संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४८३ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४८३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४८३ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! प्रवक्ष्यामि त्वनसूयां पतिव्रताम् ।अत्रिर्नाम्नाऽभवत्तस्याः पतिर्वै ब्रह्मणः सुताः ॥१॥अग्निहोत्ररतो नित्यं देवताऽतिथिपूजकः ।अनसूयाऽपि तत्प्राणा पतिकार्यहिते रता ॥२॥पतिव्रता पतिं भेजे कृष्णनारायणं यथा ।एवं काले गतेऽपत्यं दम्पत्योर्नाऽभवत्तदा ॥३॥सुखासीनौ प्रवदतः सुखदुःखानि कर्मभिः ।अत्रिः प्राह प्रिये कान्ते त्रैलोक्ये सचराचरे ॥४॥न त्वया सदृशी लोके सर्वदा मे हिते रता ।पतिपुत्रप्रिया नारी लोकाञ्जयति दुस्तरान् ॥५॥पुत्रेण लोकाञ्जयति पुत्रेण परमा गतिः ।नास्ति पुत्रसमो बन्धुः पृथिव्यां चात्र दृश्यते ॥६॥असिपत्रवने याम्ये पतन्तं योऽभिरक्षति ।दुर्भिक्षेष्वपि दैन्यादौ वृद्धकालेऽपि सत्सुतः ॥७॥पुत्रं विना तु किं भद्रे यतिर्वापि सुतः प्रिये ॥८॥लोकलज्जाप्रेरितश्च तारयेत् पितरौ हि सः ।पुत्रहीने कथं सौख्यमिह लोके परत्र च ॥९॥दिवानिशं चिन्तयानः शुष्यामि शर्म नो लभे ।अनसूयाऽपि तं श्रुत्वा प्राहाऽहं शोचयामि तत् ॥१०॥तवोद्वेगकरं यच्च मामुद्वेजयति प्रभो ।येन पुत्रा भवेयुर्मे येन तुष्येत् प्रजापतिः ॥११॥अत्रिः प्राह मया भद्रे तपस्तप्तं सुदारुणम् ।व्रतोपवासैर्नियमैः शाकाहारादिभिः प्रिये ॥१२॥क्षीणं देहमशक्तोऽहं जन्मप्रभृति तापसः ।वार्धक्यं दृश्यते देहे प्रस्थानं पारलौकिकम् ॥१३॥नाऽतिदूरं दृश्यतेऽत्र तथ्यं तुभ्यं निवेदितम् ।अनसूयाऽह तं भर्तर्नारी पतिव्रताऽस्मि ते ॥१४॥त्रिवर्गसाधना चाऽस्मि पतिपुत्रविवर्धिनी ।भवतस्त्वाज्ञया तप्त्वा भविष्यामि सुतप्रसूः ॥१५॥जपस्तपस्तीर्थयात्रापुत्रेज्यामन्त्रसाधनम् ।पतिव्रतां वदन्त्येव गुरवो लोकरक्षकाः ॥१६॥अनुज्ञाता च दुःखेऽहं तपस्तप्स्यामि दारुणम् ।पुत्रार्थिनी बहुदिनान्यहं विष्णुं प्रयामि च ॥१७॥अत्रिः प्राह समीचीनं मम सन्तोषकारकम् ।अनुज्ञाता मया भद्रे पुत्रार्थं तप आचर ॥१८॥ऋणानि त्रीण्यपाकृत्य मनो मोक्षे नियोजयेत् ।देवानां च मनुष्याणां पितॄणामनृणं कुरु ॥१९॥न भार्यासदृशं पोतं तारकं त्वपरं मतम् ।नहि देवाः प्रशंसन्ति सद्भार्यारहितं गृहम् ॥२०॥शुष्कं भवति वै चान्यद् भार्यया रहितं सुखम् ।सम्मुखे सम्मुखाऽऽयाति विलोमे तु पराङ्मुखी ॥२१॥अतो भार्या प्रशंसाया आस्पदं गृहमेधिनाम् ।पतिव्रते महाभागे सर्वदा हितकारिणि ॥२२॥तपश्चरस्व सफलं पुत्रप्रदं ममाऽऽज्ञया ।पत्याज्ञा विष्णुवचनं सफलं स्यात् प्रिये त्वयि ॥२३॥तवेच्छा वर्तते सापि द्राक् सफलयतु प्रभुः ।एवं प्रसन्नतां पत्युः समागृह्य पतिव्रता ॥२४॥स्वकार्ये सबला भूत्वा साष्टांगं प्रणताऽब्रवीत् ।त्वत्प्रसादेन विप्रेन्द्र सर्वमेतदवाप्नुयात् ॥२५॥आशीर्वादैर्योजिता चानसूया वै पतिव्रता ।हंसलीलागतितीव्रा प्राप्ताऽसौ नर्मदातटम् ॥२६॥नर्मदोत्तरतीरे साऽभवत्पर्णाशना तथा ।नियमस्थाऽभवन्नित्यं शाकाहारा क्वचित् क्वचित् ॥२७॥स्तोत्रपरा हृदा देवान् शुभैः स्तोत्रैश्च संयता ।ग्रीष्मेषु साऽभवन्मध्ये पञ्चाग्नितेजसां दिवा ॥२८॥वर्षायां साऽवर्ण्यच्च चान्द्रायणं बहिः स्थिता ।हेमन्ते जलवासा चाऽकरोत् त्रिषवणं सती ॥२९॥देवानां तर्पणं समर्चनं च हवनं तथा ।नैवेद्यं सोत्सवं पुष्पाञ्जलिं स्तोत्रं क्षमार्थनम् ॥३०॥अकरोत् सा वने नित्यहरिण्यादिसहायिनी ।एवं वर्षशते याते विष्णुरुद्रपितामहाः ॥३१॥क्षुत्क्षामां तापसीं पुत्रार्थिनीं ज्ञात्वा समाययुः ।द्विजरूपेण ते देवा एरण्ड्याः संगमस्थले ॥३२॥आगत्य वेदमन्त्राँश्चोच्चारयन्ति तपःस्थले ।श्रुत्वा वेदस्य मन्त्राँश्चाऽनसूया प्रेमपूरिता ॥३३॥ईक्षमाणा मुहुस्तां तु दिशां समुत्थिता स्थलात् ।दृष्ट्वाऽऽश्रमगतान् विप्रानतिथीनर्घ्यमाददौ ॥३४॥तेषां चरणान्प्रक्षाल्य पपौ शिरसि चाऽकरोत् ।अद्य मे सफलं जन्म विप्राणां दर्शनेन वै ॥३५॥अद्य मे सफलं कार्यं तपो विप्रप्रदर्शनात् ।अद्य मे भूमिका चेयं सफला ब्राह्मणागमात् ॥३६॥इत्युक्त्वा पादयोर्नत्वा चक्रे प्रदक्षिणं मुहुः ।पुनः साष्टांगनमनं कृत्वा सत्कारमब्रवीत् ॥३७॥कन्दमूलफलैर्दिव्यैरद्याहं तर्पयामि वः ।पर्णकुट्यां च विश्रान्तिं यात दर्भासनादिषु ॥३८॥इति श्रुत्वा तु ते विप्रा ऊचुस्तां तापसीं सतीम् ।तपसा चातितीव्रेण तव सत्येन सुव्रते ॥३९॥पातिव्रत्येन धर्मेण तृप्ताः स्म तव दर्शनात्॥अस्माकं कौतुकं जातं किमर्थं तप्यते त्वया ॥४०॥स्वर्गं वा लोकसम्पत्तिं मोक्षं वा चान्यदेव वा ।किमिष्यते त्वया साध्वि! तपसा दुष्करेण वै ॥४१॥तपसा सिद्ध्यति स्वर्गस्तपसा तु परा गतिः ।तपसा सर्वकामानां सिद्धिर्भवति पुष्कला ॥४२॥यौवने तु सदा भोगा भोक्तव्या मनसेप्सिता ।ताँस्तु सर्वान् विहायाऽत्र कुतो हेतोर्विशुष्यसि ॥४३॥अनसूया तु तच्छ्रुत्वा प्रोवाच सुरपुंगवान् ।युवत्वे तु तपः कार्यं युवत्वे परमा गतिः ॥४४॥युवत्वे च सुतोत्पत्तिर्वृद्धत्वे सर्वमप्रियम् ।इत्युक्ता देववर्यास्ते साधु साध्विति चाऽब्रुवन् ॥४५॥विप्ररूपाणि विवृत्य ब्रह्मविष्णुमहेश्वराः ।त्रयः साक्षात्तु ते भूत्वा वरं वृण्विति चाऽब्रुवन् ॥४६॥यत्त्वया चाभिलषितं दद्मः सर्वं वदाधुना ।चतुर्भुजो वासुदेवः शंखचक्रगदाधरः ॥४७॥गरुडेन सहितश्च श्रिया च सहितोऽभवत् ।प्रसन्नवदनो ब्रह्मा चतुर्वदनशोभितः ॥४८॥हंससावित्रिकायुक्तश्चाऽक्षमालाकरोऽभवत् ।वृषभं तु समारूढः पार्वतीसहितः शिवः ॥४९॥पञ्चवक्त्रस्त्रिनेत्रश्च दशबाहुसमन्वितः ।इत्येतान् पूजनीयाँश्च देवान् दृष्ट्वा च तापसी ॥५०॥आनन्दिताऽभवत् तूर्णं दृष्ट्वा नत्वा ह्युवाच तान् ।किंव्यापाराश्च के यूयं विष्णुरुद्रपितामहाः ॥५१॥तदहं श्रोतुमिच्छामि वदतात्र दयादवः ।ब्रह्मोवाच सति! प्रावृट्कालोऽहं च जलं तथा ॥५२॥मेघोऽहं च प्रवर्षामि सन्ध्याऽहं पूर्वदैशिकी ।विष्णुरुवाच हेमन्तश्चाहं पुष्णामि सर्वथा ॥५३॥पालनीयं जगत् सर्वं ममाऽस्ति कार्यमुत्तमम् ।रुद्रः प्राह सति! चाहं ग्रीष्मकालः क्षयंकरः ॥५४॥शोषयामि जगत्सर्वं रुद्ररूपस्तपस्विनि! ।एवं वयं त्रयो देवास्त्रयः कालास्त्रयोऽग्नयः ॥५५॥तिस्रः सन्ध्या भवामश्च नित्यमेकत्वमागताः ।वरं दद्मश्च ते भद्रे यत्ते मनसि वर्तते ॥५६॥अनसूया समुवाच वन्ध्याऽस्मि किं वृणे सुराः ।मम पुत्रा भवताऽत्र ब्रह्मविष्णुमहेश्वराः ॥५७॥विष्णुरुवाच तां देवीं भद्रे न वरदाः सुताः ।भवन्ति किन्तु तत्तुल्या भवन्ति वरदानतः ॥५८॥भद्रे ददामि तान्पुत्रान् देवतुल्यपराक्रमान् ।पितृतुल्यगुणोपेतान् सोमयाजिबहुश्रुतान् ॥५९॥अनसूया च तान्प्राह दातव्यमीप्सितं मम ।वरदानकृते योग्या यद्यस्ति यात पुत्रताम् ॥६०॥नान्यथा तत्तु कर्तव्यं वसताऽद्य ममोदरे ।विष्णुरुवाच तां देवीं गर्भवासे न वै वयम् ॥६१॥आयामः किन्तु वायुस्ते गर्भे स्थास्यति गर्भवत् ।सगर्भमुदरं ते तु वायुः प्रदर्शयिष्यति ॥६२॥नवमासोत्तरे काले प्रसूतेश्च गृहे वयम् ।आगमिष्याम ऐश्वर्यसहितास्त्वद्गृहे शुभे ॥६३॥वायोर्निःसरणे काले वयं बालस्वरूपिणः ।त्रय एव भविष्यामश्चाऽयोनिसंभवाः सुताः ॥६४॥योनिवासं तु वै देवा नैव यान्ति शुभाश्रयाः ।इत्युक्त्वा बालरूपास्तेऽदृश्यन्त वै क्षणं तदा ॥६५॥अथ ययुः स्वकं धाम दिव्यवाहनसंश्रिताः ।प्राप्ता वरं तु सा देवी क्षीणदेहा ययौ गृहम् ॥६६॥शिलातले निषण्णं साऽपश्यत् कान्तं महाव्रतम् ।ननाम प्रणता तस्य पादौ प्रक्षाल्य सा पपौ ॥६७॥कुशलं पृष्ठा प्रोवाच कृपया ते फलान्विता ।निर्विघ्ना वरमादाय सेवायामागताऽस्मि वै ॥६८॥पतिपुण्येन साध्याश्च फलन्ति त्विष्टपादपाः ।पुत्रत्रयं ब्रह्मविष्णुमहेशाख्यं मयाऽर्जितम् ॥६९॥भगवत्पादसेवायाः फलं प्राप्तं चिरेण वै ।असाध्यश्चान्यनारीणां वरः प्राप्तः सुदुर्लभः ॥७०॥तेनाऽहं ते प्रयच्छामि पुत्रानृषितपोधनान् ।इत्युक्ता हर्षिता सम्यक्कान्तसेवापराऽभवत् ॥७१॥साऽलोकयत् पतिं कान्तं कान्तेन साऽवलोकिता ।दर्शनादेव सञ्जातं ललाटे मण्डलं प्रभम् ॥७२॥अमूलं दीर्घमूलं च त्रिरंगं गोलकं शुभम् ।तेजोमयं सहस्रादिरश्मिजालसमावृतम् ॥७३॥तस्य मध्ये त्रयो देवा ह्यभासन्त क्षणान्तरे ।देवैराज्ञापितो वायुर्गर्भस्थानेऽवसत् सदा ॥७४॥अनसूया गर्भवती तेजसा त्वभवच्छुभा ।अथ मासेषु नवसु यातेषु दशमे यथा ॥७५॥योग्ये तु समये साध्वी सूतिकागृहमाविशत् ।वायुर्गर्भान्निःससाराऽभवन् देवास्तु बालकाः ॥७६॥हेमवर्णः पूर्वपुत्रो ब्रह्माऽभवत् पितामहः ।चन्द्रमाः षोडशकलः सोमः पोषणदायकः ॥७७॥स चाऽयं प्रथमः पुत्रोऽनसूयायास्तु नन्दनः ।द्वितीयस्तु महाभागः स्वयं साक्षान्महेश्वरः ॥७८॥सृष्टिसंहारकः सोंऽशो दुर्वासो नामतोऽभवत् ।तृतीयस्त्वभवत्पुत्रो विष्णुर्नारायणो हरिः ॥७९॥दत्तात्रेयो महायोगी भगवान् श्रीपतिः प्रभुः ।जगद्व्यापी जगन्नाथः स्वयं देवो जनार्दनः ॥८०॥एवं प्राप्य सती पतिव्रता पुत्रत्रयं वरम् ।कृतकृत्याऽभवत् सा हि मुनिरत्रिस्तथैव च ॥८१॥त्रयस्ते जातमात्रास्तु युवानश्चाभवन् प्रिये ।सती लक्ष्मीश्च सावित्री दिव्यास्तत्र समागताः ॥८२॥रवस्वपतीनां सेवार्थमनसूयां प्रणम्य ताः ।वध्वः सिषेविरे देवान् जलभोजनचन्दनैः ॥८३॥त्रयस्ते दर्शनं ददुः पित्रोर्दिव्यस्वरूपिणः ।सर्वस्मृद्धिमयं त्वत्रेर्गृहं तैर्वै कृतं सदा ॥८४॥देवाश्च मुनयः सिद्धाः ऋषयश्च तपोधनाः ।देव्यश्च पार्षदा गणा नित्यमायान्ति दृष्टये ॥८५॥अत्रेराश्रममाकीर्णं वर्तते देवकोटिभिः ।नित्यं यज्ञाः प्रवर्तन्ते तथोत्सवा दिने दिने ॥८६॥अथ देवास्त्रयस्त्वेते पितरावाहुरादरात् ।तपस्तप्तुं समिच्छामो यास्यामोऽतो वनान्तरम् ॥८७॥माता श्रुत्वा शोकमग्ना ह्यभवत् पुत्रगर्धिनी ।उवाच पुत्राः सौख्यार्थं तपस्तप्तं मया यतः ॥८८॥लालनार्थं पालनार्थं सौख्यार्थं त्रय एव हि ।दर्शनार्थं च सेवार्थं मया देवा सुतीकृताः ॥८९॥कथं तेऽस्मान् विहायैव तपसे यास्यथाऽच्युताः ।सहिष्यते वियोगो न तस्माद् गन्तव्यमेव नः ॥९०॥श्रूत्वा देवास्त्रयो मातुर्दधू रूपद्वयं ततः ।दिव्यरूपैर्ययुः तपःकरणार्थं स्थलान्तरम् ॥९१॥दुर्वासाः संययौ नैजं कैलासं शिवसन्निधौ ।चन्द्रमाः सत्यलोकं च दत्तो द्वीपान्तरं ययौ ॥९२॥अथ बालस्वरूपास्ते त्रयो भूत्वा गृहे निजे ।मातुरंके रममाणा वर्तन्ते प्राकृता इव ॥९३॥पितुरंके रममाणा आश्रमे विहरन्ति ते ।हरिणानां बालकैस्ते मृगपक्षिभिरित्यपि ॥९४॥तापसैः सह वर्तन्ते प्राकृता बालका इव ।बालखेलनकैर्देवपूजनैः पितृरञ्जनैः ॥९५॥यापयन्ति दिवसाँस्ते मातापितृसुखप्रदाः ।एवं वै तपसा प्राप्तास्त्रयो देवाः ऋषेः सुताः ॥९६॥यज्ञोपवीतमागृह्य वेदाध्ययनमाचरन् ।यज्ञकार्याणि नित्यं ते चक्रुरत्रेः पुरस्त्रयः ॥९७॥अत्रेरेव गृहीतश्च कृष्णनारायणात्मकः ।मन्त्रश्च तुलसीमाला तैस्तु वैष्णवपुंगवैः ॥९८॥चिरंजीवास्त्रयस्ते च सर्वलोकगतिकृतः ।वर्तन्ते तारका दिव्या वैष्णवाः कुलतारकाः ॥९९॥एतत्ते कथितं लक्ष्मि! दिव्याख्यानं परं शुभम् ।पठनाच्छ्रवणाच्चापि स्वर्गदं मोक्षदं मतम् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽत्रेः पत्न्याऽनसूयया तपसा ब्रह्मविष्णुमहेशाः सोमदत्तदुर्वाससः पुत्रा लब्धाः पातिव्रत्यबलंचेत्यादिनिरूपणनामा त्र्यशीत्यधिकचतुश्शततमोऽध्यायः ॥४८३॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP