संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १७५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १७५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७५ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! कलहस्य गृहं रुद्रगृहं गतम् ।द्वयोर्वै गृहयोरैक्ये किमनिष्टं न जायते ॥१॥नारदो व्योममार्गेण प्राप्य वै धाम शांकरम् ।क्षणं तत्र महोद्याने कैलासेऽवातरद्भुवि ॥२॥विशश्राम हरिं ध्यायन् सती तदन्तरे बहिः ।तस्मिन्नेवोद्यानवर्येऽविहरत् स्वसखीयुता ॥३॥तया दृष्टानि व्योम्न्येव स्वर्गात्पृथ्वीं पतन्ति वै ।विमानानि भगिनीनां दासदासीयुतानि च ॥४॥पतिभिः कृतशृंगारप्रभृतीनां महान्ति हि ।स्वसखीं विजयां प्राहाऽऽलोक्य सती तु रोहिणीम् ॥५॥रे सखीप्रवरे पश्य रोहिणी भगिनी मम ।चन्द्रयुक्ता विमानस्था क्व याति पृच्छ सत्वरम् ॥६॥शीघ्रं तु विजयाऽऽपृच्छ्य ज्ञात्वा यज्ञोत्सवादिकम् ।दक्षगृहे वर्ततेऽतस्तत्र यातीति चाह ताम् ॥७॥तावदन्यविमानानि प्रयान्ति व्योममार्गतः ।तान्यप्यालोक्य बहुधा सती चेतस्यचिन्तयत् ॥८॥दक्षः पिता मम माता ह्यसिक्नी वीरिणी तथा ।आह्वानं मे न कुर्वन्ति विस्मृताः किं सतीं सुताम् ॥९॥पृच्छेयं कारणं तत्र शंकरं सर्वमादरात् ।विचार्येत्थं ययौ तूर्णं सती तु शंकरान्वितम् ॥१०॥सत्कृता शंकरेणाऽथ सत्युवाच प्रभुं तदा ।पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ॥११॥तत्रोत्सवो महानस्ति समवेता महर्षयः ।तत्र कथय गमनं कस्मात्तव न रोचते ॥१२॥आवाभ्यां तत्र गन्तव्यं बहूनां दर्शनं भवेत् ।शंभुः प्राह सति दक्षो मम द्रोही विशेषतः ॥१३॥पितुस्तवाऽध्वरे प्राप्ता मानिनो ज्ञानवर्जिताः ।तत्र यजने मे स्थानं नास्ति यावः कथं सति ॥१४॥अनाहूतास्तु ये यान्ति परगृहं तु ते जनाः ।प्राप्नुवन्त्यवमानं यन्मरणादतिरिच्यते ॥१५॥परालयं गतोऽपीन्द्रो लघुर्भवति वै यतः ।तस्मात् त्वया मया चापि न गन्तव्यं हि तद्गृहम् ॥१६॥शत्रुशरैः प्रविद्धोऽपि न तथा व्यथते जनः ।यथा स्वजनरूक्षोक्तैर्मर्मभेदिभिरर्द्यते ॥१७॥ममोपरि तपस्तप्तं तस्मान्मया विवाहिता ।न चेत् तप्तं मादृशस्तु कथं पाशेऽत्र संपतेत् ॥१८॥विद्यैश्वर्यादिभिर्जाते गर्वे खलाः सतां गुणान् ।गणयन्त्येव नहिते नाऽऽद्रियन्ते महाजनान् ॥१९॥श्रुत्वैतत्सहसा देवी प्राह स्वप्राणरक्षकम् ।कथं दक्षेण नाऽऽहूतौ ज्ञातुमिच्छामि तत्त्वतः ॥२०॥अनुज्ञां देहि मे नाथ गन्तुं दक्षमखेऽद्य वै ।शंभुः प्राह सतीं साध्वि गन्तुं ते प्रबला रुचिः ॥२१॥यद्यस्त्यारुह्य वृषभं सज्जं भूषितमेव च ।महाराज्ञ्युपचाराणि कृत्वा नीत्वा गणान्बहून् ॥२२।सुभूषिता गच्छ यज्ञं छत्रचामरलक्षिता ।इत्येतदन्तरे तत्र नारदोऽप्यागतो हरम् ॥२३॥दृष्ट्वा शिवौ प्रणम्याथ शंभुना सत्कृताऽऽदरः ।तत्प्रदत्तासने रम्ये ह्युपाविशन्महामुनिः ॥२४॥शंभुः प्राह कथं दत्तं दर्शनं भवता मुने ।अस्ति किंचिद्विचित्रं चेद्ब्रूहि शीघ्रं च मा चिरम् ॥२५॥इत्याज्ञां प्राप्य देवर्षिः वृत्तं तत्प्राह शंकरम् ।अद्य नीलगिरेश्चाऽहं हरिद्वारसमीपतः ॥२६॥अपूर्यमिव संवीक्ष्य परिप्राप्तस्तवान्तिकम् ।त्रैलोक्ये यच्च पुंजातं सकलत्रसुतादिकम् ॥२७॥सालंकारं समानं च सानन्दमुखपंकजम् ।दृष्टं दक्षाध्वरे किन्तु भवद्द्वन्द्वं न लोकितम् ॥२८॥प्रायो विषादजनकं तत्र युष्मददर्शनम् ।दक्षस्य मर्मभेदीनि वचनानि श्रुतानि वै ॥२९॥तानि वक्तुं न शक्यानि श्रुत्वा त्वद्गर्हणागिरः ।मया तु पिहितौ कर्णौ प्रत्युक्तानि दधीचिना ॥३०॥दक्षः शप्तः क्रतुं त्यक्त्वा दुर्वासः प्रमुखा द्विजाः ।शंभुनिन्दां समाकर्ण्य कियन्तस्तु विनिर्ययुः ॥३१॥प्रावर्तत महायागो दक्षपक्षातिपातिभिः ।भगिन्यस्तत्र यास्ते ताः स्वस्वामिपरिचारिकाः ॥३२॥दक्षतो गौरवं प्राप्तास्तद्वक्तुं नाहमुत्सहे ।तत्रोऽत्रार्थे विधेयं तद्विधीयेतां प्रयाम्यहम् ॥३३॥गते तु नारदे देवी प्रांजलिः प्राह शंकरम् ।विजयस्वाऽन्धकध्वंसिन्! देह्यनुज्ञां मम प्रभो ॥३४॥गत्वा पश्यामि दुष्टत्वं कथमावां निराकृतौ ।शंभुः प्राह प्रियां यज्ञो गन्तव्यार्थो न भाति मे ॥३५॥किमपूर्णं तवाऽस्त्यत्र मा परीक्षाकृतेऽप्यगाः ।कुतो मां हातुमिच्छेस्त्यं गमने शं न दृश्यते ॥३६॥सती प्राह मनो मे ते पादयोः स्थास्यति ध्रुवम् ।क्रतुं द्रष्टुं पितुर्यामि नैक्षि यज्ञो मया क्वचित् ॥३७॥शंभुः प्राहाऽधरेक्षा चेदाहरामि ततः क्रतुम् ।क्रतुं क्रियां तथा यज्ञपुरुषं लोकपालकान् ॥३८॥अन्यानाशु विधेहि त्वमृषीनार्त्विज्य कर्मणि ।सती प्राह निषेधीर्मा द्रष्टव्यः पितुरध्वरः ॥३९॥शंभुः प्राह तदा देवीं नारीहठाधिरोहिताम् ।अद्य देवि पश्चिमायां दिक्शूलं वासरोऽशुभः ॥४०॥तिथिनक्षत्रयोगाश्च विपरीता भवन्ति वै ।मा गा देवि गताऽद्य त्वं नहि द्रक्ष्यसि मां पुनः ॥४१॥तदा सती बभाषे यत् यदि नाम्नाऽस्म्यहं सती ।तदा तन्वन्तरेणापि करिष्ये तव दासताम् ॥४२॥तदा भवः पुनः प्राह को वा वारयितुं क्षमः ।हठव्याप्तमनोवृत्तिं स्त्रियं वा पुरुषं च वा ॥४३॥मा याहि देवि मां हित्वा गता त्वं न मिलिष्यसि ।परं न देवि गन्तव्यं महामानधनेच्छुभिः ॥४४॥अनाहूततया कान्ते मातापितृगृहानपि ।पुनर्न दर्शनं देवि मम सत्यं ब्रवीम्यहम् ॥४५॥देव्युवाच यदि रक्ता तव पादाम्बुजद्वये ।तथा त्वमेव मे नाथो भविष्यसि भवान्तरे ॥४६॥इत्युक्त्वा निर्ययौ देवी हठाऽन्धीकृतमानसा ।न ननाम तदा शंभुं न च चक्रे प्रदक्षिणम् ॥४७॥अत एव हि सा देवी गता न पुनरागता ।देवोऽपि तां सतीं यान्तीं दृष्ट्वा तु विव्यथे हृदि ॥४८॥गणान्प्राह सह देव्या गच्छन्तु सैन्यशालिनः ।विमानं शांकरचिह्नमारुह्य यातु वैं सती ॥४९॥देवी विमानमारुह्य याता यज्ञस्थलांऽगणम् ।सुछत्रचामरादीनि सद्वस्त्राभरणानि च ॥५०॥महाराज्ञ्युपचाराणि दत्तानि शंकरेण वै ।गणाः षष्टिसहस्राणि रौद्रा जग्मुः शिवाज्ञया ॥५१॥हेतिसज्जाः सयानाश्च कुतूहलोत्सवान्विताः ।नभोऽङ्गणाद्विमानस्था सा तु वेगादवातरत् ॥५२॥आविशद्यज्ञवाटं च हर्षस्तस्या व्यवर्धत ।शिवप्रियायाः सत्कारो वामदेवादिभिः कृतः ॥५३॥कुतूहलं गणाश्चक्रुः शिवयोर्यश उज्जगुः ।पुप्लुवुः कूर्दनं चक्रुराकाशे गणपुंगवाः ॥५४॥जयाऽम्बिके जय शंभो ह्यारावैः पूरितं जगत्॥दाक्षायणी गता तत्र यज्ञस्थले महाप्रभे ॥६५॥सुराऽसुरमुनीन्द्रादिकुतूहलसमन्विते ।नमस्कृत्याऽग्निदेवं च समाजं मण्डपस्थितम् ॥५६॥जगाम जलपानाय स्वपितुर्भवनं ततः ।ददर्श सुप्रभं चारु नानाश्चर्यसमन्वितम् ॥५७॥मातृस्वसृदुहितृतत्सुतासुतादिसंश्रितम् ।आगतां च सतीं दृष्ट्वाऽसिक्नी च वीरिणी तथा ॥५८॥चक्रुः समादरं तस्या भगिन्यश्च यथोचितम् ।ददुः सलिलपानादि चासनं सुखशान्तिदम् ॥५९॥विश्रम्य च क्षणं नत्वा मातरं भगिनीस्ततः ।अवरुह्यासनात् शीघ्रमेकैवाऽगच्छदध्वरम् ॥६०॥तत्र स्वपितरं नत्वा तथाऽन्यान्वृद्धपुंगवान् ।कृतमंगलनेपथ्याः प्रसूश्चान्याः किरीटिनीः ॥६१॥सभर्तृकाश्च भगिनीर्नवाऽलंकृतिशालिनीः ।ज्येष्ठाः कनिष्ठाः साश्चर्याः सानन्दाश्च कुटुम्बिनीः ॥६२॥सती चाहो समायातेत्याश्चर्येण प्रपश्यतीः ।सर्वा नत्वा वृद्धमातृसमाश्च हरवल्लभा ॥६३॥मण्डपस्थसमाजे सा गता दक्षान्तिकं सती ।पित्रा पृष्टा च मात्रा च भद्रंं जातं तवागमे ॥६४॥एहि तिष्ठ प्रियपुत्रि! जामाता स्विदनामयः! ।तेऽपि स्वर्ग्यं सुखं नित्यं निराबाधं स्विदस्ति वै ॥६५॥सत्युवाच यदि वृद्धौ सुखिनौ चास्मि सुख्यहम् ।युवयोश्चापि जामाता शिवः सुखी सदाऽस्ति वै ॥६६॥दुःखमात्रं प्रसंगेऽत्र यददर्शनमेव यत् ।येन यज्ञः परिपूर्णो भवेत् सोऽत्र न विद्यते ॥६७॥यदि भद्रं जनेतर्मे समागमनतो भवेत् ।कथं शंभुरहं नैवाऽऽहूतौ चात्र महोत्सवे ॥६८॥अन्ये जामातरः पुत्र्यः समाहूताः प्रसंगतः ।सतीं शंभुं परित्यज्य कुतो भद्रं शुभं तव ॥६९॥अभद्रं ह्यशुभं चात्र पश्यामि च क्षणान्तरे ।इति संभाष्य मुमोचाऽश्रुबिन्दून् पितुरन्तिके ॥७०॥दक्षः प्राह अयि पुत्रि महाधन्येऽतिमंगले ।तव दोषो मनाङ्नास्ति मा शोकं कुरु मानसम् ॥७१॥जह्युद्वेगं सुखं तिष्ठ मम दोषोऽस्ति सर्वथा ।यन्मयाऽबुद्धिना कन्यारत्नं शर्वेऽपवर्जितम् ॥७२॥यदहं तत्समाज्ञास्यमीशोऽपनीश आन्तरे ।तदा कथमदास्यं त्वां मायाधिपतये शुभे ॥७३॥अहं शिवाभिधानेन वञ्चितोऽशिवकर्मणि ।ब्रह्मणा बहुधा सोऽयं प्रशंसितो ममाऽग्रतः ॥७४॥शंकरोऽयमयं शंभुः शिवः सार्थकनामवान् ।देह्यस्मै च सतीं कन्यां तद्योग्या सर्वथाऽस्ति सा ॥७५॥श्रीकण्ठोऽसौ महेशोऽसौ सर्वज्ञो वृषभध्वजः ।धन्वी सार्थकनामाऽसौ देह्यस्मै ते सतीं सुताम् ॥७६॥इति विश्वासमाधाय दापिता त्वं हि वेधसा ।न ज्ञातः स विरूपाक्ष उक्षगो विषभक्षकः ॥७७॥पितृकाननसंवासः शूलधृक्च कपालधृक् ।द्विजिह्वसंगसुभगो जलाधारः कपर्दवान् ॥७८॥कलंकिकृतमौलिश्च धूलीधूसरचर्चितः ।क्वचित्कौपीनवसनो नग्नो वातूलवत् क्वचित् ॥७९॥क्वचित्तु चर्मवसनः क्वचिद्भिक्षाटनप्रियः ।विरूपभूताऽनुचरः स्थाणुरुग्रस्तमोगुणः ॥८०॥रुद्रो रौद्रपरीवारो महाकालवपुर्धरः ।नृकरोटीपरिकरो जातिगोत्रविवर्जितः ॥८१॥ब्रह्मणा गुणवानुक्तो जानानोऽहं प्रतारितः ।किम्बहूक्तेन तनये समस्तनयशालिनि! ॥८२॥क्व पांसुलपटच्छन्नो महाशंखविभूषणः ।प्रबद्धसर्पकेयूरः प्रधूसरजटासटः ॥८३॥डमड्डमरुकव्यग्रहस्ताग्रः खण्डचन्द्रभृत् ।ताण्डवाऽऽडम्बररुचिः सर्वाऽमंगलचेष्टितः ॥८४॥एवंविधो हरः क्वाऽयमध्वरो मंगलालयः ।अत एव समाहूतौ युवां न मंगलेऽध्वरे ॥८५॥दुकूलान्यनुकूलानि रत्नालंकरणानि च ।हारश्रेष्ठा विभूषाश्च प्रागेव त्वत्कृते मया ॥८६॥रक्षितास्तान्पश्य पुत्रि! सर्वान् श्रेष्ठान् गृहाण च ।शंकरार्थमपि पुत्रि यद्यन्नेतुं समीहसे ॥८७॥तत्सर्वं सह नेतव्यं यज्ञपूर्त्युत्तरं सति! ।यावदेतास्तव सख्यः स्वसारश्चोषिता मखे ॥८८॥तावत् ततोऽप्यधिकं त्वं वसात्र तव रोचते ।श्रुत्वाऽतिदूनहृदया सती वक्तुं प्रचक्रमे ॥८९॥भागानपश्यद् देवानां हर्यादीनां तदध्वरे ।शंभुभागमनालोक्य कष्टं वक्तुं प्रचक्रमे ॥९०॥नाऽऽकर्णितं मया किंचित् प्रब्रूवति पितस्त्वयि ।पदद्वयीं समाकर्ण्य तां च ते कथयाम्यहम् ॥९१॥मायाऽधिपतिरेवाऽयं जानानोऽपि प्रतारितः ।एतत्सत्यं त्वयाऽऽख्यायि मायाऽधिपतिरेव सः ॥९२॥परब्रह्मपरमात्मा शिवरूपेण वर्तते ।मायान्वितश्च मायाया व्यतिरिक्तः शिवः स वै ॥९३॥त्वं च प्रतारितः पूर्वमधुनाऽपि प्रतारितः ।अज्ञात्वा दत्तवान् कन्यां दत्त्वाऽसम्बद्धमुच्यते ॥९४॥तादृशो मन्यते शंभुः कुतो मामददास्तदा ।न हेतुस्ते मतिस्तत्र हेतुर्मत्पुण्यगौरवम् ॥९५॥येन पूतमिदं विश्वं समग्रं सचराचरम् ।यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः ॥९६॥यज्ञकर्ता स्वयं शंभुस्तं विना तु कथं मखः ।मखः स्यान्मम देहस्य पश्य दक्ष क्षणान्तरे ॥९७॥यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो ।तं तु शंभुं विना सर्वं कृतं चाऽकृतमेव तत् ॥९८॥द्रव्यमन्त्रादिकं सर्वं हव्यं कव्यं च यन्मतम् ।शंभुना हि विना कृतमपवित्रं भविष्यति ॥९९॥किं शिवं सुरसामान्यं मत्वाऽकार्षीरनादरम् ।भ्रष्टा बुद्धिस्तव जाता वार्धक्ये इव सर्वथा ॥१००॥विष्णुब्रह्मादयः सर्वे यं जानन्ति परेश्वरम् ।त्व न जानासि तं शंभुं मा जानीहि तथोत्तरम् ॥१०१॥एते कथं समायाता विष्णुब्रह्मादयोऽध्वरे ।जानन्तोऽपि विना शंभुं लज्जन्ते न मुखदृशः ॥१०२॥हे विष्णो त्वं महादेवं त्यक्त्वा यज्ञेऽत्र दृश्यसे ।न लज्जसे सदा मित्रं विस्मृत्याऽत्र प्रवर्तसे ॥१०३॥रे ब्रह्मँस्त्वं पंचमुखोऽभूर्गर्विष्ठो हरं प्रति ।कृतश्चतुर्मुखस्तेन विस्मृतोऽसि तदद्भुतम् ॥१०४॥यदि क्रुद्धो महादेवश्चत्वार्यपि विनेष्यति ।हे सूर्य चन्द्र चेन्द्रादे न स्विज्जानथ शंकरम् ॥१०५॥वशिष्ठाद्याश्च मुनयो न वै जानथ शंकरम् ।वज्रं प्रज्वालितं येन कामः प्रज्वालितस्तथा ॥१०६॥दारुवने लिंगपाते येन प्रज्वालितं जगत् ।प्राग्भवीयाँश्चमत्कारान् किंस्विद् विस्मरथाऽत्र हि ॥१०७॥स यदि क्रोधमापन्नो युष्माकं किं भविष्यति ।सर्वे कां मूर्खतां प्राप्ता विना शंभुं प्रतिष्ठथ ॥१०८॥इति त्वेकविधा वाचोऽगदन्मखे महेश्वरी ।कौपान्विता सती तत्र हृद्येन विदूयता ॥१०९॥मौनी भूतोऽभवच्छ्रुत्वा समाजो भयविह्वलः ।शृणु लक्ष्मि ततो दक्षः क्रुद्धोऽब्रवीत् क्षयकरम् ॥११०॥तव किं बहुनोक्तेन न ते कार्यं हि साम्प्रतम् ।गच्छ वा तिष्ठ वा पुत्रि कस्माच्चात्र समागता ॥१११॥सर्वपूज्याऽवमानं त्वं करोष्यागत्य चाऽध्वरे ।गच्छ मौनं वस वाऽत्र नाऽऽहूताऽसि विलज्जिके ॥११२॥अमंगलस्तु ते भर्ता भूतप्रेतपिशाचराट् ।अकुलीनो वेदबाह्यः नाऽऽहूतोऽत्र मया तदा ॥११३॥देवर्षिसंसदि वेधःप्रेरितेन मयाऽर्पिता ।मन्दभाग्येन रुद्रायाऽविदितार्थाय किं भवेत् ॥११४॥कोपं मा व्रज रुद्राणि! स्वस्था भव शुचिस्मिते ।यद्यागताऽसि मे यज्ञे दायं गृह्णीष्व चात्मना ॥११५॥श्रुत्वाऽथ सा सती शंभोर्निन्दामचिन्तयत् हृदि ।दायं नीत्वाऽपि किं मे स्यात्कथं वै यामि शंकरम् ॥११६॥शंकरेण यदि पृष्टा तत्र वक्ष्ये किमुत्तरम् ।तस्मादत्रैव मर्तव्यं प्राप्स्ये देहान्तरे हरम् ॥११७॥इति निर्णीय पितरं निःश्वसन्ती ह्युवाच ह ।किं जीवितेन मे तात! शृण्वन्त्या पतिगर्हणाम् ॥११८॥यो निन्दति महादेवं निन्द्यमानं शृणोति वा ।तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ ॥११९॥यदि शक्तो निन्दकस्य जिह्वां छिन्द्यात्प्रसह्य वै ।यद्यशक्तः सुपिधाय कर्णौ गच्छेत् स्थलान्तरम् ॥१२०॥शंभुना तु निषिद्धाऽपि प्रसह्याऽत्र समागता ।फलं तस्याऽत्र मे प्राप्तं क्व गन्तव्यं मयाऽधुना ॥१२१॥अस्मरच्छांकरं वाक्यं पश्चात्तापमवाप सा ।सा संक्रुद्ध्य मुनीन्देवान् दक्षं निःशंकमाह यत् ॥१२२॥तात त्वं निन्दकः शंभोः पश्चात्तापं गमिष्यसि ।माऽयं धूम्रो तव याज्ञो वृष्टिहेतुर्भवेदिह ॥१२३॥अश्रुहेतुर्भवेदेवाऽऽगतानां यज्ञभोगिनाम् ।स्फुटं भ वन्तः शंभोस्तु प्रतीपा मिलिताः खलु ॥१२४॥प्रतीपानां प्रतीपं संकरिष्ये यज्ञमार्जनम् ।शंभुं विना न यज्ञः स्यात् करिष्येऽग्निप्रतोषणम् ॥१२५॥दक्षः स्वीयं जुहोत्यग्नौ स्वीयेऽपि गणना मम ।स्वं स्वीयं च जुहोत्यग्नौ करिष्ये हवनं मम ॥१२६॥किं बहूक्तेन वचसा दक्षो हरे सदा कुधीः ।तदुद्भवेन देहेन न मे किंचित्प्रयोजनम् ॥१२७॥तज्जन्म धिक् यन्महतामवज्ञापादकं भवेत् ।परित्याज्यो विशेषेण जन्मसम्वन्ध एव वै ॥१२८॥वैमनस्ये सदा शंभुर्दाक्षायणीति वक्ति माम् ।तस्माद्दक्षांगजं चैतत्कुणपं गर्हितं सदा ॥१२९॥व्युत्सृष्टव्यं नूनमत्र प्रोज्झितव्यं तु वह्नये ।यावज्जीवितनाथस्य न श्रोतव्या विगर्हणा ॥१३०॥सत्यन्तिमं वचः प्राह नश्यन्तु शिवनिन्दकाः ।अहं तु क्रोधदीप्ताग्नौ महादेवस्वरूपिणि ॥१३१॥जुहोमि देहसमिधं प्राणरोधविधानतः ।एवमुक्त्वा सती प्राणायामं चक्रे शनैस्तदा ॥१३२॥प्राणरोधः कृतः सत्या सुदृढस्तावदेव वै ।सर्वेषां च सुरादीनां प्राणरोधोऽभवत्तदा ॥१३३॥नाग्निर्जज्वाल च तथा यथाऽऽज्याहुतिभिः पुरा ।मन्त्राः कुण्ठितसामर्थ्यास्तत्क्षणादेव चाऽभवन् ॥१३४॥महाझन्झानिलः प्राप्तः पर्वतान्दोलनक्षमः ।मखमण्डपभूस्तेन क्षणतः स्थपुटीकृता ॥१३५॥अकाण्डतडिदापातो जातोऽभूद्भूप्रकम्पनः ।दिवश्चोल्काः प्रपतिताः पिशाचा नृत्यमादधुः ॥१३६॥आपतद्ग्रध्रैरुपरि गगने मण्डलायितम् ।तत्र पुरस्तादशिवं शिवाः क्रूरमरारिषुः ॥१३७॥मेघा रुधिरवर्षाभिस्तत्राहुश्चात्यमंगलम् ।निर्घातनिःस्वनो भूमेरुत्थितो हृत्प्रकम्पनः ॥१३८॥दिव्यायुधानि च मिथो युद्ध्यन्ति स्माऽतिभीषणम् ।हवनीयं महाद्रव्यं दूषितं क्रोष्टृभिः श्वभिः ॥१३९॥सत्याः प्राणनिरोधाश्च सर्वरोधेन तत्तदा ।श्मशानवाटवज्जातं निष्क्रियं मखभूतलम् ॥१४०॥यद्यत्राऽभूच्च विन्यस्तं तत्तत्रैव व्यवस्थितम् ।चित्रन्यस्तमिवाऽऽसीश्च प्राणरोधबलात्तथा ॥१४१॥सुजडा इव संजातास्तदा चक्रधरादयः ।देवी प्राणं बहिर्नीत्वा शमयामास भीषिकाम् ॥१४२॥चमत्कारो दर्शितोऽयं देव्या तथापि दक्षराट् ।शंकराऽऽह्वानवचनं नोवाच माननष्टधीः ॥१४३॥मौनीभूता सती स्मृत्वा शंभुं स्वपतिमादरात् ।पृथ्व्यां पुनः सा सहसा निषसाद प्रशान्तधीः ॥१४४॥जलमाचम्य विधिवत् संवृता वाससा शुचिः ।दृङ्निमील्य पतिं स्मृत्वा योगरीतिमुपाददे ॥१४५॥कृत्वा समाने ह्यनिलौ प्राणापानौ तथा पुनः ।उत्थाप्योदानसमानौ नाभिचक्रात्परं गता ॥१४६॥हृदिस्थाप्योरसि नीत्वा नीत्वा कण्ठाद् भ्रुवोः सती ।मध्यमानीय द्युरन्ध्रं सा जगाम त्वरान्विता ॥१४७॥अग्निमुत्पादयामास ब्रह्मरन्ध्रस्थिता सती ।ब्रह्मरन्ध्राग्निना देहो जाज्वल्यमान एव वै ॥१४८॥आकाशमुत्थितो व्योम्ना चाग्निकुण्डे ह्यवातरत् ।भस्मसादभवत् कुण्डे सती समाजगोचरा ॥१४९॥तत्पश्यतां च खे भूमौ हाहाकारो व्यवर्तत ।हाहाभूच्च जगत्सर्वं भीता विष्णुसुरादयः ॥१५०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सत्या व्योम्ना स्वसृविमानावलोकनम्, दक्षयज्ञे गमनाय शंभोराज्ञा, कैलासे नारदागमनं, यज्ञाद्दधीचिनिर्गमः,यज्ञे सती गमनं, शंकराऽऽसनाऽदर्शनं,सतीदक्षवाक्यानि, सतीदेहत्यागइत्यादिनिरूपणनामा पंचसप्तत्यधिकशततमोऽध्यायः ॥१७५॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP