संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २७७ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २७७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २७७ Translation - भाषांतर श्रीनारायण उवाच-अथ लक्ष्मि! शृणु वक्ष्ये द्वादशीनां व्रतानि ते ।कृत्वा यानि जना यान्ति शाश्वतं हरिमन्दिरम् ॥१॥चैत्रशुक्लद्वादशीति मदनव्रतमाचरेत् ।श्वेततन्दुलसंपूर्णं घटं फलेक्षुशोभितम् ॥२॥वस्त्रयुग्मयुतं स्वर्णमिष्टान्नस्थालिकायुतम् ।चन्दनाद्यर्चितं न्यस्य सर्वतोभद्रमण्डले ॥३॥स्थाल्यां श्रीकामदेवस्य मूर्तिं रतिसमन्विताम् ।स्थापयेत्पूजयेत्सर्वपुष्परससुगन्धिभिः ।४॥भोजयेच्च राजसानि भोजनानि च पायसम् ।त्रयोदश्यां प्रगेऽभ्यर्च्य विसर्जयेदनंगकम् ॥५॥एवं वर्षं व्रतं कृत्वा घृतं शय्यां सवत्सगाम् ।स्वर्णं कामं रतिं दद्याद् दानं श्रीगुरवे मुदा ॥६॥कृष्णनारायणं लक्ष्मीं पूजयेत्प्रार्थयेत्तथा ।प्रीयतां कामरूपी मे हरिः सौख्यप्रदो भव ॥७॥मदनद्वादशीव्रतकर्ता गोलोकमेति सः ।दम्पती सुखमाप्नोति शाश्वतं कृष्णसेवनात् ॥८॥अस्यामेव व्रतं चान्यद् भर्तृद्वादशिकाव्रतम् ।मंडपं कारयित्वा च सर्वतोभद्रमण्डलम् ॥९॥स्वास्तृता सुखशय्यां च सपुष्पामुपकल्पयेत् ।रमायुक्तं हरि तत्र सम्पूज्य षोडशादिभिः ॥१०॥नीराजयित्वा श्रीकृष्णं स्वापयेद्रमया सह ।व्रती जागरणं कुर्याद् गीतवादित्रपूर्वकम् ॥११॥प्रातः पुनश्च सम्पूज्य गन्धाद्यैर्भोजयेच्च तम् ।सशय्यां श्रीहरिं हैमं श्रीगुरवे निवेदयत् ॥१२॥भोजयित्वा द्विजान् साधून् विसृजेद् दक्षिणायुतान् ।एवं व्रतकृश्चात्र दाम्पत्यं शाश्वतं भवेत्॥ १३॥सप्तजन्मसु भुंक्तेऽत्र भोगान् स्वर्गे स्तृतो व्रती ।भर्तुः पूजा प्रकर्तव्या पत्न्या अपि विशेषतः ॥१४॥भर्ता साक्षाद् वासुदेवः सर्वान् कामान् ददाति वै ।दैहिकं लौकिकं स्वर्ग्यं सुखं सर्वं ददाति सः ॥१५॥वैशाखशुक्लद्वादश्यां हरिं संपूज्य माधवम् ।पक्वान्नं सजलं दद्यात्। सर्वान्कामानवाप्नुयात् ॥१६॥ज्येष्ठशुक्लद्वादश्यां तु प्रसंपूज्य त्रिविक्रमम् ।मिष्टं दद्यात् करकादि सर्वान् भोगानवाप्नुयात् ॥१७॥अषाढशुक्लद्वादश्यां वामनं पूजयेत्प्रभुम् ।शाकव्रतं प्रकुर्याच्चाऽलवणव्रतमाचरेत् ॥१८॥दद्याद् दानानि धर्मात्मा वस्त्रभूषोपवीतकम् ।पात्रमुद्रोर्मिकाधान्यधनानि गुरवेऽर्पयेत् ॥१९॥श्रावणशुक्लाद्वादश्यां श्रीधरं पूजयेद् व्रती ।शाकव्रतं समाप्यैव दधिव्रतं समाचरेत् ॥२०॥कौशेयजं पवित्रं च श्रेष्ठं श्रीगुरवेऽर्पयेत् ।दद्याद् दानानि सर्वाणि यथाशक्ति सुखी भवेत् ॥२१॥भाद्रशुक्लद्वादशिका व्रतं वामनजन्मनः ।पायसं हरये दद्यात् पूजयेत् बहुवस्तुभिः ॥२२॥सुवर्णस्य शुभां कुर्याद् वामनार्चां शुभाननाम् ।बाला द्विभुजां सच्छत्रदण्डकमण्डलुस्रजम् ॥२३॥मण्डपे सर्वतोभद्रे मध्याह्ने पूजयेत्तु ताम् ।अदितिं कश्यपं भक्तं बलिं देवान् प्रपूजयेत् ॥२४॥प्रचुराज्यसितैः कुर्यान्नैवेद्यं चूर्णलड्डुकैः ।फलाहारं चैकभक्तं नक्तं कुर्याच्च वा व्रती ॥२५॥द्वादशी यदि मध्याह्ने श्रवणर्क्षयुता भवेत् ।वैकादश्यां तु मध्याह्ने यदि द्वादशिका भवेत् ॥२६॥श्रवणर्क्ष मिलेत्तत्र स योगो विष्णुशृंखलः ।भुक्तिमुत्तिप्रदो विष्णुसायुज्यप्रद उत्सवः ॥२७॥द्वादश्यामाश्विने शुक्ले पद्मनाभं समर्चयेत् ।भोजयेन्मधुरान्नं च दद्याद् दानानि भूरिशः ॥२८॥श्वेत द्वीपगतिं विन्देद् भोगाँश्च वाञ्छितान् शुभान् ।कार्तिके कृष्णपक्षे च गोवत्सद्वादशीव्रतम् ॥२९॥कुर्याद्वै विधिना तत्र कारयेद् गां तु कानकीम् ।सवत्सां पूजयेत् पुष्पचन्दनादिभिरादरात् ॥३०॥भोजयेच्छुभवस्तूनि ह्यर्घ्यं दद्यात्तु पादयोः ।माषादिवटकान् दद्याद् ग्रासान् दद्यात्तृणादिकान् ॥३१॥संकल्पयेच्च तान्नत्वा कृत्वा प्रदक्षिणं तथा ।सर्वदेवमयि मातर्ममाऽभिलषितं कुरु ॥३२॥स्वर्गं मोक्षं सुखं देहि मातर्मातर्नमोऽस्तु ते ।पूजयित्वेति दद्याच्च गवां दानं यथाबलम् ॥३३॥तद्दिने गोः पयस्तक्रं दधि घृतं विवर्जयेत् ।स्थालीपक्वं तैलपक्वं वैकृतं च विवर्जयेत् ॥३४॥मूर्तां वत्सतरीयुक्तां पूजयेद्वा व्रती प्रगे ।फलं तु बहुलं स्याद्वै प्रत्यक्षार्चनसेवनात् ॥३५॥द्वादश्यामूर्जशुक्लायां देवं दामोदरं प्रिये ।पूजयेत् षोडशवस्तूत्तमैश्च भोजयेद्धरिम् ॥३६॥कुंभाँश्च सलिलैः पूर्णान् वस्त्रपल्लवपूजितान् ।पूगमोदकरत्नादिफलस्वर्णादिशोभितान् ॥३७॥दद्याद् दाने व्रती प्रीत्या गुरवे भोजयेत् सतः ।एवं कृते प्रियो विष्णोर्जायतेऽखिलभोगयुक् ॥३८॥द्वादश्यां भूभृता कार्यं नीराजनोत्तमव्रतम् ।सुप्तोत्थितो जगन्नाथो ह्यलंकार्योऽतिवस्तुभिः ॥३९॥निशागमे नवं वह्निं कृत्वा चाभ्यर्च्य मन्त्रतः ।हुत्वा घृतादि मुन्यन्नं रौप्यदीपिकया जनैः ॥४०॥गन्धपुष्पाद्यर्चितया व्रती नीराजयेद्धरिम् ।कृष्णनारायनं लक्ष्मीं प्रभां रमां च पार्वतीम् ॥४१॥ब्रह्माणीं चण्डिकां गौरीं माणिकीं मंगलां तथा ।आदित्यं शंकरं यक्षं नन्दां गणपतिं ग्रहान् ॥४२॥मातॄः पितॄन्नगान्नागान्सर्वान्नीराजयेत्तदा ।गवां नीराजनं कुर्यान्नमो जयेति संवदेत् ॥४३॥गोवृषाँश्च वाजिनश्च गजाँश्च लक्षणान्वितान् ।राजचिह्नानि सर्वाणि छत्रादीनि नवानि च ॥४४॥नृपं पुरोधसं मन्त्रिभृत्याऽन्तःपुरवासिनीः ।पूजयित्वा यथायोग्यं शंखतूर्यादि वादयेत् ॥४५॥अलंकृतस्ततो राजा तिष्ठेत् सिंहासने नवे ।सभाऽपि परिपूर्णा स्यात्तदा वेश्या कुलांगना ॥४६॥शीर्षोपरि नरेन्द्रस्य वर्धयेदक्षतैस्तथा ।कुसुमैः स्वर्णमुद्राभिस्ततो नीराजयेन्नृपम् ॥४७॥शान्तिमन्त्रास्तदा भूदेवानां श्रव्यास्तु भूभृता ।एवमेषा महाशान्तिः कर्तव्या प्रतिवासरम् ॥४८॥राज्ञा धनवता वापि वर्षमारोग्यमिच्छता ।येषां राष्ट्रे पुरे ग्रामे क्रियते शान्तिरुत्तमा ॥४९॥नीराजनाऽभिधा लक्ष्मि! तद्रोगा यान्ति संक्षयम् ।यथाकथंचित्कर्तव्या संक्षिप्ताऽपि जनैरियम् ॥५०॥अस्यामेव तु द्वादश्यां कृतो वै विष्णुना पुरा ।कृतयुगे तु तुलसीविवाहो व्रतमुत्तमम् ॥५१॥उष्णीषं धारयेत्कृष्णनारायणं कुसुम्भकम् ।हेमसूत्रमयं रक्तं कञ्चुकं चापि धारयेत् ॥५२॥हेमवर्णां शुभां शाटीं तुलसीं परिधापयेत् ।वस्त्राभरणपुष्पादिशृंगाराणि सुधापयेत् ॥५३॥गुडौदनं तथा मिष्टं नैवेद्ये तु समर्पयेत् ।कदल्यादिकृते रम्ये मण्डपे तु निशामुखे ॥५४॥कृष्णनारायणविष्णुं तुलसीं पूजयेद् व्रती ।उपचारैः षोडशभिर्गोधूलिसमयेऽर्चयेत् ॥५५॥स्वर्णाम्बरं कण्ठसूत्रं नासाभूषां च कंकणान् ।हरिद्रां कुंकुमादीनि तुलस्यै वै समर्पयेत् ॥५६॥फलानि चामृतादीनि सेक्षुदण्डानि चार्पयेत् ।नैवेद्ये पीतसाराणि खाजकानि समर्पयेत् ॥५७॥कृत्वा नीराजनं वृन्दाकृष्णयोश्चान्तरं पटम् ।कृत्वा पठित्वा मांगल्यं वृन्दां श्रीविष्णवेऽर्पयेत् ॥५८॥साधून् साध्वीर्ब्राह्मणाँश्च बालांश्च बालिका जनान् ।भोजयेच्छक्तितो दद्याद् दानानि विविधानि च ॥५९॥वृन्दाविवाहपद्यानि गापयेद् रसिकानि वै ।इत्येवमुत्सवं कुर्यादखण्डभाग्यरक्षकम् ॥६०॥द्वादश्यां मार्गशुक्लायां साध्यव्रतमनुत्तमम् ।मनोभवस्तथा प्राणो नरो यातश्च वीर्यवान् ॥६१॥चितिर्हयो नृपश्चैव हंसो नारायणस्तथा ।विभुः प्रभुर्द्वादशैतान् साध्यान् देवान् प्रपूजयेत्॥ ६२॥सौवर्णांस्तण्डुलसंकल्पितान् गन्धाद्यमर्पयेत् ।भोजयेद् बहुमिष्टान्नं प्रियान्नारायणस्त्विति ॥६३॥एतस्यामेव कर्तव्यमादित्यद्वादशीव्रतम् ।धाता मित्रोऽर्यमा पूषा शक्रोंऽशो वरुणो भगः ॥६४॥त्वष्टा विवस्वान् सविता विष्णुर्द्वादश तान् रवीन् ।प्रतिमा द्वादश हैमीः कृत्वा संपूज्य भोजयेत् ॥६५॥प्रतिमासं तु शुक्लायां वर्षमेकं व्रतं चरेत्॥दद्याद् दानानि सर्वाणि विप्रान् साधूंश्च भोजयेत् ॥६६॥एवं कृत्वा व्रतं प्राप्य सूर्यलोकं समुज्ज्वलम् ।भुक्त्वा भोगाँश्चिरं तत्र भित्त्वा सौर्यं तु मण्डलम् ॥६७॥मायापरे परंब्रह्म कृष्णनारायणं व्रजेत् ।अथात्रैवाऽखण्डव्रतं जनार्दनस्य कारयेत् ॥६८॥मूर्तिं कृत्वा च सौवर्णीं जनार्दनं प्रपूजयेत् ।भोजयेत् प्रतिमासं तु वर्षमेकं व्रती ततः ॥६९॥नक्ताशीस्तां स्वर्णमूर्तिं धेनुं वत्सयुतां शुभाम् ।अर्पयेद् गुरवे विप्रान् भोजयेत्पायसादिकम् ॥७०॥प्रार्थयेच्छ्रीहरिं कृष्ण! व्रतं चाखण्डमस्तु मे ।सौभाग्यं च धनं धान्यमारोग्यं नित्यमस्तु मे ॥७१॥दद्याद् दानानि चान्यानि परलोकार्थमेव ह ।कृत्वैवं स्वर्णयानेन याति विष्णोः पदं व्रती ॥७२॥पौषस्य कृष्णद्वादश्यां रूपव्रतमुदीरितम् ।दशम्यां विधिवत् स्नात्वा गृह्णीयाद् गोमयं व्रती ॥७३॥श्वेताया वैकवर्णाया अन्तरीक्षगतं प्रिये ।अष्टोत्तरशतं तस्य पिण्डिकाः शोषयेत्ततः ॥७४॥धृत्वा ताम्रे मृतपात्रे वा रक्षयेत् हवनाय वै ।एकादश्यां सोपवासो विष्णुमभ्यर्च्य कानकम् ॥७५॥भोजयेज्जागरं कुर्याद् द्वादश्यां च प्रगे पुनः ।घटे स्थाल्यां हरिं न्यस्य पूजयेदुपचारकैः ॥७६॥काष्ठसंघर्षणजन्यमग्निं सम्पूज्य पिण्डिकाम् ।एकैकां होमयेत् तिलघृताद्युक्तां तु शार्ङ्गिणः ॥७७॥शतमष्टोत्तरं होमं द्वादशाक्षरविद्यया ।नामभिर्वा प्रकुर्याद् भोजयेत्पायसपूरिकाः ॥७८॥घटमूर्तिं तु गुरवेऽर्पयेत्संभोजयेद् द्विजान् ।नत्वा विर्सजयेन्नारी नरो वा व्रतमादरात् ॥७९॥कृत्वैवं लभते रूपं सौभाग्यं चोत्तमोत्तमम् ।पौषशुवले सुजन्मद्वादशीव्रतमथोच्यते ॥८०॥स्नात्वा प्रातश्च गोशृंगवारि पीत्वा प्रणम्य च ।प्रदक्षिणां तथा कृत्वा गृह्णीयाद् वार्षिकं व्रतम् ॥८१॥प्रतिमासं ततः शुक्ले द्वादश्यां दानमाचरेत् ।घृतप्रस्थं प्रदद्याच्च व्रीहिप्रस्थचतुष्टयम् ॥८२॥यवप्रस्थचतुष्कं च हेम द्विरक्तिकं व्रती ।तिलाऽऽढकार्धं दुग्धं तु घटपूर्णं समर्पयेत् ॥८३॥रौप्यस्य मासमेकं च मिष्टान्नानि बहूनि च ।छत्रं माषार्धहेम्नश्च प्रस्थ फाणितमुत्तमम् ॥८४॥चन्दनं पलिकं वस्त्रं दशहस्तमितं शुभम् ।प्रतिमासं तथा दानं व्रती दद्याद् यथाबलम् ॥८५॥गोमूत्रं जलमाज्यं वा पिबेद् व्रती प्रशुद्धये ।दधियुक्तं यवान्नं च तिलाज्यं तु सशर्करम् ॥८६॥क्षीरं दर्भाम्बुना युक्तं शाकं यथेष्टमेव च ।भक्षयेत्प्रतिमासं वै वर्षं यावत्तु भावतः ॥८७॥रवेः प्रतिमां सौवर्णीं ताम्रपात्रे समर्च्य च ।अर्पयेद् गुरवे तां सधेनुं च प्रणमेत्ततः ॥८८॥विप्रान् साधूँस्तथासाध्वीर्भोजयित्वा विसर्जयेत् ।व्रतवाँल्लभते जन्म धनाढ्ये ह्युत्तमे कुले ॥८९॥सर्वस्मृद्धिमये भोज्यभोजनौजःप्रशालिनि ।रतिशक्त्याश्रये श्रेष्ठांगनासंसेविते कुले ॥९०॥ततो भोगानसंख्यातानत्र भुक्त्वा दिवि ध्रुवे ।देवभोगान् प्रभुक्त्वैव वैकुण्ठं याति शाश्वतम् ॥९१॥माघस्य शुक्लद्वादश्यां शालग्रामं प्रपूजयेत् ।रौप्य पात्रे प्रसंस्थाप्य सुवर्णं तन्मुखेऽर्पयेत् ॥९२॥भोजयेत्पायसान्नेन खाण्डाज्यसहितेन च ।प्रदद्याद् वेदविदुषे वस्त्राभरणभूषितम् ॥९३॥व्रती यायात्तु वैकुण्ठं शाश्वतानन्दभाग् भवेत् ।फाल्गुनशुक्लद्वादश्यां सौवर्णीं प्रतिमां हरेः ॥९४॥अभ्यर्च्य गुरवे दद्याद् भोजयेद् बालबालिकाः ।व्रतं कृत्वा जनो याति श्रीकृष्णमन्दिरं यतः ॥९५॥भुक्त्वा भोगानलभ्याँश्च शाश्वतं सुखमश्नुते ।त्रिस्पृशान्मीलनी पक्षवर्धिनी वंजुली तथा ॥९६॥जया च विजया चैव जयन्ती चापराजिता ।एता अष्टौ सदोपोष्या द्वादश्यः पापहारिकाः ॥९७॥एकादशी निवृत्ता चेत्सूर्यस्योदयतः पुरा ।तदा तु त्रिस्पृशानाम द्वादशी सा महाफला ॥९८॥अस्या व्रतेनाश्वमेधसहस्रफलमश्नुते ।यदाऽरुणोदये दशम्या विद्धैकादशी तिथिः ॥९९॥तदा तां सम्परित्यज्य द्वादशीं समुपोषयेत् ।सोन्मीलिता राजसूयसहस्रफलदायिनी ॥१००॥यदोदये तु सवितुर्याम्या त्वेकादशी स्पृशेत्॥तदा वंजुलिका सा तु सर्वक्रतुफलप्रदा ॥१०१॥कुहूराके यदा वृद्धे स्यातां सा पक्षवर्धिनी ।सर्वैश्वर्यप्रदा सा वै पुत्रपौत्रविवर्धिनी ॥१०२॥यदा तु धवले पक्षे द्वादशी स्यान्मघान्विता ।तदा प्रोक्ता जया नाम सर्वत्र जयदा मता ॥१०३॥श्रवणर्क्षयुता चेत्स्याद् द्वादशी धवले दले ।विजया सा सर्वतीर्थफलदा सुखभोगदा ॥१०४॥यदा स्याच्च सिते पक्षे प्राजापत्यर्क्षसंयुता ।द्वादशी सा जयन्त्याख्या व्रतदानफलप्रदा ॥१०५॥यदा तु स्यात् सिते पक्षे द्वादशी जीवभान्विता ।तदाऽपराजिता ज्ञानमुक्तिदा पापनाशिनी ॥१०६॥यदा त्वाषाढशुक्लाया द्वादश्यां मैत्रभं भवेत् ।तदा व्रतद्वयं कार्यं न दोषोऽत्रैकदैवतम् ॥१०७॥श्रवणर्क्षयुतायां च द्वादश्यां भाद्रशुक्लके ।ऊर्जे सितायां द्वादश्यामन्त्यभे च व्रतद्वयम् ॥१०८॥एताभ्योऽन्यत्र कर्तव्यं द्वादश्यामेकभुक्तकम् ।एकादश्या सहितं वै व्रतं द्वादशिकादिनम् ॥१०९॥पृथङ्नोद्यापनं कार्यं दानं कार्यं यथाधनम् ।इति व्रतानि कमले कार्याणि द्वादशीदिने ॥११०॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकद्वादशीव्रतेषु मदनव्रतभर्तृद्वादशीमाधवकरकशा-काऽलवणदधिव्रतपवित्रारोपणवामनजयन्तीपद्मनाभव्रत-गोवत्सद्वादशीदामोदरनीराजनव्रततुलसीविवाह-साध्यादित्यरूपव्रतसुजन्मद्वादशीशालग्राम-हरिपूजात्रिस्पृशोन्मीलनीपक्षवर्धिनी-वंजुलीजयाविजयाजयन्त्यपराजिता-द्वादश्यादिनिरूपणनामासप्तसप्तत्यधिकद्विशततमोऽध्यायः ॥२७७॥ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP