संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १७

कृतयुगसन्तानः - अध्यायः १७

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
निबोध लक्ष्मि! वक्ष्यामि बहूपासनतत्पराः ।
रुद्रस्याऽसंख्यदासीश्च गणाँश्चाऽऽयुधरूपिणः ॥१॥
रम्याः सौम्याः सुरूपाः सुदृढबन्धनगात्रिकाः ।
समसक्थिकटिजंघाः समसूक्ष्मसुमध्यमाः ॥२॥
काश्चित् कुब्जा वामनिका वरगात्राः शुभाननाः ।
पुण्ड्राश्च विकटाश्चैव करालाश्चिपिटाननाः ॥३॥
लग्बोदरा ह्रस्वभुजास्त्रिनेत्राश्च हयानना ।
मृगेन्द्रवदना ह्रस्वपादिकाश्च गजाननाः ॥४॥
गजवक्त्रोदराश्चान्याः सिंहव्याघ्राननास्तथा ।
लोहिताक्षा महास्तन्यः सुभगाश्चारुलोचनाः ॥५॥
ह्रस्वकुंचितकेशाश्च सुन्दर्यश्चारुगण्डकाः ।
सर्वास्ताः कामरूपिण्यो दृढमध्या वराः स्त्रियः ॥६॥
पूर्णप्रियसुसद्भाषा हावभावान्विताः सदा ।
रमते भगवाँस्ताभिर्दशबाहुर्महेश्वरः ॥७॥
नन्दिना च गणैः सार्धं विश्वरूपैर्महात्मभिः ।
तथा रुद्रगणैश्चापि तुल्यौदार्यपराक्रमैः ॥८॥
पावकात्मजसंकाशैर्यूपदंष्ट्रोत्कटाननैः ।
वन्द्यमानो विमानस्थैःपूज्यमानश्च तत्परैः ॥९॥
सर्वर्तुकुसुमां मालां प्रसंजिघ्रन्नुरस्थिताम् ।
नीलोत्पलदलश्यामं पृथुताम्रायतेक्षणम् ॥१०॥
इषत्कराललम्बोष्ठं तीक्ष्णदंष्ट्रगणाश्रितम् ।
षडूर्ध्वनेत्रं दुष्प्रेक्ष्यं रुचिरं दिव्यवाससम् ॥११॥
आहवेष्वपरिक्लिष्टं सर्वेषामरिनाशनम् ।
बाहुना बाहुमावेश्य पार्श्वे सव्येऽन्तरे स्थितम् ॥१२॥
राजते पट्टिशं तस्य वामाग्रकरगोचरम् ।
महाभैरव निर्घोषं बलेनाऽप्रतिमौजसम् ॥१३॥
दशवर्णधनुश्चैव विचित्रं शोभतेऽधिकम् ।
त्रिशूलं विद्युताभासममोघं शत्रुनाशनम् ॥१४॥
जाज्वल्यमानो वपुषा परशुस्तत्त्विषायुतः ।
असिश्चैवौजसां श्रेष्ठः शीतरश्मिः शशी तथा ॥१५॥
तेजसा वपुषा कान्त्या देवेशस्य महात्मनः ।
स्थितः पुरस्ताद् देवस्य शातकुंभमयो महान् ।
शोभते रुचिरः श्रीमान् सर्वारिसुकमण्डलुः ॥१६॥
असिमावेश्य कोशे च पाण्डुराम्बरधारिणी ।
वक्षःस्थितेन महता मौक्तिकेन विराजिता॥
चतुर्भुजा महाभागा विजया लोकसम्मता ॥१७॥
देव्या आद्यप्रतीहारी श्रीरिवाऽप्रतिमा परा ।
भ्राजमाना स्थिता चैव कृत्वा देवस्य चांजलिम् ॥१८॥
तस्या पृष्ठाऽनुगाश्चान्याः स्त्रियोऽप्सरोगणान्विताः ।
ताः खल्वभिनवैः कान्तैरुपतिष्ठन्ति शंकरम् ॥१९॥
सर्वलक्षणसम्पन्ना वादित्रैरुपबृंहिताः ।
उपगायन्ति देवेशं गणा गन्धर्वयोनयः ॥२०॥
अभ्युन्नतो महोरस्कः शरन्मेघसमद्युतिः ।
शोभते नदमानश्च गोपतिस्तस्य वेश्मनि ॥२१॥
परिवारयुतः स्कन्दः पुत्रोऽस्याऽमितवीर्यवान् ।
रक्ताम्बरधरः श्रीमान् वराऽम्बुजदलेक्षणः ॥२२॥
तस्य शाखो विशाखश्च नैगमेयश्च चाष्टवान् ।
व्यपेतव्यसनाः शिष्याः प्रजानां पालने रताः ॥२३॥
तैः सार्धं स महावीर्यः शोभते शिखिवाहनः ।
बालक्रीडनकैः संक्रीडति वै विश्वतोमुखः ॥२४॥
व्याघ्राश्चैवानुगास्तत्र काञ्चनाभास्तरस्विनः ।
स्वच्छन्दचारिणः सर्वे स्वयं देवेन निर्मिताः ॥२५॥
मृत्योर्मृत्युसमास्ते तु यमदर्पाऽपहारिणः ।
सिंहा रुद्रगणाः सन्ति रुद्रेच्छावशवर्तिनः ॥२६॥
मन्दराद्रिप्रकाशानां बलेनाऽप्रतिमौजसाम् ।
हारकुन्देन्दुवर्णानां विद्युद्घननिनादिनाम् ॥२७॥
चूडामणिधराणां वै मेघसन्निभवाससाम् ।
श्रीवत्सांकितवज्राणामंगुलीशूलपाणिनाम् ॥२८॥
एवंविधसुरूपाणां देवानां दैवशालिनाम् ।
सिंहानां तस्य प्रासादमुख्यस्तंभेष्ववस्थितिः ॥२९॥
यद्वै सहस्र सिंहानामीश्वरेण महात्मना ।
निज क्रोधात्कृतं क्रोधास्ते सर्वे सिंहविग्रहाः ॥३०॥
अथ रुद्रमहेशस्य भक्तिर्यैरनुकल्पिता ।
ह्रीमन्तः सूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः ॥३१॥
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ।
अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् ॥३२॥
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ।
भवस्य रूपसादृश्यं नीताश्चैव ह्यनुत्तमम् ॥३३॥
सर्वे वैश्वानरमुख्या विश्वरूपाः कपर्दिनः ।
नीलकण्ठाः सितग्रीवास्तीक्ष्णदंष्ट्रास्त्रिलोचनाः ॥३४॥
अर्धचन्द्रकृतोष्णीषा जटामुकुटधारिणः ।
सर्वे दशभुजा वीराः पद्मान्तरसुगन्धिनः ॥३५॥
तरुणादित्यसंकाशाः सर्वे ते पीतवाससः ।
पिनाकपाणयः सर्वे श्वेतगोवृषवाहनाः ॥३६॥
श्रियान्विताः कुण्डलिनो मुक्ताहारविभूषिताः ।
तेजसोऽप्यधिका दैवात्सर्वज्ञाः सर्वदर्शिनः ॥३७॥
विभज्य बहुधाऽऽत्मानं जरामृत्युविवर्जिताः ।
क्रीडन्ति विविधैर्भावैर्भोगान्प्राप्य सुदुर्लभान् ॥३८॥
स्वच्छन्दगतयः सिद्धाः सिद्धैश्चान्यैर्विबोधिताः ।
एकादशानां रुद्राणां कोट्योऽनेकास्ततः कृताः ॥३९॥
एभिः सह महात्मा स देवदेवो महेश्वरः ।
भक्तानुकम्पी भगवान् मोदते भक्तसत्पतिः ॥४०॥
आभूतसंप्लवे घोरे सर्वप्राणभृतां क्षये ।
महाभूतविनाशान्ते प्रलये समुपस्थिते ॥४१॥
अनेकरुद्रकोट्यश्चाऽनेकदासीगणास्तथा ।
अनेकगणव्याघ्राद्या नैकसिद्धादयश्च ये ॥४२॥
रुद्रलोकगताः सर्वे महात्मानो महेश्वरे ।
रुद्रे यान्ति लयं सर्वे रुद्रो ब्रह्मणि लीयते ॥४३॥
प्रपद्य परया भक्त्या ज्ञानयुक्तेन चेतसा ।
प्राप्नोति रुद्रसालोक्यं शाश्वतं पदमव्ययम् ॥४४॥
अजपुत्रस्य रुद्रस्य सृष्टी रुद्रात्मिकी त्वियम् ।
दासदासीगणव्याघ्रयानवाहनरूपिणी ॥४५॥
आयुधसिद्धगन्धर्वाऽप्सरोमागधसेविका-
गृहोद्यानमहासौधनदीपद्मादिमण्डना ॥४६॥
सर्वा सत्त्वमयाकारा सत्त्वरूपा सुसौख्यदा ।
रुद्रस्य रौद्रभावो यः स न वै वर्ततेऽत्र यत् ॥४७॥
तस्मात्तु ब्रह्मणा चेयं सत्यलोकनिवासिनी ।
रौद्री तु सात्त्विकी सृष्टिः सर्वदा वै स्थिरीकृता ॥४८॥
दृष्ट्वेमां सुखदां सृष्टिं ब्रह्मा तुष्टिं जगाम ह ।
किन्तु सात्त्विकदेवास्ते रुद्रास्तद्दासदासिकाः ॥४९॥
सुखं सात्त्विकमासाद्य प्राप्यैश्वर्याणि कृत्स्नशः ।
ऐश्वर्येषु सुखेष्वासन् लीना वै वोधदुर्बलाः ॥५०॥
अतस्ते वञ्चिता यत्स्युर्ज्ञानेन पारमार्थिना ।
तथासति कदाचिद्वा मोक्षमार्गस्य रोधनम् ॥५१॥
आपत्तेश्चाऽनर्थप्राप्तिरित्येवं मा भवेदिति ।
विचार्य्यैव स्वयं ब्रह्मा सृष्टिं ज्ञानभरां शुभाम् ॥५२॥
मोक्षदां ब्रह्मसंलग्नां मानसीं ब्रह्मरूपिणीम् ।
कर्तुं मनो दधे पश्चात् ध्यातुं चक्राम सिद्धये ॥५३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सात्त्विकरुद्रदासदासीगणादिसृष्टिकथननामा सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : March 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP