संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४३३ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४३३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४३३ Translation - भाषांतर श्रीनारायण उवाच-आकर्णय महालक्ष्मि! नरनारायणात्प्रभोः ।उर्वशी या समुत्पन्ना पातिव्रत्यप्रभावतः ॥१॥पूर्वं साऽभूत् शुनी ततः पूर्वतरा तु ब्राह्मणी ।दुष्टा काश्मीरदेशीया पतिद्वेषकरी शठा ॥२॥देवव्रतसुता नाम्ना मालिनीति सुरूपिणी ।सत्यशीलाऽभिधविप्रपत्नी पतिप्रिया न वै ॥३॥तया सह पतिर्देशं यावनं तु ययौ क्वचित् ।सा तु पत्यौ क्रोधयुक्ता वशीकरणलम्पटा ॥४॥यवनीभ्यस्तु बह्वीभ्यः पप्रच्छ वश्यभेषजम् ।ताभिस्तु दर्शिता धूर्ता काचिदोषधकारिणी ॥५॥दास्यति भेषजं येन भविता दासवत् पतिः ।ब्राह्मणी चापि धूर्ताया गृहं ययौ सलालसा ॥६॥दृष्टवती कुटीं तस्याः खप्परादिसमन्विताम् ।बहूनामोषधानां च सुपात्रैश्चुल्लिकादिभिः ॥७॥शोभितां मन्त्रविद्यानां साधनाऽऽसनराजिताम् ।यन्त्रैर्मन्त्रैर्भस्मग्रन्थिनीलवस्त्रैः सुशोभिताम् ॥८॥अस्थिभिर्वेदिकाभिश्च योगसाधनगर्भिताम् ।सजटाभिश्च दीर्घाभिः शिष्याभिः शुभदीपिताम् ॥९॥धूपकुण्डयुतां वीक्ष्य कुटीं सदण्डधूर्तिकाम् ।बह्वीभिर्दुःखिताभिश्चाराधितां कार्यलब्धये ॥१०॥भस्मावगुण्ठितां देहे योगिवत् तिलकान्विताम् ।ननाम परया भक्त्या ब्राह्मणी शठयोगिनीम् ॥११॥दुःखं निवेदयामास ततः सा शठधूर्तिका ।मयूरपत्रमार्जन्या चक्रे तस्याः प्रमार्जनम् ॥१२॥संस्करणं तच्छरीरे फुत्कृतेन च भस्मना ।चन्द्रकं भस्मना चक्रे भाले करे जलं ददौ ॥१३॥कृष्णडोरकरुद्राक्षमालां स्कन्धे प्रदाय च ।श्रावयामास विप्राण्यै वश्यमन्त्रं त्रिवारकम् ॥१४॥नमः कामाक्षिकादेव्यै पतिं वशं कुरु स्वाहा ।इति मन्त्रं ददौ तस्यै ददौ द्रव्यांगुलीयकम् ॥१५॥रक्तं माणिक्यखचितं कानकं वश्यकारकम् ।और्णं रक्तं चापि सूत्रं भुजाबन्धनकं ददौ ॥१६॥ददावोषधमेवापि चूर्णं रक्षान्वितं शुभम् ।प्राह चैतन्महावश्यकरं चूर्णं हि वर्तते ॥१७॥अस्य प्रयोगतो वायुसदृशा बलिनो ह्यपि ।वश्या भवन्ति सततं स्वामिनो वानरा इव ॥१८॥चूर्णं भर्तरि भोज्यादौ भोक्तव्यं स्वल्पकं सदा ।रक्षां च दोरकं चापि गले त्वं स्वीकुरु ध्रुवम् ॥१९॥रक्तं तु दोरकं त्वं स्वभुजे बन्धय भामिनि! ।भविष्यति पतिर्वश्यो मन्त्रं स्वशयने जप ॥२०॥मन्त्रितं भोजनं देहि मन्त्रितं जलमित्यपि ।मन्त्रितं शयनं देहि सर्वं देहि सुमन्त्रितम् ॥२१॥स्वल्पकालेन ते स्वामी तव वश्यो भविष्यति ।यदि किञ्चिद् भवेत् कार्यं समागच्छ द्रुतं तु माम् ॥२२॥इत्युक्ता दक्षिणां दत्वा विप्राणी स्वगृहं ययौ ।ओषधं योजितं दुग्धे भोजने पतयेऽर्पितम् ॥२३॥मन्त्रितं च जलं वस्त्रं शयनं स्वामिने ददौ ।एवं दिने दिने चूर्णं ददौ यथा यथा तथा ॥२४॥पतिः श्वासेन कासेन कफेन च क्षयेण च ।पीडितोऽभवदत्यन्तं मूत्रादावुष्णताऽधिका ॥२५॥देहे प्रफुल्लिका रक्ता प्रावर्तन्ताऽतिखर्जनाः ।दिनैः कतिपयैः स्वामी पराधीन इवाऽभवत् ॥२६॥अशक्तो रोगदुःखी च मृत्युशंकासमन्वितः ।हततेजास्ततो भर्ता विप्राणीं प्राह विह्वलः ॥२७॥तवास्मि दासवत्त्वत्र त्राहि मां रक्ष शोभने ।नान्यां वै कामये कांचिन्नारीं त्वामन्तरा प्रिये ॥२८॥वर्तिष्येऽपि तवाऽऽज्ञायां तव दासोऽधुना सदा ।तव कार्ये प्रकर्तव्ये न करिष्ये विरोधनम् ॥२९॥ततः सा कामिनी पत्युर्जीवने स्वार्थशालिनी ।सति पत्यौ भूषणादि धार्यं भोग्यं निःसंशयम् ॥३०॥इति तूर्णं गता शाठ्ययोगिनीं भीतवत्तदा ।पतिर्मे वशमापन्नः किन्तु ध्रुवं मरिष्यति ॥३१॥मम स्वार्थविनाशः स्यात्तस्माज्जीवय तं शुभे ।इति न्यवेदयत्सर्वं धूर्ता विज्ञाय चापरम् ॥३२॥ददावोषधमेवाऽस्यै दुःखदाहादिनाशकम् ।दत्ते तु भेषजे तस्मिन् स्वस्थोऽभूत् तत्क्षणात्पतिः ॥३३॥साऽभूत्प्रसन्ना त्वत्यर्थं वश्येऽपि वर्तते पतिः ।अन्येषां संगमे त्वस्यै न च वक्ति मनागपि ॥३४॥तिष्ठत्युपपतिर्गेहे गृहकार्यापदेशतः ।भर्ता नैव वदत्येव किञ्चिदपि कथञ्चन ॥३५॥अथ सा ब्राह्मणी दुष्टा पतिद्वेषकरी शनैः ।रोगव्याप्ताऽभवद् देहे कृमयः संप्रजज्ञिरे ॥३६॥तेन पञ्चत्वमापन्ना गता नरकयातनाः ।प्रतप्ते ताम्रकुण्डे सा निक्षिप्ता बहुवत्सरम् ॥३७॥ततः शुनी शतवारं दद्रुरोगप्रपीडिता ।क्लिनावयवा खञ्जा च ताडिताऽपि गृहे गृहे ॥३८॥अन्तिमे पद्मबन्ध्वाख्यद्विजस्य भवने तु सा ।जाता सौवीरदेशे वै दास्याः शुनी सुरोगिणी ॥३९॥कृमिपूर्णाऽवयवा सा द्विजगृहांगणे यदा ।पादप्रक्षालनशिलामधिरुह्य स्थिताऽभवत् ॥४०॥तदा दैवाद् द्विजपुत्रः कृष्णनारायणं स्मरन् ।गायत्रीं प्रजपन् कृष्णपूजां कृत्वा कमण्डलौ ॥४१॥प्रसादजं जलं विष्णुस्नापितं तुलसीयुतम् ।नीत्वा गृहे समायातः सोपानैर्यावदेव हि ॥४२॥गृहांगणं तूच्छ्रितं वै पञ्चसोपानमात्रकम् ।समारुरोह तावत्त्वन्तिमे सोपानके पदा ॥४३॥स्खलितः पतितो हस्तात्कमण्डलुर्जलान्वितः ।पार्श्वे निम्ने शिलाभागे स्थितायां दैवयोगतः ॥४४॥कमण्डलुजलं शुन्यां पतितं सर्वमेव यत् ।शुनी स्नातवती पीतवती भाग्यवशात्तदा ॥४५॥मिष्टं प्रसादं पतितं भाग्याद् भुक्तवती तदा ।तेन पुण्येन सा लक्ष्मि! ध्वस्तपापा बभूव ह ॥४६॥जातिस्मरा जनवाचा समुवाच द्विजं क्षणात् ।भो भूदेव! महापापां त्राहि मां त्राहि मां द्विज ॥४७॥अहमासं पुरा विप्रा पतिद्वेषकरी सदा ।पत्युर्विषप्रदात्री च वश्यमन्त्रकरी तथा ॥४८॥दुःखदात्री महादुष्टा परप्रसंगकारिणी ।तेन पापेन ताम्राणां कुण्डेषु पातिता यमैः ॥४९॥शतवारं तु जाताऽस्मि शुनी दद्रुमयी द्विज ।अन्तिमोऽयं मम देहस्त्वया जलेन संस्कृतः ॥५०॥दैवाज्जातिस्मरा जाता स्मर्यते शतजन्मजम् ।अतिदुःखं मया भुक्तं वर्णने पार्यते न वै ॥५१॥पतिद्वेषकरी नारी पच्यते तप्तताम्रके ।दुराचारा तप्तसूर्म्याऽऽश्लिष्यते कामिभिस्तदा ॥५२॥भर्ता नाथो गुरुर्भर्ता भर्ता दैवतमुत्तमम् ।तस्य द्रोहं विधायैव कथं सा सुखिनी भवेत् ॥५३॥तिर्यग्योनिशतं याति कृमिव्याप्तं भयंकरम् ।तस्मान्नार्या सदा कार्या भर्तुः सेवा वचोऽन्विता ॥५४॥पातिव्रत्यं परो धर्मः पुण्यं वै पतिसेवनम् ।पत्यौ हरिः स्वयं त्वास्ते स्त्रीनिस्तारणहेतवे ॥५५॥खञ्जः काणस्तथा वृक्णः केकराक्षोऽष्टवक्रकः ।कज्जलसुन्दरो देहे बधिरो वामनः कृशः ॥५६॥रुग्णः कुष्ठी विचित्तश्च क्रूरः कामातिवेगवान् ।विषयी व्यसनी वावदूकोऽनृतपरोऽपि वा ॥५७॥पत्न्यर्थं निर्मितस्तादृक् कृष्णांशो ब्रह्मणा स्वयम् ।तेनैव पत्न्या उद्धारो नान्येन सूर्यवर्चसा ॥५८॥यादृशस्तादृशो नीलः कृष्णः कज्जलरूपवान् ।कामेन कार्यमासाद्य सेवनीयः पतिः प्रभुः ॥५९॥पतिः कामेन सन्तृप्तो रतिदानेन चेद् यदि ।कृष्णनारायणः साक्षात् तृप्तस्तस्या इति वृषः ॥६०॥एवं तस्य सदा भूत्वा सेवनीयः स्त्रिया पतिः ।रुग्णे सेवा सुखे शान्ता विपत्तौ धैर्यदा तथा ॥६१॥क्षुधिते भोज्यदा तृष्णे तृप्तिदा शयने प्रिया ।कार्ये सहायदा याने सहगा भवने सती ॥६२॥व्यवहारे सखी संरक्षणे मातेव वर्तते ।या स्त्री सा स्वर्गमयुतं भुंक्ते नास्त्यत्र संशयः ॥६३॥यद्यप्यस्मिन्भवे नास्ति सुरूपश्चेत्पतिस्तदा ।पतिभक्त्या देवतुल्यं कर्तुं शक्ता सती भवेत् ॥६४॥काली हिमगिरेः पुत्री गौरी सा तपसा ह्यभूत् ।कुब्जा कृष्णप्रसंगेन राधातुल्याऽभवत् पुरा ॥६५॥शबरी रामयोगेन चतुर्भुजाऽभवत्तथा ।यवनी स्वामियोगेन मुक्ता दिव्याऽभवत्पुरा ॥६६॥जटायूः रामयोगेन चतुर्भुजोऽभवच्छुभः ।गजग्राहौ विष्णुयोगान्मुक्तौ दिव्यौ बभूवतुः ॥६७॥अरुन्धती श्वपची तु ऋषिपत्नी गवाश्रयात् ।सरमा देवशुनिका मुक्ता सुरभिसेवनात् ॥६८॥वृन्दा तुलसी वृक्षाश्च कृष्णयोगात् तदात्मकाः ।जडाः श्रीकृष्णसम्बन्धाद् भवन्ति चेतना इव ॥६९॥सूतः पौराणिको दिव्यो ब्रह्मपूज्यो बभूव ह ।इन्द्रतिरस्कृतं पुष्पं लक्ष्मीनाशकरं ह्यभूत् ॥७०॥पुनस्तदर्पितं तस्य स्मृद्धिदं क्षीरसागरे ।एवं वस्तु नरो नारी यद्यमनोहरं भवेत् ॥७१॥तपसा रमणीयं तज्जायते नात्र संशयः ।दुर्गुणं सद्गुणं चापि जायते तपसा सदा ॥७२॥कुब्जा कुब्जोऽथवा पाल्या पाल्यश्च भगवद्धिया ।सेवनीयौ स्वतपसा स्वामिभक्त्या सतीधिया ॥७३॥एवं कृत्वा हरिं मत्वा सतीं मत्वा च दम्पती ।सेवेयातां सुखप्राप्त्या सहनं च क्षमां गतौ ॥७४॥मया विप्र! सेवितो न तिरस्कृतो वशीकृतः ।दुःखितः पीडितस्तेन दुःखिता भवसागरे ॥७५॥समुद्धराऽधुना ब्रह्मन् कृष्णपूजाफलार्पणैः ।अन्यथा मे पुनर्जन्म दुष्टयोनिषु दृश्यते ॥७६॥इत्युक्तश्च तदा विप्रः करुणां प्रविधाय च ।एकादश्याः फलं चापि द्वादश्याः पूजनादिकम् ॥७७॥सर्वं पुण्यं ददावस्यै यदक्षयफलं मतम् ।तप्तं दत्तं हुतं यच्च कृतं देवार्चनादिकम् ॥७८॥कृष्णपातिव्रत्यरूपं सर्वं त्वस्यै ददौ द्विजः ।उवाच तां महादुष्टे दयापात्रं न विद्यसे ॥७९॥पतिद्वेषकरी साधु द्वेषिणी देवनिन्दिका ।कृपापात्रं न वै प्रोक्तं तथापि स्वाश्रिता यतः ॥८०॥कृपा मया कृता तेऽस्ति दीना ज्ञात्वा तु किंकरीम् ।स्वपोष्या ये हि वर्तन्ते गृहस्थस्य महात्मनः ॥८१॥तेषामुद्धरणं कार्यमिति कृत्वा समुद्धृता ।चण्डाला वायसाश्चापि सारमेयाश्च किंकराः ॥८२॥दासा दास्यस्तथा भृत्या नकुलाः शुकसारिकाः ।शशका हरिणो हंसा ये चान्ये बलिभोजिनः ॥८३॥गृहस्थानां दयापात्रं ह्यनाथा बालबालिकाः ।अधवास्तु स्त्रियस्तद्वद् रुग्णा निराश्रयाः सदा ॥८४॥पोष्या भवन्ति ते सर्वे समुद्धार्याः प्रयत्नतः ।गृहस्थो नोद्धरेत्पोष्यं सोऽधःपतेन्न संशयः ॥८५॥पातिव्रत्यं परं पत्युराज्ञा पतिः परेश्वरः ।कृष्णनारायणः स्वामी तदाज्ञा पोष्यरक्षणम् ॥८६॥पोष्यरक्षां परित्यज्य परक्लृप्त्यां प्रवर्तते ।पतिद्रोग्धा भवेत् सोऽत्र कीनाशगृहमृच्छति ॥८७॥परोपकारो धर्मोऽस्ति वृषः किंकरमोक्षणम् ।मोक्षदानं महद्दानं कृष्णप्राप्तिपरायणम् ॥८८॥प्रसन्नता हरेस्तत्र जायते स्वामिनः सदा ।परो मोक्षस्तस्य सम्यगुपादानं पतिव्रतम् ॥८९॥परोपकारो मोक्षोऽत्र ज्ञानिना देय एव सः ।भक्तिमता तथा देयश्चान्यस्मै पत्युराज्ञया ॥९०॥शशी सूर्योऽथ पवनो दिवा रात्रिर्जलं क्षितिः ।चन्दनं पादपाः सन्तः परोपकरणे स्थिताः ॥९१॥दधीचिना कृतं त्वस्थिदानं देवेभ्य एव यत् ।शिबिना त्वर्पितं मांसं कपोताय स्वदेहजम् ॥९२॥जीमूतवाहनेनापि राज्ञा पूर्वं दयालुना ।गरुडायाऽर्पितं स्वस्य जीवितं चिरजीवनम् ॥९३॥धर्मांगदेन मोहिन्यै व्रतार्थं तु शिरोऽर्पितम् ।सृष्ट्यर्थं वेधसा देहाः पुनः पुनः समर्पिताः ॥९४॥लोकानां मोक्षणार्थाय गंगाद्याः सरितोऽभवन् ।विष्णुः शालग्रामशिला शंकरो लिंगरूपकः ॥९५॥लक्ष्मीस्तु तुलसीरूपा लोकमोक्षणहेतवे ।कृष्णो गोपालतां प्राप्तस्तथा मत्स्यादिरूपवान् ॥९६॥परोपकृतये सर्वं पूर्वैः पूर्वतरैः कृतम् ।पर्जन्यश्चन्द्रमाः सूर्यः समाः सर्वेषु जन्तुषु ॥९७॥तथा त्वया तु किंकर्या शुन्यां पुण्यं दयालुना ।समभावयुजा दत्तं निर्धूताऽखिलकल्मषा ॥९८॥जातेदानीं गुरो सन्तु त्वादृशा मोक्षदा भुवि ।परोपकारशीलाश्च साधवो हि पतिव्रताः ॥९९॥देह्याज्ञां मे हरेर्धाम गन्तुं यामि सुखालयम् ।इत्युक्तो ब्राह्मणः प्राह तस्यै मन्त्रं हरेर्मुहुः ॥१००॥ओं नमः श्रीकृष्णनारायणोद्धर कुक्कुरीम् ।गच्छ कृष्णस्य गोलोकं शुनि! पुण्यवती भव ॥१०१॥एवं श्रुत्वा तु सा पूर्णं जाता दिव्या सुरूपिणी ।श्वदेहं तु परित्यज्य शुभाऽऽदित्यसमाऽभवत् ॥१०२॥तावत्तत्रागतं दिव्यं विमानं सूर्यलौकिकम् ।तत्रारूढा द्योतयन्ती व्योममण्डलमूर्ध्वतः ॥१०३॥दिव्या देव्यभवच्चन्द्राननाऽऽभरणभूषिता ।कल्पं वासं दिवि कृत्वा भुक्त्वा भोगान् महीतले ॥१०४॥नरनारायणाद्देवादुर्वशीनाम नामतः ।वरांगना समुत्पन्ना वैष्णवी देवताप्रिया ॥१०९॥अप्सरोधर्मयुक्ताऽपि सदा कृष्णपतिव्रता ।पातिव्रत्यपरा जाताऽऽश्रितमोक्षप्रदायिनी ॥१०६॥आम्रपुष्पाणि संगृह्य नरेणोरौ प्रमर्दने ।उद्भाविता महादिव्या महेन्द्रसैन्यमोहिनी ॥१०७॥यदाऽऽगतो नरनारायणतपःसु विघ्नकृत् ।इन्द्रो नारायणदेशादिन्द्रभवनं सा स्थिता ॥१०८॥वैष्णवी सा महाभाग्यवती तत्र प्रवर्तते ।नित्यं सा श्रीकृष्णनारायणं पतिं प्रसेवते ॥१०९॥इति ते कथितं लक्ष्मि! पापतापप्रणाशनम् ।पातिव्रत्यपरं सर्वं मोक्षदं तारकं शुभम् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिद्वेष्ट्र्याः काश्मीरीयब्राह्मण्याः शतजन्मशुनीत्वं ततः श्रीकृष्णनारायणपातिव्रत्यपरेण सौवीरदेशीयविप्रेण शुन्याः प्रमोक्षणं देवीत्वं, ततो नरनारायणस्योरोरुर्वशीत्वमिति निरूपणनामा त्रयस्त्रिंशदधिकचतुश्शततमोऽध्यायः ॥४३३॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP