संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४४२ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४४२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४४२ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! पतिकृष्णव्रतं मोक्षप्रदायकम् ।पावनं कृष्णभक्तं तु सुयज्ञं वैष्णवं परम् ॥१॥ब्रह्मणस्तु सुतः स्वायंभुवो मनुर्बभूव ह ।उत्तानपादस्तत्पुत्रस्तत्पुत्रो ध्रुवनामकः ॥२॥ध्रुवपुत्र उत्कलोऽभून्नारायणपरायणः ।सहस्रं राजसूयानां पुष्करे स चकार ह ॥३॥तस्य नाम स्वयं ब्रह्मा सुयज्ञं प्रचकार ह ।स चान्नदाता रत्नानां दाता च सर्वसम्पदाम् ॥४॥दशलक्षं गवां चापि रत्नशृंगपरिच्छदम् ।गवां द्वादशलक्षणां ददौ नित्यं मुदान्वितः ॥५॥षट्कोटीर्ब्राह्मणानां च भोजयामास नित्यशः ।चोष्यैश्चर्व्यैर्लेह्यपेयैरतितृप्तं दिने दिने ॥६॥विप्रलक्षं सूपकारं भोजयामास तत्परम् ।दिने सुयज्ञयज्ञान्ते षट्त्रिंशल्लक्षकोटयः ॥७॥चक्रुः सुभोजनं विप्राश्चातितृप्ताश्च सुन्दरि ।गृहीतानि तु रत्नानि स्वगृहं वोढुमक्षमाः ॥८॥येभ्यः केभ्यो ददुश्चापि बहुशः पथि तत्यजुः ।विप्रान्येभ्योऽपि सर्वेभ्यो भोजनानि ददुश्च ते ॥९॥तथाप्युर्वरितं तत्र त्वन्नराशिसहस्रकम् ।एवं यज्ञं शुभं कृत्वा सुयज्ञो राजसंसदि ॥१०॥समुवास महारत्नक्लृप्ते सिंहासने शुभे ।पट्टवस्त्रैः शोभिते सुचन्दनादिसुगन्धिते ॥११॥शाखायुक्तैः पूर्णकुंभैः रमावृक्षैः सुशोभिते ।चन्दनाऽगुरुकस्तुरीघनसिन्दूरसंस्कृते ॥१२॥वसुवासवचन्द्रेन्द्ररुद्रादित्यसमन्विते ।मुनिनारदमन्वादिब्रह्मविष्णुहरान्विते ॥१३॥एतस्मिन्नन्तरे तत्र विप्र एकः समाययौ ।रूक्षो मलिनवासाश्च चक्रे नृपं शुभाशिषः ॥१४॥राजा तं प्रणनामाऽपि नोत्तस्थौ स्ववरासनात् ।सभासदोऽपि नोत्तस्थुर्मनाग् जहसुस्तं प्रति ॥१५'॥तेन क्रुद्धो द्विजस्तत्र शशाप नृपतिं यथा ।राज्यभ्रष्टो गलत्कुष्ठी बुद्धिहीनो भवाऽधुना ॥१६॥तावत्सभासदो नेमुरुत्तस्थुस्तेन भूसुरः ।तत्याज रोषं राजाऽपि पादयोः पतितस्ततः ॥१७॥ऋषयस्तत्र तं विप्रं ददुः श्रेष्ठं शुभासनम् ।पुलहश्च पुलस्त्यश्च प्रचेता भृगुरङ्गिराः ॥१८॥मरीचिः कश्यपश्चापि वशिष्ठः क्रतुरित्यपि ।शुक्रो बृहस्पतिश्चापि दुर्वासा लोमशस्तथा ॥१९॥गौतमश्च कणादश्च कण्वः कात्यायनः कठः ।पाणिनिर्जाजलिश्चापि ऋष्यशृंगो विभाण्डकः ॥२०॥तैत्तिरिश्चाप्यापिशलिर्मार्कण्डेयो महातपाः ।सनकश्च सनन्दश्च वोढुः पैलः सनातनः ॥२१॥सनत्कुमारो नरो नारायणश्च पराशरः ।पत्नीव्रतो जरत्कारुः संवर्त्तः करभस्तथा ॥२२॥भरद्वाजश्च वाल्मीकिरौर्वश्च च्यवनस्तथा ।अगस्त्योऽत्रिरुतथ्यश्च संकर्ताऽऽस्तीक आसुरिः ॥२३॥शिलालिर्लांगलिश्चापि शाकल्यः शाकटायनः ।गर्गो वत्सः पञ्चशिखो जमदग्निश्च देवलः ॥२४॥जैगिषव्यो वामदेवो वालखिल्याश्च लक्षशः ।शक्तिर्दक्षः कर्दमश्च प्रस्कन्नः कपिलस्तथा ॥२५॥विश्वामित्रश्च कौत्सश्चाप्यृचीकोऽप्यघमर्षणः ।स्वयंप्रकाशो ब्रह्मिष्ठः शतानन्दश्च सुव्रतः ॥२६॥एते त्वन्ये च मुनयः पितरोऽग्निहविःप्रियाः ।दिक्पाला देवताः सर्वाः समूचुर्ब्राह्मणं क्रमात् ॥२७॥तव शापेन विप्रेन्द्र राज्ञो लक्ष्म्या लयो भवेत् ।ब्राह्मणानां तु हृदयं कोमलं तपसा सदा ॥२८॥क्षमस्वाऽऽशिषमाधत्स्व तद्गृहं पावनं कुरु ।अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥२९॥पितरस्तस्य देवाश्च वह्निः प्रयान्त्यतोषिताः ।पश्यन्ति ये वक्रदृष्ट्या त्वतिथिं गृहमागतम् ॥३०॥दत्वा स्वपापं तस्मै तत्पुण्यमादाय गच्छति ।राजा स्वगर्वदोषेण नोत्तस्थौ तत्क्षमां कुरु ॥३१॥राज्यश्रिया विद्यया वा ब्राह्मणं योऽवमन्यते ।श्रियाहीनो भवेत् सद्यो व्रतनैवेद्यवर्जितः ॥३२॥दीक्षा व्यर्था भवेत्तस्य धनपुत्रादिहीनता ।भार्याहीनो भवेच्चापि क्षमस्वाऽस्याऽपराधकम् ॥३३॥अतिथिं पितरौ देवं विद्वांसं ब्राह्मणं गुरुम् ।अवमन्येत यः सोऽत्र भक्तिभ्रष्टो भवेद्ध्रुवम् ॥३४॥अतिथिं ब्राह्मणं दृष्ट्वा नाऽभ्युत्थानं करोति यः ।प्राप्नोति कौंजरीं योनिमरण्ये सप्तजन्मसु ॥३५॥शीघ्रं दयां विधायैव राज्ञे देह्याशिषः शुभाः ।गुरुं वा ब्राह्मणं वापि देवताप्रतिमामपि ॥३६॥दृष्ट्वा शीघ्रं न प्रणमेत् स भवेत् सुकरो भुवि ।क्षमस्व सर्वमस्माकं चातिथ्यग्रहणं कुरु ॥३७॥स्त्रीघ्नगोघ्नकृतघ्नानां गुरुस्त्रीगामिनां तथा ।ब्रह्मघ्नानां पापभाक् स्यादतिथेरवमानकृत् ॥३८॥इत्यार्षवाचः संश्रुत्वा राजा पप्रच्छ तान्मुनीन् ।स्त्रीघ्नादीनां तु किं पापं ब्रूत मां योगिनां वराः ॥३९॥वसिष्ठः प्राह राजेन्द्र शृणु गोवधजं हि तत् ।कामतो गोवधे राजन् वर्षं तीर्थं भ्रमेन्नरः ॥४०॥यवयावकभोजी च करेण तु जलं पिबेत् ।ततो धेनुशतं दिव्यं ब्राह्मणेभ्यः सदक्षिणम् ॥४१॥दत्वा मुञ्चति पापात्तु भोजयित्वा शतं द्विजान् ।प्रायश्चित्ते तु वै चीर्णे सर्वपापान्न मुच्यते ॥४२॥पापावशेषाद् भवति दुःखी चाण्डाल एव सः ।गोहत्याद्विगुणं पापं स्त्रीहत्यायां भवेद्ध्रुवम् ॥४३॥षष्टिवर्षसहस्राणि कालसूत्रे वसेद्धि सः ।ततो भवेत् सूकरश्च सर्पश्च सप्तजन्मसु ॥४४॥स्त्रीहत्याद्विगुणं पापं ब्रह्महत्याकृतो भवेत् ।लक्षवर्षं महाघोरे कुभीपाके वसेद्धि सः ॥४५॥विष्ठाकृमिः शताब्दं च सर्पश्च सप्तजन्मसु ।दोषः कृतघ्ने राजेन्द्र ब्रह्महत्याचतुर्गुणः ॥४६॥निष्कृतिर्नास्ति राजेन्द्र कृतघ्नानां विनिर्मिता ।कृतघ्नाः षोडशविधाः सन्ति राजेन्द्र निश्चिताः ॥४७॥कृते सत्ये च पुण्ये च स्वधर्मे तपसि स्थिते ।प्रतिज्ञायां च दाने च स्वगोष्ठीपरिपालने ॥४८॥गुरुकृत्ये देवकृत्ये काम्यकृत्ये द्विजार्चने ।नित्यकृत्ये च विश्वासे परमधर्मप्रदानयोः ॥४९॥एतान् यो हन्ति पापिष्ठः स कृतघ्न इति स्मृतः ।विविधानां कृतघ्नानां नरका विविधा अपि ॥५०॥कृत्वा शपथरूपं च सत्यं हन्ति न पालयेत् ।सः कृतघ्नः कालसूत्रे वसत्येव चतुर्युगम् ॥५१॥सप्तजन्मसु काकश्च सप्तजन्मसु पेचकः ।ततः शूद्रो महाव्याधिः सप्तजन्मस्वतः शुचिः ॥५२॥कृत्वा पुण्यं वदत्येव कीर्तिवर्धनहेतुना ।स कृतघ्नस्तप्तकुण्डे वसत्येव युगत्रयम् ॥५३॥पञ्चजन्मसु मण्डूकस्त्रिषु जन्मसु कर्कटः ।ततो मूको महारुग्णो दरिद्रोऽपि ततः शुचिः ॥५४॥कृत्वा स्वधर्मं यो हन्ति सन्ध्याधर्मविघातकः ।विष्णुपूजामन्त्रजापनैवेद्यव्रतनिन्दकः ॥५५॥देवव्रतादिहीनश्च पितृकृत्यादिवर्जितः ।कृतघ्नः स कुंभीपाके वसत्याकल्पमेव यत् ॥५६॥सप्तजन्मसु चाण्डालो गृध्नश्च शतजन्मसु ।सूकरः शतजन्मा च ततश्चाण्डालको भवेत् ॥५७॥पुनश्च रौरवं गत्वा गर्दभः पञ्चजन्मसु ।मार्जारो मण्डूकः पञ्चजन्मसु च ततः पुनः ॥५८॥वृषाणां वाहको विप्रो भूत्वा दुःखानि विन्दति ।भृत्यद्वारा स्वयं वापि यो विप्रो वृषवाहकः ॥५९॥स कृतघ्न इति बोध्यः पुण्यहा स यतो मतः ।ब्रह्महत्यासमं पापं तन्नित्यं वृषताडने ॥६०॥वृषपृष्ठे भारदानात्पापं तद्द्विगुणं भवेत् ।सूर्याऽऽतपे वाहयेद् यः क्षुधितं तृषितं वृषम् ॥६१॥ब्रह्महत्याशतं पापं लभते नाऽत्र संशयः ।लालाकुण्डे वसत्येव यावच्चन्द्रदिवाकरौ ॥६२॥विष्ठाभक्ष्यं मुत्रजलं तत्र तस्य भवेत् सदा ।त्रिसन्ध्यं ताडयेत्तं तु शूलेन यमकिंकरः ॥६३॥उल्कां ददाति मुखके सूच्या कृन्तति सन्ततम् ।षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥६४॥ततः काकः पञ्चजन्मस्वथैवं बक इत्यपि ।पञ्चजन्मसु गृध्रश्च शृगालः सप्तजन्मसु ॥६५॥ततो दरिद्रः शूद्रश्च महारुग्णः शुचिस्ततः ।सतीनार्या धर्मलोपी कृतघ्नः परिकीर्तितः ॥६६॥वृषलीशः पुंश्चलीशः कृतघ्नः स मतो द्विजः ।कृमिदंष्ट्रे वसेत् सोऽपि यावदिन्द्राश्चतुर्दश ॥६७॥प्रतिमां तां तप्तलौहीमाश्लेषयति नित्यशः ।ततः शूद्रो भवेद् दुःखी तथा वर्षसहस्रकम् ॥६८॥कृत्वा तपांसि पुण्यानां हन्ता कृतघ्न उच्यते ।अन्याचरिततपसां हन्ता कृतघ्न उच्यते ॥६९॥व्रतघ्नस्य कृतघ्नस्य कुंभीपाकोऽयुताब्दिकः ।कृत्वा प्रतिज्ञां कार्यस्य दत्वा विश्वासमुत्तमम् ॥७०॥करोति स्वप्रतिज्ञाया भंगं कृतघ्न एव सः ।लोहतप्ते तु तं कुण्डे प्रज्वालयति कल्पकम् ॥७१॥दानं बहुविधं यत्तद् यो नाशयति शाठ्यतः ।वाग्दानं वस्तुदानं च कन्याज्ञानप्रदानकम् ॥७२॥हन्ति यः स वसेत् कालसूत्रेऽयुतयुगा ध्रुवम् ।कृत्वा दत्वा स्ववचनं गोष्ठीं वा हन्ति यो जनः ॥७३॥कार्यहा गोष्ठीघ्न एव पाशकुण्डेऽयुताब्दिकः ।गुरुकार्यविहन्ता वै गुरुताडयिता च यः ॥७४॥गुरुघ्नः स कृतघ्नो वै वह्निकुण्डेऽयुताब्दिकः ।देवकृत्ये देववृत्तिहरः कृतघ्न उच्यते ॥७५॥स्वदत्तां परदत्तां वा देवादिवृत्तिहारकः ।रोमवर्षसहस्रं स शूलप्रोते प्रतिष्ठति ॥७६॥तप्तांगारं च तद्भक्ष्यं पानं वै तप्तमूत्रकम् ।तप्तांगारेषु शयनं ताडितो यमकिंकरैः ॥७७॥ततो विष्टाकृमिर्भूत्वा वर्षषष्टिसहस्रकम् ।ततो दरिद्रः कृपणो भूमिप्रजाविहीनकः ॥७८॥रुग्णो निन्द्यो भवेच्छूद्रः कालान्तरे ततः शुचिः ।काम्यकृत्यविनेष्टा च स्वपरस्वर्विनाशकः ॥७९॥हन्ति यः परकीर्तिं च स्वकीर्तिं च नराधमः ।स कृतघ्नः काम्यकेष्टापूर्तादिनाशकः स च ॥८०॥अन्धकूपे महाघोरे वसेदाकल्पमेव हि ।नकुलगृध्रकीटाद्यैर्भक्षितस्तप्तक्षारपः ॥८१॥सप्तजन्मस्वतः सर्पः काकः पञ्चस्वतः शुचिः ।द्विजार्चनस्य यो हन्ता कृतघ्नः स महान्मतः ॥८२॥ब्रह्मस्वं वा गुरुस्वं वा देवस्वं वाऽपि यो हरेत् ।अवटोदे वसेत्सोऽपि कृतघ्नः कल्पमेव यत् ॥८३॥ततो भवेत् सुरापश्च ततः शूद्रस्ततः शुचिः ।नित्यकृत्यस्य यो हन्ता स कृतघ्नो महत्तरः ॥८४॥पितृमातृगुरूंश्चापि भक्तिहीनो न पालयेत् ।न नमेच्च सदा प्रातर्वाचापि ताडयेन्मुहुः ॥८५॥तथा स्वस्वामिनं वाचा ताडयेत् कुलटा तु या ।पूज्यपूजाविलोप्तारः कृतघ्नास्ते प्रकीर्तिताः ॥८६॥वह्निकुण्डे वसन्त्येव यावच्चन्द्रदिवाकरौ ।ततो भवेज्जलौकाश्च सप्तजन्मस्वतः शुचिः ॥८७॥विश्वस्य घातनं कुर्यात् कृतघ्नः स महत्तमः ।मिथ्यासाक्ष्यं यो ददाति कामात् क्रोधाद् भयात्तथा ॥८८॥सभायां पाक्षिकं वक्ति पुण्यहन्ता कृतघ्नकः ।सर्वत्रापि च सर्वेषां कृतस्य सुकृतस्य वै ॥८९॥भोगकृतं च हन्तृत्वं कृतघ्नता प्रकीर्तिता ।पुण्यहाः कृतहाः प्रोक्तः पुण्यं तु नश्वरं सदा ॥९०॥तस्मात् कृष्णप्रसादाख्ये शाश्वते न कृतघ्नता ।शाश्वतं पुण्यार्थ्यं वै नश्वरं नार्थ्यमेव तु ॥९१॥मिथ्यासाक्षी पाक्षिकादिर्विश्वासहाश्च पुण्यहाः ।यावदिन्द्रसहस्रं स सर्पकुण्डे वसेद् ध्रुवम् ॥९२॥सर्पैस्तु भक्षितो भुंक्ते तद्विण्मूत्रं हि ताडितः ।मण्डूकः कृकलासश्च सप्तजन्मसु जायते ॥९३॥ततोऽरण्ये शाल्मलिद्रुर्मूकशूद्रस्ततः शुचिः ।परदारगमनादि परधर्मावमेलनम् ॥९४॥परधर्माचरणं वै कृतघ्नत्वे तु गण्यते ।स्वयोग्यकर्मणां रोधः परार्हकर्मसंश्रयः ॥९५॥कृतघ्नता भवत्येव तद्वाँश्चाण्डालसदृशः ।कुंभीपाके वसेत्सोऽपि कल्पपर्यन्तमेव यत् ॥९६॥अगम्यागमकः पश्चाद् भवेन्नपुंसकस्ततः ।गलत्कुष्ठी सप्तजन्मा शूद्रः स्याच्च ततः शुचिः ॥९७॥लोहसूर्म्यां पतेच्चापि ततो भवेन्नपुंसकः ।चाण्डालस्तु ततो भूत्वा शूद्रो भूत्वा ततः शुचिः ॥९८॥प्रकृष्टदानं कन्यादिदानं स्वर्णादिकाऽर्पणम् ।कृत्वा तद्धन्ति दानं यः कृतघ्नः स प्रकीर्तितः ॥९९॥कृतकार्यस्य नाशश्च कृतं जानाति नैव च ।कृतघ्नः स षोडशधा कथितो भूप सर्वथा ॥१००॥अतिथेरवमानेन जायते तु कृतघ्नता ।तद्दोषस्य निवृत्त्यर्थमतिथिः पूज्यतां त्वया१०१॥गृहे नीत्वा पूज्यतां च तत्पादाब्जे प्रसेव्यताम् ।गृह्यतां तत्प्रसादश्च पज्जलं संनिपीयताम् ॥१०२॥अर्ज्यतां चातिथेराशीर्दोषः प्रमार्ज्यतां तथा ।ततो वनं गम्यतां च पुनः श्रीः प्राप्यतां शुभा ॥१०३॥स्मर्यतां श्रीकृष्णनारायणस्वामी श्रियाः पतिः ।दास्यति ते पुनर्भद्रां सम्पत्तिं मोक्षमच्युतः ॥१०४॥इत्युक्त्वा मुनयः सर्वे ययुः स्वस्थानमेव च ।सुयज्ञस्तं ननामादौ गृहं संप्राऽऽपयद् द्विजम् ॥१०५॥पप्रच्छ नामगोत्रादि प्रसाद्य पूजया मुहुः ।ऋषिः प्राह स्वकं नाम सुतपा इति विश्रुतम् ॥१०६॥तत्पिता विरूपनामा विश्वरूपश्च तत्पिता ।त्वष्टा तस्य पिता चापि तस्य पिता च कश्यपः ॥१०७॥तत्पिता च मरीचिस्तत्पिता तु विश्वसृट् स्वयम् ।ब्रह्मणः सप्तमश्चाहं पुरुषोऽस्मि भुवः पते! ॥१०८॥महादेवो मम गुरुर्विद्यादाता सुमन्त्रदः ।अभीष्टदेवः श्रीकृष्णनारायणः पतिः प्रभुः ॥१०९॥तच्चिन्तयामि पादाब्जं न मे वाञ्च्छाऽस्ति सम्पदि ।सालोक्यसार्ष्टिसारूप्यसामीप्यं राधिकापतेः ॥११०॥तेन दत्तं न गृह्णामि विना तत्पादसेवनम् ।श्रुत्वा सुयज्ञयज्ञे ते मुनीनामागमं नृप ॥१११॥लालसां विष्णुभक्तिं ते सम्प्रापयितुमागतः ।केवलानुगृहीतस्त्वं नहि शप्तो मयाऽधुना ॥११२॥समुद्धृतश्च पतितो घोरे निम्ने भवार्णवे ।न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ॥११३॥ते पुनन्त्युरुकालेन कृष्णभक्तास्तु दर्शनात् ।राजन्निर्गम्यतां गेहाद् देहि राज्यं सुताय तु ॥११४॥श्रीकृष्णं भज राधेशं तदन्यन्नश्वरं त्यज ।मच्छापेन महद्राज्यं परित्यज सदाऽनघ ॥११५॥गलच्छरीरं तपसा कौ क्षितौ स्थितिमत् कुरु ।राज्याऽऽडम्बरमायाढ्यबुद्ध्या संविरतो भव ॥११६॥राजा विप्राज्ञया शान्तिं जग्राह विरतिं तथा ।पप्रच्छ तीव्रसंवेगं गोलोकाऽऽप्तिप्रकारणम् ॥११७॥इति श्रीलक्ष्मीनारायगीयसंहितायांप्रथमे कृतयुगसन्ताने सुयज्ञराज्ञो राजसूयान्तेऽसत्कृतसुतपोविप्रकृतशापः, पुनस्तत्कृतकृष्णपतिव्रतोपदेशेऽतिथिमहिमा, षोडशविधकृतघ्नता, ऋषिकृतोपदेशश्चेत्यादिनिरूपणनामा द्विचत्वारिंशदधिकचतुश्शततमोऽध्यायः ॥४४२॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP