संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २९६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २९६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २९६ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! त्रयस्तेऽपि गत्वा गोलोकमित्यथ ।विशश्रमुः क्षणं पश्चात्।कृष्णो द्वाभ्यां प्रपूजितः ॥१॥पुरुषोत्तममहिमा गोलोके बहुधाऽभवत् ।कृष्णं नत्वा चाययतुरधोमास नरायणौ ॥२॥वैकुण्ठं चाथ तत्रापि मासो महत्त्वमाप्तवान् ।पुरुषोत्तममासं च वासयामास वै हरिः ॥३॥वासमासाद्य मासोऽपि रमते विष्णुना सह ।मासानामधिपो भूत्वा गौरवेण व्यवस्थितः ॥४॥अथात्र च महालक्ष्म्या गौरवेण प्रपूजितः ।द्रुतं नारायणेनापि प्रतिब्रह्माण्डमेव ह ॥५॥तृतीयायाश्चापराह्णे प्रेषयित्वा स्वपार्षदान् ।समुद्धोषितमेवाऽयं मलमासो महोत्तमः ॥६॥पुरुषोत्तमनामाऽसौ पुरुषोत्तमदैवतः ।पुरुषोत्तमनाथेन स्वर्गदो मोक्षदः कृतः ॥७॥स्वगुणाश्चार्पिता ह्यस्मै न न्यूनः पुरुषोत्तमात् ।पूजने वन्दने जापे दाने स्नाने व्रतेऽपि च ॥८॥पुरुषोत्तमतुल्योऽयं पुरुषोत्तमयोगदः ।नरो नारी सुरो देवी येऽपि स्थावरजंगमाः ॥९॥भावतोऽप्येककालेऽपि व्रतं चाथ प्रपूजनम् ।अधिमासस्य सर्वांगं करिष्यन्ति मदिच्छया ॥१०॥प्राप्स्यन्ति स्वेप्सितं सर्वं नारायणो ब्रवीम्यहम् ।किमु तर्हिं त्रिकाले च व्रते वक्तव्यमस्य हि ॥११॥मासव्रते तु नैवैव वक्तव्यं शिष्यते मम ।तस्मात्पूज्यश्चैककालं द्विकालं समयत्रयम् ॥१२॥यथेष्टं प्राप्स्यति नारी नरोऽपीष्टमवाप्स्यति ।क्षणं क्षणार्धं घटिकां सायं प्रातः प्रमध्यके ॥१३॥यथाशक्ति यथावस्तु पूज्योऽयं पुरुषोत्तमः ।नारायणो ब्रवीम्यत्र पुरुषोत्तमसाक्षिकः ॥१४॥श्रीकृष्णसाक्षिकश्चापि पुरुषोत्तमसंज्ञके ।मासेऽत्र मां क्षणमात्रं पूजयिष्यन्ति भावत ॥१५॥स्वर्गे सत्यं चैशलोकं प्राप्स्यन्ति स्वेष्टमित्यपि ।प्राप्स्यन्ति मां सुखवार्धि परंब्रह्म परात्परम् ॥१६॥नारायणेच्छया येऽत्र पूजयिष्यन्ति भावतः ।वैकुण्ठस्थं च ते मां वै प्राप्स्यन्त्येव नरायणम् ॥१७॥श्रीमत्कृष्णेच्छया येऽत्र पूजयिष्यन्ति भावतः ।गोलोकस्थं च ते मां वै प्राप्स्यन्त्येव हि माधवम् ॥१८॥पुरुषोत्तमकामेन पूजयिष्यन्ति ये जनाः ।ब्रह्मधामगतं प्राप्स्यन्त्येव मां पुरुषोत्तमम् ॥१९॥यद्यद्रूपं च मां येऽत्र पूजयिष्यन्ति देहिनः ।तत्तद्रूपं तत्र तत्र प्राप्स्यन्ति ते तु मां तथा ॥२०॥इति प्रश्रावितं लक्ष्मि! ब्रह्माण्डेषु पुनः पुनः ।महादुन्दुभिभिर्दूतैः पार्षदैर्दिव्यविग्रहैः ॥२१॥मलमासस्तृतीयायां निश्येव बहुकोटिभिः ।सत्कृतः पूजितः सम्यग्भोजितः श्रममाप वै ॥२२॥चतुर्थ्यां तु प्रगे सप्तद्वयलोकनिवासिभिः ।स्नानव्रतार्चनदानाद्यैरतीव प्रतोषितः ॥२३॥बहवः स्थावराश्चापि चेतना व्रतकारिणः ।समाजग्मुर्हरेर्धाम लक्षशः कोटिशस्तथा ॥२४॥चतुर्थ्यास्तु प्रगे कोटिदासीयुक्ता विमानगा ।रमादेवी समायाता वैकुण्ठं क्षैरसागरात् ॥२५॥वधूटीरूपतां प्राप्ता वरमालासमन्विता ।लक्ष्मीसमा तु सर्वांगे न वै न्यूना मनागपि ॥२६॥नारायणाऽऽज्ञया सा तु लक्ष्म्यादिभिः सुसत्कृता ।सभाजिता ततो नारायणेनांऽके निषादिता ॥२७॥लक्ष्म्यादयस्तदाश्चर्ये सम्प्रापुस्तद्विलोक्य वै ।कथं पत्नीस्वरूपेयं स्वामीनांऽगीकृता द्रुतम् ॥२८॥अथ लक्ष्म्या रमा पृष्टा तदितिवृत्तवित्तये ।कथं कस्मात् समायाता कथं नारायणः पतिः ॥२९॥कस्य पुत्री कथं प्राप्ता किं कृत्वैनं नरायणम् ।वद सुभ्रु स्वसः सर्वं परिवेद्यं सुखोत्तरम् ॥३०॥लक्ष्म्या नारायणेनापि भोजिता सत्कृता हि सा ।समारेभे प्रवक्तुं च स्वकं वृत्तं यथातथम् ॥३१॥वरमालां हरेः कण्ठे प्रसमर्प्याऽग्रतः स्थिता ।नारायणांऽगुष्ठवारि पीत्वा कृत्वा प्रदक्षिणम् ॥३६॥कुंकुमतण्डुलैः कृत्वा भाले शोभनचन्द्रकम् ।वरमालाऽर्धकं स्वस्याः कण्ठे कृत्वाऽथ पायसम् ॥३३॥भोजयित्वा हरिं दत्वा ताम्बूलं तत्प्रसादकम् ।गृहीत्वा च स्वयं नारायणांके कुसुमांजलिम् ॥३४॥साक्षतां च सलाजां च प्रसमर्प्याऽऽसने स्थिता ।पत्नी भूत्वा जगादेदं शृणु लक्ष्मि! रमोदितम् ॥३५॥शृण्वत्सु सर्वभक्तेषु भक्तासु प्राह यद् रमा ।मम पूज्ये महालक्ष्मि! तृतीयारात्रिसंचरे ॥३६॥दुन्दुभिः सुश्रुतः सर्वैर्नारायणस्य नामतः ।अधिमासे पूजकस्य पूरयिष्ये मनोरथान् ॥३७॥मयाऽपि कन्यया क्षीरोदधेर्गृहे स संश्रुतः ।वाञ्छितश्च पतिर्नारायणो लक्ष्मीपतिः प्रभुः ॥३८॥मलमासे तृतीयायां सायं वै भोजनं विना ।विना जलं व्रतं कृत्वा स्नात्वा चाऽपूजयं हरिम् ॥३६॥पृष्ट्वा मे जनकं क्षीरसागरं च तदाज्ञया ।मण्डपं कदलीस्तम्भैः शोभितं पत्रतोरणैः ॥४०॥कारयित्वा च तन्मध्ये दोलां रम्यां सुशोभनाम् ।लक्ष्मीनारायणमूर्तिं सौवर्णीं रत्नराजिताम् ॥४१॥संस्नाप्य सर्वसामुद्रैः रत्नैः प्रपूज्य भावतः ।दिव्यवस्त्रैर्विभूषाभिश्चालंकृत्य द्रवादिभिः ॥४२॥सम्पूज्य धूपदीपैश्च भोजनैर्जलपानकैः ।आरार्त्रिकस्तुतिप्रदक्षिणाभिरभिवन्द्य च ॥४३॥पुष्पांजलिं प्रदायैव संकल्प्य मनसा पुनः ।पतिर्मे भव विश्वात्मन् रमायास्त्वं नरायण! ॥४४॥इति संस्तूय चरणामृतं पीत्वा सुकोमले ।पर्यंके श्रीहरिः प्रेम्णा मया प्रस्वापितः सह ॥४५॥ध्यातो मया स निद्रायां सेवयामि हरिं ततः ।पादसंवाहनं तस्य करोमीति निभालितः ॥४६॥क्षणं स्वप्ने हरिर्दृष्टो मया स्वे शयने सह ।हसन्मां स्वकटाक्षेणाऽऽकर्षयन्निव भावतः ॥४७॥वदन् श्रुतो व्रतेन त्वां स्वीकरोमि प्रियां रमे! ।प्रातर्नेतुं मम लोकं त्वागमिष्ये पुनः प्रिये ॥४८॥इति द्रागेव संश्राव्य स्वयमदृश्यतां गतः ।सोऽयं नारायणः स्वामी लक्ष्मीपतिर्विराजते ॥४९॥मया नारायणे याते मुहूर्ते ब्राह्मसंज्ञके ।चतुर्थ्यामधिमासस्य ध्यात्वैनं पुरुषोत्तमम् ॥५०॥स्नात्वा शय्यागतं देवं स्नापयित्वाऽतिभावतः ।क्षीरादिभिस्तथा वार्भिश्चन्दनादि प्रमर्द्य च ॥५१॥श्रांगारिकाण्यर्पयित्वा विवाहवरवत् कृतः ।दत्तं पीताम्बरं चातिमूल्यं पीतांगरक्षकम् ॥५२॥प्रावारं स्वर्णताराढ्यं चोत्तरीयं तथोत्तमम् ।मस्तके स्वर्णमुकुटः सकल्गिः कुण्डले श्रुतौ ॥५३॥तिलकं चन्द्रको भाले कज्जलं नेत्रयोर्भ्रुवि ।चन्दनं गण्डयोर्बिन्दू चिबुके स्वल्पचन्द्रकः ॥५४॥पुष्पप्रावरणं भाले वरमाला च कण्ठके ।वक्षसि स्वर्णहाराश्च कंकणे करयोः शुभे ॥५५॥ऊर्मिकाश्चांगुलिग्रामे भुजबन्धौ भुजद्वये ।तुलसीपुष्पहाराश्च खङ्गो हस्ते सुवर्णजः ॥५६॥नारिकेलफलं चापि करे कट्यां च मेखला ।नुपूरे पादयोश्चापि पादुके कानकी शुभे ॥५७॥कामफलं प्रकोष्ठे वै भोजने पायसं शुभम् ।ताम्बूलकं जलपानं फलं द्राक्षा रसात्मिका ॥५८॥पूगीफलं ततो दानं दक्षिणा वरमालिका ।हवनानि शतं चाष्टौ घृतेन वह्निमण्डले ॥५९॥आरार्त्रिकं पञ्चवर्ति प्रदक्षिणचतुष्टयम् ।वरेण्यो वरदश्चासि वरो मे भव सद्वचाः ॥६०॥पुष्पांजलिस्तथाऽर्घ्यं च नमस्कारः क्षमार्थना ।विसर्जनं पादवारिपानं च शेषभक्षणम् ॥६१॥स्वप्नदृष्टस्य संध्यानं प्रतीक्षा च कदाऽऽगमः ।कृष्णनारायणनाम्ना भजनं चातिहर्षणम् ॥६२॥भोजनं बालिकाभ्यश्च दानं कन्याभ्य इत्यपि ।ध्यानं नारायणे देहः क्षीरसागरके गृहे ॥६३॥नेत्रे व्योम्नि परे मार्गे ह्यात्मा वैकुण्ठवासिनि ।इत्येवं परिवाराढ्येऽधिमासे पूजिते हरौ ॥६४॥नत्वा च जनकं कृत्वा पारणां पयसा मनाक् ।यावत् तिष्ठामि भवने तावन्नारायणो ह्ययम् ॥६५॥प्रादुर्भूतो ममाग्रेतिरूपानुरूपराजितः ।प्रसन्नश्चातितेजस्वी चाऽस्पृशन्मां करेण वै ॥६६॥स्वसमीपं समाकृष्य समागच्छेत्युवाच माम् ।मलमासे ह्येककाले तृतीयायां त्वयाऽर्चितः ॥६७॥निशि सवाहितश्चापि चतुर्थ्यां चातिपूजितः ।प्रातरेव त्वया मान्ये! चार्जितोऽस्मि व्रतेन वै ॥६८॥यथा भावनया सुभ्रु त्वया चाद्य प्रपूजितः ।तथा प्राप्तोऽस्मि कल्याणि! सुभगेऽसि मम प्रिये! ॥६९॥समागच्छ मया सार्धं जाताऽसि शाश्वती वधूः ।तव व्रतेन ते दास्यः सर्वा अपि मम गृहम् ॥७०॥समायान्तु मम दास्यो भाविन्यः सर्वथा रमे ।इति कृत्वा गरुडं स्वं दर्शयामास सद्वरः ॥७१॥यानानि वाहनान्यत्र यानि सन्ति सहस्रशः ।मया मत्पितरं गत्वाऽऽवेदितं सर्वमेव तत् ॥७२॥सोपि तत्र समागत्य दत्तवान् मां हरेः करे ।पित्राज्ञया कृतकृत्या जाताऽरुरोह पक्षिणम् ॥७३॥पित्रा प्रस्थापिता सैन्ययुता सत्कारपूर्वकम् ।यौतकं संगृहीत्वैव समायाता हरेः पुरम् ॥७४॥सोऽयं नारायणश्चात्र भवनेऽपि विलोकितः ।मया सहापि स एव वर्तते पश्य भामिनि! ॥७५॥अधिमासे निशि प्रातः पूजनेऽस्य फलेन वै ।प्राप्ताऽहं सत्पतिं नारायणं चात्र समागता ॥७६॥नीता तेनैव कृष्णेन प्रापितांऽकमनेन वै ।कृता नववधूश्चापि पत्नी वैकुण्ठवासिनी ॥७७॥रमाऽस्मि ते सखी दासी त्वत्कृपाकांक्षिणी सदा ।इत्येवं चाऽधिमासस्य फलं प्राप्तं मयाऽनघे ॥७८॥मया नारायणपूजा कृता तद्वत् करिष्यति ।कन्यका युवती वापि प्राप्स्यत्येनं नरायणम् ॥७९॥कृष्णनारायणं चाधिमासे संपूज्य सर्वथा ।चतुर्थ्यां प्रातरेवापि मध्याह्ने वा निशीथके ॥८०॥पूजयिष्यन्ति यद्वृत्त्या पूरयिष्यत्ययं तथा ।धनं पुत्रान् सुखं दारान् पतिं धान्यानि सद्गृहम् ॥८१॥यानं च वाहनं तेजो रूपमैश्वर्यमुत्तमम् ।राज्यं सत्तां प्रियां भार्या दासान् दासीश्च वैभवान् ॥८२॥भोग्यान् भोगोपसम्बद्धान् भोज्यान्पेयाननन्तकान् ।पदार्थान् दिव्यतत्त्वस्थान् यथेष्टान् सुरतान् रतिम् ॥८३॥स्वर्गान् सत्यपरान् लोकान् पारमेष्ठिस्थलान्यपि ।वैराजाँश्चापि वैकुण्ठभूमिका धेनुभूमिकाः ॥८४॥गोलोकं चाक्षरं चापि दिव्यं चाऽदिव्यमेव यत् ।संकल्प्याऽधिकमासे वै नारायणस्य पूजकाः ॥८५॥नरा नार्यो देवदेव्यश्चतुर्दशस्तरस्थिताः ।प्राप्स्यन्ति स्वेप्सितं सर्वे पुरुषोत्तमवाञ्छया ॥८६॥यथाऽहं स्वल्पयत्नेन संजाता शाश्वतीसमाः ।सुसौभाग्यवती लक्ष्मि! तथाऽन्यापि भविष्यति ॥८७॥विधवापि यदि स्त्री वै मद्वत् कृष्णस्य पूजनम् ।करिष्यत्यधिमासे सा वैकुण्ठं प्राप्स्यति ध्रुवम् ॥८८॥नारायणं पतिं लब्ध्वा स्यात् सौभाग्यवती सदा ।वृद्धा वा रोगिणी यद्वा तिरस्कृता च बान्धवैः ॥८९॥कर्मणा या परिभ्रष्टा पश्चात्तापेन संयुता ।अनाथा चैकला चात्याश्रिता रण्डा च पुंश्चली ॥९०॥स्वैरिणी कामिनी वापि येन केनापि संगता ।ज्ञातिहीना व्रतहीना पशुसंसर्गकारिणी ॥९१॥जैह्व्ये रत्यां सदा लुब्धा मद्यमांसादिनी किमु ।राजस्वल्यादिदोषस्था सांकर्यदोषसंस्थिता ॥९२॥श्वपचाद्याश्रयापन्ना सुसंस्कारविवर्जिता ।या कापि वा भवेन्नारी शुभसंस्कारयोगतः ॥९३॥श्रुत्वा कथां व्रतं कृत्वाऽधिमासे तु यथाबलम् ।हरिप्राप्तीच्छया चैकभुक्तं नक्तमयाचितम् ॥९४॥फलाहारं पयःपानं कृत्वापि श्रीहरेर्बलात् ।प्रमार्ज्य सर्वपापातिपापानि चातिपावनी ॥९५॥पंक्तिसंपावनी भूत्वा वेश्या वा गणिकापि वा ।नर्तकी वा प्रभण्डा वा कुट्टिनी वा प्रसाधिनी ॥९६॥या वा का वा भवेल्लोके भूत्वा पवित्रविग्रहा ।क्षेत्रं विष्णोः कृपायाश्च भूत्वा कांचनसदृशी ॥९७॥दिव्या शुद्धा पापहीना पुण्यपुञ्जान्विता सती ।कृष्णनारायणविष्णुकृपाभिरतिपाविता ॥९८॥स्वसमानास्तथाऽन्याश्च पावयित्वा स्वसंगतः ।सनातनं परं धाम विष्णोर्यत् तत्प्रयास्यति ॥९९॥रमाऽहं संस्थिता नारायणांऽके लक्ष्मि! सर्वथा ।कथयामि पुनः सत्यं सा प्राप्स्यति हरेः पदम् ॥१००॥षण्ढो वा षण्ढतुल्यो वा षंढा वा षण्ढसदृशी ।अनार्तवी विचित्ता वा वानरीव व्रतच्युता ॥१०१॥या कापि वा भवेत् साऽपि मासे श्रीपुरुषोत्तमे ।व्रतं कृत्वा वरं नारायणं समर्जयिष्यति ॥१०२॥निष्कामो वाऽथ निष्कामा मुक्ततां प्राप्य सर्वथा ।हरेर्दिव्याक्षरं धाम प्राप्स्यत्येव न संशयः ॥१०३॥किम्वधिकं कथयामि मायाऽप्यमायिकी भवेत् ।यद्योगात्तर्हि नारीणां का कथा मुक्तिसंगमे ॥१०४॥तस्माद्व्रतं प्रकर्तव्यं त्वधिमासस्य सर्वथा ।भुक्तिर्मुक्तिस्तथा स्वर्गं सर्वं प्राप्येत यद्बलात् ॥१०६॥अहं चात्र स्थिता ज्येष्ठे! निभाल्याऽनुग्रहेण वा ।इत्युक्त्वा प्रणनामैनां लक्ष्मीं वात्सल्यवर्धिनीम् ॥१०६॥नारायणोऽपि तामेनां भवनानि निनाय च ।रमयामास सत्कामैः पूरयामास भावनाः ॥१०७॥एवं प्रिये! रमा जाता कथं नारायणप्रिया ।क्षीरसागरपुत्रीयं सा तुभ्यं कथिता कथा ॥१०८॥अस्याः श्रवणमात्रेण पठनेन च पूजया ।अधिमासव्रतजन्यं फलं विन्देत्तु मानवः ॥१०९॥इतिश्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममास माहात्म्ये नारायणाधिमासयोर्वैकुण्ठवसतिर्ब्रह्माण्डेष्वधिकमासव्रतार्थे दुन्दुभिघोषणा, तां श्रुत्वा क्षीरसागरपुत्रीरमया तृतीयासायं चतुर्थीप्रातर्व्रतपूजादि-करणेन वैकुण्ठे नारायणपत्नीत्वप्राप्तिरित्यादि-निरूपणनामा षण्णवत्यधिकद्विशत-तमोऽध्यायः ॥२९६॥ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP