणसेविते ॥७१॥त्वमिच्छसि सविहर्तुं कुर्वे तत्र महालयम् ।अथवा मम कैलासे पर्वतेन्द्रे सदाश्रये ॥७२॥स्थानमिच्छसि कुबेरनगरीसन्निधौ शुभम् ।गंगाजलकणैरार्द्रं पूर्णचन्द्रसमोज्ज्वलम् ॥७३॥दरीषु सानुषु द्रोण्यां ब्रह्मकन्याऽभिशोभितम् ।नानामृगकृताऽऽवासं पद्माकरशतावृतम् ॥७४॥मेरोरपि विशेषेण सद्वस्तुगुणमण्डितम् ।आवयोः सानुकूलं च रचये तादृशं तदा ॥७५॥यत्राऽस्त्यधिकवासेच्छा समाचक्ष्व द्रुतं मम ।गृह स्वर्णमणिरत्नसम्पत्पूर्णं करोमि वै ॥७६॥सत्युवाच तदा शंभुं हिमाद्रौ वसितुं सदा ।समीहे नचिरात् तत्र कुरु संवासमिष्टदम् ॥७७॥श्रुत्वा शंभुः सतीं नीत्वा तुंगं शृंग ययौ सदा ।सिद्धांगनागणयुक्तं सरसीवनराजितम् ॥७८॥विचित्रैः कुसुमैर्व्याप्तं नैकधारत्नकर्बुरम् ।पक्षिभिर्यदगम्यं वै स्फटिकाऽभ्रमयं च यत् ॥७९॥विचित्रपुष्पततिभिः शाद्वलैर्द्रभिरन्वितम् ।प्रफुल्लतरुशाखाग्र गुंजद्भ्रमरघोषितम् ॥८०॥पंकेरुहैः प्रफुल्लैश्च नीलोत्पलचयैर्युतम ।स्वर्गीयसारसहंसशुकमेनाभिसेवितम् ॥८१॥तुरंगवदनैः सिद्धैरप्सरोभिश्च सेवितम्॥विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम् ॥८२॥पुरन्ध्रीभिः पार्वतीभिः कन्याभिरभिसंगतम् ।विणाविपञ्चीतन्त्रिकामृदंगपटहस्वनः ॥८३॥नृत्यद्भिरप्सरोभिश्च कृतकौतुकशोभितम् ।देविकाभिदीर्घिकाभिर्गन्धिभिः सुसमावृतम् ॥८४।प्रफुल्लपुष्पवल्लीनां सुकुंजैरुपशोभितम् ।हिमालयपुराऽभ्यर्णे कुबेरपुरसन्निधौ ॥८५॥रम्यं विशालशिखरं स्वर्गतुल्यमनोहरम् ।शिवशृंगं हरो गत्वा दाक्षायण्या समं मुदा ॥८६॥चिरं रेमे कृतसौधः कृतकैलासनामके ।सप्राकारे महाशाले कैलासनगरे नवे ॥८७॥विश्वकर्माणमाहूय कारयामास सत्पुरम् ।कैलासनामकं यत्र भवनानि चकासिरे ॥८८॥स्वर्णरत्नमणिनद्धभित्तिमन्ति दृढानि च ।शय्यास्थानानि रम्याणि स्नानस्थानानि सन्ति च ॥८९॥शीतोष्णजलकुण्डाश्च वाप्यो मिष्टोदकास्तथा ।महानसानि रम्याणि वह्निशालास्तथा शुभाः ॥९०॥भक्ष्यभोज्यादिसामग्रीरक्षास्थानानि सन्ति च ।शृंगारकार्यसुस्थल्यो हास्यविनोदमण्डपाः ॥९१॥हावभावविलासार्थं गुप्तहर्म्याणि सन्ति च ।प्राघूणिकनिवासार्थं गृहाणि सुमहान्ति च ॥९२॥निद्राविराममञ्चाढ्यशय्यागृहाणि सन्ति च ।प्रेंखादोलादिसंराजद्वितर्दीभूमिकोत्तमाः ॥९३॥ग्लहद्यूतादिरङ्गानि समाजरंगमण्डपाः ।चतुष्क्यश्चोदकुंभ्यश्चाऽट्टालिकाः सन्ति सर्वशः ॥९४॥उद्यानाश्च गृहोद्याना गृहयानानि वैद्युताः ।प्रदीपाः श्रावयन्त्राणि दृश्ययन्त्राणि सन्ति च ॥९५॥वस्त्राणि लक्षशो नैकजातीयानि कृतानि वै ।पात्राणि स्वार्णरौप्याणि विभूषा रात्नपौरटाः ॥९६॥वेशास्तथोपवेशाश्च कपाटगुप्तसंग्रहाः ।वायुव्यजनयन्त्राणि कामसंगीतशालिकाः ॥९७॥मनोरंजनमार्गाश्च बहुदृश्याऽऽपणास्तथा ।कोटिलक्षाऽयुतगणनिवासाः सद्गृहोत्तमाः ॥९८॥वाटिकाश्च विहाराश्च राजधान्यः शुभाः कृताः ।यत्राऽमृतरसा दिव्याः सन्ति ब्रह्मरसास्तथा ॥९९॥कामोत्तेजकपानाद्याः सद्रसाः सन्ति यत्र वै ।नवयौवनपुष्ट्यापादकवल्ल्योषधिस्थलम् ॥१००॥कामधेनुनिवासाश्च रसशालास्तथा शुभाः ।वृषभसिंहगरुडगजाश्व वाहनानि च ॥१०१॥कृतानि कारितानि वै कन्याशिक्षागृहाणि च ।एतादृशो नवस्तत्र कैलासो नगरोत्तमः ॥१०२॥कारितं शंभुना विश्वकर्मद्वारा महोत्तमः ।यस्याग्रे लोकपालानां सोधाः क्षुद्रास्तदाऽभवन् ॥१०३॥दक्षगृहाच्छतगुणस्मृद्धियुक्तां पुरीं निजाम् ।विलोक्य वीक्ष्य संलोक्य सती जहर्ष सा मुहुः ॥१०४॥यद्यच्च कल्प्यते वस्तु तत्तत् तत्रोपतिष्ठते ।न न्यूनं वर्तते किञ्चित् ब्रह्मविष्णुसुरादितः ॥१०५॥राजाधिराजसल्लक्ष्म्या सेव्यते सतीशंकरौ ।राजेते राजराजेशसम्पत्त्या छत्रचामरैः ॥१०६॥विमानवरमारुह्य क्वचिद्यातः स्थलान्तरम् ।मेर्वादावन्तरीक्षे च स्वर्गादौ संविहृत्य च ॥१०७॥गत्वा गत्वा पुनर्नूत्ने कैलासैऽभ्येत्य रेमतुः ।सतीशौ चैवमानंदं गार्हस्थ्यमनुचक्रतुः ॥१०८॥एवं श्रीशंकरसुखं सत्यपश्यत्स्म सर्वदा ।श्रीशंभुरपि सर्वत्र समद्राक्षीत्। सतीसुखम् ॥१०९॥एवमन्योन्यसंसर्गादनुरागमहीरुहम् ।वर्धयामासतुः सतीशिवौ भावाऽम्बुसेचनैः ॥११०॥सती तत्रैकदा शंभुं पप्रच्छ विस्मितानना ।वैराग्यवृत्तिमापन्ना सन्तुष्टा सुखभोगतः ॥१११॥देवदेव महादेव कृपां कुरु ममोपरि ।त्वं परब्रह्मतादात्म्यभावाऽऽपन्नोऽगुणः परः ॥११२॥धन्याऽहं ते प्रिया जाता जातस्त्वं मे पतिः प्रभुः ।ज्ञातुमिच्छामि देवेश तत्त्वं येन भवं तरेत् ॥११३॥यत्कृत्वा विषयी जीवोऽवश्यं व्रजेत्परं पदम् ।आकर्ण्य तत् शिवोऽवोचत् सतीज्ञानार्थमत्र यत् ॥११४॥शृणु प्रिये प्रवक्ष्यामि तत्त्वं मुक्तो भवेद् यतः ।परतत्त्वं विजानीहि हरिं नारायणं सदा ॥११५॥दुर्लभं तस्य विज्ञानं तज्ज्ञाता विरलः प्रिये ।नारायणस्य दासोऽहं ब्रह्मणः परमात्मनः ॥११६॥नारायणस्य भक्तिश्च भुक्तिमुक्तिफलप्रदा ।स्मर्यसे प्राग्भवे देवि नरनारायणाश्रमे ॥११७॥गत्वाऽर्हं वैष्णवो जातस्ततस्त्वं वैष्णवी कृता ।गोलोकाद्वैष्णवश्चाहं पुनर्भावी च वैष्णवः ॥११८॥त्वया भाव्यं च वैष्णव्या ब्रह्मभक्त्या मम गृहे ।ब्रह्मधाम्नि स्थितस्याऽस्य नारायणस्य सर्वथा ॥११९॥स्मृतिर्विज्ञानमेवाराधनोपास्तिश्च सर्वदा ।मननं चाथ भक्तिश्च प्रेमसेवेति चैकता ॥१२०॥तया वै प्राप्यते नारायणो नान्येन केनचित् ।सुलभा तत्प्रसादात्मा नवधाऽत्र प्रकीर्तिता ॥१२१॥श्रवणं कीर्तनं चैव स्मरणं सेवनं सदा ।दास्यं तथाऽर्चनं देवि वन्दनं श्रीहरेस्तथा ॥१२२॥सख्यमात्मनिवेदित्वं नवांगानि च तानि वै ।कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्हरेः ॥१२३॥तदर्थपानं स्थैर्येण यत्तच्छ्रवणमुच्यते ।श्रुत्वा तदर्थमननं कर्तव्यं फलदं हि तत् ॥१२४॥हृदये श्रीहरेर्जन्मकर्माणि चिन्तयन्मुहुः ।प्रीत्योच्चोच्चारणं तेषामेतत्कीर्तनमुच्यते ॥१२५॥व्यापकं श्रीहरिं ज्ञात्वा स वै सर्वत्र सर्वदा ।स्मर्यते येन मनसा स्मरणं तदुदाहृतम् ॥१२६॥सर्वथा जाग्रति स्वप्ने वस्तुभिः स्वस्य सुप्रियैः ।परिचर्या तु या तस्य सेवनं तदुदाहृतम् ॥१२७॥सदाऽनुकूलभावेन हृदयामृतभोगतः ।हरेः प्रियं यथा वृत्त्यं तद्वै दास्यमुदाहृतम् ॥१२८॥सदा स्मृद्ध्यानुकूल्येन विधिना परमात्मने ।अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ॥१२९॥नामोच्चारणध्यानाभ्यां मनसा वचसा तथा ।यदष्टांगेन भूस्पर्शा दण्डवत् वन्दनं हि तत् ॥१३०॥मंगलाऽमंगलं यद्यत् करोति श्रीहरिर्हि मे ।सर्वं तन्मंगलायेति विश्वासः सख्यमुच्यते ॥१३१॥कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम् ।निर्वाहाय स्वशून्यत्वं हरावात्मनिवेदिता ॥१३२॥नवांगानि हरेर्भक्तेर्भुक्तिमुक्तिप्रदानि च ।मम प्रियाणि चातीव विज्ञानोत्पादकानि च ॥१३३॥उपांगानि च तद्भक्तेर्बहूनि सन्ति मे प्रिये ।तुलसीसेवनादीनि मन्दिरमार्जनानि च ॥१३४॥देवालयप्ररक्षादि समूह्यानि विचारतः ।इति सांगोपागभक्तिर्हरेः सर्वोत्तमा प्रिये ॥१३५॥ज्ञानवैराग्यजननी मुक्तिदासी विराजते ।त्रैलोक्ये भक्तिसदृशः पन्था नास्ति सुखावहः ॥१३६॥भक्तिमतो जनस्य श्रीहरिश्चास्ति सहायकृत् ।भक्तितत्त्वं परतत्त्वप्रापकं तत्त्वमेव तत् ॥१३७॥सा च भक्तिः पुनर्द्वेधा सगुणा निर्गुणा तथा ।फलेच्छया कृता सर्वा सगुणा परिकथ्यते ॥१३८॥फलेच्छारहिता सैव निर्गुणा भक्तिरुच्यते ।सा च भक्तिः पुनर्द्वेधा वैधी स्वाभाविकी तथा ॥१३९॥प्रसह्य विधिना कार्या वैधी सा त्वाज्ञया कृता ।स्वभावेनैव कार्या या स्वाभाविकी तु सा मता ॥१४०॥सा च भक्तिः पुनद्वैधा परा चाऽथाऽपरा तथा ।परा साध्यहरिरूपाऽपरा साधनरूपिणी ॥१४१॥नैष्ठिक्यनैष्ठिकी द्वेधा षड्विधा नैष्ठिकी मता ।विश्वासो वरणं न्यासः कार्पण्यं च स्थिरा मतिः ॥१४२॥आनुकूल्यसहकृतप्रातिकूल्यविवर्जनम् ।षड्विधा नैष्ठिकी भक्तिरनैष्ठिक्येकधा मता ॥१४३॥स्वार्थमात्रकृता भक्तिरनैष्ठिकी प्रकीर्तिता ।विहिताऽविहिता साऽथ द्वेधाऽऽज्ञा विहिता मता ॥१४४॥अनाज्ञा चाऽविहितोक्ता पुनर्मध्योत्तमाऽवमा ।त्रेधा तत्र तरतमैर्भावैर्भवत्यनेकधा ॥१४५॥हरेर्नामजपसाम्यं नान्ये भवति कुत्रचित् ।हरिरित्यर्थकं ब्रह्म व्याहरँश्च हरिं स्मरन् ॥१४६यः प्रयाति त्यजन्देहं स याति परमां गतिम् ।भक्त्या तुष्यति लोकश्च भक्त्या तुष्यति वै हरिः ॥१४७॥शृणु देवि मया पूर्वे कल्पे नारायणोपरि ।युगषष्टिसहस्राणि तपस्तप्तं सुदुश्चरम् ॥१४८॥तदा नारायणः साक्षादभून्मे दृष्टिगोचरः ।अतीव कमनीयांगः किशोरः श्यामसुन्दरः ॥१४९॥रूपानुरूपावयवः सुप्रसन्नमनोहरः ।दृष्ट्वा हरिं तादृशं मे नेत्रे तृप्तिं न वै गते ॥१५०॥पश्यन्निमेषरहितोऽभवं तृप्तो न वै चिरम् ।तदा मां भगवान्प्राह किं शंभो नैव तृप्यसि ॥१५१॥गच्छाम्यहं स्वकं धाम वरं वृणु यथेप्सितम् ।तव भक्त्या च तपसा प्रसन्नोऽस्मि च मा चिरम् ॥१५२॥तदा मयाऽर्थितं नारायणात् शृणु प्रिये मम ।तवोपभोग्यं यत्स्यात्तन्न मे भोग्यं भवेत्तु प्राक् ॥१५३॥तव प्रसादसर्वस्वं मम भोग्यं मतं प्रभो ।तव दास्यं सदा मे स्यादात्मनिवेदिताऽपि च ॥१५४॥अन्यापि विविधा भक्तिस्तवैव मेऽस्तु मोक्षदा ।मस्तके मे जटा नित्या तपस्याबोधिकाऽस्तु वै ॥१५५॥शरीरे मे चिताभस्म वैराग्यबोधिकाऽस्तु वै ।समता चन्दने पंके लोष्ठे रत्ने मणीश्वरे ॥१५६॥सदास्तु मुकुटाद्या न भूषा धार्या मया प्रभो ।तत्र सर्पा मया धार्या गरुडद्वेषिणो हरे ॥१५७॥वाहनं तु वृषो गोलोकात् कृष्णार्पित एव मे ।पारिजातादिकं पुष्पं सुगन्धि चन्दनादिकम् ॥१५८॥तव योग्यं भवेत्तत्र मे भागः क्वापि मा भवेत् ।धत्तूरेऽस्तु सदा प्रीतिर्बिल्वपत्रानुधारणे ॥१५९॥गन्धहीनेषु पुष्पेषु प्रीतिर्मेऽस्तु विरागतः ।वस्त्रवेशे माऽस्तु रागोऽस्तु गजव्याघ्रचर्मणोः ॥१६०॥दित्यतल्पे दिव्यभोगे माऽस्तु प्रीतिः कदाचन ।श्मशानेऽस्तु सदा वासो जनतायां न मे क्वचित् ॥१६१॥श्मशाने विघ्नशून्ये मे ध्यानं तव सदा भवेत् ।ज्ञानं ते श्रीहरे नित्यं गुणत्रयविनाशकम् ॥१६२॥त्रिशूलरूपं मे स्याच्च वैराग्यं भस्मरूपकम् ।धर्मो मे वृषरूपः स्याद्भक्तिर्मे योगिता त्वयि ॥१६३॥कण्ठहारश्च ते भक्तिविरोधिशिरसां कृतः ।भूषामालाश्च तेऽयोग्यरुद्राक्ष फलकल्पिताः ॥१६४॥माऽस्तु वृन्दादिवृक्षाणां भोग्यं ते माऽस्तु मत्कृते ।लक्ष्मीर्देवी मम माऽस्तु किन्त्वलक्ष्मीर्ममाऽस्तु वै ॥१६५॥मिष्टं पेयं हरेर्यत्स्यात् तन्मे माऽस्तु कदाचन ।ममाऽस्तु विषधत्तूरगंजाभंगादिकं सदा ॥१६६॥इत्येवं तु मया सर्वं तपःकाले प्रपार्थितम् ।हरिणा च प्रदत्तं तद्वरदानं शुभाय मे ॥१६७॥प्रभक्तानां प्रशिक्षार्थं दासभक्त्यभिव्यंजकम् ।असुराणां विमोहार्थं रक्षितं तु तदाज्ञया ॥१६८॥तस्मात् सति! त्वया दास्ये हरेर्वृत्त्यं न चाऽन्यथा ।शृणु चान्यां कथां श्रेष्ठां हरेः प्रसादगर्भिताम् ॥१६९॥सनत्कुमारो वैकुण्ठमेकदा तु जगाम ह ।ददर्श भुक्तवन्तं च हरिं नारायणं मुनिः ॥१७०॥तुष्टाव गूढैः स्तोत्रैश्च प्रणम्य भक्तिपूर्वकम् ।अवशेषं ददौ तस्मै सन्तुष्टो भक्तवत्सलः ॥१७१॥तत्रैव किंचित्तेनैव भुक्तं शेषं च यद्धृतम् ।तद्वै ररक्ष बन्धूनां भक्षणार्थं च दुर्लभम् ॥१७२॥तस्मादपि च किंचिच्च सिद्धाश्रमस्थिताय मे ।दत्तवान् स मुनिस्तच्च भुक्तं सर्वं मयाऽऽदरात् ॥१७३॥भुक्त्वाऽहं दुर्लभं हरेः प्रसादं नृत्यमाचरम् ।पुलकांकितसर्वांगः साश्रुनेत्रोऽभवं मुदा ॥१७४॥श्रीहरेर्गुणगानं च तालमानेन सुस्वरम् ।रागभेदैकतानेन भक्त्या चाऽकरवं तदा ॥१७५॥पपात डमरुर्हस्ताच्छृंगं च व्याघ्रचर्म च ।स्वयं निपत्य पश्चाच्च रुदन्मूर्छां गतोऽप्यहम् ॥१७६॥अतीव कमनीयं श्रीहरेः रूपं मनोहरम् ।हृदये मूर्छितस्तत्र ध्यायामि तावदेव ह ॥१७७॥तदन्तरे च दुर्गा त्वं मुदाऽऽजगाम भामिनी ।अहमुत्थाय मूर्छातो यावत्तिष्ठामि भामिनि! ॥१७८॥तावन्मूर्छाकरं तत्र कारणं पृष्टमेव मे ।मया तुभ्यं तु कथितं प्रसादलाभ एव यत् ॥१७९॥ज्ञात्वा त्वं कुपिता देवि! प्रोक्तवती च मां तदा ।त्वं पोष्टा जगतां पाता ममैव च विशेषतः ॥१८०॥वक्ता चतुर्णां वेदानां दाता च सर्वसम्पदाम् ।त्वं चेत्करोषि दुर्नीतिं को धर्मं रक्षयिष्यति ॥१८१॥सदा ते परिपाल्याऽहं पोष्या भक्ता च किंकरी ।वंचिता कर्मदोषेण हरेः प्रसादभक्षणे ॥१८२॥किंचिच्छुद्धं हिरण्येन किंचिच्छुद्धं च वायुना ।किंचित्प्रक्षालनेनैव सर्वं विष्णोर्निवेदनात् ॥१८३॥विष्णोर्निवेदिताऽन्नेन यष्टव्याः सर्वदेवताः ।पितरोऽतिथयश्चैवमिति वेदेषु निश्चितम् ॥१८४॥अनिवेद्यमभक्ष्यं च नैवेद्यं भक्ष्यमेव हि ।एवमश्नाति यो भक्त्या पार्षदप्रवरो भवेत् ॥१८५॥अमृतं सर्ववस्तूनामिष्टसारं सुदुर्लभम् ।विष्णोर्निवेदितान्नस्य कलां नाऽर्हति षोडशीम् ॥१८६॥हन्त्यकालिकमृत्युं तदमृतं मूढरंजनम् ।नैवेद्यं च हरेरेव हरितुल्यं करोत्यहो ॥१८७॥यदृच्छया तन्नैवेद्यं यो भुंक्ते साधुसंगतः ।षष्टिवर्षसहस्राणां प्राप्नोति तपसः फलम् ॥१८८॥यो निवेद्य हरिं भुंक्ते भक्त्या भक्तश्च नित्यशः ।स पंक्तिपावनो बोध्यः स हरेस्तेजसा समः ॥१८९॥नाऽहं वेदविधात्र्यस्मि किमहं वक्तुमीश्वरी ।सुचिरं तु तपस्तप्त्वा मया लब्धस्त्वमीश्वरः ॥१९०॥त्वया विष्णोः प्रसादेन वंचिताऽहं कथं प्रभो! ।इत्यभिधाय दुर्गा त्वं रोदनं कृतवत्यसि ॥१९१॥ततोऽहं त्वां परप्रेम्णा कृत्वा वक्षसि सादरम् ।करेण चक्षुषोर्नीरं संमृज्याऽबोधयं मुहुः ॥१९२॥परितुष्टा तदा त्वं मां भर्तारमुक्तवत्यसि ।कलेवरं च त्यक्ष्यामि नैवेद्येन विना हरेः ॥१९३॥बिभर्मि देहं सततं तव सौभाग्यवर्धनम् ।कथं वहामि सौभाग्यरहितं तु कलेवरम् ॥१९४॥अपूर्वं हरिनैवेद्यं जन्ममृत्युजराहरम् ।मह्यं दत्तं न वै यस्मात्पश्य देहं त्यजाम्यहम् ॥१९५॥इत्युक्त्वा त्वं महादेवि देहं त्यक्तुं समुद्यता ।तदा मया स्तुता त्वं वै महादेवि! स्थिरा भव ॥१९६॥ममाऽपराधमखिलं क्षन्तुमर्हसि सुन्दरि! ।मां भृत्यं तपसा क्रीतं कृपां कुरु ममोपरि ॥१९७॥इच्छैव श्रीहरेः साक्षान्नाऽहं दातुमपि क्षमः ।श्रुत्वैवं श्रीहरेरिच्छां दुर्गा तुष्टा बभूव सा ॥१९८॥ततो जगाम तूर्णं स्वर्णदीं स्नानार्थमित्यथ ।स्नात्वा सम्पूज्य भक्त्या च कृत्वा पक्वान्नमित्यथ ॥१९९॥नैवेद्ये मेऽर्पितवती तदा नारायणोऽप्यहम् ।गत्वा सर्वमहं भुक्त्वा तस्यै दत्वाऽभिवाञ्छितम् ॥२००॥आजगाम च वैकुण्ठं लक्ष्मि! प्रसादमेव तम् ।भर्त्रे दत्वा च शेषं यद् दुर्गा भुक्तवती च तत् ॥२०१॥एवं शिवाशिवौ भक्तौ प्राग्भवीयौ हि वैष्णवौ ।वर्तेते सर्वदा मग्नौ यन्मूर्तौ योगिनौ परौ ॥२०२॥न संवसामि गोलोके वैकुण्ठे तव वक्षसि ।सदा शिवस्य हृदये निबद्धो भक्तिपाशतः ॥२०३॥स्वरसिद्धं सुतानेन पञ्चवक्त्रेण शंकरः ।शश्वद्गायति मद्गाथां तेनाऽहं तद्धृदि स्थितः ॥२०४॥मम भक्तिं च दास्यं च मुक्तिं च सर्वसम्पदः ।मय्येवायं सर्वसिद्धीः समर्पयति शंकरः ॥२०५॥पञ्चवक्त्रे मन्नाम यो हि गायत्यहर्निशम् ।मद्रूपं ध्यायति शश्वन्न भक्तः शंकरात्परः ॥२०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सतीशिवयोर्हिमाचले विहारः गृहनिर्माणार्थं सतीप्रार्थनागृहयोग्यपर्वतादिनामानि, हिमालये कैलासपुरीनिर्माणं, सतीकृतसंसारतरणप्रश्रः शिवोक्तहरिनवधाभक्तिः शिवकृतपूर्वकल्पीयतपसा हरिदर्शनं, हरिभोग्यं शिवस्याऽभोग्य-मितिधत्तूरभस्मादिधारणं, पार्वत्योक्तहरिनैवेद्यमहिमेत्यादिनिरूपणनामा त्रिसप्तत्यधिकशततमोऽध्यायः ॥१७३॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP