संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २०० कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २०० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०० Translation - भाषांतर श्रीलक्ष्मीरुवाच-नारदस्य पुनर्जन्म दासीपुत्रत्वमित्यपि ।कदा जातमिति ब्रूहि श्रोतुमिच्छामि माधव ॥१॥श्रीनारायण उवाच-शृणु लक्ष्मि! कथां दिव्यां सर्वथा पापनाशिनीम् ।ब्रह्मा विश्वं विनिर्माय सावित्र्यां गृहधर्मतः ॥२॥चकार वीर्याधानं च शतवर्षोत्तरं तु सा ।सुषुवे चतुरो वेदान् तदंगानि च सर्वथा ॥३॥षट्त्रिंशद्रागिणीश्चैव षड्रागान् तालसंयुतान् ।चतुर्युगाँश्च कालश्च योगाँश्च षट्सुकृत्तिकाः ॥४॥देवसेनां महाषष्ठीं कार्तिकेयप्रियां सतीम् ।मातृकासु प्रधानां तां बालानामिष्टदेवताम् ॥५॥चतुर्विधं लयं मृत्युकन्यां व्याधिगणाँस्तथा ।पृष्ठादधर्मं चालक्ष्मीं वामपार्श्वत एव च ॥६॥नाभेस्तु विश्वकर्माणं वसूनष्टौ महाबलान् ।मानसात् चतुरः पुत्रान् कुमारान् सनकादिकान् ॥७॥मुखात् स्वायंभुवं पुत्रं शतरूपासमन्वितम् ।तान्सर्वान् सृष्टिकृद्ब्रह्मा सृष्टिं कर्तुमुवाच ह ॥८॥जग्मुस्ते च नहीत्युक्त्वा तप्तुं कृष्णपरायणाः ।चुकोप हेतुना तेन ब्रह्मा तस्य ललाटतः ॥९॥रुद्रा एकादशोत्पन्नास्तेषामेको विनाशकृत् ।पुलस्त्यो दक्षकर्णाच्च पुलहो वामकर्णतः ॥१०॥दक्षनेत्रात्तथाऽत्रिश्च वामनेत्रात् क्रतुः स्वयम् ।अरणिर्नासिकारन्ध्रादङ्गिराश्च मुखाद्रुचिः ॥११॥भृगुस्तु वामपार्श्वाच्च दक्षो दक्षिणपार्श्वतः ।छायायाः कर्दमो जातो नाभेः पंचशिखस्तथा ॥१२॥वक्षसश्चैव वोडुश्च कण्ठदेशाच्च नारदः ।मरीचिः स्कन्धदेशाच्चैवाऽपान्तरतमा गलात् ॥१३॥वसिष्ठो रसनादेशात्प्रचेता अधरौष्ठतः ।हंसश्च वामकुक्षेश्च दक्षकुक्षेर्यतिस्तथा ॥१४॥सृष्टिं कर्तुं सुतान्सर्वानाज्ञां चकार विश्वसुट् ।नारदस्तु तदा प्राह युक्तियुक्तं शुभं वचः ॥१५॥पूर्वमानय मज्ज्येष्ठान्सनकादीन् पितामह ।कारयित्वा दारयुक्तानस्मान्वद जगत्पते ॥१६॥ते तपःसु योजिताश्चेत् संसाराय वयं कथम् ।एकस्मायमृतं दत्तमन्यस्मै तु विषं कथम् ॥१७॥घोरे संसारवार्धौ संपतितस्य न निस्तरिः ।कोटिकल्पेऽपि भवति तस्मात्संसारसागरे ॥१८॥माऽस्मान्पातय हितकृत्पिता भूत्वाऽज्ञवत् पितः ।नारायणः स्वयं बीजं निस्तारस्येह कथ्यते ॥१९॥सर्वदो भक्तिदो मोक्षप्रदश्चापि स एव हि ।भक्तेकशरणो भक्तवत्सलः करुणानिधिः ॥२०॥भक्तप्रियो भक्तनाथो भक्तानुग्रहकारकः ।भक्ताराध्यो भक्तसाध्यः स एव तारकः स्वयम् ॥२१॥विहाय तं परंब्रह्म को मूढो विषये भ्रमेत् ।कृष्णसेवामृतं त्यक्त्वा विषमश्नाति कोऽबुधः ॥२५॥विषया नश्वराः सर्वे तुच्छाश्च मृत्युहेतवः ।स्वप्नवन्न स्थिराः सन्ति दीपज्वालाग्रवर्तनाः ॥२३॥बडिशपिष्टवत् मत्स्यापाताऽभिकारका इव ।दुःखदा मृत्युदास्तापाः कस्तान्सेवेत सन्मतिः ॥२४॥तस्मादयं ब्रह्मभाजो ब्रह्मान्वयप्रकाशकाः ।विचिन्तयामो ब्रह्मैव न कुर्मः सर्जनं पितः ॥२५॥इत्युक्त्वा नारदो मौनोऽभवत् प्रत्युत्तरेच्छुकः ।तावद्ब्रह्माऽभवत् क्रुद्धः प्रोवाच स्फुरिताऽधरः ॥१६॥नारद्! त्वं पितुर्वाक्यमनादृत्याऽभिमानवान् ।ज्ञानीवोपदिशन्मां च निषेधसि तु सर्जनम् ॥२७॥तस्माज्ज्ञानविहीनस्त्वं भव योषित्सु लम्पटः ।स्थिरयौवनयुक्तानां सुरूपाणां विलासकृत् ॥२८॥पञ्चाशत्कामिनीनां त्वं भर्ता शृंगारविद्भव ।'शृंगारशास्त्रवेत्ता च महाशृंगारकारकः ॥२९॥नानाशृंगारविज्ञानां गुरूणां च गुरुर्भव ।गन्धर्वाणामग्रगण्यो गायकः सुस्वरो भव ॥३०॥वीणावादननिष्णातः सर्वदा स्थिरयौवनः ।भविष्यसि न सन्देहो द्विलक्षाब्दसुजीवनः ॥३१॥पुनर्मदीयशापेन दासीपुत्रो भविष्यसि ।तदा वैष्णवसंसर्गाद् वैष्णवोच्छिष्टभोजनात् ॥३२॥श्रीकृष्णस्य प्रसादेन भविष्यसि ममात्मजः ।ज्ञानं दास्यामि ते दिव्यं पुनरेव पुरातनम् ॥३३॥अधुना भव नष्टस्त्वं मत्सुतो निपत ध्रुवम् ।नारदः प्राह पितरं क्रोधं संहर विश्वसृट् ॥३४॥शपेत्परित्यजेद्विद्वान् पुत्रमुत्पथगामिनम् ।तपस्विनं सुतं शप्तुं कथमर्हसि मे पितः ॥३५॥यत्र जनिश्च मे तत्र वैष्णवत्वं सदा भवेत् ।न जहातु हरेर्भक्तिर्मां वेदो देहि मे वरम् ॥२६॥जन्म यदि महल्लक्ष्मीसम्पद्वत्सु भवेदपि ।भक्तिहीनं तु तत्सर्वमधमं चाऽगतिप्रदम् ॥३७॥सूकरेऽपि यदि जन्म जातिस्मरं भवेद्यदि ।भक्तियुक्तं तु तच्छ्रेष्ठं गोलोकधामदं हि तत् ॥३८॥श्रीहरेश्चरणे भक्तिर्मधु दिव्यं प्रकीर्तितम् ।तदश्नतां वैष्णवानां पादपूता धरा भवेत् ॥३९॥तीर्थानि वैष्णवानां तु स्पर्शमिच्छन्ति सर्वदा ।पापिनां स्नानसंसृष्टपापानां क्षालनाय वै ॥४०॥श्रीकृष्णमन्त्रग्रहणान्नरा मुक्ता भवन्ति वै ।कोटिमुक्ता नामग्रहाज्जाता जायन्त एव च ॥४१॥भविष्यन्ति तथा मुक्ता नामभक्त्या तु कोटिशः ।कोटिजन्मार्जित पापपुञ्जा नश्यन्ति मन्त्रतः ॥४२॥शुद्ध्यन्ति च भवन्त्येव मुक्ता नैष्कर्म्यमात्रतः ।पूर्वं चापि कृतं कर्म नाम्ना निर्मूलयन्ति ते ॥४३॥गृहं दासाँस्तथा दासीरपत्यानि च बान्धवान् ।सुतान्दाराँस्तथा शिष्यान्सेवकाँश्च कुटुम्बिनः ॥४४॥यो दर्शयति सन्मार्गं सोपि सद्गतिमृच्छति ।स किंगुरुः स किंतातः स किंस्वामी स किंसुतः ॥४५॥यो दर्शयत्यसन्मार्गं तैस्तैर्विश्वसितो जनः ।यश्च कृष्णपदाम्भोजे भक्तिं दातुमनीश्वरः ॥४६॥त्वं न ददासि मे भक्तिं निरोधयसि मामुत ।ततस्त्वमपि वेदाऽऽस्याऽपूज्यो भव जगत्त्रये ॥४७॥इत्युक्त्वा नारदस्तत्र विरराम क्षणं यतः ।विश्वसृजश्च शापेन गन्धर्वश्च बभूव ह ॥४८॥गन्धर्वराजस्य पत्न्यामुपबर्हणनामधृक् ।कथयामि सुविस्तीर्णं तद्वृत्तान्तं निशामय ॥४९॥गन्धर्वराजः सर्वेषां गन्धर्वाणामधिप्रभुः ।परमैश्वर्यसंयुक्तः पुत्रहीनोऽभवद्धि सः ॥५०॥गुर्वाज्ञया पुष्करे सः तपश्चचार दारुणम् ।ददौ तस्मै वशिष्ठश्च स्तोत्रं तु द्वादशाक्षरम् ॥५१॥शिवस्य कवचं मन्त्रं वर्षशतं जजाप सः ।निराहारस्तपः कुर्वन् ददर्श पुरतः शिवम् ॥५२॥महत्तेजःस्वरूपं च भक्तानुग्रहकारकम् ।ईषद्धासं प्रसन्नास्यं तपस्याफलदायकम् ॥५३॥शरणागतभक्ताय दातारं सर्वसम्पदाम् ।त्रिशूलपट्टिशधरं वृषस्थं चन्द्रशेखरम् ॥५४॥तप्तस्वर्णजटाजूटं नीलकण्ठं त्रिनेत्रकम् ।नागयज्ञोपवीतं च चर्मवस्त्रं सुभक्तिदम् ॥५५॥दृष्ट्वा ननाम गन्धर्वराजः स दण्डवत् भुवि ।तुष्टाव परमन्त्रेण प्रसन्नं धवलं हरम् ॥५६॥वरं वृणुष्वेति हरस्तं प्रोवाच तपस्विनम् ।स ययाचे हरेर्भक्तिं भक्तं पुत्रं च वैष्णवम् ॥५७॥शंभुः प्राह कृतार्थस्त्वं सर्वं भक्तौ प्रतिष्ठितम् ।वरादेकाद् वृतं सर्वमन्यच्चर्वितचर्वणम् ॥५८॥यस्य भक्तिर्हरौ तस्य सर्वं चैश्वर्यमस्ति हि ।सर्वाश्च सिद्धयस्तस्य न न्यूनं विद्यतेऽप्यणु ॥५९॥सः समर्थः सर्वविश्वान् पातुं कर्तुं भवेदिह ।आत्मनः कुलकोटिं च शतं मातामहस्य च ॥६०॥पुरुषाणां समुद्धृत्य गोलोकं धाम याति सः ।कोटिजन्मप्रपापानि हत्वा दास्यं हरेर्लभेत् ॥६१॥तावत्पतिश्च पत्नी च सुताः पुत्रा धनादयः ।सुखं दुःखं नृणां तावद् यावद्भक्तिर्हरौ नहि ॥६२॥हरौ भक्तिः कल्पवृक्षः सर्वेप्सितं ददाति वै ।भक्तिर्महाँस्तीक्ष्णखड्गः कर्मद्रुमूलकृन्तनः ॥६३॥हरौ तु मानसे लग्ने सर्वं सिद्धं भवत्यपि ।येषां तु सुकृतं श्रेष्ठं तेषां पुत्रास्तु वैष्णवाः ॥६४॥भवन्त्युद्धारयन्त्येव कुलकोटिं तु सेवया ।सुखे वैषयिके यद्वा साम्राज्ये पारमेष्ठ्यके ॥६५॥प्राप्ते सर्वविधे चापि मंगले नैव तुष्यति ।भक्तिर्भक्तश्च पुत्रः स्यादित्येकात्सर्वमर्थितम् ॥६६॥चरितार्थः पुमानेकादीदृशात्तु वरोत्तमात् ।किं वरेण द्वितीयेन यस्मात् तृप्तिर्न शाश्वती ॥६७॥वैष्णवानां धनं श्रेष्ठं कृष्णे भक्तिर्हि शाश्वती ।सञ्चितं भक्तिदास्यं यत् सर्वं तेन हि सञ्चितम् ॥६८॥यद्यपि त्वर्थितं श्रेष्ठं सर्वस्माछ्रेष्ठमेव च ।तथापि न वयं दातुं समर्थास्तादृशं वरम् ॥६९॥वरयाऽन्यं वरं राजन् यत्ते मनसि वर्तते ।महेन्द्रत्वममरत्वं ब्रह्मत्वमीशतां लभ ॥७०॥सिद्धीर्योगं च विज्ञानं मृत्युञ्जयबलं तथा ।सर्वं दास्यामि लभ तत् कृष्णदास्यं त्यज ध्रुवम् ॥७१॥श्रुत्वा गन्धर्वराजश्चोवाच श्रीशंकरं तदा ।यत्पक्ष्मचालनेनैव ब्रह्मादेः पतनं भवेत् ॥७२॥तद्ब्रह्मत्वं महेन्द्रत्वममरत्वं न मे प्रियम् ।सिद्धयश्च महैश्वर्यं योगो मृत्युञ्जयस्तथा ॥७३॥न मेऽस्त्यतिप्रियं देव! ज्ञानं च भक्तिमन्तरा ।सालोक्यसार्ष्टिसामीप्यसायुज्यैकत्वमित्यपि ॥७४॥वैष्णवा नहि वाञ्च्छन्ति विना तत्सेवनं क्वचित् ।वाञ्च्छन्ति दास्यभक्तिं च शाश्वतीं स्वापजाग्रतोः ॥७५॥तस्मात् तद्दास्यभक्तिं च भक्तपुत्रं वृणोम्यहम् ।अन्यत्सर्वं परित्यज्य तुष्टात् त्वत्तो वरप्रदात् ॥७६॥न वा दास्यसि चेच्छंभो दुष्कृतं मेऽस्ति निश्चितम् ।शिरश्छित्वा सन्निधौ ते प्रदास्यामि हुताशने ॥७७॥श्रुत्वा कृपानिधिर्भक्तदयालुः प्राह शंकरः ।लभस्व श्रीहरेर्दास्यभक्तिं पुत्रं सुवैष्णवम् ॥७८॥गान्धर्वविद्याकुशलं चिरायुषं जितेन्द्रियम् ।ज्ञानिनं गुरुभक्तं च शश्वत्सुस्थिरयौवनम् ॥७९॥वरं दत्वा ययौ शंभुर्गन्धर्वः स्वालयं ययौ ।कालेन तस्य भार्यायां लेभे जन्म च नारदः ॥८०॥वशिष्ठस्तन्नाम चक्रे गन्धमादनपर्वते ।उपबर्हणनामाऽसौ गन्धर्वः ख्यातिमाप्तवान् ॥८१॥उपार्थश्चाधिको बोध्यः पूज्यश्च बर्हणार्थकः ।अधिकपूज्य इत्यर्थे उपबर्हण नाम तत् ॥८२॥चकार सः सुतजन्ममहोत्सवं मुदान्वितः ।ददौ रत्नानि धान्यानि द्रव्याणि हीरकाणि च ॥८३॥धनानि क्षेत्रवस्त्राणि पशून् दानानि भूरिशः ।उपबर्हणगन्धर्वो वशिष्ठान्मन्त्रमुत्तमम् ॥८४॥प्राप्य कृष्णाऽऽराधनायाश्चकार दुष्करं तपः ।गण्डक्याः सरितस्तीरे वृक्षजालसमावृते ॥८५॥तपन्तं प्रोज्ज्वलं प्राप्तयौवनं सुमनोहरम् ।दृष्ट्वा कामात् तदा मूर्छामवापुः प्रमदा मुहुः ॥८६॥स्नानार्थं च जलाप्त्यर्थं या यास्तत्र समागताः ।गन्धर्वपत्न्यस्ताः सर्वा मुमुहुः कामभावतः ॥८७॥ताश्च तीव्रं तपः कृत्वा प्राणान् सन्त्यज्य योगतः ।पञ्चाशत् ता बभूवुश्च कन्याश्चित्ररथस्य वै ॥८८॥उपबर्हणगन्धर्वं ताश्च तं वव्रिरे पतिम् ।कामुक्यः कन्यका माला ददुस्तस्मै तपस्विने ॥८९॥पत्न्यस्तस्य बभूवुश्च ताभिः सह ययौ गृहम् ।दिव्यं द्विलक्षवर्षं च ताभिः रेमे स कामुकः ॥९०॥अथ कालान्तरे सत्यलोके देवसमाजके ।सभायां ब्रह्मणस्तत्र जगाम गायनं जगौ ॥९१॥तत्र रम्भाऽप्सरोनृत्यक्रमे तु समुपस्थिते ।तस्या ऊरू स्तने रूपं दृष्ट्वा मूर्छामवाप सः ॥९२॥कामवेगेन सत्त्वप्रस्खलनं संबभूव ह ।त्यक्त्वा संगीतमेवाऽयं निषसाद सभातले ॥९३॥उच्चैः प्रजहसुर्देवा ब्रह्म क्रोधाच्छशाप तम् ।उपबर्हण! जानासि पञ्चाशत्प्रमदापतिः ॥९४॥भूत्वापि मोहमापन्नो रंभां दृष्ट्वा ह्यधीरवत् ।तस्माद्विहाय गान्धर्वी तनुं शूद्रो भव द्रुतम् ॥९५॥तत्र प्राप्य हरेर्भक्तिं सात्त्वतानां समागमम् ।पुनः काले समापन्ने मत्पुत्रस्त्वं भविष्यसि ॥९६॥विना विपत्तिमहिमा सुखशान्त्योर्भवेन्नहि ।अतः क्रमात्सुखं दुःखं सर्वेषां भाव्यमेव यत् ॥९७॥इत्युक्त्वा विररामाऽसौ ब्रह्मा लोकपितामहः ।उपबर्हणगन्धर्वो जगाम स्वगृहं प्रति ॥९८॥सर्वाः पत्नीः समाहूय वृत्तान्तमभिधाय च ।आसने योगमास्थाय जहौ तां तनुमादरात् ॥९९॥मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ।विशुद्धमाज्ञाचक्रं च भित्त्वा षट्चक्रमेव सः ॥१००॥इडां सुषुम्णां मेधां च पिंगलां प्राणहारिणीम् ।सर्वज्ञानप्रदां चापि मनःसंयमिनीं तथा ॥१०१॥विशुद्धां च निरुद्धां च वायुसंचारिणीं तथा ।तेजःशुष्करीं चैव बलपुष्टिकरीं तथा ॥१०२॥बुद्धिसंचारिणीं चैव ज्ञानजृम्भणकारिणीम् ।एताः षोडशधा नाडीर्भित्वा हंसं मनोयुतम् ॥१०३॥ब्रह्मरन्ध्रं समानीयाऽऽत्मानं युयोज केशवे ।देहं तत्याज योगीन्द्रः सम्प्राप ब्रह्म शाश्वतम् ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मणा सावित्र्यां मानसपुत्रा उत्पादिताः, नारदोत्पत्तिः, सृष्ट्यर्थं नियोगे नारदस्य तन्निषेधः, ब्रह्मणः शापादुपबर्हणाख्यगन्धर्वभवनम्, पुनः ब्रह्मसभायां गायनकाले शापात् तनुत्यागश्चेत्यादिनिरूपणनामा द्विशततमोऽध्यायः ॥२००॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP