संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३४४ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३४४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३४४ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! मथुरायां शिवकुण्डं परं महत् ।तीर्थं शिवकृतं तत्र चिरं तेपे हरः स्वयम् ॥१॥तत्र कृष्णः समागत्य शिवं प्राह च माधवः ।कथं वै तप्यते शंभो! तपः परमदारुणम् ॥ २ ॥शंभुः प्राह महाराज! दैत्यैरत्यर्दिताः सुराः ।असुराणां विनाशायेहाऽवतरितुमर्हसि ॥३॥तथास्त्विति हरिः प्राह यम्यां स्नात्वा हरस्ततः ।समाप्य तु तपस्तस्माद् ययौ कैलासमेव सः ॥४॥कृष्णनारायणश्चापि ययौ गोलोकमेव ह ।आद्ये द्वापरसंयोगे जातोऽसौ कृष्ण एव तु ॥५॥शिवकुण्डमिदं तीर्थं कृष्णागमनकारकम् ।भुक्तिमुक्तिप्रदं यत्र स्नात्वा वैकुण्ठमाप्यते ॥६॥शिवकुण्डोत्तरे तीर्थं संयमनं सुपुण्यदम् ।स्नानेन जायते भाग्यं सौभाग्यं रूपवत्त्वकम् ॥७॥स्वर्गं तथा परो मोक्षः प्राप्येते नात्र संशयः ।संयमनो महातीर्थे यद्यद् वृत्तं पुरातनम् ॥८॥शृणु लक्ष्मि! महाश्चर्यकरं पापप्रणाशनम् ।नैमिषारण्यवास्तव्यो निषादो तुष्टमानसः ॥९॥पापाचारः समायातः कदाचिन्मथुरां प्रति ।नित्यं स्नाति यमुनायां बाहुभ्यां तरणेन च ॥१०॥प्रति तटं समायाति याति चापि पुनस्तथा ।एवं स्नाते तरत्यपि कृष्णचतुर्दशीतिथौ ॥११॥तर्तुकामो निषादः स जले पपात यामुने ।ततार यमुनां सोऽथ तीर्थं संयमनं प्रति ॥१२॥यावदायात्यभितीरं प्राप्य संयमनं शुभे ।ममज्जाऽसौ श्रमितो वै निमग्नो जलमापपौ ॥१३॥अशक्तः स महापापः सद्यः प्राणैर्व्ययुज्यत ।तीर्थप्रभावतश्चास्य ध्वस्तं पापकरण्डकम् ॥१४॥पुण्यं जातं महत्तस्य तेन जातो भुवः पतिः ।सौराष्ट्रविषये देशे सौराष्ट्राधिपतिर्नृपः ॥१५॥भद्रापत्तनसाम्राज्यं चकार स धनुर्धरः ।नाम्ना यक्ष्मधनुर्नाम क्षत्रियो वसुधाधिपः ॥१६॥पालयामास वसुधां क्षत्रधर्मं समाश्रितः ।रैवताद्रिनिवासानां सिद्धानां सेवको ह्ययम् ॥१७॥नित्यं यानेन संयाति दर्शनार्थं गिरौ मुदा ।पूर्वस्यामश्वपट्टस्य सरसश्च तटे शुभे ॥१८॥पत्नीव्रताश्रमे गत्वा तं ददर्श महामुनिम् ।ददर्श कंभरालक्ष्मीं गोपालकृष्णमीश्वरम् ॥१९॥कृष्णनारायणं चापि ददर्श नित्यमेव सः ।तत्प्रतापेन राजाऽसौ कृष्णभक्तश्च वैष्णवः ॥२०॥जातो महान् बली यस्य रक्षणे कण्ठमालिका ।वर्मात्मिका प्रदत्ता या नृपं रक्षति सर्वथा ॥२१॥तया युद्धेऽपि नृपती रक्षितो विजयी सदा ।इति हेतोर्गौर्जराणां मरूणां राज्यमाप्तवान् ॥२२॥वैहायसेन यानेन काशीयात्रार्थमेव सः ।ययौ काशीनृपतिना विदित्वा वैष्णव परम् ॥२३॥विजयिनं कीर्तिमन्तं सत्कृत्याऽस्मै निजा सुता ।प्रदत्ता पीवरीनाम्नी नीत्वा तां स ययौ पुरम् ॥२४॥भद्रापत्तनमागम्य तेनोढा पीवरी शुभा ।पत्नीशतानां मुख्यानां प्रवरा सा कृता प्रिया ॥२५॥तां चैव रमयामास सूद्यानेषु वनेषु च ।प्रासादेषु च रम्येषु नदीनां पुलिनेषु च ॥२६॥प्रजाः पालयतस्तस्य दानानि ददतस्तथा ।कालो गच्छति राजाऽसौ पुत्रपौत्रयुतोऽभवत् ॥२७॥भोगासक्तस्य च ययुर्वर्षाणि त्वयुतानि वै ।पुत्राः पुत्र्यः पञ्चशतान्यस्याऽभवन् सुशोभनाः ॥२८॥कन्या विवाहिता सर्वा विधिना तेन सर्वथा ।ज्येष्ठेऽर्पितं महाराज्यं मध्यमेषु पुराणि वै ॥२९॥कनिष्ठेषु क्षितिर्योग्या जीविकार्थाऽर्पिताऽथ च ।एवं स्वयं सुखं प्राप्तो निवृत्तो राज्यकार्यतः ॥३०॥राज्ञीनां जीविकाक्लृप्तिं चक्रेऽथ शयने क्वचित् ।पीवर्या सह सुप्तः सन् स्वप्ने संवदते ज्ञवत् ॥३१॥हाहा ओहोहो गच्छावः किमत्र जीवनेन वै ।स्मृत्वा तां मथुरां भूमिं स्मृत्वा तीर्थं तु संयमम् ॥३२॥ततः पीवरी प्राह किमेवं भाषसे नृप! ।प्रियाया वचनं श्रुत्वा राजा प्राह प्रियां प्रति ॥३३॥मत्तः सुप्तः प्रमत्तश्च ह्यसम्बद्धं प्रभाषते ।निद्राधीनस्य वचनं नाऽवधार्यं त्वया प्रिये! ॥३४॥पीवर्युवाच मे नाथ श्रुतं पुनः पुनर्मया ।बहुवारं यतस्तद्वै दृढसंस्कारजं भवेत्। ॥३५॥जातिस्मरो महाराज! मे त्वं विभासि तद्वद ।प्राग्भवीयं त्वया राजन् प्रोच्यते वद मेऽनघ ॥३६॥कथयस्व ममाऽद्य त्वं यद्यहं वल्लभा तव ।प्राणाँस्त्यक्ष्याम्यह राजन् गोपायिष्यसि मे यदि ॥३७॥प्रियाया वचनं श्रुत्वा प्रत्युवाच नराधिपः ।अवश्यं यदि वक्तव्यं गच्छामो मथुरां पुरीम् ॥३८॥प्रकाशे त्वावयोर्मृत्युर्भविष्यति न संशयः ।तत्र गत्वा प्राग्भवीयं कथयिष्ये ह्युदन्तकम् ॥३९॥ददस्व विपुलं दानं ब्राह्मणेभ्यः सुलोचने ।पुत्रान् संस्थाप्य दौहित्रान् स्वे स्वे स्थाने निभाल्य च ॥४०॥ग्रामान् कोशांश्च रत्नानि पुत्रान् वीक्ष्य वितीर्य च ।राजा सम्मानयामास जनान्पुरनिवासिनः ॥४१॥पितृपैतामहराज्यपालनार्थं यथाक्रमम् ।पुत्रानावेद्य च तथा कुटुम्बिबान्धवान् प्रियाः ॥४२॥कुशलार्थं बोधयित्वा दारान् नियुज्य रक्षणे ।अथ प्राह सुहृन्मित्रभृत्यदासीप्रदासकान् ॥४३॥राज्यं सम्पादितं यद्वै बन्धनं तत्तु सर्वथा ।ममाऽऽत्ममोक्षणार्थं वै गच्छामि मथुरां पुरीम् ॥४४॥सन्तोषाच्च तथा त्यागान्नास्त्यन्यत् परमं सुखम् ।नास्ति विद्यासमं चक्षुर्नास्ति चक्षुःसमं बलम् ॥४५॥नास्ति रागसमं दुःखं नास्ति त्यागात्परं सुखम् ।यः कामान् कुरुते सर्वान् यश्चैतान् सर्वथा त्यजेत् ॥४६॥प्रायेण सर्वकामानां परित्यागो विशिष्यते ।तस्मान्मया प्रगन्तव्यं तीर्थं तु मथुरां पुरीम् ॥४७॥इत्यावेद्य जनान्सर्वान्पुत्रान्नियुज्य रक्षणे ।यथापेक्षबलोपेतः सम्प्राप्तो मथुरां पुरीम् ॥४८॥तेन दृष्टा पुरी रम्या पीवर्या चावलोकिता ।तीर्थैर्मुक्तिप्रदैर्युक्ता पुण्या पापहरा शुभा ॥४९॥रम्यं वृन्दावनं नाम विष्णुस्थानमनुत्तमम् ।यद् दृष्ट्वा मनुजो लक्ष्मि! कृतकृत्यो हि जायते ॥५०॥श्रावणशुक्लैकादश्यां यमीस्नातः प्रमुच्यते ।तथा सौम्यं मधुवनं मम स्थानमनुत्तमम् ॥५१॥द्वितीयं तद्वनं दृष्ट्वा कृतकृत्यो हि जायते ।वनं कुन्दवनं नाम तृतीयं चैत्रमुत्तमम् ॥५२॥भाद्रकृष्णैकादशिकातिथौ स्नातः प्रमुच्यते ।चतुर्थं काम्यकवनं मम धामप्रदं शुभम् ॥५३॥विमलस्य च कुण्डे वै स्नातः पापात्प्रमुच्यते ।यस्तत्र मुंचति प्राणान् मम लोकं स गच्छति ॥५४॥पञ्चमं बकुलवनं मम विहारभूस्थलम् ।तत्र गत्वा तथा स्नात्वा वह्निलोकं प्रगच्छति ॥५५॥यमुनायाः परे पारे षष्ठं भद्रवनं मम ।तत्र गत्वा तथा स्नात्वा नागलोकं प्रगच्छति ॥५६॥सप्तमं मे वनं तत्र खादिरं यज्ञसदृशम् ।पवित्रं तु नरो दृष्ट्वा मम लोकगतो भवेत् ॥५७॥महावनं चाष्टमं मे सर्ववृक्षसमन्वितम् ।यत्र गत्वा तु मनुज इन्द्रलोके महीयते ॥५८॥नवमं तु वनं लोहजंघवनं वनोत्तमम् ।तत्र यातुर्जनस्यैतन्महापातकनाशकम् ॥५९॥वनं बिल्ववनं नाम दशमं देवपूजितम् ।तत्र गत्वा तु मनुजो ब्रह्मलोके महीयते ॥६०॥एकादशं तु भाण्डीरं योगदं योगिनां हि तत् ।यत्र वै वर्तते वृक्षो भाण्डीरवटसंज्ञकः ॥६१॥यत्र वै राधया साकं विवाहो मे प्रजायते ।तस्य दर्शनमात्रेण जनो गर्भं न गच्छति ॥६२॥राधाकृष्णं तत्र दृष्ट्वा पुनर्जन्म न विद्यते ।तुलसीवनमेवात्र वनं द्वादशकं प्रिये ॥६३॥कृष्णत्वङ्मयवृक्षाणां मोक्षदं मे विवाहभूः ।वृन्दावनं हरितानां वृक्षाणां वनमेव मे ॥६४॥तत्र गत्वा चावलुण्ठ्य पत्रं त्वत्त्वा दलं तथा ।दृष्ट्वा वृन्दं तुलसीं च स्मृत्वा मां यमुनाजले ॥६५॥स्नात्वा च मुक्तिमापनो गोलोके मे महीयते ।वृन्दां तुलसीं गोविन्दं ये पश्यन्ति जनाः प्रिये ॥६६॥न ते यमपुरं यान्ति यान्ति गोलोकमेव मे ।स्वर्गं सकामा गच्छन्ति ततो वै मे पदं परम् ॥६७॥एतादृशं महत् तीर्थं मथुरामभिगम्य तौ ।मुदमवापतुस्तीर्थविधिं चक्रतुरादरात् ॥६८॥पीवरी भोजनं कृत्वा कारयित्वा पतिं ततः ।पप्रच्छ स्वाप्नवृत्तान्तं यद्गुह्यं पूर्वभाषितम् ॥६९॥यदुक्तं नृपराजेन वक्ष्यामि मथुरां प्रति ।तन्मे वद महाराज! यद्गोप्यं पूर्वभाषितम् ॥७०॥राजाऽप्याह स्वकां पत्नीं यथाप्राग्भवजां कथाम् ।शृणु पत्नि! निषादोऽहं नैमिषारण्यवासकृत् ॥७१॥अत्रागत्य मृतः संयमने तीर्थे जलान्तरे ।तेन पुण्येन सौराष्ट्रे राजा जातः प्रतापवान् ॥७२॥पन्नीव्रताख्यकृष्णस्य प्रतापेनाऽऽमरुक्षितेः ।साम्राज्यं लब्धमेवापि त्वं लब्धा काशीराजतः ॥७३॥जातिस्मरः सदा तीर्थं स्मरामि शयने तव ।कदाचिन्निद्रया व्याप्तः प्रवदामि तु तत् खलु ॥७४॥हाहा अहोहो गच्छावः किमत्र जीवनेन वै ।इत्येतन्मे प्राग्भवीयं वृत्तं कथितमंगने! ॥७५॥श्रुत्वा सापि स्वकं प्राह वृत्तं जातिस्मरा नृपी ।अहं तु पीवरी नाम गंगातीरनिवासिनी ॥७६॥आगतेमां पुरीं द्रष्टुं कार्तिकद्वादशीतिथौ ।नावमारुह्य यान्तीह पतिता यमुनाजले ॥७७॥सद्यः प्राणैर्वियुक्ता च काशीराजसुताऽभवम् ।त्वया विवाहिता राजन्न च मां साऽजहात् स्मृतिः ॥७८॥एतत्तीर्थप्रभावेण राजपत्नी तवाऽभवम् ।धारापतनके तीर्थे मम मृत्युरजायत ॥७९॥पुनर्दृष्टं मोक्षतीर्थं मथुरायां प्रपुण्यतः ।आवयोरायुषोरन्तः समायातोऽस्ति भूपते ॥८०॥अद्यैव बहुदानानि देयानि स्वकरेण मे ।इत्युक्त्वा यमुनातीर्थे स्नात्वा दानानि सा ददौ ॥८१॥राजापि कृतवान् पुण्यं दानं विप्रादिभोजनम् ।गोदानं स्वर्णदानं च तिलदानं धनार्पणम् ॥८२॥भूदानं विप्रकन्यानां दानान्यपि च वै मुदा ।यज्ञोपवीतदानानि वस्त्रान्नदानमित्यपि ॥८३॥सर्वं कृत्वा ततो राजा राज्ञी चोभौ सह स्थितौ ।यमुनायास्तटे वै चायाता गोलोकपार्षदाः ॥८४॥विमानेन सहितास्ते पीवरीं यक्ष्मराजकम् ।चतुर्भुजौ दिव्यदेहौ कृत्वा निन्युर्हरेः पदम् ॥८५॥एवं तौ मथुरां प्राप्य स्नात्वा यामुनतीर्थके ।मां पश्यातौ नियमतस्तत्रैव निधनं गतौ ॥८६॥सर्वभावं विहायैव गतौ मम सलोकताम् ।एतत्ते कथितं लक्ष्मि! यदाश्चर्यमभून्महत् ॥८७॥त्यक्त्वा तनुं जनस्तीर्थे धारापातनसंज्ञके ।नाकलोकं च गोलोकमवाप्नोति न सशयः ॥८८॥यमुनेश्वरमासाद्य त्यक्त्वा जीवितमात्मनः ।विष्णुलोकमवाप्नोति दिव्यमूर्तिश्चतुर्भुजः ॥८९॥इति लक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुराक्षेत्रमाहात्म्ये शिवकुण्डतीर्थं संयमनतीर्थं मृतस्य निषादस्य सौराष्ट्रराज्यप्राप्तिः, काशीराजपुत्र्या विवाहः, तयोर्जातिस्मरयोर्मथुरायां मरणं, यमुनेश्वरमाहात्म्यमित्यादिनिरूपणनामा चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४४॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP