संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४६४ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४६४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४६४ Translation - भाषांतर श्रीनारायण उवाच-पुरा कद्रूश्च विनता दक्षपुत्र्यौ तु योषितौ ।कश्यपस्य धर्मपत्न्यौ क्रीडन्त्या वेकदा शुभे ॥१॥उच्चैःश्रवांसः सूर्याश्वाः शबला धवला नु वा? ।किंरूपाः स्युरितिवादं चक्राते कश्यपगृहे ॥२॥कद्रूरुवाच विनते गतिस्ते व्योम्न्यखण्डिता ।ततः सर्वं विजानासि वद रूपं नु कीदृशम् ॥३॥पणं च कुरु कल्याणि तुभ्यं यो रोचतेऽनघे ।विनतोवाच कल्याणि किं पणेनात्र दक्षजे ॥४॥पणे तु नावयोः सौख्यं पणोऽन्यतरदुःखकृत् ।इति ज्ञात्वा पणो नैव कर्तव्यः स्नेहहानिकृत् ॥५॥त्वज्जये का च मे हानिर्मे जये का च ते क्षतिः ।ध्रुवमेकस्या विजयेऽन्यस्यास्त्ववनतिर्भवेत् ॥६॥एवमेव कथयामि विना पणेन तत् स्वसः ।कद्रूः प्राह सदा खेलव्यवहारे पणं विना ॥७॥आस्वादो मानसो नैव रसो नापि प्रजायते ।तस्मात् पणं पुरस्कृत्य रमन्ते खेलकारिणः ॥८॥बाला अपि मृषा पणं कुर्वन्ति च हसन्ति च ।रमन्ते कालयानार्थं पणं कुरु ततो वद ॥९॥विनताऽऽह यथा प्रीतिस्तवाऽत्र वै ।अथ कद्रूः शठा धूर्ता पणरूपं जगाद ह ॥१०॥तस्यास्तु सा भवेद् दासी पराजीयेत् या यया ।अस्मिन्पणे त्विमाः सर्वाः सख्यः साक्षिण्य एव नौ ॥११॥पणीकृत्य तथा कद्रूः कर्बुरं प्राह वाजिनम् ।विनता धवलं प्राह ततो ययतुः स्वालयम् ॥१२॥कद्रूः कृष्णसुतान् सर्पानाहूय प्राण तत्पणम् ।उवाच यात सत्पुत्रा द्रुतं मम निदेशतः ॥१३॥श्वेतं तं वाजिनं पुत्रा वल्गत प्रतिरोमकम् ।कृष्णवर्णः प्रदृश्येत कल्मषयेत सर्वतः ॥१४॥इति श्रुत्वा वचो मातुः केचनाऽऽहुः स्वमातरम् ।वयं नैव गमिष्यामो मृषा दोषभयान्विताः ॥१५॥अन्येऽपि तु तथा प्राहुर्दोषो विश्वासनाशनम् ।अनृतं नरकद्वारं दोषं कुर्मो न तद् वयम् ॥१६॥अपरेऽपि स्वबन्धूनां स्नेहं मातृस्वसुस्तथा ।पुरस्कृत्य निषेधं तत्कार्यंऽकुर्वन् नयान्विताः ॥१७॥तान्सर्वानुरगी कद्रूः शशाप क्रोधशेवधिः ।तार्क्ष्यभक्ष्याः सदा सन्तु ये मद्वचोविरोधिनः ॥१८॥इति शापप्रदग्धास्ते ययुः पातालमाश्रयम् ।अथान्ये बालकास्त्वासन् मातृस्नेहसमाकुलाः ॥१९॥ते मत्वा मातृवचनं ययुः सूर्याश्वमम्बरे ।ववल्गिरे परितोऽश्वं चक्रुर्नीलं सुकर्बुरम् ॥२०॥अथ सूर्यस्य तापेन दग्धास्ते त्वाययुर्गृहम् ।मातरं प्राह तत्सर्वं तदा कद्रूस्तु राहुकम् ॥२१॥समाहूय समर्च्याऽपि सूर्यतापविनाशकम् ।सुयोजनं समादिश्य पर्वणि राहुणाऽऽवृतम् ॥२२॥गत्वा सर्पा अर्कवाहं ववल्गिरे समन्ततः ।विनतापृष्ठमारुह्य कद्रूर्ययौ दिवं यदा ॥२३॥ताभ्यां तुरंगमोऽदर्शि कर्बुरो नीलवर्णकः ।विनता प्राह धवलो मया व्यलोकि वै मुहुः ॥२४॥तव भाग्योदयादश्वः कर्बुरोऽद्य विलोक्यते ।अस्तु यथा तथा भावि भाग्यं केन निवार्यते ॥२५॥विधिर्बलीयान् सर्वत्र श्वेतं नीलायतेऽपि यत् ।अदृष्टं यादृशं यत्र भोग्यत्वेनोपतिष्ठति ॥२६॥प्रतिकूलं प्रजायेत् सानुकूलमपि द्रुतम् ।इति दृष्ट्वा नीलमश्वं पराभूता हि पक्षिणी ॥२७॥कद्रूगृहस्थिता नित्यं तस्या दास्यं सदाऽकरोत् ।गरुडस्तां तथाभूतां दृष्ट्वा दासीं स्वमातरम् ॥२८॥प्राह मातः कथं त्वेतद्दास्यं वै प्रोह्यते त्वया ।धिक् तान्सुतान्बलिष्ठाँस्तु यन्माता त्वन्यकिंकरी ॥२९॥पुत्रोत्पत्तिस्तदर्था वै या पित्रोः परिपोषिका ।पुत्रैरपोषिता माता गर्दभ्या तुलनायते ॥३०॥सत्सु सप्तसु पुत्रेषु गर्दभी भारवाहिनी ।धिक् तान् पुत्राँस्तु यन्माता तेषु जीवत्सु दुःखिनी ॥३१॥वरं वन्ध्यात्वमेवाऽस्या यत्सुता वन्ध्यकर्मिणः ।क्लेशितं जननीजठरं येन माता न मोदते ॥३२॥माता लक्ष्मीर्जन्मदात्री निजस्वत्वप्रदायिनी ।सा दुःखात् तारिता यैर्न तेषां जन्म निरर्थकम् ॥३३॥मयि सत्त्वे बलिष्ठे च यदि माताऽतिदुःखिनी ।किं बलं मे प्रशस्तं वै नारकं तत् स्मृतं वलम् ॥३४॥अपि पापकृतः पुत्रा यदि रक्षन्ति मातरम् ।तरन्ति मातृतीर्थेन सेवया तोषितेन ते ॥३५॥न यज्ञा न व्रतं जाप्यं दानं न चापि दक्षिणा ।मातृसेवाशतांशत्वं प्राप्नुवन्ति कदाचन ॥३६॥अपि विघ्नसहस्राणि यमदूताऽयुतानि च ।वियन्ति दूरतो मातुः सेवयाऽऽशीर्भिरेव हि ॥३७॥इतिपुत्रवचः श्रुत्वा विनता भक्तबालकम् ।प्रोवाचाऽहं पुरा दास्यं कद्र्वाः प्राप्ताऽस्मि वै पणे ॥३८॥अश्वः सूर्यस्य धवलो मयोक्तश्च तया ततः ।कर्बुर इत्यभिहितस्ततस्तत्पुत्रकैः खलु ॥३९॥गत्वाऽश्वश्चित्रितः कृष्णश्चाहं दासीत्वमागता ।यस्मिन् काले ह्यभीष्टं च तस्या द्रव्यं ददामि चेत् ॥४०॥तदा दासीत्वविगमं प्राप्स्ये पृच्छ तु सर्पिणीम् ।गरुडो विनतां नत्वा कद्रूं नत्वा पुनः पुनः ॥४१॥पप्रच्छ मातृदासीत्वमोक्षदं कद्रुकां हि सः ।कद्रूः प्राह सुधां देहि भवेद् दासीत्वमोक्षणम् ॥४२॥गरुडस्तत्समाकर्ण्य समापृच्छ्य तु मातरम् ।संस्मृत्य श्रीकृष्णनारायणं ययौ स कश्यपम् ॥४३॥तं जगाद सुधार्थं स्वयात्रां तं प्राह कश्यपः ।स्वर्गलोकस्य वै चोर्ध्वं निधानं देवभोजनम् ॥४४॥अमृतं वर्तते देवभृत्यैश्चक्रेण रक्षितम् ।गच्छ शीघ्रं कृष्णनारायणं स्मृत्वा जयो भवेत् ॥४५॥जगामाकाशमाविश्य गरुडः पितृवाक्यतः ।यत्राऽमृतनिधानं तद्दृष्ट्वा मुमोद भक्तराट् ॥४६॥कृष्णनारायणं स्मृत्वा कोशाध्यक्षान् ददर्श सः ।पक्षवातेन तान्सर्वान् विधूय सर्वशो बली ॥४७॥ददर्श कर्तरीयन्त्रममृतोपरि संस्थितम् ।भ्रममाणं बहुवेगात् सुदर्शनसमं महत् ॥४८॥अपि स्पृशन्तं कमपि भेदयत्येव खण्डशः ।क्षणं विचार्य गरुडः सूक्ष्माणुत्वमुपागतः ॥४९॥यद्यहं मातृभक्तोऽस्मि कृष्णनारायणाऽनुगः ।तदा मे रक्षणं त्वत्र करोतु भगवान् स्वयम् ॥५०॥जरितौ पितरौ यस्य बालापत्यश्च निर्धनः ।साध्वी भार्या च तत्पुष्ट्यै दोषोऽकृत्येऽपि तस्य न ॥५१॥मातुर्विप्रस्य बालस्य गोः पत्न्याश्च गुरोरपि ।जीवदानस्य हेत्वर्थे त्वकृत्ये नास्ति दूषणम् ॥५२॥एवं कृत्वा तु चक्रस्य ह्यधोभागस्थितां सुधाम् ।विलोक्य कलशे भृत्वा पीत्वाऽपि मृत्युनाशिनीम् ॥५३॥ततश्चक्रं योगबलात् पिच्छेनोत्पाट्य कीलकात् ।भ्रमिहीनं मन्दवेगं स्थिरं कृत्वा तु यावता ॥५४॥सुधाकुंभेन सहितः समुद्गच्छति तावता ।रक्षकास्तं विलोक्यैव दुद्रुवुः पाशहस्तकाः ॥५५॥पक्षवातेन तान् सर्वान् मूर्छयित्वाऽतिवेगतः ।बहिर्यातो निधेस्तस्मात् तावत्सुरेश्वरादयः ॥५६॥दूतस्मृतास्तत्र तूर्णं युद्धाय त्वाययूः रुषा ।महेन्द्रस्तं सहेतिर्वै प्राह कस्त्वं सुधाहरः ॥१७॥तिष्ठ तिष्ठ महाबाहो वज्रेण सूदयामि वै ।श्रुत्वा वाक्यं हरेस्तत्र चुकोप गरुडस्तदा ॥५८॥पराक्रमं दर्शयस्व नयामि गरुडोऽमृतम् ।इत्युक्तश्चेन्द्र एवैनं वज्रेण प्रजघान ह ॥५९॥कुलिशस्याऽतिपातेपि न वै क्षुब्धो महाबलः।स्वं मोघं कुलिशं दृष्ट्वा भीतश्चेन्द्रस्तमाह यत् ॥६०॥यदि दास्यसि पीयूषमिदानीं नागमातरि ।भुजंगास्त्वमराः सर्वे क्रियन्ते तु त्वया खग ॥६१॥प्रतिज्ञा ते भवेन्नष्टा भोजनं ते न वै भवेत् ।तस्मान्मा तां सुधां देहि कद्रूं कुरु न चामृताम् ॥६२॥इतिश्रुत्वाऽऽह गरुडो नयामि सुरराट् सुधाम् ।दास्ये कद्रूं च माता मे स्याददासी ततः परम् ॥६३॥शीघ्रं त्वया प्रहर्तव्या सुधा न पानतां वज्रेत् ।तथास्त्विति हरिः प्राह ययौ कद्रूं च पक्षिराट् ॥६४॥दत्वा दास्यं विनिर्धूय मातुः स निर्ऋणोऽभवत् ।अथ सर्पांश्च कद्रूं च प्राह वै पक्षिराट् स्वयम् ॥६५॥अशुद्धौ नहि पातव्या सुधा त्वशुद्धतां व्रजेत् ।रससामर्थ्यहीना स्यात् स्नात्वाऽतश्च पिबन्तु ताम् ॥६६॥इत्युक्तास्ते ययुः स्नातुं शक्रो जहार तां सुधाम् ।आगत्य भुजगैर्नैव दृष्टं त्वमृतभाजनम् ॥६७॥कुशस्तम्बे यत्र पात्रं स्थापितं त्वासीदेव तत् ।पर्यलिहंस्ततस्तेषां जिह्वाः कुशैर्द्विधाऽभवन् ॥६८॥तदा तु चुक्रुशुः सर्पास्त्वमृतार्थं समुल्बणाः ।इन्द्रेण तु तदा त्वन्यः कलशः कृत्रिमः कृतः ॥६९॥यत्र विषं सुधारंगं प्रच्छन्नं निहितं कृतम् ।तदादाय पपुः सर्वे बिन्दुमात्रं विभागशः ॥७०॥तानुवाच प्रसूः पुत्रान् युष्मन्मुखे सदा सुताः ।बिन्दवः खलु तिष्ठन्तु नो लोपः स्यात् कदाचन ॥७१॥इत्याशीर्वादमाप्तास्ते सर्पा ययुनिजं गृहम् ।हृष्टास्त्वमृतभ्रान्त्या ते नागाः प्रमुदितास्त्वथ ॥७२॥ताँस्तान् गरुडः क्षुधितश्चखाद बलवाँस्ततः ।पलायितास्तु ते नागा पर्वतादिष्ववस्थिताः ॥७३॥एवं स गरुडः स्वस्य मातरं किंकरीपदात् ।मोचयित्वा गृहीत्वा च पित्रोराशीर्वचांसि सः ॥७४॥ययौ वैकुण्ठलोकं संवाहात्मको हरेरभूत् ।हरेर्दास्यं सदा प्राप्तो विष्णुवत्पूज्यतां गतः ॥७५॥यन्माता विनता चापि भक्तपुत्रप्रसूर्यतः ।कश्यपस्य सदा मान्या ह्यभवत् सत्यसंस्थिता ॥७६॥अमृतादाः सुताश्चासन् विनतायाः सतीस्त्रियाः ।शठाया विषवक्त्रायाः कद्र्वास्त्वासन् सुताः शठाः ॥७७॥तस्माल्लक्ष्मि सदा पाल्यं पातिव्रत्यं हरौ मयि ।स्वप्रतापेन तेषां वै दूरयामि दुरन्तकम् ॥७८॥पितृभक्तिर्मातृभक्तिर्गुरोर्भक्तिश्च तारिणी ।पतिभक्तिः पुत्रभक्तिः सतीभक्तिः सुतारिणी ॥७९॥भृत्यभक्तिर्देवभक्तिर्भार्याभक्तिश्च तारिणी ।साधुभक्तिः कृष्णभक्तिर्मोक्षदा मम धामनि ॥८०॥सर्वदेहिष्वहं त्वस्मि त्वया शक्त्या सह ध्रुवः ।इति मत्वा मम भक्तिं कुर्याद् देहिषु देहिभिः ॥८१॥समर्पयेत् कृतं सर्वं मय्येव त्वान्तरस्थिते ।मत्प्रसादात्मकं मत्वा भक्तो भुञ्जीत नाऽन्यथा ॥८२॥नार्यां नरे पशौ वृक्षे वल्ल्या जडे च चेतने ।कृष्णनारायणो भोक्ता भोग्यं च सर्वमेव सः ॥८३॥इति मत्वा तु यो देही भुंक्ते यत् तद्धि निर्गुणम् ।पातिव्रत्यमिदं प्रोक्तं मयि सर्वात्मना मया ॥८४॥एवं कृत्वा व्रतं देहि मुच्यते नात्र संशयः ।पठनाच्छ्रवणात् त्वस्य पातिव्रत्यफलं लभेत् ॥८५॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कद्रूविनतयोः सूर्याश्वस्य कर्बुरत्वं श्वैत्यं वेति पणे कद्रूशाठ्येन विनताया दासीत्वस्य गरुडेन प्रमार्जनं कृतमित्यादिनिरूपणनामा चतुःषष्ट्यधिकचतुश्शततमोऽध्यायः ॥४६४॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP