संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४७५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४७५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४७५ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! प्रवक्ष्यामि दुर्वाससोऽतिकष्टदम् ।कदल्याश्चरितं पश्चाज्ज्ञानेन मोक्षदं परम् ॥१॥पत्नीव्रतं तु मुनिना वाग्दानाऽवसरे धृतम् ।क्षमामयं तथा सम्यग् वैराग्यदं तपःकरम् ॥२॥बलेः पुत्रः साहसिको वने तिलोत्तमायुतः ।रतिं चकार विजने दिवा कामेन मोहितः ॥३॥यत्र दुर्वाससो देहे वल्मीकस्तपतोऽभवत् ।दुर्वासास्त्वान्तरदृष्ट्या ज्ञातवाँस्तं बलेः सुतम् ॥४॥अमर्यादं शशापाऽपि धेनुको भव दानवः ।खरवद् वर्तसे यस्मात् सन्निधौ मम चाश्रमे ॥५॥खरो भव वने चेयं तिलोत्तमाऽपि बाणजा ।उषाऽनिरुद्धपत्नी च भवत्विति शशाप वै ॥६॥उषा शशाप तं दुर्वाससं त्वं पीडितः स्त्रिया ।भवाऽतिदुःखितः काममोहितश्चेति वै तदा ॥७॥तेन दोषेण दुर्वासाः कामवानभवत् क्वचित् ।तदा तत्रागमदौर्वनामर्षिः स्वसुतायुतः ॥८॥ऊरूद्भवो ब्रह्मणस्तु पुरा कल्पे तपस्यतः ।ऊर्ध्वरेता हि योगीन्द्र और्वस्तेनेति स स्मृतः ॥९॥तस्य जानूद्भवा कन्या कदलीनाम विश्रुता ।दुर्वाससं प्रार्थयन्ती नान्यं मनसि रोचते ॥१०॥सुतायुक्तो मुनिरौर्वो दुर्वाससं ननाम ह ।दुर्वासाश्च प्रणनाम समुत्तस्थौ मुदान्वितः ॥११॥और्वो दुर्वाससं प्रोचे कन्यकाया मनोरथम् ।कदली मम कन्येयं ध्यायन्ती त्वां स्मरत्यपि ॥१२॥सर्वरूपगुणाधारा दोषेणैकेन संयुता ।अतीव कलहाविष्टा कोपेन गालिकाब्रुवा ॥१३॥नानागुणयुतं वस्तु न त्यजेदेकदोषतः ।और्वस्य वचनं श्रुत्वा दृष्ट्वा कन्यां सुसुन्दरीम् ॥१४॥नवयौवनसम्पन्नां मुनिर्मुमोह कामतः ।उवाचौर्वं सुखयता हृदयेन विदूयता ॥१५॥नारी नरस्य संसारे मुक्तिमार्गनिरोधिका ।व्यवधानं तपस्याया मोहपाशनिबन्धिनी ॥१६॥कारागाराख्यसंसारे दुर्वहं निगडं तु सा ।अतो मे ध्यायतः कृष्णपादाब्जं विघ्न आगतः ॥१७॥एनं मोहं फलं तिलोत्तमाशापस्य वेद्म्यहम् ।और्व मे रोचते नैव संसारो यद्यपि क्षयः ॥१८॥तवाऽऽज्ञां मस्तके कृत्वा ग्रहीष्यामि सुतां तव ।उपेतां कामिनीं त्यक्त्वा भयं स्यान्नाशकारकम् ॥१९॥रहस्युपस्थितां कामाद् गृह्णीयान्नाशसंकरे ।किन्त्वतिनिन्दितः स स्यात् स्त्रीजितश्चेत् सदा भवेत् ॥२०॥और्व त्वं तु स्वयं चात्र कन्यया सह चागतः ।दातुं मह्यं हि ते कन्यां ततोऽस्मि धर्मसंकटे ॥२१॥विनाशाऽपेक्षया ग्राह्यो धर्म एव सनातनः ।ग्रहीष्यामि तव कन्यां सहिष्ये शतगालिकाः ॥२२॥अतिरेके कटुवाक्ये दास्यामि तत्क्षणे फलम् ।शतगालीसहिष्णुत्वं पत्नीव्रतं मम ध्रुवम् ॥२३॥अस्याः पतिव्रतं नित्यं शतगालीप्रदानकम् ।यादृशो वरराजोऽस्ति तादृशी च वधूः कृता ॥२४॥अहो भाग्यस्य वैचित्र्यं भोगिने सर्पिणी धृता ।यद्यहं शतपूर्वं स्यामधैर्यः सा प्रदण्डयेत् ॥२५॥भाषाबन्धं प्रकृत्वैवमौर्वो ददौ सुतां निजाम् ।स्वस्तीत्युवाच दुर्वासा विवाहं विधिनाऽकरोत् ॥२६॥और्वस्तां सुखकृद्वाक्यैर्बोधयामास कन्यकाम् ।शृणु पुत्रि प्रवक्ष्यामि नीतिसारं सुखावहम् ॥२७॥हितं सत्यं च गार्हस्थ्यपारकृद्वचनं मम ।स्वकान्तस्तु परो बन्धुरिह लोके परत्र च ॥२८॥नहि कान्तात् परः प्रेयान् कुलस्त्रीणां परो गुरुः ।देवपूजा व्रतं दानं तपश्चानशनं जपः ॥२९॥तीर्थस्नानं यज्ञदीक्षा पृथ्वीप्रदक्षिणादयः ।त एते पतिसेवायाः कलां नार्हन्ति षोडशीम् ॥३०॥किमेतैः पतिभक्तायाः सर्वपुण्यप्रशेवधेः ।दुःखी जनः सुखार्थं वै साकांक्षः प्रथमो भवेत् ॥३१॥पतिसेवा सुखार्थेति तत्र दत्तमतिर्भव ।पतिसेवा परो धर्मः स्वर्गमोक्षप्रदोऽस्ति ते ॥३२॥स्वप्रज्ञानेन सततं कान्तं नारायणाऽधिकम् ।दृष्ट्वा तश्चरणाम्भोजसेवां नित्यं करिष्यसि ॥३३॥परिहासेन कोपेन भ्रमेणाऽवज्ञया मुनेः ।कटूक्तिं स्वामिनः साक्षात्परोक्षान्न करिष्यसि ॥३४॥स्त्रिया वाग्योनिदुष्टाया यमदण्डो भवेद् ध्रुवम् ।सर्वधर्मपरीतां या कटूक्तिं कुरुते पतिम् ॥३५॥नैकजन्मकृतं पुण्यं तस्या नश्यति निश्चितम् ।गाली दानं न कर्तव्यं क्वापि कुत्रापि केनचित् ॥३६॥त्वया पुत्रि वधूर्भूत्वा मुनेर्नैव विशेषतः ।गालीदानं मनसाऽपि स्मर्तव्यं न पतिव्रते ॥३७॥तदा सौख्यं च ते नित्यं सौभाग्यं संभविष्यति ।अन्यथा तत्र विघ्नोऽस्ति वत्से निबोध मद्वचः ॥३८॥प्राप्तो मणिर्न हातव्यो निर्मूल्यः कंकरो यथा ।लब्धः पतिर्न धिक्कार्यो यथा चौरः शठोऽहितः ॥३९॥स्वामी नैवाऽवमन्तव्यो यथा श्वा मर्कटो यथा ।त्वङ्कार्यो न त्वया कान्तः किंकरोऽनिष्टकृद् यथा ॥४०॥भर्ता नाऽवगणनीयो यथा कृत्तिमयो मृगः ।त्राता वशे न कर्तव्यो यथा डित्थमयः करी ॥४१॥वंशदाता न वंशेन ताडनीयः कदाचन ।भोजनस्याऽर्पके पत्यौ नभोजनवदाचरेत् ॥४२॥निन्दायितं नाचरेद्वै प्रिये त्वानन्ददायिनि ।सेवनीये गुरौ नैव वनीयतां समाचरेत् ॥४३॥सदाऽपारप्रदे पत्यौ पारदत्वं न वै चरेत् ।पुरुषार्थप्रतिमायां रुषार्थं न चरेत् सती ॥४४॥कामनायां प्रवृत्तायां न किंमनायते प्रिया ।पत्युः शेषतया शिष्टा वर्तेत न शिरस्तथा ॥४५॥पत्यौ प्राणाँश्चार्पयित्वा तिष्ठेत प्राणहा न तु ।रतिं दद्याद् यथातृप्तिं कष्टदां विरतिं न वै ॥४६॥सर्वं दद्यात् स्वामिने वै गालीदानं न वै क्वचित् ।आत्मार्पणं प्रकुर्याद्वै कष्टार्पणं विना सती ॥४७॥इति कन्यां बोधयित्वा जगामौर्वः स्वकाश्रमम् ।दुर्वासाश्चेतनारामः त्वाश्रमं स्त्रीयुतो ययौ ॥४८॥अहो सुकृतिनां कामो वाञ्च्छामात्रेण सिद्ध्यति ।कदली तं नवं कान्तं सिषेवे स च तां सतीम् ॥४९॥तपो ध्यानं परित्यज्य गृहाऽऽसक्तोऽभवन्मुनिः ।करोति कलहं नित्यं प्रातरुत्थाय कन्दली ॥५०॥गालीवाक्यं विना नैव प्रबोधयति तं पतिम् ।तस्यां पितुः कृता शिक्षा ऊषरे बीजवद् वृथा ॥५१॥खाने पाने भोजनेऽर्थे विहारे संगमेऽर्चने ।कटूक्तिं प्रायशो ब्रूते सेहे तां क्रोधनो मुनिः ॥५२॥पत्नीव्रतं प्रतिज्ञातं शतगालीसहिष्णुता ।दुर्वासा बोधयामास नीतिवाक्यैस्तु कामिनीम् ॥५३॥सा तन्न बुबुधे किञ्चित् करोति कलहे स्पृहाम् ।तातप्रदत्तज्ञानं तु नान्तःस्थानं चकार वै ॥५४॥उग्रा पूर्वाद् विशेषा सा पतिपुत्रवती यतः ।न हीयते प्रबोधेन स्वभावो दुरतिक्रमः ॥५५॥नित्यं कटूक्तिं कान्तं सा करोति हेतुना विना ।तत्रापि भोजने देवपूजने तु विशेषतः ॥५६॥जगत् प्रकम्पितं येन स कम्पितस्तया रुषा ।पुत्राः पुत्र्योऽभवँस्तस्यां विंशतिर्विंशतिस्ततः ॥५७॥कटूक्तिर्वर्धिता नार्या शताधिकगुणा सदा ।अथ स्थानं परित्यज्य लोकलज्जाविगर्हितः ॥५८॥ययौ स्थानान्तरं नीत्वा बालाँस्त्यक्त्वा तु तां प्रियाम् ।एको बालो धृतो मूर्ध्नि द्वौ धृतौ स्कन्धयोः पुनः ॥५९॥कट्यां धृतौ द्वावृषिणा पार्श्वयोर्यान्ति चापरे ।अन्ये त्वग्रे पृष्ठतश्च प्रयान्ति वानरा यथा ॥६०॥सर्वे मातृस्वभावास्ते पित्रंशास्तामसास्तथा ।मार्गे कीशकुलायन्ते नाटयन्ति नटा यथा ॥६१॥विगृह्णन्ति विना तत्त्वं क्रोशन्ति च मृषा मुधा ।दुर्वाससः शिरोदेशेऽपत्यं मूत्रं चकार वै ॥६२॥स्कन्धयोश्च मलं चक्रे कट्यां ष्ठीवनमाचरत् ।विना जलं न वै शुद्धिस्तत एवं ययौ पुरः ॥६३॥तत्राऽऽययौ च देवर्षिर्नारदः शंकरस्तथा ।ब्रह्मा विष्णुः सनकाद्याः सप्तर्षयः कुतूहलात् ॥६४॥रूपान्तरैश्च ते प्राहुः किमेवं वहसे मलम् ।दुर्वासाः प्राह गार्हस्थ्यसुखमत्राऽनुभूयते ॥६१॥जीवन्वै नरके मग्नो यमकुण्डो गृहाश्रमः ।अहो कष्टं मलिनत्वं नरक चन्दनायते ॥६६॥मूत्रं जयति तैलस्य स्थाने जटासु मेऽद्य वै ।अहो मोहस्य केदारो विषं यत्राऽमृतायते ॥६७॥दुखं सुखायतेऽज्ञानादज्ञानं कन्दलीकृतम् ।कं सुखं दलितं यस्मान्मम सा कन्दली प्रिया ॥६८॥त्यजामि वा रक्षयामि किं करोमि तया विना ।एवं निःश्वस्य दुर्वासाः सार्थमध्ये स्थितः क्षणम् ॥६९॥हसितो बोधितश्चापि नारदाद्यैर्महर्षिभिः ।गृहस्थानां भवेत् क्लेशः संसारः क्लेशसंभृतः ॥७०॥गच्छ गृहं पुनर्विप्र मैवं त्यज गृहं स्वकम् ।इति सम्बोधितो यावत् तावत् सा कन्दली सती ॥७१॥रुदती पृष्ठतः समाजगामाऽऽनयनाय तम् ।पादयोः पतिता प्राह गालीं दास्येन न वै क्वचित् ॥७२॥करोत्वनुग्रहं क्रोधिन्! शठापते स्थवीरक! ।इतिवाक्यानि मिष्टानि कन्दल्याः सम्मतानि वै ॥७३॥जगाद कन्दली नम्रा दीना च कातरा मुहुः ।दयां कृत्वा च दुर्वासा धृतो वस्त्रे च योषिता ॥७४॥ययौ गृहं शरीरेणाऽपत्यकर्दमलेपिना ।सस्नौ शुद्धिं चकारापि जजाप ब्रह्म चान्तरे ॥७५॥एवं रोषो लयं यातः कर्मवश्यस्य रोषिणः ।पुत्रवती कटूक्तिं सा शतोत्तरां जगाद ह ॥७६॥ज्ञानिनां प्रवरो विप्रः क्षमासंस्थां चकार ह ।नित्यं शतोत्तरां वक्ति .बोधं चक्रे दयानिधिः ॥७७॥मौनं तथापि सा धत्ते नैव वेगाद् दिने दिने ।एवं गालीप्रदानैश्च प्रदग्धं मानसं मुनेः ॥७८॥तस्याः कटूक्तिवाचिन्या आयुः पूर्णं बभूव ह ।स्वात्मारामोऽपि मुनिराट् कोपावेशातिवेगितः ॥७९॥शशाप कामिनीं रोषाद् भस्मराशिर्भवेति वै ।मुनेरिङ्गितमात्रेण भस्मसात् सा बभूव ह ॥८०॥एवमत्युच्छ्रितानां वै मत्तानां श्रेय एव न ।अपत्यानि मुनेस्तस्य चक्रुशुर्मातृनाशनात् ॥८१॥अथ तस्या आत्मतत्त्वं जीवोऽन्तरीक्षगोऽवदत् ।हे नाथ सर्वदर्शी त्वं ज्ञानवान् योगिनां वरः ॥८२॥सर्वं जानासि सर्वज्ञ किमहं बोधयामि ते ।सदुक्तिर्वा कटूक्तिर्वा कोपः सन्ताप एव वा ॥८३॥लोभो मोहश्च कामश्च क्षुत्पिपासादिकं च यत्॥स्थौल्यं कार्श्यं विनाशश्च शान्तघोरसुमूढताः ॥८४॥सर्वे शरीरधर्मास्ते शब्दो गाली च भौतिकाः ।सत्त्वं रजस्तमश्चैव शरीरं त्रिगुणात्मकम् ॥८५॥न्यूनाधिकं भवेत् तच्च संसारस्तेन जायते ।रोदनं हसनं क्लेशश्चोद्वेगो भयमित्यपि ॥८६॥क्रोधः शान्तिश्च शापश्च शारीरा नात्मनः प्रिय ।सत्त्वोदयात्तु मोक्षेच्छा कर्मेच्छा तु रजोगुणात् ॥८७॥तमोगुणात् कलहेच्छा द्वयोर्नौ सदृशं तमः ।तमः कोपस्य जनको यथा त्वयि तथा मयि ॥८८॥कोपात् कटूक्तिर्गाली च कटूक्त्या शत्रुता भवेत् ।तया त्वप्रियता सद्यः शत्रुः कः कस्य कः सखा ॥८९॥को वा प्रियोऽप्रियः कः किं किं मित्रं को रिपुर्भवेत् ।रागद्वेषौ प्रधानौ वै सर्वत्र शत्रुमित्रयोः ॥९०॥प्राणाऽधिकः प्रियः स्त्रीणां भर्तुः प्राणाधिका प्रिया ।बभूव शत्रुता सद्यो दुरुक्त्या च क्षणाद् रुषा ॥९१॥यद्गतं तद्गतं सर्वं भौतिकं भूतदोषतः ।शोचनीयं गतं नैव जातं यत्तच्च नान्यथा ॥९२॥अहं दग्धा तव पत्नी तेऽपि दग्धं तपोधनम् ।दग्धयोर्देहयोश्चाथ गुणयोर्नागमः पुनः ॥९३॥गते तद्वै गतं सर्वं नष्टं तन्नष्टमेव हि ।अथाऽधुना प्रकर्तव्यं यथा श्रेयो भवेत्तु नौ ॥९४॥क्षमापराधं निखिलं किं कर्तव्यं वदाऽधुना ।किं करोमि क्व यामीति भविता कुत्र जन्म मे ॥९५॥तव जाया सदा चास्मि नान्यस्य कुत्रचित् क्वचित्॥न भूता न भविष्यामि प्राप्स्यामि त्वां पुनः पुनः ॥९६॥इति श्रुत्वा वचस्तस्याः शोकेन हृतचेतनः ।क्षणोत्तरं च स्वस्थः स प्राणाँस्त्यक्तुं समुद्यतः ॥९७॥स्त्रीविच्छेदो विदग्धानां यतः शोकं करोति हि ।ततो योगासनं कृत्वा मुमुर्षुर्न ह्युवाच ताम् ॥९८॥सा त्वम्बरे मुनिं दृष्ट्वा मुमुर्षुं शोकविह्वला ।सस्मार श्रीकृष्णनारायणं दुर्गमरक्षकम् ॥९९॥तावत् तत्राऽऽययौ बालो विप्रो भूत्वा जनार्दनः ।सस्मितः श्यामवर्णश्च दुर्वाससं जगाद च ॥१००॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दुर्वाससः और्वकन्यया कदल्या सह शतगालीसहनपूर्वकप्रतिज्ञया विवाहस्ततः पातिव्रत्यात्मकतद्धर्मनिरूपणं, विंशतिपुत्रपुत्रीमत्वं, क्रोधेनातिक्रामन्त्याः कदल्याः ऋषिशापेन भस्मता, कदल्याः स्तुतिः, जनार्दनागमश्चेत्यादिनिरूपणनामा पञ्चसप्तत्यधिकचतुश्शततमोऽध्यायः ॥४७५॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP