संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १२५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १२५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२५ Translation - भाषांतर श्रीनारायण उवाच-शंकरः पार्वतीं प्राह महावैकुण्ठवर्णनम् ।त्रिपाद्विभूतेरक्षरब्रह्मस्था धामसृष्टयः ॥१॥शुद्धाः शान्ताः सुसन्तश्च ब्रह्मानन्दसुखात्मिकाः ।नित्याश्च निर्विकाराश्च हेयभागविवर्जिताः ॥२॥हिरण्मया असंख्याताः कोट्यब्जसूर्यकान्तयः ।नारायणपदांभोजभक्तिसद्रसपूरिताः ॥३॥सामादिस्तुतिकर्तारो यत्र सन्ति हि सात्त्वताः ।तद्वदिदं महावैकुण्ठाख्यं धाम परं पदम् ॥४॥निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ।नारायणचरणयोः रसभोगसुवर्धिताः ॥५॥महात्मानो महाभागा वैष्णवा निवसन्ति हि ।दास्यो वैष्णवमूर्धन्या हरेः सेवारताः सदा ॥६॥तद्विष्णोः परमं धाम वैकुण्ठं तद्धरेः पदम् ।नानाजनपदाकीर्णं सच्चिद्ब्रह्मसुखप्रदम् ॥७॥पद्मरागैदिन्द्रनीलैर्बहुरत्नैः सुशोभितम् ।कोटिवैश्वानरप्रख्यं सर्वविद्यामयं महत् ॥८॥आमोदकरमन्दारवृक्षैर्बहुभिरावृतम् ।नानामणिमयैर्दिव्यैविमानैः कोटिभिर्युतम् ॥९॥स लोको विपुलः पुण्यः शुद्ध आत्ममयः शुभः ।युगपत्कोटिसाहस्रसूर्यभासाप्रभासितः ॥१०॥नित्योऽयं वैष्णवो लोकः प्रधानान्ते न लीयते ।मया ब्रह्मादिदेवैश्च न द्रष्टुमपि शक्यते ॥११॥कल्पचिन्तामणिवृक्षाऽमृतवल्ल्यादिपूरितः ।मिष्टाम्बुदिव्यसोपानदीर्घिकालसितः शुभः ॥१२॥स्वर्णवर्णैः सदाऽम्लानैः समरूपैस्तु पंकजैः ।रमन्ते कन्यकास्तत्र विमानैर्विहरन्ति च ॥१३॥ज्वलदग्निसमैः कान्तैर्भूषणैः कोटिभिर्युताः ।निरन्तरं मुक्तपक्षिसंघैः सामभिरीडितः ॥१४॥नृत्यस्य मण्डपस्तत्र सुगन्धद्रव्यशोभितः ।ऊनषोडशवर्षैश्च दिव्यनारीनरैर्वृतः ॥१५॥सर्वलक्षणशोभाढ्यैर्दिव्यशोभिविभूषणैः ।सर्वत्र लसितः सम्यक् त्वानन्देन प्रपूरितः ॥१६॥नृत्यं भवति नित्यं वै तत्र तारस्वरादिभिः ।आनन्द जायते तेन मुहुर्वैकुण्ठवासिनाम् ॥१७॥एवं रम्यप्रदेशेषु मुदितैः पतिभिः सह ।नारायणं त्वर्चयन्ति प्रमदाः सात्त्वतप्रियाः ॥१८॥नारायणकृपालब्धं सुखमश्नन्ति सर्वदा ।गायन्ति भगवल्लीलां चरितानि शुभानि च ॥१९॥पद्मेक्षणाः कमलवत्कोमलांग्यश्च योषितः ।दिव्यस्रग्वसनोपेताः पद्मया सदृशाः शुभाः ॥२०॥शंखचक्रगदापद्मधरैर्भूषणभूषितैः ।स्रग्विभिः पीतवसनैः पतिभिः सह संस्थिताः ॥२१॥सेवन्ते श्रीहरिं नारायणं दिव्यं भजन्ति तम् ।अन्योन्यरममाणानां हरेर्भक्तेः सुखो रसः ॥२२॥सर्वदा वर्धत एव द्रवनिष्ठो भवत्यपि ।इत्येवं वसतिव्याप्तं व्यूहाभ्यन्तरमण्डलम् ॥२३॥मण्डलाभ्यन्तरे तत्र प्राकारो विद्यते महान् ।चतुर्द्वारसमायुक्तस्तुङ्गगोपुरसंयुतः ॥२४॥विमानानि च सौधानि सन्ति दुर्गेऽपि तत्र च ।चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रसुभद्रकौ ॥२५॥वारुण्यां जय विजयौ सौम्ये धाता विधातृकः ।कुमुद्ः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ॥२६॥शंकुकर्णः सर्वनिद्रः सुमुखः सुप्रतिष्ठितः ।अष्टौ प्राकारपतयो गौणद्वारेषु सन्ति हि ॥२७॥प्राकाराभ्यन्तरे तत्र प्राकारभवनानि वै ।कोटिवैश्वानरतुल्योज्ज्वलानि रत्नवन्ति च ॥२८॥आरूढयौवनदिव्यनारीनरयुतानि वै ।वर्तुलप्राकारलग्नस्थितिमन्ति भवन्ति हि ॥२९॥प्राकारो वर्तुलाकारो दशलक्षसुयोजनः ।साप्तभौमो महाव्योम्नि वर्तुलो वर्ततेऽभितः ॥३०॥गोपुरेषु द्वादशसु राजमार्गाः सुलम्बनाः ।प्राकाराभ्यन्तरे तत्र राजसौधं प्रयान्ति वै ॥३१॥दुर्गे त्वनु राजसौधमभितो नगरी शुभा ।दिव्या ह्ययोध्या सुभगा नारायणविनिर्मिता ॥३२॥अनन्तमणिभास्करगृहपंक्तिभिरावृता ।प्रोद्भिन्नयौवनैः रम्यैर्दिव्यनारीनरैर्युता ॥३३॥दिव्यनदनदीयुक्ता प्रेमजलसुनिर्झरा ।दिव्यभोज्यपानवस्त्रा संकल्पोद्भवसाधना ॥३४॥असंख्यदिव्यसौधादिवैष्णवगृहशोभिता ।महाभागवतसात्त्वतात्मनिवेदिसंश्रिता ॥३५॥नरा नारायणाकाराश्चतुर्हस्ताः सुवैष्णवाः ।नार्यो लक्ष्मीसमाकारा मालाकौस्तुभभासुराः ॥३६॥चन्दनागुरुकर्पूरकुंकुमाऽऽमोदसंयुताः ।नानापुष्पोद्यानयानवाहनगृहसंश्रिताः ॥३७॥मध्ये मध्ये कल्पवृक्षोद्यानानि सन्ति भूरिशः ।चत्वराश्चन्द्रशालाश्च विश्रान्तिशालिमण्डपाः ॥३८॥दिव्याः सहस्रभौमाश्च सन्ति नारायणेच्छया ।कल्पद्रुमतले स्थित्वा छायायां कमलाननाः ॥३९॥दिव्यसुगन्धशोभाग्र्यनानापुष्पपरिच्छदाः ।शुभास्तरणसंवृत्तश्लक्ष्णपर्यंकसंस्थिताः ॥४०॥सुधांशुकोटिसंकाशा दिव्याभरणभूषिताः ।सुवर्णसुभ्रूयुगलश्लक्ष्णनासाञ्चिताननाः ॥४१॥रमन्ते वैष्णवास्तत्र सच्चिदानन्दविग्रहाः।वैष्णव्यः सर्वदा नारायणं सेवन्त आदरात् ॥४२॥अयोध्यायां तु दिव्यायां मन्दिराणि त्वनेकशः ।नारायणीनां देवीनां वैष्णवीनां भवन्ति वै ॥४३॥अथाऽप्यन्तःपुराण्येव सप्राकाराणि सन्ति हि ।सोद्यानानि समस्तेष्टसाधनान्वितकानि वै ॥४४॥अष्टदिक्ष्वष्टसौधाः सप्राकाराः सन्ति चोन्नताः ।अत्राष्टशक्तयो लक्ष्म्यास्तनवः परितः स्थिताः ॥४५॥रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा ।सुदक्षिणा सुशीला च रत्यनङ्गप्रदास्तु ताः ॥४६॥शंखचक्रगदापद्मखड्गशार्ङ्गादिहेतयः ।सर्वा नूत्ननवरूपा प्राप्तयौवनपूरिताः ॥४७॥वर्तुले स्वस्वसौधेषु नारायणेन संगताः ।तप्तकांचनसंकाशाः सर्वाभरणभूषिताः ॥४८॥सुस्निग्धनीलकुटिलाऽलकराजिविराजिताः ।मन्दारपारिजातादिदिव्यपुष्पविराजिताः ॥४९॥रत्नाऽवतंसशोभाढ्याश्चिकुरान्तालिसन्निभाः ।केयूरांऽगदहाराद्यैर्भूषणैरुपशोभिताः ॥५०॥पीनस्तन्यो वैष्णव्यस्ता नारायण्यो निरन्तरम् ।क्रीडन्ति स्माऽमोघवीर्यवारिधिहरिणा सह ॥५१॥स वै नारायणः स्वामी सर्वदासीमनोहरः ।क्रीडत्यन्तःपुरेष्वत्र तासां यावदनंगदः ॥५२॥ईश्वरीभिः स देवेशो रतिं विन्दति नैकधाम् ।सुधांक्षुकोटिसंकाशो दिव्याभरणभूषितः ॥५३॥सुवर्णसुभ्रूयुगलश्लक्ष्णनासाञ्चिताननः ।स्निग्धायतसुलावण्यकपोलाभ्यां विराजितः ॥५४॥नीलकुञ्जितकेशाढ्यो रक्ताब्जदललोचनः ।मन्दारकेतकीजातीकबरीकृतकेशवान् ॥५५॥स्निग्धबिम्बफलाभौष्ठः सुस्मिताननपंकजः ।अनर्घ्यमौक्तिकाभासदन्तावलिविराजितः ॥५६॥हरिचन्दनलिप्तांगः कस्तूरीतिलकांकितः ।उन्नतांसभुजैर्दिव्यैश्चतुर्भिरुपशोभितः ॥५७॥जपाकुसुमसंकाशकरपल्लवशोभितः ।स्फुरत्केयूरकटकैरङ्गुलीयैश्च शोभितः ॥५८॥श्रीवत्सकौस्तुभाभ्यां च शोभितः पृथुवक्षसा ।मुक्तामयसुशोभाढ्यदिव्यस्तग्भिरलंकृतः ॥५९॥बालार्कसदृशज्योत्स्नापीतवस्त्रेण वेष्टितः ।माणिक्यनूपुरोपेतपदपद्मविराजितः ॥६०॥अकलंकितचन्द्राभनखपंक्तिविराजितः ।रक्तोत्पलनिभश्लक्ष्णशुभामऽघ्रियुगपंकजः ॥६१॥पांचजन्यरथांगाभ्यां बाहुयुग्मे विराजितः ।तप्तजांबूनदश्लक्ष्णशुभांघ्रिद्वयपंकजः ॥६२॥ताभिः क्रीडति देवेशो नारायणः सनातनः ।बहुरूपधरः श्रीमान्नैकश्रीभिः सुसेवितः ॥६३॥प्रतिश्रि राजते राजाधिराजोऽन्तःपुरेषु सः ।आसां नारायणमहालक्ष्मीतुल्याः समृद्धयः ॥६४॥न न्यूना अण्वपि सन्ति नारायण्यो यतश्च ताः ।नारायणैकपतिका नारायणैकसंश्रयाः ॥६५॥नारायणैकसत्प्राणा नारायणात्मिका हि ताः ।नारायणसमैश्वर्या नारायणपरायणाः ॥६६॥नारायणे सदा मग्ना नारायणार्थकृत्स्वकाः ।भजन्ति स्नेहसन्नर्महास्यविलासखेलनैः ॥६७॥प्रेमानन्दपरिकेलिस्वांगमर्दनभावनैः ।एतासां तु रमादीनामष्टानां वर्तुलान्तरे ॥६८॥उद्यानस्तु महान् दिव्यश्चन्द्रशीतलभूरुहाम् ।सुखवृक्षा मिष्टवृक्षास्तथैवाऽऽनन्दवल्लयः ॥६९॥मणिहीरकसोपानाऽवतारकुण्डसुस्थलाः ।अमृतनिर्झरणाढ्याश्चित्रपुष्पाः प्रदेशकाः ॥७०॥मौक्तिकवालुकाः स्वर्णभूमयो दुग्धवार्धयः ।मृद्वास्तरणसुस्थानाः सुदिव्यवनराजयः ॥७१॥स्वल्पानि तु विमानानि सन्ति सृतिवरास्तथा ।जलफुत्कारयन्त्राणि दोलावृक्षाश्च शोभनाः ॥७२॥कुंजा वल्लीप्रकृतिकाऽऽवरणाः सन्ति भूरिशः ।शय्यास्थानानि रम्याणि विश्रान्तिप्रस्थलानि च ॥७३॥रतिस्थानान्यनेकानि प्रच्छन्नस्थानभूमिकाः ।नारायणेच्छया तद्वै जायतेऽपेक्ष्यते यथा ॥७४॥अदृश्यत्वं च दृश्यत्वं प्रकाशत्वं ततोऽन्यथा ।यथापेक्षं तदा तत्तदिच्छया परिवर्तते ॥७५॥तादृशवर्तुलोद्यानमध्ये नारायणस्य वै ।प्रासादः शतशिखरो वर्तते सुमहोज्ज्वलः ॥७६॥शतसद्भूमिकश्चैव दिव्यरत्नमयो महान् ।शतयोजनविस्तारो वरतोरणशोभितः ॥७७॥विमानैर्गृहसंकाशैर्गृहैश्च बहुभिर्युतः ।मणिमाणिक्यसद्रत्नस्फटिकोप्तसुभित्तिकः ॥७८॥दिव्यसोपानसंराजद्गवाक्षाक्षिसुशोभितः ।घुम्मटैर्विविधैर्युक्तः पताकाध्वजदर्शनः ॥७९॥बहुभिः स्वर्णकलशैर्नैकचन्द्रप्रभोज्ज्वलः ।दिव्यदासीगणैः स्त्रीभिः सर्वतः समलंकृतः ॥८०॥अन्तःपुरं महालक्ष्म्या नारायणस्य सर्वथा ।प्रासादोऽयं भवत्येव मुख्याऽन्तःपुरमेव वै ॥८१॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने महावैकुण्ठे व्यूहाभ्यन्तरप्राकारतद्वसतितदभ्यन्तराऽ-योध्यावसतिरमाद्यष्टदासीप्रासादतदभ्यन्तरोद्यानतन्मध्यमहालक्ष्मीप्रासादतदुपकरणादिवर्णननामा पंचविंशत्यधिकशततमोऽध्यायः॥ १२५॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP