संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३३१ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३३१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३३१ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि ॥तुलस्यास्तु माहात्म्यं विष्णुसदृशम् ।यच्छ्रुत्वापि भवेन्मुक्तिर्विष्णोः सान्निध्यदायिनीम् ॥१॥या तु यस्य कृते नित्या सा नान्यस्य भवेद् ध्रुवा ।विष्णोः पत्नी पुनर्विष्णुं प्राप्ता वृन्दा च वृक्षिणी ॥२॥श्रीलक्ष्मीरुवाच--ननु वृन्दाऽभवद् यत्र भस्मीभूता तु तत्स्थले ।अदृश्या सा कियत्कालं स्थिता विष्णुमचिन्तयत् ॥३॥स्त्रीजातिर्वास्तवी शुद्धा ताश्च सर्वाः पतिव्रताः ।सर्वा जातिश्चैकविधा त्वादौ सृष्टा हि वेधसा ॥ ४॥ताः सर्वाः प्रकृतेरंशाः पवित्राः पण्डिताः श्रियः ।कथं धर्मो विनाशं वै गतः पतिव्रतात्मकः ॥५॥विष्णुः पतिर्हि नारीणां स च धर्मः सनातनः ।नरा विष्णोः सदंशाश्च कथं धर्मः क्षयं गतः ॥६॥प्राक् सृष्टौ प्रकृतीनां हि पुंसां संसेवने तदा ।धर्म एव परश्चासीत् कथं स वै क्षयं गतः ॥७॥श्रीनारायण उवाच-शृणु लक्ष्मि! कथां दिव्यां बहुसंशयनाशिनीम् ।पूर्वः स्त्रियः सदा शुद्धाः शुद्धान्तःकरणास्तथा ॥८॥नार्या नरः सदा सेव्यः सृष्टिवृद्ध्यर्थमेव यत् ।एष धर्मः पुरा ह्यासीत् सनातनतमस्तदा ॥९॥यं कमपि संसेव्य गर्भवत्योऽभवन् यदा ।तदा नार्या नरमात्रसेवा धर्मः सनातनः ॥१०॥नासीद्वै कामना तत्र तृष्णा रागमयी तदा ।केदारकन्याशापेन स हि धर्मः क्षयं गतः ॥११॥तदा कोपेन धात्रा च स्त्रियो रागान्विताः कृताः ।तत आरभ्य धर्मः सः स्त्रीणामन्योऽभवत् कृतः ॥११॥सरागः कामतृप्त्यर्थं स्त्रीभिर्यो गम्यते नरः ।तत्र रागो ह्यधर्मोऽभूद् युगभेदेन पद्मजे ॥१३॥यदि स्त्रिया न रागोऽस्ति पुंसोऽपि नैव रागिता ।गर्भार्थमेव योगश्चेद् धर्मो बीजप्रदानकम् ॥१४॥यदि भोगेच्छया योगः स त्वधर्मः प्रकीर्तितः ।युगभेदेन लोकानां रागतृष्णे बभूवतुः ॥१५॥तेन कामप्रवृतिश्चाधर्मरूपाऽभवद् यतः ।ततः पतिव्रताधर्मो धर्माभासमयोऽभवत् ॥१६॥पूर्वधर्मो विनष्टश्च धर्मान्तरमभून्नवम् ।एतत्सर्वं तु वृन्दाया निमित्तेनाऽप्यभूत्पुरा ॥१७॥कथयामि समासेन यथाऽभूत्तन्निबोध मे ।पुरा तु ब्रह्मणः पुत्रो मनुः स्वायंभुवोऽभवत् ॥१८॥तस्य पत्नी शतरूपाऽभवत् सा तु पतिव्रता ।प्रियव्रतोत्तानपादौ तयो पुत्रौ बभूवतुः ॥१९॥उत्तानपादपुत्रश्चाऽभवद् ध्रुवस्तु वैष्णवः ।तत्पुत्रो नन्दसावणिः केदारश्चेति तत्सुतः ॥२०॥सप्तद्वीपपतिश्चायं केदारो वैष्णवोऽभवत् ।तद्रक्षार्थं सदा विष्णोः सुदर्शनमभूद् गृहे ॥२१॥गवां लक्षं स्वर्णशृगं वस्त्राणि विविधानि च ।सुवर्णानां तथा लक्षं नित्यं दाने ददाति सः ॥२२॥मणिहीरकमुक्तानां दानं करोति नित्यशः ।लक्षं लक्षं द्विजानां स भोजयामास नित्यशः ॥२३॥जलभोजनपात्राणि सुवर्णानां ददाति सः ।यज्ञसूत्रांऽगुलीयकासनानि स्वर्णजानि च ॥ २४॥दाने ददाति राजाऽसौ दीनाऽनाथ द्विजातये ।लक्षविप्राः सूपकारा द्वे लक्षे परिवेषकाः ॥२५॥शतलक्षप्रभोक्तारः प्रतिपर्वाऽस्य सन्ति वै ।घृतकुल्या मधुकुल्या दधिकुल्या मनोहराः ॥२६॥गुडकुल्या दुग्धकुल्या भवन्त्यस्य दिवानिशम् ।साधूनां पूजनं नित्यं साध्वीनां पूजनं तथा ॥२७॥करोति नित्यसत्कारं वृद्धानां पूजनादिकम् ।गवां सुराणां विप्राणां करोति नित्यपूजनम् ॥२८॥फलमूलाशनो राजा मदर्पणपरायणः ।सर्वं मदर्पणं कृत्वा गृह्णाति पद्मजे! सदा ॥२९॥मामेव नित्यं जपति स्मरति श्रीयुतं च माम् ।भजते सर्वदा लक्ष्मीनारायणममुं हि माम् ॥३०॥एकदा द्वादशीप्रातः पारणायां नृपगृहे ।विप्राणां भोजनायैव दशलक्षमुपस्थितम् ॥३१॥द्रागेव यज्ञहवनं कारयित्वा नृपेण हि ।भोजिता मिष्टवस्त्वाद्यैरन्नैर्व्यञ्जनपायसैः ॥३२॥पूरिकाभिर्विविधाभिर्दुग्धादध्यादिभिस्तथा ।सद्द्विजैस्तृप्तिमापन्नैर्दक्षिणापूर्णमानसैः ॥३३॥शुभाशिषः प्रदत्तास्ते लक्ष्मीर्वसतु वै गृहे ।अथ मध्याह्नहोमे तु हवनं बहुधा घृतैः ॥३४॥तिलैः फलैः पायसान्नैः पुष्पैः पत्रैश्च कारितम् ।तदा विष्णोर्हि कृपया वृन्दा वृन्दवनस्थिता ॥२५॥तपसिस्था तु पत्यर्थं विष्णोरर्थं पतिव्रता ।जलधरविनाशाद्धि रूपान्तरेण संस्थिता ॥३६॥नारायणाज्ञया केदारस्य यज्ञमुपस्थिता ।कमला कलया जाता यज्ञकुण्डसमुद्भवा ॥३७॥वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ।कामुकी दिव्यशोभाढ्या कन्या कमललोचना ॥३८॥जातमात्रा युवती सा वृन्दाऽऽदेशकरी प्रभोः ।कन्याऽस्मि ते महाराजेत्युवाच नृपतिं हि सा ॥३९॥राजा संपूज्य तां पुत्रीं तस्थौ पत्नीं समर्प्य च ।सापिप्रसू तु तां राज्ञीं केदारं जनकं जगौ ॥४०॥तत आरभ्य लक्ष्म्या वै प्रतापेनाऽस्य भूपतेः ।राजेन्द्राणां पञ्चलक्षं नित्यं केदारसंसदि ॥४१॥अमूल्यरत्नमाणिक्यं मुक्ताहारं मणीश्वरम् ।गजरत्नमश्वरत्नं केदाराय करं ददौ ॥४२॥एवं स्मृद्धिमयं राज्यं साप्तद्वीपमयं ह्यभूत् ।कन्या तु विष्णुकामाढ्या तपस्येव मनो दधे ॥४३॥प्रसूं तातं नमस्कृत्य ययौ वृन्दावनं पुनः ।यमुनान्तिकमेवेयं यत्र प्राग् भस्मतां गता ॥४४॥तपसा वरयामास मां वरं च वरोत्तमम् ।ब्रह्मा ददौ वरं तस्यै विष्णुं कृष्णं लभिष्यसि ॥४५॥अथैकदा यमुनायास्तीरे स्वपिति सुन्दरी ।धर्मः परीक्षितुं यातो वृन्दां तां तापसीं ततः ॥४६॥ददर्श कन्या रहसि युवानं पुरुषं परम् ।यथा षोडशर्षीयं कामेन कनकप्रभम् ॥४७॥सुगन्धाढ्यं साभरणं रमणीनां मनोहरम् ।कामुकं कोटिकन्दर्पलावण्यं पार्वणाननम् ॥४८॥पद्मपत्रनिभनेत्रं सस्मितं भावपूरितम् ।पार्श्वतो गायनं कुर्वन् वीणां रम्यां च वादयन् ॥४९॥ययावितस्ततः सोऽपि भावं हृदि प्रदर्शयन् ।दृष्ट्वा तत्र निषसाद सुन्दरीं मानयन् बहु ॥५०॥वृन्दाऽपि तं समुत्थायाऽऽतिथ्यं कृतवती तदा ।अपूजयत्फलैर्मूलैः पुष्पपत्रैर्जलादिभिः ॥ ५१॥पूजां गृहीत्वा मुदितः सस्नेहां तामुवाच सः ।भवती कस्य कन्याऽसि तपश्चरसि दारुणम् ॥५२ ।किमत्र कारणं कन्ये! किं ते नाम वदात्र मे ।निर्जनेऽत्र वसस्येकाकिनी वाञ्छसि किं शुभे ॥५३॥वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।वृन्दोवाच तु तं विप्रं केदारनृपकन्यका ॥५४॥वृन्दा तपः करोम्यत्र चिन्तयामि हरिं पतिम् ।यदि दातुं समर्थोऽसि देहि मे वरमुत्तमम् ॥५५॥असमर्थोऽसि चेद्विप्र! पूजयाम्यन्यतः सर ।धर्म उवाच तां वृन्दां परमात्मानमीश्वरम् ॥५६॥का क्षमा तं पतिं कर्तुं विना लक्ष्मीं सतीं श्रियम् ।राधां रमां पार्वतीं च शारदां च प्रभां तथा ॥ ५७॥सरस्वतीं माणिकीं च शारदां विरजां च वा ।चतुर्भुजः स वैकुण्ठे गोलोके तु द्विबाहुकः ॥५८॥अक्षराख्ये परे धाम्नि द्विभुजः स हि वर्तते ।तस्य पत्न्यस्त्वसंख्याताः सन्ति मुक्तान्य एव ताः ॥५९॥राधालक्ष्म्यादयस्ते तु भजन्तेऽनादियोषितः ।कोटिकन्दर्पवीर्यादिसंपूर्णं कान्तसुन्दरम् ॥६०॥यन्निमेषो भवेद् वृन्दे! ब्रह्मणः पतनेन वै ।एकोर्ध्वसप्ततिसत्ययुगैस्त्विन्द्रस्य पातनम् ॥६१॥चतुर्दशेन्द्रावच्छिन्नकालेन ब्रह्मणो दिनम् ।निशाऽपि तावती तस्य शतायुष्ट्वं भवत्यपि ॥६२॥यावज्जीवनपर्यन्तं सेवन्ते सनकादयः ।कल्पानां कोटिकोटिं च तन्न साध्योऽस्ति यन्महान् ॥६३॥सहस्रवक्त्रशेषश्च सेवते च जपत्यपि ।दिवानिशं तु तं भक्त्या कल्पकोटिशतं शतम् ॥६४॥तथापि नैव चाप्नोति दुराराध्यः परात्परः ।ब्रह्मा ब्रह्मस्वरूपस्तं भजेज्जन्मनि जन्मनि ॥६५॥तेनाऽप्यसाध्यो भगवान् त्वया कथमवाप्यते ।संहारकर्ता जगतां रुद्रोऽप्यन्तं न गच्छति ॥६६॥स नाऽऽप्नोति तदा त्वं वै कथमाप्स्यसि बालिके! ।ब्रह्मस्वरूपा परमा मूलप्रकृतिरीश्वरी ॥६७॥नारायणी विष्णुमाया वैष्णवी सा सनातनी ।सरस्वती च यं स्तोतुमशक्ता परमेश्वरी ॥६८॥कथमिच्छसि कल्याणि! प्रकृतेः पारगं पतिम् ।मां भजस्व महाभागे नृपाणामीश्वरं पतिम् ॥६९॥भुंक्ष्व सुखानि सर्वाणि मद्गृहे वरवर्णिनि! ।सप्तसागरपारे तु काञ्चनी नगरी मम ॥७०॥तत्रैवाऽऽगच्छ भद्रं ते रम रामे! मया सह ।एह्यके मम संभोक्तुं मां युवानं मनः कुरु ॥७१॥इत्युक्ता सा नृपसुता कोपाद्धर्म्यमुवाच तम् ।धैर्यं कुरु क्षितिस्वामिन्! तपः सत्यं च ते व्रतम् ॥७२॥अपत्नीसहयोगस्तु त्वदर्थेऽधर्म इत्ययम् ।तेनाऽभद्रं भवेत्। तादृक् समूलस्य विनाशकम् ॥७३॥तपोनाशो भवेन्मेऽत्र तव नाशो भवेत्तथा ।रहस्यं चापदं दृष्ट्वा मां त्वं धर्षितुमिच्छसि ॥७४॥किन्त्वत्र लोकपालाश्च धर्मो यमो हरिः शशी ।सूर्यः पृथ्वी जलं वह्निर्बुद्धिः साक्षी तथाऽपरे ॥७५॥सर्वप्राणिषु तिष्ठन्ति क्व गुप्तं क्व रहस्यकम् ।क्षमस्व गच्छ भद्रं ते ह्यवध्यो ब्राह्मणो मतः ॥७६॥शक्ताऽहं भस्मसात् कर्तुं गच्छ विप्र यथासुखम् ।सर्वान्तरात्मा भगवान विष्णुः रक्षति मां द्विज! ॥७७॥अनाथबालवृद्धानां विष्णुः संरक्षकः सदा ।एवमुक्तोऽपि कामेन संभोक्तुं याति यावता ॥७८॥कोपाच्छशाप सा धर्मं ब्रह्मबन्धो क्षयं व्रज ।क्षयं व्रज दुराचार हे धर्महन् क्षय व्रज ॥७९॥तावत् तत्र समायाता ब्रह्म विष्णुमहेश्वराः ।धर्मं दृष्ट्वा प्रशप्तं तं रुरुदुस्त्रिदशेश्वराः ॥८०॥निश्चेष्टं मलिनं दग्धं सतीकोपाग्निना हतम् ।धर्मं क्षमस्व वृन्दे त्वं जन्ममृप्युजराहरम् ॥८१॥धर्मं जीवय पितरं रक्ष धर्मं पतिव्रते! ।इति विष्णुस्तदोवाच तथा ब्रह्माऽप्युवाच ताम् ॥८२॥ध्वान्तपूर्णं जगज्जातं विना धर्मेण वृन्दिके! ।कम्पितौ चन्द्रसूर्यौ च शेषश्चापि वसुन्धरा ॥८३॥स्वस्ति तेऽस्तु च भद्रं ते जीवयैनं वृषं शुभे! ।धर्मे करोषि तपसां कथं धर्मं विहंसि च ॥८४॥द्विजरूपधरो धर्मस्त्वां परीक्षितुमागतः ।ब्रह्मणा प्रेरितश्चायं निर्दोषोपि विहंसितः ॥८५॥तपसोपार्जितो धर्मो धर्मेण च फलं नृणाम् ।कथ फलं स्यात् तपसा यदि धर्मः क्षयं गतः ॥८६॥निष्फलं कर्मिणां कर्म विना धर्मेण धार्मिके ।धर्मे प्रणष्टे तपसां तवाऽपूर्वं विनंक्ष्यति ॥८७॥स्वधर्मोपार्जनं कर्तुमागताऽस्यत्र सुन्दरि! ।विहंसि धर्ममज्ञात्वा धर्मं जीवय सत्वरम् ॥८८॥इति श्रुत्वा तदा वृन्दा देवान्प्राह तपस्विनी ।अहं देवा न जानामि धर्मं ब्राह्मणरूपिणम् ॥८९॥कृतः क्षयो मया कोपान्मां प्रधर्षितुमिच्छतः ।जीवयामि ध्रुवं धर्मं मृतं सनातनं पुनः ॥९०॥किन्तु मृतः पुनर्नैव स एवात्र भविष्यति ।देशकालादिभेदेन धर्मोऽन्योऽयं भविष्यति ॥९१॥तपः सत्यं तु चेन्मेऽत्र सत्यं चेद् विष्णुपूजनम् ।तेन पुण्येन तु विप्रोऽत्र सद्यो भवतु जीवितः ॥९१॥मम सत्यव्रतं सत्यं तपः सत्यं च मे यदि ।तेन पुण्येन विप्रोऽत्र सद्यो भवतु जीवितः ॥९३॥धर्मपत्नी तदा मूर्तिरुवाच कमलापतिम् ।यद्यस्मि धर्मपरमा धर्मो भवतु जीवितः ॥९४॥नारायणपदे नत्वा मूतिर्वृन्दा प्रचक्रतुः ।वन्दनं धर्मजीवार्थं नारायणस्तदाऽऽह च ॥९५॥मूर्ते! वृन्दे! च धर्मोऽयं जीवतु भवतु कृते ।चतुष्पादोऽथ त्रेतायां त्रिपादो द्वापरे द्विपात् ॥९६॥कलौ त्वस्तु त्वेकपादस्त्रेधा क्षयार्थशापवान् ।इत्युक्त्वा स हरिर्धर्ममाह्वयामास शब्दतः ॥९७॥धर्मस्तु जीवनं प्राप्तो मूर्तिवृन्दाऽप्रसीदताम् ।ध्रुवः पूजितश्च वृन्दा तत्र प्रशंसिता ॥९८॥वरदानार्थमाज्ञप्ता ययाचे विष्णुमेव सा ।विष्णोरर्थं तपस्तप्तं पतिर्विष्णुश्च मे भवेत् ॥९९॥मां विवाह्य तु वैकुण्ठं नयताद् विष्णुरेव ह ।तथास्त्विति हरिः प्राह वृन्दा प्रसन्नतां गता ॥१००॥वृन्दाविवाहिता तत्र विष्णुना सह कन्यका ॥१०१॥वैकुण्ठं च गता विष्णुं प्राप्य सा राजकन्यका ।अथ वृन्दावनं रम्यं मोक्तुं वृन्दा न चेच्छति ॥१०२॥विष्णुः प्राह तदा वृन्दां तिष्ठात्र तुलसीमयी;विवाहयिष्ये त्वागत्य बहुमानपुरःसरम् ॥१०३॥एतद् वृन्दावनं रम्यं त्यक्तुमहं न चोत्सहे]निमित्तान्तरमासाद्य स्थास्ये त्वत्र त्वया सह ॥१०४॥विष्णोस्तुलसीवैवाह्यं लोके ख्यातिं गमिष्सि ।तथा करिष्ये वृन्देऽहं वसाऽत्र तुलसीमयी ॥१०५॥अथ कालान्तरे राधाछाया त्वं वै भविष्यसि ।तदा रापाणपुत्रीं त्वां विवहिष्यामि वै पुनः ॥१०६॥वसुदेवस्य पुत्रोऽहं कृष्णो राधापतिः स्वयम्कृष्णनारायणस्तेऽत्र भविष्यामि पतिः प्रिये ॥१०७॥विष्णुस्तां तुलसीं कृत्वा नांत्या वृन्दां सहाऽच्युतः ।ययौ वैकुण्ठमेवाऽन्ये सुगः स्वं केतनं ययुः ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जालंधरवृन्दाख्याने वृन्दाया ध्रुवपौत्रकेदारपुत्रीत्वं वृन्दवने तपश्चर्या, धर्मकृतपरीक्षा, धर्मेण धर्षिताम्रियत्वेति धर्मं शशाप, त्रिदेवागमनं, धर्मोज्जीवनम्, धर्मस्य क्षयः शीलरूपान्तरता, वृन्दायास्तुलसीरूपेण स्थितिः, वृन्दारूपेण वैकुण्ठगतिश्चेत्यादिनिरूपणनामैक- त्रिंशदधिकत्रिशततमोऽध्यायः ॥३३१॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP