संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २३४ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २३४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३४ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! कथां चैकादश्या उत्पत्तिबोधिकाम् ।पूर्वे कृतयुगे जातां नारायणविभाविताम् ॥१॥तत्र सत्ये युगे जातस्तालजंघकुले महान् ।अत्यद्भुतो महारौद्रो नाडीजंघाह्वयोऽसुरः ॥२॥तस्य पुत्रौ मुरजंघोऽभवद् देवभयंकरः ।तपस्तप्त्वाऽब्दसाहस्रं परं बलमवाप सः ॥३॥इन्द्रोऽपि निर्जितस्तेन सर्वे देवाश्च निर्जिताः ।स्वर्गान्निष्कासिता देवा विचेरुर्भूमिमण्डले ॥४॥भीताः स्वास्थ्यविहीनास्ते ययुर्यत्र पुरन्दरः ।पुरन्दरोऽपि दुखाढ्यो ययौ यत्र जनार्दनः ॥५॥शंकरश्च तथा ब्रह्मा ययुश्चान्ये सुरेश्वराः ।जलमध्ये शयानं श्रीनारायणं प्रतुष्टुवुः ॥६॥नमस्ते देवदेवेश शरणागतवत्सल ।दानवानां च दैत्यानामसुराणां विमर्दक ॥७॥शरणं त्वं सदाऽऽर्तानां दुःखहाः शरणार्थिनाम् ।रक्षाऽस्मान् करुणासिन्धो दैत्याद्बलसमेधितात् ॥८॥त्वं गतिस्त्वं परं सौख्यं भक्तानां परमायनम् ।त्वं माता रक्षकः स्वामी त्वं पिता पालकः प्रभुः ॥९॥त्वं सद्वाच्यं कारणं वै चोत्पत्तिः सृष्टिरित्यपि ।त्वमेवाऽऽपूरकस्तत्र त्वमेव रूपवान् हरः ॥१०॥संहारकारको देवस्त्वमेव भोजनप्रदः ।स्वाहा स्वधा वषट्कारस्त्वमेवाग्निस्त्वमोमिति ॥११॥अनिरुद्धश्च प्रद्युम्नः संकर्षणस्त्वमेव हि ।ब्रह्मविष्णुमहेशानास्त्वमेव देवकोटयः ॥१२॥सूर्यश्चन्द्रस्त्वमेवासि व्योमाऽनिलाऽनलाऽऽब्भुवः ।ततोऽवान्तरसृष्टिश्च त्वमेव पुरुषोत्तम ॥१३॥वरदाता रक्षकश्च वरसंहारकृद् भवान् ।स्थावरं जंगमं सर्वं भवत्येव प्रतिष्ठितम् ॥१४॥दैत्यदानवरक्षोभिर्निर्जिताः सुरपुंगवाः ।यदा भवन्त्यसुखास्ते शरणं यान्ति ते तदा ॥१५॥वयं सर्वे स्वर्गभ्रष्टा दानवादिभिरर्दिताः ।अटामोऽरण्यभूभागे रक्षामिच्छाम ईश्वर ॥१६॥रक्षाऽस्मान् सर्वथा देव दानवान्मुरसंज्ञकात् ।श्रुत्वा नारायणस्तेषां पप्रच्छ भक्तवत्सलः ॥१७॥कीदृशो दानवः सोऽस्ति किंनामा किंबलं स्थितिः ।सर्वं ब्रूत सुरेन्द्रा यच्छ्रुत्वा नाशाय चिन्तये ॥१८॥इन्द्रः प्राह तदा देवं विष्णुं नारायणं प्रभुम् ।ब्रह्मणो वंशजः सोऽस्ति कश्यपाद् दनुजोऽभवत् ॥१९॥तालजंघो महाक्रूरस्तस्य नाडीप्रजंघकः ।सुतोऽभवन्महापापस्तस्यास्ति पुत्र एव सः ॥२०॥मुरजंघ इति नाम्ना कृतवाँस्तप उग्रकम् ।वर्षाणां वै सहस्रं यन्निराहारोऽभवत्तदा ॥२१॥शतवर्षं भुवे पादांगुष्ठे स्थित्वाऽतपत् तपः ।शतवर्षं जलशायी घोरं तपश्चकार सः ॥२२।शतवर्षं वायुभक्षी सूर्यद्रष्टा शतं समाः ।शतवर्षं बाष्पभोजी तपस्तप्त्वाऽतिदारुणम् ॥२३॥पंचशतं च वर्षाणां समाधावतपत्तपः ।तस्य देहोपरि तत्र वल्मीकः काचकान्वितः ॥२४॥वृक्षवल्लीसमाक्रान्तो ह्यभवच्छृंगसदृशः ।ततो धूमो विनिष्क्रान्तो दिवं यातोऽतिदारुणः ॥२५॥तन्मूर्ध्नोऽभून्महानग्निर्येन जज्वाल द्यौरथ ।भूश्च सत्यादिलोकाश्च देवास्त्रेसुश्च मानवाः ॥२६॥ययुर्वै शरणं सर्वे ब्रह्माणं प्रपितामहम् ।स्वेषां नापातिपातित्वं जगदुर्दुःखसागरम् ॥२७॥कोऽयं वह्निः कथं जातः सर्वं प्रज्वालयत्यहो ।रक्ष रक्ष प्रजानाथ शान्तिं कुरु जगत्प्रभो ॥२८॥श्रुत्वैवं तद्वचो ब्रह्मा ससुरो मार्गणाय तत् ।ययौ वह्निधूमलेखासृत्या मूलं भुवि स्थितम् ॥२९॥दृष्ट्वा वृक्षादिकान् तत्र मुमोह सृष्टिकृत्तदा ।अहो कश्चिन्न वै चात्र दृश्यते तापसो जनः ॥३०॥कथं कस्मान्मया चात्र मार्गणीयो भवेद्धि सः ।इति विचार्य ब्रह्मा वै निषसाद महीतले ॥३१॥विष्णुस्तदा महाशंखनादं चकार वै मुहुः ।तथापि न मुरस्तत्र प्रबुबोध तदा सुराः ॥३२॥हताशाः संस्थिताः सर्वे प्रम्लानान्तरकामनाः ।तदा ३विष्णुना तत्र समाधिः संयमः कृतः ॥३३॥प्रवेशश्च कृतस्तत्र मुरदैत्यस्य वर्ष्मणि ।शुष्ककाष्ठसमं शुष्कनाडीमांसास्थिपिण्डकम् ॥३४॥साद्रं च सक्रियं कृत्वा वर्ष्म चाऽप्लावयत् त्वजः ।कमण्डलोर्जलेनाऽभ्यसिञ्चन् मूर्ध्नि यदा पुनः ॥३५॥तदा पल्लवतां याते वर्ष्मणि मुरदानवे ।नेत्रे प्रोन्मीलिते जाते दृष्ट्वा स दानवः सुरान् ॥३६॥नत्वा प्राह कथं यातास्तपोभंगविधित्सया ।यात दूरं न मे कार्यं देवैः किञ्चिद्धि विद्यते ॥३७॥ब्रह्मा प्राह तदा दैत्यं प्रसन्नास्तपसा तव ।वयं प्राप्ता वरं दातुं यथेष्टं ब्रूहि पुत्रक ॥३८॥मुरः प्राह न मे मृत्युस्तव सृष्ट्या कथंचन ।विष्णुना वा हरेणापि भवेदिति प्रदेहि मे ॥३९॥तथाऽस्त्विति वरं दत्वा ययुर्ब्रह्मादयस्ततः ।मुरोऽपि प्रोत्थितो हृष्टो ययौ स्वस्थानमेव सः ॥४०॥मेरौ चन्द्रावतीं रम्यां राजधानीं कुलागताम् ।पालयामास विधिना दानवैरधिवासिताम् ॥४१॥देवाश्च निर्जितास्तेन स्वर्गाच्चापि निराकृताः ।इन्द्रस्थानं समाहृत्य दानवश्चेन्द्रकः कृतः ॥४२॥वह्निस्थानं स्वकं कृत्वा वहिश्चान्यो विनिर्मितः ।सूर्यचन्द्रौ कृतौ चान्यौ ग्रहनक्षत्रसंयुतौ ॥४३॥दिक्प्रपालाः कृताश्चान्ये दानवाः स्वीयवर्णजाः ।लोकपालाः कृताश्चान्ये देवान् जित्वा मुरेण वै ॥४४॥काराग्रहे देवगणा निगडेषु निपातिताः ।देवलोकः कृतश्चान्यो दानवैः परिशोभितः ॥४६॥सर्वं त्वन्यत् कृतं तेन पूर्वं वै परिवर्तितम् ।यावन्नायाति लक्ष्म्यर्थं तावत्तं प्रजहि प्रभो ॥४६॥यावच्चिरायते देवो हानिस्तावत्पले पले ।तस्माच्छीघ्रं समुत्थाय तन्नाशाय मनः कुरु ॥४७॥श्रुत्वैतदिन्द्रवचनं हरिः शेषायनः स्वयम् ।समुत्थाय च विध्वंसे मुरस्याऽवाप निश्चयम् ॥४८॥हरिश्च शंकरो ब्रह्मा तथा देवा महर्षयः ।गता यत्राऽभवत्पुर्यां चन्द्रावत्यां महासुरः ॥४९॥उपकंठे बहिः स्थित्वा शंखं दध्मौ हरिस्तदा ।युद्धसम्बोधशब्दं स श्रुत्वाऽऽययौ पुराद्बहिः ॥५०॥ससैन्यो युद्धदानाय चकार रणमुल्बणम् ।नैकरूपधरो वीरो मुरोऽस्त्रशस्त्रकोटिभिः ॥५१॥मन्त्रैर्मायाबलैश्चैन्द्रजालिकैः रूपकोटिभिः ।संग्राममकरोद्घोरं देवसंहारकारकम् ॥५२॥क्षता हता विनष्टाश्च देवा रूपान्तरात्मकाः ।भग्नाश्च मूर्छिता नष्टा विप्राणाश्चेतनोज्झिताः ॥५३॥असंख्यातसहस्रैरायुधैरसुरपुंगवैः ।हन्यमानाः सुराः सर्वे दुद्रुवुश्च दिशो दश ॥५४॥विष्णुं दृष्ट्वा मुरस्तं च तिष्ठ तिष्ठेति चाऽब्रवीत् ।गदां गुर्वीं प्राहिणोत् मुकुन्दस्तां व्यपोथयत् ॥५५॥स्वीयया गदया शीघ्रं प्राहिणोच्चक्रमुल्बणम् ।वरदानप्रभावेण चक्रं विखण्डितं मुरे ॥५६॥विष्णुस्त्वाश्चर्यमापन्न क्रोधसंरक्तनेत्रकः ।द्वितीयं चक्रमादाय मुमोच सैन्यकोटिषु ॥५७॥दानवा दैत्यमूर्धन्याः छिन्नशिरस एव ते ।पतिताश्च मृताश्चान्ये मूर्छिता व्यसवोऽभवन् ॥५८॥मेदिनी तत्र दैत्यादिमेदमासाद्य सार्थका ।समभूद् रणभूमिः सा दानवारण्यसुप्तिका ॥९९॥न वै तलमभूद् रिक्तं कबन्धेन विना क्वचित् ।मुरस्ततो महाखेदमवाप सैन्यनाशतः ॥६०॥एकाकी व्यचरन् शस्त्रैर्युयुधे विष्णुना तदा ।विष्णोरायुधधुर्याणां विनाशस्तेन शत्रुणा ॥६१॥कृतंश्चास्त्राणि सर्वाणि प्रग्रस्तानि तदा पुनः ।,अस्त्रशस्त्रविहीनश्च विष्णुर्जातो यदा तदा ॥६२॥मुमुदिरे दैत्यगणाः प्रहर्षुश्चातिदानवाः ।सुरा वै म्लानतां प्राप्ताः साशकाश्च प्रजीवने ॥६३॥अथ विष्णुं विशस्त्रं वै ज्ञात्वा नीत्या मुरस्तदा ।बाहुयुद्धं समकरोद् विष्णुना दारुणं ततः ॥६४॥मायया मुरदैत्येन विष्णोर्बाहुः प्रधर्षितः ।बाहुबन्धः कृतस्तेन जडीभूता भुजाः खलु ॥६५॥चत्वारोऽप्यभवँस्तत्र देवा वै दुःखिनोऽभवत् ।हाहेति करुण चाक्रुश्याऽऽसँस्त्रस्ता गताशयाः ॥६६॥मुरस्याऽऽसीत्तदा सम्यग् विजयो देवकर्दने ।चकार राज्यं रुचिरं विजित्वा सत्यलोकजम् ॥६७॥चतुर्दशभुवनानां सम्राडभून्मुरस्ततः ।विष्णुस्त्रस्तो गतो बद्रिकाश्रमं हिमशैलगम् ॥६८॥हिमालये गुहा सिंहवती नाम्नी महत्तरा ।वर्तते योजनानां वै चत्वारो दीर्घविस्तरा ॥६९॥द्वारमेकं च यस्यास्ते तस्यां गत्वा महाप्रभुः ।सुप्तौ भयं दर्शयन् वै लोकानां हितकाम्यया ॥७०॥दानवत्सं मार्गयन् वै कदाचित्तत्र गह्वरे ।ज्ञात्वा विष्णुं प्रसुप्तं स प्रविवेश गुहान्तरम् ॥७१॥प्रसुप्तं श्रीहरिं दृष्ट्वा दानवेन्द्रो जगाद तम् ।अहो त्रैलोक्यपूज्य त्वं कथमाश्रयसे गुहाम् ॥७२॥त्वदाश्रितानां रक्षां चापत्काले किं करोषि न ।उत्तिष्ठ विष्णो भद्रं ते प्रोत्तिष्ठ युद्धमाचर ॥७३॥त्वादृशानां शृगालानां स्वपनं किं निसर्गजम् ।नयामि यमभवनं यद्वा त्वं मां समाश्रय ॥७४॥कुरु दास्यं सदा मे त्वं देहि वैकुण्ठमेव मे ।यद्वा युद्धं कुरु विष्णो शाठ्यं मा समये चर ॥७५॥इत्येवं वदतस्तस्य मुरस्य नाशनाय वै ।हरिः संचिन्तयामास सुप्त एव तदन्तरे ॥७६॥महालक्ष्मीं प्रसस्मार दानवान्तकराय वै ।स्मृत्वा ब्रह्मप्रदत्तं च वरं मुरस्य पूर्वजम् ॥७७॥वेधःसृष्टिकृतान्नाशो मा भूदिति विचिन्त्य च ।लक्ष्म्यंशात्मकसामर्थ्यं स्वैकादशेन्द्रियात्मकम् ॥७८॥दिव्यं तपःस्वरूपं तत् प्राविश्चकार वै हरिः ।तच्च मूर्तमभूत्तत्र कन्यारूपं सुसुन्दरम् ॥७९॥कन्यका साऽतितेजोभिः प्रोज्ज्वला स्वर्णसन्निभा ।चन्द्रकान्तिसमव्याप्तढीप्तिसन्दोहशीतला ॥८०॥सर्वाकृतिसमायोग्या हरिरूपाऽतिसुन्दरी ।दिव्यप्रहरणैर्युक्ता प्रोद्भिन्ननवसुस्तनी ॥८१॥किञ्चिदनंगरूपाभिभूता दृष्टिमनोहरा ।सौभाग्यद्रव्यभूषाभिवस्त्रकुन्तलशोभना ॥८२॥विद्युत्तेजःसमाक्रान्ताऽऽकर्णान्तदीर्घलोचना ।महाबलसमाविष्टा मोहिनीव वपुष्मती ॥८२॥स्वर्णाभूषणशोभाढ्या सुगन्धमुखमारुता ।सुस्वरा सर्वलावण्यप्रसन्नमुखपंकजा ॥८४॥चम्पकाभकरपादतलोऽङ्गुलिप्रभावती ।कोमला कोमलांगी च सर्वशोभाधिवासिनी ॥८५॥चक्षुर्हरा मनोहरा चात्महराऽतिकर्षणी ।समुद्भूता महारम्याकृतिर्हास्यं करोति च ॥८६॥दृष्टा मुरेण तत्रैव तेजोमध्ये विराजिता ।मुरश्च मोहमासाद्य परिरब्धुं प्रचक्रमे ॥८७॥कन्या प्राह महादैत्य सुज्ञोऽसि धर्मवानसि ।विना वैवाहिकं कृत्यं त्वदर्थं नाहमुत्सहे ॥८८॥विजित्य मां गृहाणाद्य पणोऽयं मम दानव ।युद्धे जित्वा गृहाणेमां दासीभूतां मनस्विनीम् ॥८९॥मुरस्तस्याः समाकर्ण्य विस्मृत्य विष्णुमेव च ।सज्जोऽभूद् युद्धवृत्ताय शस्त्राऽस्त्रादिभिरन्वितः ॥९०॥कन्यया रणसंग्रामे प्रवर्तिते महासुरे ।कर्तितः कण्ठदेशाद्वै मस्तकं भस्मितं तदा ॥९१॥देहश्चूर्णीकृतस्तस्य गदया पल्लतादिभिः ।मुरश्च निहतस्तस्य योद्धारोऽपि हतास्तया ॥९२॥महाकोलाहलं श्रुत्वा विष्णुर्निद्रां विहाय च ।अबुध्यत मृतं दृष्ट्वा मुरं विस्मयमागतः ॥९३॥अहोऽनया कन्यया वै हतो महाबलोऽसुरः ।मया यो न जितः पूर्वं जितो हतोऽनया हि सः ॥९४॥महालक्ष्मीर्महाशक्तिर्महामाया न्वियं खलु ।समर्था दुःखनाशाय देवानां हितकारिणी ॥९५॥उपकारः कृतः सर्वो देवानां मम चापि वै ।निहतो दानवो दुष्टो देवासुरभयंकरः ॥९६॥इति प्रसन्नतां प्राप्य तदा पप्रच्छ कन्यकाम् ।का त्वं कथं हतो दैत्य किं ते मनसि वर्तते ॥९७॥कन्या प्राह हरिं विष्णोरहमेकादशी मता ।सर्वशत्रुक्षयकर्त्री सर्वपापविनाशिनी ॥९८॥सर्वतेजोमयी चास्मि सर्वपुमर्थदायिनी ।तवास्मि विग्रहाज्जाता तवेन्द्रियबलोद्भवा ॥९९॥तव चैतन्यसंपृक्ता तवास्मि पुत्रिका प्रभो ।प्रसुप्तं पितरं दैत्यो हन्तुमत्र समागतः ॥१००॥चिच्छक्तिश्चाऽसुरं वीक्ष्याऽहमुद्भूतेन्द्रियादिभिः ।एकादशेन्द्रियतेजोमयी चाहं भवामि ते ॥१०१॥तस्मादेकादशीनाम्ना सर्वपुण्यप्रदा हरे ।असुरस्य विनाशाय समुद्भूताऽस्मि माधव ॥१०२॥विनाशितो मया दैत्यो देवानां दुःखदो महान् ।इति श्रुत्वा सुतावाक्यं हरिः प्राह च तां सुताम् ॥१०३॥वरं वरय कल्याणि कृतं कार्यं महन्मम ।प्रसन्नोऽस्मि च भद्रं ते सर्वं दास्ये मनोगतम् ॥१०४॥नाऽदेयं विद्यते देवि त्वया देवाः सुरक्षिताः ।धर्मः संस्थापनां प्राप्तो व्रतं दैवं च लक्षितम् ॥१०५॥कल्याणमार्गः सततं जनानां कारितस्त्वया ।तस्मात् स्वस्य च यावद्वै सर्वं देयं हि ते कृते ॥१०६॥श्रुत्वैतद्भगवद्वाक्यमेकादशी जगाद यत्॥अहमेकादशी नाम्ना ह्यधिष्ठात्री व्रतात्मिका ॥१०७॥एकादशीदिनस्याऽस्मि स दिनो मामको मतः ।शुक्लः कृष्णश्च मे दिव्यो दिवसो व्रतमेव सः ॥१०८॥महापुण्यः पवित्रोऽयं सर्वपुण्येषु पुण्यकृत् ।अतो मद्दिवसः पाल्यो व्रतोपोषणजागरैः ॥१०९॥इन्द्रियाणां तदाऽऽहारा वर्जनीयाः प्रयत्नतः ।मानवो मद्दिने योऽत्र ह्युपवासं करोति सः ॥११०॥अश्वमेधसमं पुण्यं प्राप्नोत्येव न संशयः ।एकभक्तेन नक्तेनोपवासेन फलेन वा ॥१११॥जलेनापि व्रतं कुर्यात् स यायान्माधवालयम् ।रात्रौ जागरणं कुर्याद्धरेस्ते च प्रपूजनम् ॥११२॥पुष्पैर्धूपैश्च दीपैश्च विविधैश्च सुवस्तुभिः ।पूजनं कारयेन्मे ते ह्युद्यापनं समाचरेत् ॥११३॥एवं व्रतप्रकर्ता ते धाम यायान्पराक्षरम् ।गर्भवासं न चाप्नुयान्निष्पापः स्याच्च सर्वथा ॥११४॥ममाऽहनि तु भक्तानां नैर्मल्यं जायतां सदा ।भक्तिश्च वर्धतां देवे तथा श्रद्धा च मद्व्रते ॥११५॥मा क्षुधा पीडयेद्भक्तं व्रतिनं प्रमदाजनम् ।इत्येवं वरदानानि मे देयानि यदि प्रभो ॥११६॥दातव्यानि हरे मह्यं तथाऽन्यन्मे शृणु प्रभो ।हरिः पिता हरिर्माता बान्धवोऽपि हरिः सदा ॥११७॥हरिर्भर्ता हरिः कर्ता पोष्टा हर्ता हरिः स्वयम् ।तस्माद् रूपान्तरैः कृष्ण पतिर्मे भव सर्वदा ॥११८॥अहं षड्विशतिरूपा पत्नी ते स्यां तथा कुरु ।येनाऽसंस्कारदोषो मे विनश्येत् संविवाहतः ॥११९॥पातिव्रत्यपरा नित्यं सेविष्ये त्वां पतिं प्रियम् ।वरं देहि तथा नाथ सौभाग्यं मे प्रवर्धय ॥१२०॥श्रुत्वा प्राह हरिर्भद्रे भवताद् वाञ्च्छितं तव ।व्रतं भवतात् पुण्यं ते रूपाण्यपि भवन्तु ते ॥१२१॥पतिर्भवामि ते रूपान्तरैः श्रेयःप्रदा भव ।धर्मार्थ काममोक्षाणां सम्प्रदा भव सर्वथा ॥१२२॥एकादशीव्रतपूता यान्तु मे वैष्णवं पदम् ।ऐहिकं सत्फलं प्राप्य चान्ते मोक्षमवाप्नुयुः ॥१२३॥इति ते वरदानानि वितरामि मम प्रिये ।ओमित्युक्त्वा स्वयं चैकादशी वै बहुधाऽभवत् ॥१२४॥हरिस्तदा स्वमूर्तेश्च षड्विंशतिस्वरूपकैः ।जग्राह विधिवत् पत्नीरूपामेकादशीं तदा ॥१२५॥पुत्रीरूपं विलीयैव पत्नीरूपैश्च वर्तते ।वर्षे द्वादशमासानां द्वेऽधिकस्यापि वै तथा ॥१२६॥मिलित्वैकादशिकाः षड्विंशतिसंख्यका मताः ।एकादशी त्वहोरात्रं दशमी घटिकाऽपि चेत्॥ १२७॥सा तिथिः परिहर्तव्या ह्युपोष्या द्वादशी शुभा ।एकादशी तु सम्पूर्णा द्वादशी वृद्धिगामिनी ॥१२८॥तस्यां शतगुणं पुण्यं त्रयोदश्यां तु पारणा ।एवं व्रतं जनः कुर्यात् फलभाङ् मोक्षभाग्भवेत् ॥१२९॥न गंगा न गया नैव काशी पुष्करमेव वा ।न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन वै ॥१३०॥इति कृत्वा प्रशंसां च पत्नीं नीत्वा ययौ हरिः ।यत्र चन्द्रावती राजधानी मुरकृतास्ति वै ॥१३१॥तत्र निगडबन्धस्थान् देवान् व्यमोचयद्धरिः ।स्वर्गं देवात्मसात्कृत्वा वैकुण्ठं प्रययौ प्रभुः ॥१३२॥इति ते कथितं लक्ष्मि! व्रतमाहात्म्यमुत्तमम् ।एकादश्यास्त्रिस्पृशायाः किमन्यच्छ्रोतुमिच्छसि ॥१३३॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मुरदानवयुद्धनिमित्तकैकादश्युत्पत्तिव्रतादिवरदाननिरूपणनामा चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३४॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP