संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २४६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २४६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४६ Translation - भाषांतर श्रीलक्ष्मीरुवाच-अहो चातिप्रहृष्टं मे चित्तं भवति केशव ।आमलक्या व्रतं श्रुत्वा धात्रीमाहात्म्यमित्यपि ॥१॥चैत्रस्य कृष्णपक्षे तु किंनाम्न्येकादशी मता ।को देवस्तत्र पूज्योऽस्ति का च पत्नी हरेस्तथा ॥२॥किं फलं च विधानं च दानं पूजां च मे वद ।श्रुत्वा लक्ष्मीवचः कृष्णो नारायणोह्युवाच ताम् ॥३॥श्रीनारायण उवाच-शृणु लक्ष्मि प्रवक्ष्यामि चैत्रस्य प्रथमे दले ।एकादशीं पापमोचनिकानाम्नीं महाफलाम् ॥४॥कामानां पूरणी सिद्धिदायिनी धर्मवर्धिनी ।निर्जला तु कृता येन प्राप्नुयाद्ब्रह्म स व्रती ॥५॥दशम्यां नक्तभोजी च रात्रौ भूशयनस्तथा ।ब्रह्मचारी व्रती प्रातश्चानिरुद्धं विचिन्तयेत् ॥६॥सुशिलासहितं देवं पापमोचनिकायुतम् ।पूजायां कुन्दकलिकापुष्पाणि त्वर्पयेत्तथा ॥७॥नैवेद्ये सेविकां दद्यादर्घ्ये बदरिकाफलम् ।तथान्यानि फलान्यत्र मिष्टान्नानि बहून्यपि ॥८॥दद्याच्चाऽप्यनिरुद्धाय दाने तु तिलगौर्मता ।एवं प्रातः समुत्थाय ध्यात्वा हरिं तु मानसे ॥९॥स्नात्वा च मानसं चानिरुद्धस्य पूजनं चरेत् ।अर्पयेन्मानसान्येवोपकरणानि षोडश ॥१०॥ततो वै बाह्यपूजां तु कुर्याद्वै क्रमशो व्रती ।आवाहयेदनिरुद्धं सुशीलासहितं प्रभुम् ॥११॥स्वर्णमूर्तौ समाहूयाऽऽसनं दद्यान्महत्तमम् ।पाद्यं चार्घ्यं तथा दद्यादाचमनीयकं जलम् ॥१२॥पंचामृतकृतं स्नानं त्वभिषेकं समर्पयेत् ।वस्त्रैरंगजलानां च प्रमार्जनमथाऽऽचरेत् ॥१३॥ततो वस्त्रेऽर्पयेद् धौते बहुमूल्ये ह्युभे शुभे ।अन्यान्यपि सुसूक्ष्माणि त्वर्पयेत् तृप्तिहेतवे ॥१४॥यज्ञोपवीतं दद्याच्च मणिरत्नानि चार्पयेत् ।केशप्रसाधनद्रव्यदन्तिकातैलदर्पणम् ॥१५॥अर्पयेद्धरये चापि प्रकृष्टाभरणानि च ।कज्जलं कुंकुमाबीरगुलालाक्षतचन्दनम् ॥१६॥पुष्पाणि त्वर्पयेच्चापि तुलसीदलमित्यपि ।फलानि चार्पयेत्तस्मै धूपदीपनिवेदनम् ॥१७॥भोजनं विविधं दद्याद् दुग्धं च शर्करायुतम् ।जलं फलं मुखवासं ताम्बूलं गन्धचूर्णकम् ॥१८॥दद्यात्त्वत्तरतैलादि सुगन्ध्यर्थं तु शार्ङ्गिणे ।आरार्त्रिकं ततः कुर्यान्नमः स्तोत्रं क्षमापनम् ॥१९॥प्रदक्षिणं दण्डवच्च पुष्पांजलिं च दक्षिणाम् ।दद्याच्च व्रतकरणायार्थयेत्परमेश्वरम् ॥२०॥अद्यैकादशिका नाम्ना पापमोचनकारिणी ।मया व्रताय मनसा वृतास्ति परमेश्वर ॥२१॥अस्याः कृत व्रतं मया निर्विघ्नं स्याज्जनार्दन ।प्रसन्नो भव देवेश सुशीलाधिप केशव ॥२२॥इति वै पूजनं चाथ समाप्य सप्तधान्यकम् ।मण्डलं सर्वतोभद्रं कारयेत्स्थापयेत्ततः ॥२३॥घटं कनकजं किम्वा ताम्रजं पञ्चपल्लवैः ।रत्नैः पञ्चविधैश्चापि जलवस्त्रादिभिर्युतम् ॥२४॥तस्योपरि शुभं पात्रं तिलैः संभृतमर्पयेत् ।तत्र मूर्तिं सुशीलायाश्चानिरुद्धस्य वै प्रभोः ॥२५॥स्थापयित्वाऽर्चयेत् षोडशोपचारैर्व्रती ततः ।नीराजयेत्तु विधिना नमस्कारादि चाचरेत् ॥२६॥पर्यंकं गेन्दुकं गुप्तदोरकं शयनाय च ।शिरस्कं पार्श्वके चापि छत्रं चोपानहौ शुभौ ॥२७॥स्थालीं सकलशां चापि वटिकां व्यजनं तथा ।दर्पणं चामरे यष्टिं पादुके नक्तकं शुभम् ॥२८॥शाटीं च प्रच्छदपटीं कंचुकीं कुचलीं तथा ।कर्पटिकां सचन्द्रां च घर्घरी चेति वै ददेत् ॥२९॥घटं यज्ञोपवीतं च शीतसलिलपूरितम् ।चन्दनं च सुगन्धं चानिरुद्धायार्पयेद्व्रती ॥३०॥फलानि चाम्लमिष्टानि लड्डुकान् शर्करान्वितान् ।चार्पयेदनिरुद्धाय सर्वतोभद्रमण्डले ॥३१॥घृतदीपमखण्डं तु कारयेन्निकटे व्रती ।एवं पूजां तदा कृत्वा स्वकार्यं स समाचरेत् ॥३२॥मध्याह्ने तु व्रती स्नात्वा पूजयित्वा विधानतः ।नैवेद्यं विविधं मिष्टं जलं च हरयेऽर्पयेत् ॥३३॥फलं ताम्बुलमेलां च लवंगं मुखवासनम् ।फलं पूगीफलं चापि व्रती श्रीहरयेऽर्पयेत् ॥३४॥सायं च कदलीस्तंभैर्मण्डपं कारयेच्छुभम् ।सवितानं सकलशं हरित्प्रत्रादितोरणम् ॥३५॥मध्ये तु वेदिकां कुर्यात् दोलां च बन्धयेत्तथा ।स्थापयित्वाऽत्र मुरलीधरं त्वान्दोलयेद् व्रती ॥३६॥नीराजनं तथा धूपं दीपं नैवेद्यमर्चनम् ।जलपानं मुखवासं कारयेत् कीर्तयेद्गुणान् ॥३७॥रात्रौ जागरणं नृत्यगीतवादित्रसंयुतम् ।कुर्यात्प्रातः पूजनं च तथा दानानि दापयेत् ॥३८॥यथाशक्ति यथावस्तु व्रतांगानि प्रपूरयेत् ।सर्वं वै गुरवे दद्यादेवं समापयेद् व्रतम् ॥३९॥साधून्साध्वीस्तथा विप्रान्दीनान्धकृपणादिकान् ।बालांश्च भोजयेद्भक्त्या विविधान्नानि वै व्रती ॥४०॥ततः स्वीयान् भोजयित्वा बालिकास्त्वथ पारणाम् ।स्वयं कुर्याद् व्रती भक्तो भुक्तिं मुक्तिं स वै व्रजेत् ॥४१॥शृण्वाश्चर्यकथां लक्ष्मि! प्राग्वृत्तां पापनाशिनीम् ।पुरा चैत्ररथोद्याने वनमध्ये हिमालये ॥४२॥हरिति शाद्वले दिव्ये फलपुष्पभरद्रुमे ।वनदेवीश्रिते देशे ह्यप्सरोगणसेविते ॥४३॥वसन्तसमयेऽरण्ये षटपदैरभिनादिते ।कोकिलाकूजिते रम्ये मनोभवसुपुष्टिदे ॥४४॥गन्धर्वकन्यका वाद्यैः रमन्ते सह किंकरैः ।महेन्द्राद्याश्च सुरपाः क्रीडन्ति त्रिदिवौकसः ॥४५॥ऋषयो मुनयः सर्वे तपन्ति बहुलं तपः ।साधवो योगिनः साध्व्यः सत्यो योगिन्य इत्यपि ॥४६॥तपन्ति ब्रह्मलाभार्थं यत्र शीलव्रतस्थिताः ।नापरं सुखदं तस्माच्चैत्ररथाद् वनस्थलम् ॥४७॥त्रिलोकवासिनस्तत्र परिश्रमविनुत्तये ।सायं नित्यं समायान्ति यान्ति च स्वस्वकालयान् ॥४८॥मञ्जुघोषाऽप्सरा तत्र रमते वनवासिनी ।मुनीनां सेवनं चापि प्रेम्णा करोत्यहर्निशम् ॥४९॥दासीव किंकरीवेयं मोक्षेच्छया तु सेवते ।नतु निकृष्टमनसा किन्तु शुद्धेन चेतसा ॥५०॥सेवते स्म मुनिं बालं युवानं वृद्धमित्यपि ।मुनिपत्नीर्बालिका वा किंकरीव प्रसेवते ॥५१॥एवं नित्यं मुनीनामाश्रमेषु बहुभावतः ।वासं करोति सा मञ्जुघोषाऽथैकदिने शुभे ॥५२॥मेधाविनं नाम ऋषिं क्रोशमात्रवने स्थितम् ।तपन्तं ब्रह्मचर्यस्थं यौवनं पुष्टिशालिनम् ॥५३॥सुरूपं सुघटं स्वर्णतन्तुसमजटान्वितम् ।प्रोद्भिन्नश्मश्रुसद्रेखं रक्तौष्ठं वर्तुलाननम् ॥५४॥पद्मपत्रनिभनेत्र स्थलपद्मशरीरकम् ।प्रसन्नतानिधिं कान्तिपरिधिव्याप्तकंधरम् ॥५५॥सूक्ष्मचन्द्रनिभनखं स्वस्या अपि सुरूपिणम् ।श्रुत्वा राजसभावेन सेवनार्थं गताऽन्तिकम् ॥५६॥प्रथमं तु भयात्तस्य स्थिता त्वाश्रमसन्निधौ ।किञ्चिद्दूरमुषित्वैनं प्रसादयितुं चक्रमे ॥५७॥जगौ सा मधुरं साधु मार्जयामास चाश्रमम् ।विपञ्चिकां तदा रम्यां वादयामास चादरात् ॥५८॥सेवनार्थं तु सा कुट्यां जगाम च त्वरान्विता ।शनैः शनैः ऋषिं वीक्ष्य पस्पर्श तापसी यथा ॥५९॥पुष्पसुगन्धकस्तूरीकेसरचन्दनार्चिता ।सेवाबुद्ध्या हावभावान् विलासान् समदर्शयत् ॥६०॥मेधाविनस्तु निकटे शनैर्ननर्त शोभनम् ।नमश्चकार हस्ताभ्यां नेत्राभ्यां स्वीकृतिं ददौ ॥६१॥न्यवेदयत्सुभक्तां स्वां करे जग्राह तमृषिम् ।मानसे निश्चिकायापि सेवालाभो भविष्यति ॥६२॥युवानं सुरूपतेजस्विनं प्राप्याऽतिहर्षिता ।चकिता मानसे भावे त्वाकृष्टा यूनि सा मुनौ ॥६३॥राजसी रजसा व्याप्ताऽभवदालिंगने मुनेः ।कृताभ्यासे पथि प्रायस्तादृशीनां व्रजेन्मनः ॥६४॥तस्याः शरीरे संवासमकरोद्वै मनोभवः ।एवमेव जयाकांक्षी मेधाविन्यकरोत् स्थलम् ॥६५॥उभयोः कामनाव्याप्तौ देहौ जातौ सुविकृतौ ।मनसी चाऽनंगवेगाविष्टे जाते पुनः पुनः ॥६६॥तदा मेधाविना तत्र मेधया तु विचारितम् ।नार्याः प्रसंगजः कामः कोऽयं मां बाधतेऽधुना ॥६७॥क्षमां धैर्यं समालम्ब्य गच्छाम्यन्यद्वनं यतः ।रक्षणं मे तपसः स्यात् कामवेगोऽपि यास्यति ॥६८॥विचार्यैवं स मेधावी शीघ्रं स्थानात् स्थलान्तरम् ।यावद्गच्छति विप्रेन्द्रस्तावत्कामोऽपि वेगवान् ॥६९॥शिवभक्तं विजेतुं वै वने बहिः सुमूर्तिमान् ।अभवच्च प्रयन्तं संचकार सर्वतोमुखम् ॥७०॥कृत्वा भ्रुवं धनुष्कोटि गुणं कृत्वा कटाक्षकम् ।मार्गणे नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम् ॥७१॥कुचौ कृत्वा परकुटौ मोहनायोपचक्रमे ।मञ्जुघोषाऽभवत्तस्य कामस्यात्र वरूथिनी ॥७२॥कामेन पञ्चबाणास्तु ऋषेरुपरि चाहिताः ।चमत्कृतं तु प्रथमं द्वितीयं जाग्रतात्मकम् ॥७३॥तृतीयं रसवाहाख्यं चतुर्थं मोहनात्मकम् ।पंचमं मिथुनीभावगमकं स मुमोच ह ॥७४॥मेधावी तद्वशं नीतो युयुजे मञ्जुघोषया ।मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता ॥७५॥यौवनोद्भिन्नदेहेन युयुजे ऋषिणा तदा ।गाढमालिंग्य तौ तत्र राजेते स्मरयोजितौ ॥७६॥सितोपवीतसंयुक्तो दृष्टः स्मर इवापरः ।मञ्जुघोषायुतो विप्रो राजते द्यौर्युतः शशी ॥७७॥सुरतस्य वशं याता मन्दं मन्दं जहास सा ।रणद्वलयहस्ताभ्यामाश्लिक्षत् तं मुनिं हृदि ॥७८॥प्रेमकण्ठस्वरं सूक्ष्मं लीनं कृत्वा तु मूकवत् ।नेत्रे प्रमील्य चौष्ठाभ्यामास्वादयद्ऋषेर्मुखम् ॥७९॥स्पर्शमग्नाऽऽनन्दमग्ना शान्तनूपुरमेखला ।स्पर्शैभावैस्तथा नेत्रैर्वर्ष्मणा सस्वजे मुनिम् ॥८०॥वीणा तु पतिता भूमौ पतिता स्वं च सस्वजे ।बलादिव लता वृक्षं वातवेगेन कम्पितम् ॥८१॥सोपि रेमे तया सार्धं कामभेदैरनेकशः ।शिवतत्त्वं तु विस्मृत्य कामतत्त्ववशंगतः ॥८२॥तपसा साधिते सौधे सोद्याने सविमानके ।वाहने चोपकरणे भक्ष्यभोज्यसुलेह्यके ॥८३॥धारणेऽलंकरणे चोत्सवे समानके ऋतौ ।विविधे गृहयोग्ये च भोग्ये तत्साधने सति ॥८४॥निरतिशयतां प्राप्ते तृप्तिं लेभे तया सह ।पुनस्तृष्णां पुनस्तृप्तिं पुनस्तृष्णां जगाम सः ॥८५॥तृष्णाया नैव चान्तोस्ति भुक्त्वा भुक्त्वा विवर्धते ।एवं तारुण्यभरया तृष्णया तरुणोऽपि सः ॥८६॥न निशां न दिनं सोपि रमञ्जानाति कामुकः ।दीर्घः कालो गतो रममाणस्याचारलोपतः ॥८७॥नवशतानि वर्षाणां गतान्यस्य तया सह ।सा रेमे मुनिना तस्य निशार्धमिव चाऽभवत् ॥८८॥मञ्जुघोषा देवलोके गमनायोपचक्रमे ।सन्नद्धा तं प्रत्युवाच सतृष्णं मुनिसत्तमम् ॥८९॥आज्ञा मे दीयतां विप्र स्वर्लोकगमनाय वै ।मेधावी तु समाकर्ण्य तामुवाच विमोहितः ॥९०॥यावत्प्रभातसन्ध्या स्यात् तावत्तिष्ठ ममान्तिके ।श्रुत्वा विचारयामास मञ्जुघोषा हृदन्तरे ॥९१॥अहो कामेन वैक्लव्यं जानात्ययं न वत्सरान् ।निशार्धमात्रं जानाति काममूर्छापराजितः ॥९२॥प्रत्याख्याने शापभीतिसमुद्विग्ना बभूव सा ।पुनर्वै रमयामास तमृषिं बहुवत्सरान् ॥९३॥वर्षाणां पञ्चपञ्चाशन्नव मासान् दिनत्रयम् ।सा तं पुनरुवाचाथ तथा काले गते मुनिम् ॥९४॥आदेशो दीयतां ब्रह्मन् गन्तव्यं स्वगृहं मया ।मेधाव्युवाच कामान्धः कालभानविवर्जिंतः ॥९५॥निशान्तसमयस्त्वास्ते श्रूयतां वचनं मम ।क्षणं मां रमयित्वा त्वं गन्तुमर्हसि शोभने ॥९६॥त्वां विना मे क्षणश्चापि युगतुल्यो भविष्यति ।त्वया सार्धं निशामात्रं व्यतीतं तिष्ठ मे चिरम् ॥९७॥पुनः शापप्रभीता सा रमयामास तमृषिम् ।वर्षाणां पञ्चचत्वारिंशदित्यधिकभावतः ॥९८॥पुनः प्राह मुनिं नम्रा ब्रह्मँस्तृप्तोऽसि वा नहि ।आदेशो दीयतां विप्र गन्तव्यं स्वगृहं मया ॥९९॥मेधाव्युवाच तां स्निग्धां रक्षितुं स्वान्तिके तदा ।प्रातःकालोऽधुना त्वास्ते श्रूयतां वचनं मम ॥१००॥सर्वदा तिष्ठ मे सौधे मां च रमय कामतः ।एका निशा स्थिता चात्र का मे तृप्तिर्भवेद् वद ॥१०१॥सन्ध्यां यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव ।इति श्रुत्वा मुनेर्वाक्यं स्मितं कृत्वा ह्युवाच तम् ॥१०२॥कियत्प्रमाणा विप्रेन्द्र तव सन्ध्या गताऽधुना ।कतिवत्सरकालस्ते गतश्चेति विचार्यताम् ॥१०३॥एकां सन्ध्यां निशां वेत्सि का ते सुप्तिर्युगात्मिका ।इति तस्या वचः श्रुत्वा प्रोद्भिन्नान्तरलोचनः ॥१०४॥तां पृष्ट्वा गतकालस्य मेधावी मानमाचरत् ।नवनवत्यधिकानि नवशतानि संख्यया ॥१०५॥जातान्येव गतान्येव वर्षाणि प्रियया सह ।सुविदित्वैकोनदशशतान्येकनिशामुखे ॥१०६॥तथापि तृष्णया व्याप्त इति स्वं धिक् चकार सः ।चुक्रोध तस्यै कामाय स्वस्मै च यौवनाय च ॥१०७॥मोक्षहानिं तपोहानिं चात्महानिं विलोक्य च ।नेत्राभ्यां विस्पुल्लिंगान्स मुमोचातीव कोपतः ॥१०८॥तपःक्षयकरीं नारीं मृत्युरूपां च राक्षसीम् ।आत्ममुक्तिरोधकर्त्री कष्टाप्तपुण्यभक्षिणीम् ॥१०९॥हानिदां तां सक्म्पौष्ठो मुनिरुवाच वेगतः ।धिक् त्वां प्रिये दुराचारे कुलटे कामनाप्रिये ॥११०॥सेवामिषेण मुनिषु स्वैरिणि पुण्यनाशिनि ।तपोलोपकरि याम्यमार्गसंसर्गदायिनि ॥१११॥पिशाची भव दुष्टे त्वं कामच्छिद्रप्रदायिनि! ।मेधावी तां शशापैवं सापि नम्रा ह्युवाच तम् ॥११२॥नैकस्या मे हि दोषोऽस्ति युवा त्वं सुविचारय ।द्वयोः कार्ये जये प्राप्ते सबल परिपूज्यते ॥११३॥पराजये तु सम्प्राप्ते निर्बलस्तत्र हन्यते ।मैवं भवतु मेधाविन्! हानिस्ते नैव केवला ॥११४॥ममापि स्वपरित्यागस्त्वया त्यक्ता सधिक्कृता ।आत्महानिर्लोकहानिर्यशोहानिस्तु मे तथा ॥११५॥शापं दातुं समर्थाऽस्मि यथा वदसि तत्तथा ।तथापि प्रणयिकान्ते नैवं कार्यं स्त्रिया क्वचित् ॥११६॥क्षमा दत्ता हि नारीभ्यो ब्रह्मणा परमेष्ठिना ।अदोषा अपि पत्युस्ताः सहन्ते क्रौर्यमव्यथाः ॥११७॥प्रसादं कुरु तस्मात् त्वं शापस्यानुग्रहं कुरु ।सतां संगः सुखकरः साप्तपदीन एव सः ॥११८॥त्वया सह मया विप्र योषिता पत्नीरूपया ।नीताश्च सेवया शश्वत् कति सहस्रवत्सराः ॥११९॥एतस्मात् कारणात्स्वामिन् त्यज क्रौर्यं प्रसीद च ।इति तथ्यं प्रियावाक्यं दोषं स्वीयं च चिन्तयन् ॥१२०॥प्रह्वीभावं तथा पत्न्या विलोक्योवाच तां मुनिः ।शृणु मे वचनं भद्रे शापानुग्रहकारकम् ॥१२१॥किं करोमि त्वया साकं क्षयं नीतं महातपः ।गतं तत्तु गतं त्वेव नष्टं नायाति वै पुनः ॥१२२॥पुनः संपादयिष्यामि तवापि शुभमस्तु वै ।चैत्रस्य कृष्णपक्षे तु भवत्येकादशी शुभा ॥१२३॥पापमोचनिका नाम सर्वशापक्षयंकरी ।तस्या व्रते कृते सुभ्रु पिशाचीत्वं वियास्यति ॥१२४॥श्रुत्वैतन्मञ्जुघोषा सा ययौ वनान्तरं तदा ।पिशाची तु बभूवेयं यावच्चैत्रो न संगतः ॥१२५॥प्राप्ते चैत्रे मञ्ज्रुघोषा व्रतं जातिस्मरा तदा ।चकार विधिना चैत्रकृष्णैकादशिकादिने ॥१२६॥पुपूज परया भक्त्या श्रीहरिं मानसे हि सा ।रात्रौ जागरणं कृत्वा प्रातः कृत्यं विधाय च ॥१२७॥पिशाचीत्वाद्विनिर्मुक्ता पापमोचनिकाबलात् ।दिव्यरूपधरा सा वै गता स्वर्गे स्वके गृहे ॥१२८॥मेधाव्यपि तया त्यक्तो जगाम पितुराश्रमम् ।च्यवनस्य ऋषेर्दिव्यं तपस्तेजोऽतिशोभितम् ॥१२९॥निस्तेजस्कं चिरं यान्तं विलोक्य च्यवनः पिता ।प्राहैतत् किं कृतं पुत्र त्वया पुण्यक्षयः कृतः ॥१३०॥कथं न दृश्यते तेजस्तपोबाहुल्यसंभवम् ।मेधावी प्राह ताताऽस्मिन्वने तु तपसा मया ॥१३१॥प्राप्ताऽप्सरा तया सार्धं पातकं वै कृतं बहु ।रमिता बहुकालं सा तपो नष्टं ममाऽद्भुतम् ॥१३२॥प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत् ।पिता प्राह तदा पुत्रं व्रतं वच्मि निबोध मे ॥१३३॥चैत्रस्य त्वसिते पक्षे नाम्ना तु पापमोचनी ।एकादशी मता ह्यस्या व्रते तु विधितः कृते ॥१३४॥पापराशिः क्षयं यायान्मुक्तिं चान्ते व्रजेद् व्रती ।इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम् ॥१३५॥गतं पापं क्षयं तस्य तपोवृद्धिर्बभूव च ।तेजो व्याप्तोऽभवच्छीघ्रं पापमोचनिकाव्रतात् ॥१३६॥यथापूर्वं तपोयुक्तो ह्यभूद्् बभूव वै तथा ।पापमोचनिकां लक्ष्मि! ये कुर्वन्ति जना भुवि ॥१३७॥तेषां पापं तु यत्किंचित् सर्वं विलयतां व्रजेत् ।वाजपेयसहस्रस्य फलं तस्यापि जायते ॥१३८॥भुक्तिर्मुक्तिर्महामुक्तिः सर्वं चैकव्रतेन हि ।प्राप्येतैतादृशी शक्ता फलदाने त्वियं तिथिः ॥१३९॥ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।व्रतस्य चास्य करणान्मुक्तो भवति तद्व्रती ॥१४०॥पठनाच्छ्रवणाच्चापि स्मरणात्कीर्तनादपि ।बहुपुण्यप्रदं चैतद् गोसहस्रफलप्रदम् ॥१४१॥कर्तव्यं सर्वथा लक्ष्मि शापपापनिवृत्तये ।नातः परतरं भुक्तिमुक्तिदं सचराचरे ॥१४२॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चैत्रकृष्णपापमोचन्येकादशीव्रतमाहात्म्यं मेधाविना तपस्विना सहस्रवत्सरं भुक्ताया मज्जुघोषाख्याऽप्सरायाः ऋषिशापात्पिशाचीत्वमनुग्रहाद् व्रतकरणान् मुक्तिश्चेति निरूपणनामा षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४६॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP