संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३६७

कृतयुगसन्तानः - अध्यायः ३६७

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! यमप्रोक्तमनादृत्याऽतिभावतः ।
यत्पप्रच्छ तु सावित्री कथयामि निबोध मे ॥१॥
शुभं किं चाऽशुभं कर्म किं बीजं कः फलप्रदः? ।
केन कीदृग्भवेत्कर्म को हेतुस्तत्र सर्वथा? ॥२॥
को वा कर्मफलं भुंक्ते को वा निर्लिंप्त इत्यपि ।
कर्म निर्मूलयन्त्येव कथं वै साधवो जनाः? ॥३॥
कर्मकारकः कः प्रोक्तः को देहो देहवाँश्च कः ।
किं विज्ञानं मनः किं च बुद्धिः का प्राण एव कः? ॥४॥
किमिन्द्रियं देवताश्च भोक्ता भोजयिता च कः ।
को भोगो निष्कृतिः का च क आत्मा कः परः प्रभुः? ॥५॥
एतत्सर्वं यमदेव! चेज्जानासि वदात्र मे ।
यमः श्रुत्वाऽतिसंहृष्टः सावित्रीं प्राह तत्त्वतः ॥६॥
अभ्युदयप्रदं शान्तिप्रदं वेदादिदर्शितम् ।
कर्म शुभं मंगलकृद् विपरीतं न वै शुभम् ॥७॥
वासना भावना वापि कर्मबीजमुदीर्यते ।
फलप्रदः कृष्णनारायणः सर्वान्तरस्थितः ॥८॥
शुभेच्छया शुभं कर्माऽशुभयाऽशुभमेव तत् ।
कर्महेतुर्भवेद् यत्नस्तद्धेतुर्वाञ्च्छना मता ॥९॥
वाञ्च्छाहेतुस्तु विज्ञानं जीवे वस्तुसमाश्रयम् ।
ज्ञानहेतुस्तु संकल्पः पारमेश्वर आस्थितः ॥१०॥
विभ्वी शक्तिस्तत्र युक्ता क्रियां जनिं ददाति वै ।
हरेः संकल्पशक्तिभ्यां जीवे ज्ञानक्रिये मते ॥११॥
ताभ्यां परम्पराजन्यं कर्म सर्वं प्रजायते ।
अन्ततः सर्वथा हेतुः कृष्णनारायणो मतः ॥१२॥
जीवः कर्मफलं भुंक्ते तदात्मा नहि लिप्यते ।
अन्तर्यामी कृष्णनारायणो निर्लिप्त एव ह ॥१३॥
साधवः सर्वथा कर्मफलाभिसन्धिवर्जिताः ।
विष्णुसेवात्मकं कार्यं कुर्वन्त्यहर्निशं शुभम् ॥१४॥
अहैतुकं च संकल्पवर्जितं हरितुष्टये ।
तत्सर्वं भक्तिरूपं वै कर्मनिर्मूलनक्षमम् ॥१५॥
हरेर्भक्तः सदा मुक्तो मुक्तिस्तस्य द्विधा मता ।
जीवन्मुक्तिर्ब्रह्ममुक्तिर्निर्वाणपददायिनी ॥१६॥
जीवन्मुक्तिं भक्तिरूपां सदा वाञ्छन्ति वैष्णवाः ।
ब्राह्मीं मुक्तिं परां सेवां धाम्नि वाञ्च्छन्ति साधवः ॥१७॥
कर्मप्रयोजिका शक्तिः सा तु कृष्णे व्यवस्थिता ।
अन्तर्यामिस्वरूपस्था क्रियां जनयति ध्रुवा ॥१८॥
पञ्चभूतात्मको देहः स्थूल इत्यभिधीयते ।
तद्वान् जीवः सदा ज्ञाता चेतनो ज्ञानवान्मतः ॥१९॥
चतुर्विंशतितत्त्वानां जीवात्मपरमात्मनोः ।
स्वरूपैर्गुणकार्यैश्चाऽवगमो ज्ञानमुच्यते ॥२०॥
सर्वव्यवहृतिबीजं विज्ञानं त्वात्मनि स्थितम् ।
मूलमाया सत्त्वरजस्तमोमयी जडा सदा ॥२१॥
बुद्धिरूपा मनोरूपा प्राणरूपा प्रजायते ।
मनः संकल्पकं प्रोक्तं बुद्धिरध्यवसायिनी ॥२२॥
श्वासः प्राणो जीवनं च वृत्तिस्तत्त्वैः सह स्थितिः ।
इन्द्रशक्तिसमापन्नमिन्द्रियं तत् प्रकीर्तितम् ॥२३॥
इन्द्र आत्मा सदा प्रोक्त इन्द्रियाणि बहूनि वै ।
श्रोत्रत्वच्चक्षूरसनाघ्राणानि ज्ञानदानि हि ॥२४॥
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि हि ।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥२५॥
देवताश्च प्रकाशार्थं निर्मिताः शक्तिदास्तु ताः ।
भोक्ता देही भोजयिता त्वन्तरात्मा हरिः स्वयम् ॥२६॥
भोगः सुखस्य दुःखस्य साक्षात्कारः समुच्यते ।
निष्कृतिः शान्तिरित्युक्ता निवृत्तिः कर्मणां तथा ॥२७॥
कर्मनाशाय कर्माणि निष्कृत्यात्मानि वै विदुः ।
प्रायश्चित्तानि कर्माणि पूर्वेषां शोधकानि वै ॥२८॥
सूक्ष्मदेहाद्विविक्तो यो वासनाबलकर्षितः ।
जीवतां संविदन् स्वस्य जीवात्मा सुखसच्चितः ॥२९॥
अन्तर्नियामकस्तस्याऽक्षरधाम्नि च यः स्थितः ।
कृष्णनारायणः सोऽयं परप्रभुः प्रकीर्तितः ॥३०॥
पृथिवी वायुराकाशो जलं तेजस्त्विमानि वै ।
पञ्चभूतानि चाश्रित्य जीवो भुंक्ते फलं बहु ॥३१॥
यदा भजति कृष्णं स वासनावर्जितो भवेत् ।
जन्ममृत्युजराव्याधिशोकादिवर्जितो भवेत् ॥३२॥
भक्तिसमं न बलवत्साधनं त्वन्यदस्ति हि ।
सर्वदुःखप्रशमनं सर्वसम्पत्प्रदं परम् ॥३३॥
स्वर्गमोक्षप्रदं श्रेष्ठं सर्वस्मृद्धिप्रपूर्णकम् ।
परमात्मा परंब्रह्म कृष्णनारायणो हरिः ॥३४॥
कारणं कारणानां स राधालक्ष्मीप्रभापतिः ।
पार्वतीमाणिकीनाथो रमावृन्दापतिः प्रभुः ॥३५॥
श्रीकृष्णः स परंब्रह्म स्वयं श्रीपुरुषोत्तमः ।
तस्य भक्तिः प्रकर्तव्या तेन मोक्षो भवेद् ध्रुवः ॥३६॥
श्रवणं कीर्तनं स्मृतिः कृष्णास्याऽङ्गप्रसेवनम् ।
पूजनं स्तवनं भृत्यं मैत्र्यं सर्वसमर्पणम् ॥३७॥
एवं तु नवधा योगो भक्तिरूपः सुमुक्तिदः ।
धर्मः काष्ठौषधिक्वाथो वैराग्यं तु विरेचनम् ॥३८॥
बोधो रम्योऽवलेहश्च भक्तिस्तत्र रसायनम् ।
सन्धानिन्यौषधिर्धर्मो विवेको वृणहारिणी ॥३९॥
विशल्यकरणी भक्तिर्जीवातुर्विरतिस्तथा ।
हरौ स्नेहानुबन्धो यो भूरिसत्कारपूर्वकः ॥४०॥
भक्तिर्बोध्या मोक्षदा सा कर्तव्या सर्वदा जनैः ।
चिक्कणत्वयुतस्वान्तःसान्द्रानन्दपरिप्लुतः ॥४१॥
भावः स्नेहः स विज्ञेयो हरौ कार्यो हि सर्वदा ।
स्वान्तर्वृत्तिरविच्छिन्ना हरौ स्नेहानुबन्धिनी ॥४२॥
भक्तिः प्रेम रतिः सेवा हरौ कार्या हि मुक्तिदा ।
वैधी विधिवचोजन्या श्रवणादिनवात्मिका ॥४३॥
माहात्म्यज्ञानसंयुक्तो दृढीयान् सर्वतोऽधिकः ।
रागः स्नेहो हरौ भक्तिर्मोक्षदा सर्वथा मता ॥४४॥
भक्तवात्सल्यमर्चाया दंभत्यागोऽनुमोदनम् ।
शुद्धचित्तेन तत्पूजा तत्कथाश्रवणादरः ॥४५॥
अंगक्रिया तदर्थं च स्मृतिस्तन्नामकीर्तनम् ।
एतेऽष्टावपि भक्तौ स्युरभिन्नाः फलदाः सदा ॥४६॥
गुरुपादाश्रयो दीक्षास्वीकारः सेवनं गुरोः ।
विश्वासात्सत्पथे वृत्तिः सद्धर्मपृच्छनं तथा ॥४७॥
भोगत्यागश्च हर्यर्थं वासस्तीर्थादिभूमिषु ।
यथापेक्षं व्यवहारो व्रतं हरिदिने तथा ॥४८॥
दैविवृक्षादिसत्कारो दशैते भक्तिवर्धनाः ।
पुत्रशिष्याद्यरागश्च कुसंगिसंगवर्जनम् ॥४९॥
महारंभाद्यनुद्योगो दुर्विवादादिवर्जनम् ।
हर्यर्थं द्रव्यदानं च शोकमोहादिवर्जनम् ॥५०॥
अन्याऽनुद्वेगकारित्वं देवगुर्वाद्यनिन्दनम् ।
सुराऽपराधाऽकर्तृत्वं सुरनिन्दाऽसहिष्णुता ॥५१॥
दशैते साधनीयाः स्युर्भक्तैर्भक्तिविवृद्धये ।
अथ कृष्णचिह्नधृतिः कृष्णनामस्मृतिर्हृदि ॥५२॥
पुष्पमालादिसंधृतिर्नृत्यं च दण्डवन्नतिः ।
अभ्युत्थानं हरेरग्रे गमने चाऽप्यनुव्रजिः ॥५३॥
प्रदक्षिणं तथा स्तोत्रं सेवनं कीर्तनं जपः ।
विज्ञानं स्तोत्रपाठश्च स्वादो नैवेद्यपज्जले ॥५४॥
प्रसादसौरभग्राहः स्पर्शनं चेक्षणे हरेः ।
नीराजनं हरेरुत्सवावलोकनमित्यपि ॥५५॥
दयाप्रतीक्षणं ध्यानं स्मरणं दास्यमुत्तमम् ।
सखित्वं चात्मदानं च हर्यर्थं चेष्टितं तथा ॥५६॥
प्रेष्ठार्पणं भक्तसेवा शरणे पतनं सदा ।
तुलसीशास्त्रसत्तीर्थवैष्णवादिप्रपूजनम् ॥५७॥
यथाधनं तथासेवा वार्तादि साधुभिः सह ।
आर्तसेवा जन्ममहो हरेश्चरणसेवनम् ॥५८॥
श्रद्धया भूयसीप्रीतिः शास्त्रार्थास्वादनं परम् ।
सत्सु संगः कीर्तनं मे सद्भिः सत्सु सदा स्थितिः ॥५९॥
आत्मनिष्ठेति च चतुश्चत्वारिंशदिमे गुणाः ।
भक्त्यात्मका भक्तिपुष्टिकराः स्नेहविवर्धनाः ॥६०॥
सतां संसेवनं कार्यं कृपा प्राप्या सतां सदा ।
सद्धर्मेषु परा श्रद्धा हरेर्गुणश्रुतिस्तथा ॥६१॥
प्रेमांकुरोद्भवश्चापि श्रीहर्याश्रय उत्तमः ।
हरौ रागाभिवृद्धिश्च हर्यर्चास्फुरणं सदा ॥६२॥
भक्ते कृष्णगुणाऽऽवासः स्थितिर्धर्मे हरेः सदा ।
एते दशगुणाः सिद्धास्ततः प्रेमातिवर्धते ॥६३॥
सात्त्विकादिप्रभेदैश्च मृदुमध्याऽधिभेदतः ।
अनेके वै भक्तिभेदाः सूक्ष्मा भवन्ति मुक्तिदाः ॥६४॥
अथ प्रेमपराकाष्ठा विधिर्यत्र न विद्यते ।
सा तु सर्वप्रमूर्धन्या भक्तिर्भवति शाश्वती ॥६५॥
यावच्छाखं प्रेमतत्त्वं यादृक्स्वभावपोषितम् ।
देहिनां प्राकृतभावं तावच्छाखमनन्तकम् ॥६६॥
प्रेमतत्त्वं भिद्यते वै यत्संख्या नहि पार्यते ।
तस्माद्भक्तिरसंख्यातभेदा भवति पुष्पिता ॥६७॥
तस्या भक्तिमहादेव्या भुक्तिमुक्त्यादिसिद्धयः ।
राज्ञ्याः सदाऽनुवर्तन्ते चेटिका इव तत्पराः ॥६८॥
परार्धगुणितो ब्रह्मानन्दो भक्त्यणुसदृशः ।
भक्त्यानन्दामृताम्भोधौ ब्राह्माण्यपि सुखानि वै ॥६९॥
मग्नस्य गोष्पदायन्ते प्रेमाऽऽनन्दाऽऽप्लुतस्य हि ।
येषां दृढा भवेद् भक्तिः प्रेमरूपा सदा हरौ ॥७०॥
ते स्वप्नेऽपि न पश्यन्ति कीनाशं यमराद्गृहम् ।
कोटिजन्मकृतैः पुण्यैराप्यां भक्तिं समाचरन् ॥७१॥
महापापाऽतिपापाँश्च पुनात्येव यथा हरिः ।
शत्रवो नैव बाधन्ते ग्रहा याम्याश्च राक्षसाः ॥७२॥
भूतप्रेतपिशाचाद्या भक्तिमन्तं हरेर्जनम् ।
भज तं देवप्रवरं भगवन्तं सनातनम् ॥७३॥
त्वत्पृष्टं कथितं सर्वं गच्छ वत्से! यथासुखम् ।
इत्युक्त्वा च यमो नत्वा विरराम हि पद्मजे! ॥७४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये सावित्रीकृतशुभाऽशुभकर्मादितत्सम्बन्धिप्रश्नानां यमराजकृतोत्तराणि भगवद्भक्तिप्रकारतन्माहात्म्यादि चेत्यादिनिरूपणनामा सप्तषष्ट्यधिकत्रिशततमोऽध्यायः ॥३६७॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP