संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २५२

कृतयुगसन्तानः - अध्यायः २५२

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
कृपासिन्धो सदाऽऽलस्यान्वितानां भवपारकृत् ।
तारिता वै त्वया नाथ निर्जलाव्रतवर्णनात् ॥१॥
येन मुक्तिं तथा भुक्तिं सर्वैकादशिकाफलम् ।
व्रतिनः प्राप्नुवन्त्यत्र कारणं करुणा तव ॥२॥
संकल्पस्तव जीवानां कथंचिद्वै भवेद्यथा ।
निःश्रेयः परमं यद्वा मोक्षो वा स्वर्गमेव वा ॥३॥
जननीवद्रक्षणं स्याद् भवसागरवारिधेः ।
तथा त्वं यतसे नाथ कृपा केवलकारणम् ॥४॥
वद मेऽषाढकृष्णैकादश्या व्रतफलं विधिम् ।
देवं पूजां च माहात्म्यं कृपालो दानमित्यपि ॥'९॥
श्रीनारायण उवाच-
अषाढकृष्णपक्षीया योगिनीसंज्ञिका मता ।
क्षेमंकर्या सहाऽत्राऽर्च्यो नृसिंहाख्यो हरिः प्रभुः ॥६॥
भृंगराजोऽत्र पुष्पेषु तथाऽर्घ्ये जाम्बवं फलम् ।
नैवेद्ये पिण्डका देया दाने तु जलगौर्मता ॥७।
विशेषोऽयं विधिः प्रोक्तः कार्यं व्रतं व्रतोत्तमम् ।
सर्वपापक्षयकृच्च सर्वभुक्तिप्रदायकम् ॥८॥
संसारार्णवमग्नानां पोतरूपं सनातनम् ।
जगत्त्रये सारभूतं योगिनीव्रतमुत्तमम् ॥९॥
दशम्यामेकभक्तेन नक्तेन व्रतिना खलु ।
भूशायिना वर्तितव्यं ब्रह्मचर्यादिना तथा ॥१०॥
एकादश्यां व्रती प्रातरुत्थाय श्रीहरिं स्मरेत् ।
ध्यात्वा स्नात्वा पूजयित्वा हरिं षोडशवस्तुभिः ॥११॥
प्रार्थयेद् भगवन् कृष्ण योगिन्या व्रतमुत्तमम् ।
करोम्यद्य तु निर्विघ्नं सम्पूर्णफलदं भवेत् ॥१२॥
कृपया तव भक्तानामभयंकर माधव ।
इत्यभ्यर्थ्य ततो धान्यैः कारयेत् सर्वतः शुभम् ॥१३॥
मण्डलं रंगचित्रादिशोभितं मण्डलान्तरे ।
मध्ये संस्थापयेत्स्वर्णकलशं रत्नगर्भितम् ॥१४॥
फलपल्लवयुक्तं च जलवस्त्रसमन्वितम् ।
चन्दनाक्षतसत्कुंकुमाऽर्चितं नवधातुजम् ॥१५॥
शंखं च पूजयेत्तत्र घण्टां प्रपूजयेत्तथा ।
शालग्रामं पूजयेच्च गणेशं पूजयेत्तथा ॥१६॥
पूजाद्रव्यैः पूजयित्वा श्रीकृष्णं नरसिंहकम् ।
पूजयेत्परया भक्त्या स्वर्णनिर्मितमूर्तिकम् ॥१७॥
तिलस्थाल्यां स्थापयित्वा पूजयेदक्षतादिभिः ।
आवाहनादिभिः पंचामृतैः सुगन्धिचन्दनैः ॥१८॥
सद्वस्त्रैश्च विभूषाभिः शृंगारद्रवमर्दनैः ।
धूपदीपसुनैवेद्यफलताम्बूलवारिभिः ॥१९॥
आरार्त्रिकस्तुतिपुष्पांजल्यादिभिः समर्चयेत् ।
क्षमापराधं त्वभ्यर्थ्य स्वकार्यं चेत् क्रियात् ततः ॥२०॥
मध्याह्नेपि सुनैवेद्यं त्वाम्ररसश्रीखण्डकम् ।
शीतलं मधुरं वारि पूरिका दधि शर्कराम् ॥२१॥
आरनालं च कूष्माण्डखण्डपाकंपयोरसम् ।
भोजयेन्मुखवासं च पूगीफलं च वीटिकाम् ॥२२॥
दद्यात्सायं तथा सौम्यं कारयेन्मण्डपं नवम् ।
तत्र दोलां बन्धयित्वा स्थापयित्वा हरिं ततः ॥२३॥
आन्दोलयेत्समुद्याने विहारयेदितस्ततः ।
शाद्वले शीतले भागे विश्रमयेज्जनार्दनम् ॥२४॥
पूजयेद् विविधैः श्रेष्ठैर्वस्तुभिश्च ततः परम् ।
नीराजयेन्नरसिंहं स्तुतिं कुर्याच्च सैंहिकीम् ॥२५॥
रात्रौ जागरणं कुर्यान्नृसिंहपदगायनैः ।
प्रातरुत्साहपूर्वं तं ध्यात्वा स्नात्वा प्रपूजयेत्॥ २६॥
विधिवद्वस्तुभिः सर्वैर्निवेद्य मिष्टमिष्टकम् ।
जलं दद्यात्ततो भक्तः कुर्याद्वै पारणां शुभाम् ॥२७॥
जलदानं जलधेनुं स्वर्णधेनुं घृतादिकम् ।
दधि दुग्धं नवनीतं शर्करां गूडमित्यपि ॥२८॥
दद्याद् दानं सुपात्राय यानं वाहनमर्थकम् ।
गुरवे दक्षिणां दद्याद् घटं मूर्तिं हरेस्तथा ॥२९॥
मिष्टान्नानि तथान्यानि दापयेत् सद्भ्य एव च ।
गृहक्षेत्रपशूद्यानदासदानानि कारयेत् ॥३०॥
एवं कृत्वा व्रतं भक्तो योगिन्या_ श्रद्धया युतः ।
योगिलभ्यं फलं स्वर्ग्यं कैवल्यं चापि संलसेत् ॥३१॥
शृणु लक्ष्मि! कथां रम्यां दैवीं पापविनाशिनीम् ।
अलकायां नगर्यां वै कुबेरः शिवभक्तिमान् ॥३२॥
यदा शंभोः प्रपूजायां वर्तते तु तदा सदा ।
स्वानुचरो महायक्षो हेममालीति नामतः ॥३३॥
समानयति पुष्पाणि पार्श्वोद्यानभवानि वै ।
एवं नित्यं शंकरस्य पूजोपकरणानि सः ॥३४॥
उपस्थापयति तत्र सदा कुबेरसन्निधौ ।
स किन्तु यौवनोद्भेदात् कामपूरेण संभृतः ॥३५॥
स्वपत्न्या तु विशालाक्ष्या सह कामे विशेषतः ।
कामबाणेन चाकृष्टो वर्तते दिवसेऽपि च ॥३६॥
कार्यं चापि परित्यज्य कामनायां प्रवर्तते ।
एवं चातीव कामार्थी पत्न्या सह क्वचित्क्वचित् ॥३७॥
कुसुमादीनि चानेतुं गच्छत्येव द्रुमादिषु ।
एकदा तु कुबेरेण मानसाख्यसरः प्रति ॥३८॥
प्रेषितो हेममाली सः कमलानयनाय वै ।
सोऽपि नूत्नं सरो रम्यं दृश्यार्हं त्वभिमत्य च ॥३९॥
पत्न्या सह गतस्तत्राऽऽनेतुं सु कमलानि तु ।
जलं च शाद्वलं सूक्ष्मवालुकाचाकचक्यताम् ॥४०॥
रमणीयप्रदेशं च सुगन्धिकुसुमादिकम् ।
राजसं विविधं भावं विहारक्षोभकारकम् ॥४१॥
दृष्ट्वा विकृतिमायातो विसृज्य कुसुमानि च ।
पत्न्या सह तदा रेमे मानसे तु सरोवरे ॥४२॥
पत्न्या मुहुर्धृतः कामे संसक्तो न निवर्तते ।
तृप्तापि तु पुनः पत्नी प्रवृत्ता न निवर्तते ॥४३॥
एवं परस्परं प्राप्तौ कामभावौ विशेषतः ।
पुनः पुनः प्रवृत्तौ तौ विविदतुर्न मोहितौ ॥४४॥
कालातिक्रमणं जातं पूजायाश्च तथापि तौ ।
पुष्पाण्यादाय नाऽऽयातौ कुबेरोऽपि प्रतीक्षते ॥४५॥
कामप्रेमरसासक्तौ न कुबेरालयं गतौ ।
कुबेरो देवसदने करोति शिवपूजनम् ॥४६॥
प्रातः कालो व्यतीतश्च मध्याह्नसमये ततः ।
कुबेरः पूजनार्थं तु पुष्पागमसमीक्षकः ॥४७॥
चिन्तयामास विघ्नं वै यतो नायाति यक्षकः ।
द्वितीयो यक्षकस्तत्र प्रेषितोऽन्वेषणाय यत् ॥४८॥
स गत्वा रममाणं तं ददर्श हेममालिनम् ।
हेममाली तु सलिले रमते कान्तया सह ॥४९॥
प्रेष्यस्तौ प्राह पुष्पाणि स कांक्षति कुबेरराट् ।
शीघ्रं वै तत्र गन्तव्यं मध्याह्ने पूजनं भवेत् ॥५०॥
इति कृत्वा गतौ पुष्पाण्यादाय राजराजकम् ।
कुबेरं तौ ततो नत्वा ययाचाते क्षमां मुहुः ॥५१॥
यक्षराट् प्रत्युवाचाऽथ कालातिक्रमकोपितः ।
वनिताकामुकं ज्ञात्वा रममाणं निजेच्छया ॥५२॥
आः पाप दुष्ट दुर्वृत्त कामासक्ततया त्वया ।
अनादाय तु पुष्पाणि कृतं वै देवहेलनम् ॥५३॥
कामभोगो महान् विघ्नः स च दोषो महान्मतः ।
दण्डस्तत्र प्रदातव्यो न कर्तव्या मया कृपा ॥५४॥
भवाष्टादशकुष्ठी त्वं वियुक्तो कान्तया तया ।
अस्मात्स्थानादपध्वस्तो गच्छस्वाऽधम भूतलम् ॥५५॥
इत्युक्ते वचने यक्षस्तस्मात्स्थानात्पपात ह ।
महादुःखाभिभूतश्च कुष्ठैश्चित्रितविग्रहः ॥५६॥
गलत्कुष्ठः श्वेतकुष्ठो रक्तकुष्ठोऽभवत्तदा ।
चर्मकुष्ठो ललत्कुष्ठो दुर्गन्धपूयकुष्ठकः ॥५७।
एवं जातः शरीरे स हेममाली स्वकर्मणा ।
दिवा सुखं न लभते न निद्रां लभते निशि ॥५८॥
छायायां वा निदाघे वा गृहे कुंजे च गह्वरे ।
कुट्यां भूमौ लतामध्ये लभते न सुखं क्वचित् ॥५९॥
दाहेन पीड्यते चाति खर्जनेन ज्वलत्यपि ।
पातकेनाभिभूतोपि पूर्वकर्म स्मरत्यसौ ॥६०॥
शिवार्पितसु पुष्पादिफलप्राबल्यतो ननु ।
पतितस्याऽभिभूतस्य स्मृतिस्तस्य न लुप्यति ॥६१॥
हिमालये महारण्ये घोररूप इतस्ततः ।
भ्रममाणो ययौ देवान् मार्कडेयाश्रमं शुभम् ॥६२॥
तपोनिधिं मुनिश्रेष्ठं ब्रह्मध्यानपरायणम् ।
यस्याऽऽयुर्विद्यते लक्ष्मि! ब्रह्मणो दिनसप्तकम् ॥६३॥
ववन्दे चरणौ तस्य दूरतः कुष्ठविग्रहः ।
मार्कंडेयो दयां कृत्वा कम्पितं दुष्टविग्रहम् ॥६४॥
परोपकरणार्थाय समाहूयेदमब्रवीत् ।
कस्मात्कुष्ठाभिभूतस्त्वं कुतो निन्द्यतमो ह्यसि ॥६५॥
श्रुत्वा प्राह तदा सोपि मुनिं पापविनाशकम् ।
राजराजस्यानुचरो हेममालीति नामतः ॥६६॥
उद्यानात्पद्मनिचयं त्वानीय प्रत्यहं मुने ।
शिवपूजनवेलायां कुबेराय समार्पयम् ॥६७॥
एकस्मिन्दिवसे पत्न्या सहितोऽहं कृपालुना ।
संप्रेषितः कुबेरेण त्वानेतुं कमलानि हि ॥६८॥
अतिसुगन्धिचित्राणि मानसाख्यसरोवरम् ।
दृष्ट्वा तु नूतनं रम्यं भूतलं सजलं शुभम् ॥६९॥
कामसुखप्रसक्ताभ्यां कालश्चाऽविदितो गतः ।
पुष्पं विना शिवपूजा प्रातर्जाता ततो ह्यहम् ॥७०॥
अतिक्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने ।
कुष्ठाभिभूतः संजातो वियुक्तः कान्तया तया ॥७१॥
भ्रममाणोऽत्र सान्निध्ये प्राप्तोहं मे शुभं कुरु ।
सतां स्वभावतश्चित्तं परोपकरणे क्षमम् ॥७२॥
इति मदर्थं भगवन् कुरु सौख्यं भवेद् यथा ।
श्रुत्वा तथ्यं तदोवाच मार्कण्डेयो महामुनिः ॥७३॥
शृणु व्रतोपदेशं ते कथयामि शुभप्रदम् ।
आषाढे कृष्णपक्षस्यैकादशीव्रतमाचर ॥७४॥
योगिनीव्रतपुण्येन कुष्ठं यास्यति वै ध्रुवम् ।
पुनः प्राप्स्यसि पत्नीं त्वं लप्स्यसे शाश्वतं सुखम् ॥७५॥
इतिवाक्यमृषेः श्रुत्वा दण्डवत्पतितो भुवि ।
आशीर्भिर्वर्धितस्तेन बभूवाऽतीव हर्षितः ॥७६॥
योगिन्येकादशीं चक्रे व्रती त्वाश्रमसन्निधौ ।
मार्कंडेयस्य कृष्णस्य पूजनं प्रचकार सः ॥७७॥
मुनेर्वचनतः सम्यग् व्रते चीर्णेऽभवत्सुखी ।
अष्टादशैव कुष्ठानि तनौ नष्टानि सर्वथा ॥७८॥
गतो नत्वा स्वकं लोकं यक्षो भूत्वा यथायथम् ।
लब्ध्वा पत्नीं पुनस्त्वेवाऽलकायां न्यवसत्सुखम् ॥७९॥
एवं शापनिवृत्तिर्वै योगिनीव्रततो भवेत् ।
कुष्ठादिरोगनाशश्च पत्नी नष्टापि लभ्यते ॥८०॥
लोकः स्थानं गृहं स्मृद्धिर्नष्टं वै प्राप्यते पुनः ।
योगिन्या व्रतपुण्येन योगलभ्यं लसेद् व्रती ॥८१॥
इदृग्विधं महालक्ष्मि! कथितं योगिनीव्रतम् ।
नार्या भूत्वा तु योगिन्या योगिना तु नरेण च ॥८२॥
कर्तव्यं योगफलदं भुक्तिमुक्तिप्रदं व्रतम् ।
अष्टाशीतिसहस्राणि साधून् भोजयते तु यः ॥८३॥
तत्समं फलमाप्नोति योगिन्या व्रतवान्नरः ।
योगाभ्यासफलदात्री योगिलोकप्रदायिनी ॥८४॥
कृष्णयोगान्मोक्षदात्री ह्युपोष्या योगिनीतिथिः ।
पठनाछ्रवणाच्चास्याः सर्वपापैः प्रमुच्यते ॥८५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आषाढकृष्णयोगिन्येकादशीव्रतमाहात्म्यं हेममालियक्षस्य कुबेरशापेन जातकुष्ठादिरोगस्य व्रतकरणेन नाश इत्यादिनिरूपणनामा द्विपंचाशदधिकद्विशततमोऽध्यायः ॥२५२॥

N/A

References : N/A
Last Updated : March 28, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP