संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १५४ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १५४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५४ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! मणिव्राते रैवते दिव्यतैजसे ।मन्दराद्रिः समायातः स्वर्णपाषाणमिश्रणः ॥१॥दिव्ये तेजोमये तत्राऽन्तर्गत्वा स्थूलभावतः ।मिलित्वा संस्थितस्तेन मणेस्तेजो न दृश्यते ॥२॥कुमुदाद्रिस्तथा तत्राऽऽयातो रैवतके गिरौ ।सोऽप्यन्तर्भूय स्थौल्येन वर्तते रैवताचले ॥३॥शृणु दिव्यां कथां तां वै पूर्वकृतयुगोद्भवाम् ।पुरा कृतयुगे सर्वे सपक्षाः पर्वताः कृताः ॥४॥उड्डयन्तो महाकाया निपतन्ति यदृच्छया ।मेरुमन्दरकैलासा ब्रह्मणा वारिताः स्थिराः ॥ ॥९॥अन्ये तु वारिताश्चापि स्थायिनो न यदाऽभवन् ।तदेन्द्रेण स्ववज्रेण पक्षास्तेषां निकृन्तिताः ॥६॥मेरोर्दक्षिणशृंगे तु कुमुदो नाम पर्वतः ।दिव्यं सपक्षः सौवर्णो दिव्योद्यानसमृद्धिमान् ॥७॥सर्वा वैकुण्ठसदृशी स्थली स्मृद्धा सुशोभना ।तत्रोपरि पुरी दिव्या वैष्णवी विष्णुना कृता ॥८॥तन्मध्ये च महान् विष्णो प्रासादो रमया युतः ।मेरोः शृंगे मन्दराख्ये पुरी शिवस्य शोभना ॥९॥सौवर्णा च सभा तत्र भवानी मोदते सदा ।ब्रह्मणश्चापि नगरी प्रासादश्च सुपौरटः ॥१०॥रत्नहीरकमण्याढ्यः शृंगे तस्याऽरुणाचले ।वर्तते यत्र ते देवास्त्रयः कुर्वति मन्त्रणाम् ॥११॥कुमुदे वैष्णवे स्थाने सौवर्णा वल्लयोऽभवन् ।पुष्पाण्यपि पिशंगानि सौवर्णानि च सौरभः ॥१२॥सुगन्धो दीयते नित्यं पुर्यां पौष्पः सुवायुना ।वृक्षाश्चापि सुगन्धाढ्यपत्रमञ्जरिकान्विताः ॥१३॥सुगन्धं वाहयन्त्येव प्रतिसौधं च वायवः ।एकदा भगवान् रुद्रः कुमुदे तु समागतः ॥१४॥गृहागतं हरं दृष्ट्वा विष्णुना परिपूजितः ।लक्ष्म्या च पूजिता गौरी हर्षिता सत्कृता ह्यति ॥१५॥एकासनोपविष्टौ तौ मन्त्रयन्तौ परस्परम् ।तावद्वै कुमुदस्तत्र मन्दरश्चापि पर्वतः ॥१६॥नररूपं सुधृत्वा वै सेवायां समुपागतौ ।शंभुः प्राह हरिं तत्र बलिस्तु बलवान् यतः ॥१७॥त्वया नेयस्तु सुतलं पृथ्वीतः सर्वथा हरे! ।वामनं रूपमास्थाय गिरौ तु रैवताचले ॥१८॥मयापि तत्र गन्तव्यं गिरौ वै रैवताचले ।बलेः सुतले वासं च कारयित्वा तु छद्मना ॥१९॥पुनश्चात्राऽऽगमिष्यामः कृतकार्यौ दिवौकसाम् ।संप्राह माधवस्तम् ओम् तावत्तौ पर्वतौ मुदा ॥२०॥कुमुदमन्दरौ हरिहरौ प्रार्थयतः पुरः ।आवां सह गमिष्यावस्तत्र यत्र हरिर्हरः ॥२१॥तथाऽस्त्विति वरं प्राप्य भूभृतौ तौ तिरोगतौ ।हरिहरौ सपत्नीकौ जग्मतुर्वेधसं प्रति ॥२२॥अरुणाचलशिखरे पुरी यत्र प्रजापतेः ।बलेः सुतलवासार्थं कृत्वा वै मन्त्रणां ततः ॥२३॥तौ प्रत्याजग्मतुः स्वस्वपुर्यां स्वस्वगिरौ पुनः ।प्राप्ते तु समये विष्णुर्वामनः संबभूव ह ॥२४॥जगाम च बलेर्यज्ञे शंकरोऽपि जगाम च ।सौराष्ट्रे रैवते देशे तदा कुमुदमन्दरौ ॥२५॥आययतुः सपक्षौ तावुड्डयित्वाऽन्तरीक्षगौ ।तावन्यान् बहुनक्षत्रगणानाकृष्य वेगतः ॥२६॥आजग्मतुः स्वर्णरेखानदीस्थे रैवताचले ।तदा तयोस्तदन्यायं ज्ञात्वा देवेश्वरः स्वयम् ॥२७॥गृहीत्वा च स्वकं वज्रं पक्षनाशनहेतवे ।विमानवरमारुह्य जगाम यत्र तौ गिरी ॥२८॥यावद् वज्रं प्रहिणोति तावत् तौ पर्वतौ मुहुः ।प्राञ्जली प्राहतुर्देवौ रक्षणाय हराऽच्युतौ ॥२९॥द्रागेवेन्द्रः स्तम्भितश्च सवज्रहस्तकस्तदा ।मा हन्तव्याविमावद्री प्राहतुस्तं हराच्युतौ ॥३०॥इन्द्रस्तौ प्रार्थयामास स्तंभनस्य विमुक्तये ।वरयामास कुमुदमन्दरोड्डयनक्षयम् ॥३१॥तथाऽस्त्विति वरं दत्वा महेन्द्रस्तंभनं तदा ।निवार्य च कुमुदाद्रिं मन्दराद्रिं तु रैवते ॥३२॥तैजसेऽद्रौ हरिहरौ स्थापयामासतुः सदा ।अम्बाया मन्दरः सोऽयं कुमुदस्तु समन्ततः ॥३३॥कमलाकारतां प्राप्तो द्वादशपत्रभेदतः ।ताविमौ पर्वतौ शैलौ दृश्येते तैजसे मणौ ॥३४॥रैवते तैजसे तत्त्वे पार्थिवौ तौ निषेदतुः ।तत्र दामोदरो विष्णुर्भवः शंभुर्निषेदतुः ॥३५॥ब्रह्माऽरुणाचलं नीत्वा समाजगाम तत्र वै ।मन्दरात् पूर्वदिग्भागेऽस्थापयत् सोऽरुणाचलम् ॥३६॥तत्र ब्रह्मा स्वकं वासं कृत्वोवास कमण्डलुम् ।यत्र वै मन्दरे कुण्डे बभार स जलाशयः ॥३७॥जातः कमण्डलुकुण्डस्तीर्थमक्षयपुण्यदम् ।अरुणाद्रौ प्रथमे तु शृंगे ब्रह्मा ह्युवास यत् ॥३८॥स्थल तद् ब्रह्मकुट्याख्यं जातं तीर्थं तु मोक्षदम् ।अरुणाद्रौ द्वितीये च दत्तात्रेयो महान् प्रभुः ॥३९॥दारुणं वै तपस्तेपे तीर्थं मोक्षकरं च तत् ।एवं वेधोहरिहरास्तिष्ठन्ति रेवताश्रिते ॥४०॥मन्दरे कुमुदे चैवाऽरुणाद्रौ प्रक्षिणि प्रिये ।प्राप्ते लये गमिष्यन्ति मेरौ तै पर्वतास्त्रयः ॥४१॥सपक्षा वै गमिष्यन्ति तावत् स्थास्यन्ति तत्र वै ।तेषु त्रिषु त्रयो देवास्त्रयस्त्रिंशच्च कोटयः ॥४२॥देवा वसन्ति तत्रापि रहस्यं कथितं प्रिये ।रैवतस्य प्रक्रमणो कृतं मेरुप्रदक्षिणम् ॥४३॥रैवतस्य पूजने च कृतं मेरोः प्रपूजनम् ।रैवतस्य दर्शने तु कृतं मेरोश्च दर्शनम् ॥४४॥त्रिंशत्क्रोशं रैवताद्रिं ये प्रयान्ति प्रदक्षिणम् ।कृतं मेरोश्च पृथ्व्याश्च प्रदक्षिणं तु तैरिह ॥४५॥मन्दरारुणयोर्यैस्तु कृतं प्रदक्षिणं तु तैः ।प्रदक्षिणं कृतं सत्यकैलासाभिधलोकयोः ॥४६॥कुमुदस्य द्वादशपर्वतानां तु प्रदक्षिणम् ।येन कृतं कृतं तेन वैकुण्ठस्य प्रदक्षिणम् ॥४७॥यदा देवास्त्रयश्चाऽत्र निवासाय समागताः ।नरनरायणौ तत्र बोरियाख्ये वने गतौ ॥४८॥ब्रह्मकमण्डलुकुण्डाद् गंगा गुप्ता तु जाम्बवी ।पतत्यधो बोरियाख्ये भूगते बद्रिकाश्रमे ॥४९॥नरनारायणौ सर्वर्षिभिर्युक्तौ तु तापसौ ।जनाऽदृश्यौ हि वर्तेते दृश्येते पुण्यशालिभिः ॥५०॥दक्षिणे मन्दराद्गंगामूले तौ वसतः सदा ।उत्तरे मन्दरात् तत्र भवन्त्याम्रवनानि वै ॥५१॥वैकुण्ठात्परमाद् वार्यावरणस्थात् समागतः ।लक्ष्मीनारायणः सीतापतिश्चाम्रवनैः सह ॥५२॥आत्मा मुक्ताः शाश्वता वै सर्वदा फलशालिनः ।सुघटापत्रशाखाभिः साकेतानां निकेतनम् ॥५३॥सुघट्टं च वनं तत्र सीतावनमितीरितम् ।लक्ष्मणस्य वनं राम वनं कीशवनं तथा ॥१४॥सीतापटी वनक्ष्मा च दिव्या धामसमास्ति सा ।यत्र सूर्यो न वै भाति न भाति शशितारकम् ॥५५॥विद्युतो यत्र नो भान्ति ह्यग्निर्भाति कुतस्तदा ।तादृशं तन्महादिव्यजलप्रस्रवणान्वितम् ॥५६॥स्वर्णरूप्यगैरिकादिधातुभूखनिकाऽन्वितम् ।सर्वर्तुसुखदं दिव्यं विशालं वनमस्ति यत् ॥५७॥शाश्वते तत्र साकेते वने प्रस्रवणात्मिका ।सरयूर्भिन्नसलिलनिर्झरणैर्वहत्यपि ॥५८॥हनुमान् वर्तते तत्र वने रक्षणकारणात् ।तीर्थमेतत् महत् प्रोक्तं भुक्तिमुक्तिप्रदं परम् ॥५९॥पूर्वे च रैवते भागेऽरुणाऽचलसमीपतः ।इन्द्रद्युम्नसरस्तत्र समागत्य प्रतिष्ठति ॥६०॥ब्रह्मविष्णुमहेशांश्च नरनारायणं तथा ।लक्ष्मीनारायणं सीतारामं श्रुत्वा समागतान् ॥६१॥पुरुषोत्तमपुर्यास्तु जगन्नाथः स्वयं प्रभुः ।नीलाख्यं पर्वतं नीत्वा वटवृक्षं तथाऽब्धिजम् ॥६२॥समागतोऽत्र वासाय न्यूषुस्ते प्राग्दिशि ध्रुवम् ।टीम्बुरुफलजातानि जाम्ब्वामलककर्मदाः ॥५३॥आम्राश्च रावणाश्चैव बदर्यश्चामृतानि च ।सीताफलानि बहुशः सन्ति यत्र वनानि वै ॥६४॥दुग्धसमं जलं यत्राऽमृतस्वादुफलानि च ।सुखं स्वर्गसमं यत्र प्राग्भागेरैवताचले ॥६५६॥कृष्णा च मृत्तिका यत्र स्वर्णरससुमिश्रिता ।विभिन्ना धातवः सन्ति विंशतिक्रोशभूमयः ॥६६॥ततः पूर्वे शुभं क्षेत्रमश्वपट्टसरोवरम् ।चिञ्चांऽगूदीवनं रम्यं शुभा कुंकुमवापिका ॥६७॥शत्रूञ्जितानदी सौम्या कंभराक्षेत्रमुच्यते ।लक्ष्मीनारायणश्च कंभरागोपालसंज्ञया ॥६८॥पूज्यते वन्द्यते देवैर्भूसुरैर्मानवैस्तथा ।पत्नीव्रतस्य विप्रस्य वंशस्तत्रापि तिष्ठति ॥६९॥कुंकुमवापिकायाश्चोत्तरे क्रोशद्वयात् परम् ।क्षेत्रं पुण्यमरण्यादियुतं रम्यं च विद्यते ॥७०॥लंकाचतुष्टकीक्षेत्रं यत्र गुप्ता सरस्वती ।प्रकाशा वर्तते चापि सुदिव्यसलिलान्विता ॥७१॥हिमाचलाद् यदा देवी सरस्वती महानदी ।वाडवाऽग्निं समादाय याता पश्चिमवारिधिम् ॥७२॥तदाऽर्बुदाचलात् सिद्धक्षेत्रं श्रीनगरं तथा ।गत्वा विराटनगरं सारंगं दुर्गमेत्य च ॥७३॥उन्मत्तगंगां भोगां च भद्रां सम्प्राप्य वै ततः ।लंकाचतुष्टकीक्षेत्रं प्राप्त्वा जयन्तमागता ॥७४॥भद्रेश्वरनृसिंहाख्यघट्टं गत्वा तदुत्तरम् ।स्कन्दपुरं तथा कालीवटं च नगरं गता ॥७९॥आज्यां प्रकाशमासाद्य सुवर्षाद्वारिकां गता ।ततो दक्षिणदिग्भागे बराटाख्ये तु पर्वते ॥७६॥बिल्वेशं हर्षदां प्राप्य नवनीताद्रिमागता ।वामनस्थलमासाद्य वस्त्रापथमुमागता ॥७७॥रैवताद्रिं परिवीय पर्वतं च कृतस्मरम् ।प्रज्वाल्य बलिखातं च गत्वा प्राचीस्थपिप्पलम् ॥७८॥एकतर्षिस्थलं प्राप्य सोमनाथं समागता ।व्याघ्रारण्ये शुभं गुप्तप्रयागं प्राप्य सा ततः ॥७९॥सिंहारण्ये दिव्यभूमौ गत्वाऽरोऽब्धौ विवेश सा ।वाडवाऽग्निं समुत्सृज्य पुनः सा रैवताचले ॥८०॥सर्वदा संस्थिता देवी प्रतिस्थानं सरस्वतीं ।कुण्डे कुण्डे स्थिता देवी जनकल्याणहेतवे ॥८१॥हनुमन्नामविख्याताः कपयो रैवताचले ।सीतामढी च हनुमन्मढी सन्तमढी तथा ॥८२॥व्याघ्रेश्वरी महादेवी माहिषाख्ये गिरौ स्थिता ।श्रीरामपादुकातीर्थं बिल्वेशं हाटकेश्वरम् ॥८३॥एवमन्यानि तीर्थानि सन्ति लक्ष्मि! तु रैवते ।तारकाणि प्राणिनां वै भुक्तिमुक्तिप्रदानि च ॥८४॥यथाकथञ्चिक्छ्रद्धाद्यैः स्वार्थेनापि प्रहेलया ।कृतानि येन तीर्थानि दृष्टपीतानि वा तथा ॥८५॥स्नातानि तज्जलधूलीकर्दमानि धृतानि वा ।तेषां पापविनाशेन भुक्तिर्मुक्तिर्भवेद्ध्रुवम् ॥८६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमं कृतयुगसन्ताने तैजसरैवताचले कुमुदमन्दराऽरुणनीलादिपर्वतानांबद्रिकानरनारायणलक्ष्मीनारायणसीतारामजगन्नाथसरस्वतींप्रभतितीर्थानामागमननिरूपणनामा चतुःपंचाशदधिकशततमोऽध्यायः ॥१५४॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP