संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २९५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २९५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २९५ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! ययुः कृष्णो नारायणोऽधिमास्तथा ।गोलोकादुपरि दिव्यव्योममार्गेण वै क्षणात् ॥१॥सच्चिदानन्दसन्दोहान्वितमक्षरधाम यत्॥ब्रह्महृदे त्रयः स्नात्वा पुरुषोत्तमरूपिणः ॥२॥भूत्वाऽवलोकयन्तश्च मुक्तानां मण्डलानि ते।द्विभुजान्द्व्यष्टवर्षीयान् रूपानुरूपविग्रहान् ॥३॥कोटिनारायणतुल्यान् रूपतेजःसुसिद्धिभिः ।गोलोकादपि सौन्दर्ये तेषु कोटिगुणं च वै ॥४॥वर्तते तादृशान् दृष्ट्वा पुरुषोत्तमरूपिणः ।त्रय आश्चर्यसम्पन्ना बभूवुः कृष्टमानसाः ॥५॥उद्यानानि च सौधानि मुक्तानामवलोक्य ते ।विमानान्युपकरणान्यालोक्य विस्मयं गताः ॥६॥अक्षरं वस्तु चालोक्य विरागोऽभूत् स्वधामसु ।अक्षरधामवस्तूनां तुलनायां स्वधामजम् ॥७॥वस्तुमात्रं निरानन्दमिवाऽऽभातं तदा तु तैः ।नीतं यद्वस्तु वैकुण्ठात् पुरुषोत्तमपूजने ॥८॥गोलोकाद्वा च तत्सर्वं निरानन्दमभासत ।निस्तेजस्कमिवैभिस्तद्दृष्टं स्वधामवस्तुकम् ॥९॥ततस्ते भग्नमनसो ह्युपदाविषये खलु ।सञ्जातास्तावता ब्रह्मसरस्तत्र व्यलोकयन् ॥१०॥अनन्तयोजनायामं दिव्यवारिरसात्मकम् ।यत्र स्नानेन वस्तु श्रीपुरुषोत्तमभोग्यताम् ॥११॥लभते ते त्रयः स्नाता ब्रह्मसरसि वै मुदा ।उपदाः प्रोक्षितास्तेन योग्यं वस्तु तदाऽभवत् ॥१२॥अथ दृष्टो विशालश्च लक्षयोजनविस्तृतः ।प्रासादो रक्षकान् पृष्ट्वा द्वारमुक्ताँस्त्रयस्ततः ॥१३॥विविशुर्यत्र वै राजाधिराजः पुरुषोत्तमः ।राजतेऽसंख्यदिव्यात्ममुक्तैः संसेवितः प्रभुः ॥१४॥कृष्णनारायणौ वीक्ष्य त्वागतौ पुरुषोत्तमः ।अतीव जहृषे स्वामी नमन्तौ तौ पुनः पुनः ॥१५॥पप्रच्छ कुशलं स्वस्वधाम्नः स्वस्ति च शाश्वतम्॥भगवत्कृपया सर्वं स्वस्तिमत्कुशलं बहु ॥१६॥इत्युक्त्वाऽऽसनयोस्तौ संराजितौ नृनरायणौ ।ततीयाऽधिकमासोऽपि कृत्वा वै पञ्चदण्डवत् ॥१७॥दासवत् तिष्ठते पार्श्वे तयोस्तावत्पुमुत्तमः ।अक्षराधिपतिस्तौ च पप्रच्छ तं तदा प्रति ॥१८॥कोऽयं 'किमर्थमायातो युवाभ्यां धाम्नि मे त्विह ।मन्ये शरण्यमाश्रित्य महालाभार्थमागतम् ॥१९॥एवं पृच्छति सर्वेशे कृष्णनारायणावुभौ ।पूजयामासतुर्दिव्यैः पारिबर्हैरनन्तकैः ॥२०॥ब्रह्मसरोजलैः पूर्वे सम्यक् पादावनेजनम् ।पञ्चामृतैर्दिव्यरसैराप्लवनं तदुत्तरम् ॥२१॥जलैः रसात्मकैश्चाभिषेचयित्वाऽक्षराधिपम्।चन्दनादिद्रवैः सम्यक्पूजयित्वा ततश्च तौ ॥२२॥वस्त्राभूषण हारादि चार्पयामासतुर्मुदा ।छत्र चामर रत्नादि पादुका यष्टिकादिकम् ॥२३॥ऊर्मिकांगद मुकुट शृंखला कल्गिमण्डनम् ।स्वर्णफुल्लरिका माला रशना कंकणादिकम् ॥२४॥भक्ष्यभोज्य लेह्य चोष्य शर्करावृतमिश्रितम् ।भोज्यान्नपेयसुस्वाद्य भोग्यचर्वणकादिकम् ॥२५॥स्वर्णाम्बरासन पात्र दिव्यफलरसादिकम् ।यद्यद् योग्यं समर्प्यं चाऽभूत्तदाऽर्पयतां तदा ॥२६॥आरार्त्रिकं कृतवन्तौ स्तुत्वा निषेदतुः सुखम् ।गृहीतातिथ्यसत्कारौ प्रोचतुश्चाधिमासिकम् ॥२७॥अयं मासोऽधिकमासो मलमासोऽस्ति धिक्कृतः ।सर्वमासैः ऋषिभिश्च निषिद्धः शुभकर्मसु ॥२८॥तदयं वै मया कृष्णेनाऽस्य सौभाग्यता कृतो ।किन्तु विनाधिदेवं स गणनां तेषु नार्हति ॥२९॥एतदीयं महद्दुःखमनिवार्य भवदृते ।अत एनं निरातंकं सानन्दं कृपया कुरु ॥३०॥अस्मदर्थं च कर्तव्यमस्य दुःखनिवारणम् ।श्रुत्वैवं त्वक्षरातीतः प्राह श्रीपुरुषोत्तमः ॥३१॥समीचीनं कृतं कृष्ण यदत्रागतवान् भवान् ।नारायणोऽपि चात्राद्यागतस्तदपि शोभनम् ॥३२॥मलमासे करे कृत्वा लोके कीर्तिमवाप्स्यथः ।भवद्भ्यां संधृतो हस्ते स मयैव करे धृतः ॥३३॥अत एन करिष्यामि सर्वोपरि मया समम् ।यथाऽहं स्वगुणैर्युक्तस्तथैनं विदधामि वै ॥३४॥सामर्थ्यैश्चाऽर्च्यभावेन तथा वरपराक्रमैः ।मम तुल्यं विदधामि न तोऽन्यत् किमपेक्ष्यते ॥३५॥विनष्टसर्वपाप्मत्वं सत्यसंकल्पदायिता ।कामनाफलदायित्वं मत्सारूप्यप्रदायिता ॥३६॥स्वर्गादिप्रापयितृत्वं मोक्षस्थानप्रदायिता ।एभिः सामर्थ्यकैर्युक्तो भवत्वधिकमासकः ॥३७॥मम सर्वे गुणाश्चान्येऽधिमासाय समर्पिताः ।पुरुषोत्तमसंज्ञा मे वस्तुष्ट्यै चार्पिता तथा ॥३८॥अस्य स्वामी भवाम्येव ब्रह्मेशः पुरुषोत्तमः ।मम नाम्ना जगत्सर्वं तन्नामाऽपि ग्रहीष्यति ॥३९॥विधूय स्वानि पापानि पावनं च भविष्यति ।मत्स्वरूपो ह्ययं भूत्वा जगत्पूज्यो भविष्यति ॥४०॥सर्ववन्द्यः सर्वमासोत्तमो मासो भविष्यति ।एनमाश्रित्य वै लोका व्रतिनो जापकाऽर्चकाः ॥४१॥दातारः स्नानकर्तारो भोजयितार इत्यपि ।किंचित्पुण्यस्य कर्तारश्चापि मे तु प्रभावतः ॥४२॥दुःखदारिद्यतापाऽधिव्याधिपीडाविधूय च ।सुखसम्पद्धनदाराऽपत्यारोग्यसमृद्धिभिः ॥४३॥राजमानसुभवना भविष्यन्त्युत्सवान्विताः ।शृंगाराभरणान्नार्थपात्रपरिच्छदादिभिः ॥४४॥दासदासीजनमित्रसेवकाश्चितभूमिभिः ।योगक्षेमबलाऽदैन्यैर्भविष्यन्ति महोत्सवाः ॥४५॥भोज्यपानोपभोग्यैश्च सत्ताविद्याप्रथादिभिः ।उद्यानयानवाहाद्यैर्भविष्यन्ति समन्विताः ॥४६॥रसैर्वृक्षफलैःपुष्पैर्गोधनैः स्वर्णरूप्यकैः ।मणिरत्नहीरकाद्यैर्भविष्यन्ति सदोज्ज्वलाः ॥४७॥पुरुषोत्तममासस्य व्रतिनो मद्गता हि ते ।मत्तः प्राप्स्यन्ति सर्व ते यथा चिन्तामणेर्जनः ॥४८॥स्वर्गे वा वैधसं वापि वैराजं वैष्णवं च वा ।रौद्रं भौमं च वा क्षैर स्थलं प्राप्स्यन्ति यन्मतम् ॥४९॥पत्नीः पतीन् गृहं सौधान् सुपुत्रान् रूपवैभवान् ।अक्षतानव्ययान् प्राप्स्यन्त्यधिमासस्य सेवनात् ॥५०॥सकामा वापि निष्कामाः प्राप्स्यन्तीष्टतमं ह्यतः ।सकामश्चाथ निष्कामो यथाऽहं पुरुषोत्तमः ॥५१॥तथाऽयं वै जनेष्टस्य पूरको मोक्षदः कृतः ।यथाऽहं परिपूर्णोऽस्मि तथाऽयं चाऽव्ययः कृतः ॥५२॥एवं ये चेषणावन्तो यद्वेषणाविवर्जिताः ।पूजयिष्यन्ति ते स्वेष्टं लब्ध्वा मोक्षमवाप्नुयुः ॥९३॥एनं प्रपूज्य कर्माणि कर्मिणां यान्ति भस्मताम् ।आत्मा दिव्यो महाशुद्धो मामेवैष्यति चाक्षरे ॥५४॥मदर्थं वै महायत्ना यतयो ब्रह्मचारिणः ।साधवश्च महात्मानो योगिनस्तापसास्तथा ॥९५॥योगिन्यः सांख्ययोगिन्यः साध्व्यः सत्यस्तथाऽधवाः ।विरागाश्च विरागिण्यो निर्वाणसत्कृतादराः ॥५६॥निर्मोहिन्यस्तथा ब्रह्मवादिन्यो न्यासतत्पराः ।प्रयतन्ते वत्सराणां सहस्रात्प्रासहस्रकम् ॥५७॥तथापि नैव यान्त्येते मद्धाम परमात्परम् ।पुरुषोत्तमभक्तास्तु यान्ति मद्धाम मासतः ॥५८॥अन्ये तपस्विनः शान्ता निराहारा निराशयाः ।पत्रपुष्पफलाहारा जलमात्रनिषेविणः ॥५९॥वायुमात्र कृताहारा बाष्पभोजिन एव च ।धूम्रपाना जलावासाः शीतातपसहास्तथा ॥६०॥शुष्कदेहा भग्नशिश्ननाडिका ब्रन्धरन्ध्रगाः ।परकायप्रवेशार्हा व्रतदार्ढ्ययुता अपि ॥६१॥मम भक्तिं विना नैव यान्ति मद्धाम ते खलु ।पुरुषोत्तममासस्य व्रतिनो ये तु ते मम ॥६२॥भक्ता मम व्रतिनस्ते मासमात्रेण मत्पदम् ।मत्कृपया प्रयास्यन्ति शाश्वतं त्वमृतं पदम् ॥६३॥कृष्ण! नारायण! तस्मान्मासोऽयं भवतोः कृते ।कृतो मया तु मूर्धन्यः सर्वकामार्थसाधकः ॥६४॥ये जनाः सेवयिष्यन्ति मासं श्रीपुरुषोत्तमम् ।धर्मार्थकाममोक्षाणां सिद्धिमाप्स्यन्ति ते जनाः ॥६५॥तस्मात् संसेव्यतां सर्वैर्मासोऽयं पुरुषोत्तमः ।श्रेष्ठक्षेत्रनिभो मासोऽधिको बीजप्ररोहणे ॥६६॥फलं कोटिगुणं पुण्यं ददाति पुरुषोत्तमः ।स्वर्गे भुक्त्वा पुनर्यांति चातुर्मास्यप्रयाजिनः ॥६७॥अक्षरं शाश्वतं यान्ति पुरुषोत्तमयाजिनः ।सप्ताऽधिकसप्तशतकुलान्युद्धारयत्ययम् ॥६८॥अन्यमासव्रतकर्ता पुनर्जन्मातिगो न वै ।मम मासे व्रतकर्ता पुनर्जन्मगमो न हि ॥६९॥अत्र मासे त्वहं साक्षान्निवसाम्यधिदैवतः ।मन्नामाऽपि कृतं चास्य तस्मात्तदात्मको ह्यहम् ॥७०॥तदाश्रितानां सर्वेषां पूरयिष्यामि वाञ्छितान् ।गणयिष्ये नाऽपराधान् भक्तां त्वस्य सर्वथा ॥७१॥मे भक्त्यपेक्षया मदीयस्य भक्तिर्मम प्रिया ।विलम्बो न मदीयमासभक्तानां मनोरथे ॥७२॥मम भक्तं विहायैव तेषां पूर्णं करोम्यहम् ।सर्वं ददामि तेभ्यो वै यतो मन्मासयाजिनः ॥७३॥ममातिवल्लभास्ते वै न तथा मुक्तकोटयः ।मम मासं समासाद्य जपदानादिवर्जिताः ॥७४॥स्नानपूजाविहीनाश्च सत्कार्यपरिपन्थिनः ।कूपवापीतडागादिपूर्तयज्ञविवर्जिताः ॥७५॥देवतीर्थद्विजसाधुसाध्वीदेवालयद्विषः ।निन्दकास्ते भविष्यन्ति काकवर्चस्कभक्षिणः ॥७६॥कुष्ठिनः श्वशृगालास्ते भविष्यन्ति निराश्रयाः ।दुर्भाग्यानां निन्दकानां सुखं न स्याद्दिवानिशम् ॥७७॥मम मासे व्रतिनां ये दुःखं कुर्वन्ति चाऽधमाः ।परताडनपाशास्ते भविष्यन्ति प्रगर्दभाः ॥७८॥तिरस्कुर्वन्ति मे मासं ये च धर्मविदूषकाः ।भक्तिमार्गेऽत्र विघ्नस्य कर्तारो येऽप्यसूयकाः ॥७९॥वृक्षवागूरिकास्ते तु भविष्यन्ति मलादनाः ।प्रतितृतीयवर्षे ये ह्यासाद्य पुरुषोत्तमम् ॥८०॥आत्मश्रेयो न कुर्वन्ति ते यास्यन्ति ममालयम् ।दुःखदामानलव्याप्ताश्चात्र भूत्वा प्रदुःखिनः ॥८१॥श्रीदः सम्पत्करस्तस्मादतिमृत्युजयप्रदः ।व्यर्थश्चायं न नेतव्यो मासो मे पुरुषोत्तमः ॥८२॥कन्यका वा युवत्यश्च सधवाश्चाऽधवास्तथा ।सपत्न्यो योषितो वृद्धाः सुभगा दुर्भगा अपि ॥८३॥असुखाः सुसुखाश्चापि स्वेष्टप्राप्त्यर्थमेव याः ।मम मासे करिष्यन्ति व्रतं दानं मदर्चनम् ॥८४॥स्नानं मालां देवसेवां पुण्यकार्याणि यान्यपि ।तासां सर्वप्रदश्चाहं भगवान्पुरुषोत्तमः ॥८५॥धर्मं कामं तथा द्रव्यं सुखं मोक्षं ददाम्यहम् ।भोज्यं पाचनसामर्थ्यं रतेः शक्तिं वरं पतिम् ॥८६॥पुत्रं पौत्रं दासदासीः तत्तदिष्टं ददाम्यहम् ।भ्रातृपितृकुटुम्बस्य सुखदाता भवाम्यहम् ॥८७॥याभिर्मासो योषित(?)श्च शून्यो मे पुरुषोत्तमः ।तासां शून्य भवेत्सर्वं सद्भाग्यं शून्यतां व्रजेत् ॥८८॥धनाढ्या ये गृहस्थाश्च विना दानादिकं मम ।मासं शून्यं यापयन्ति तत्कोशः शून्यतां व्रजेत् ॥८९॥ब्रह्मचारिवानप्रस्था यतयस्त्यागमार्गगाः ।मासं शून्यं विना भक्तिं यापयन्ति च ते यदि ॥९०॥तपस्विनोऽपि ते सर्वे मुक्तिशून्या भवन्ति वै ।शूद्राः स्त्रियस्तथा दासवर्गाः श्रीपुरुषोत्तमम् ॥९१॥गुरोर्देवस्य च सेवां विना निर्गमयन्ति चेत् ।तेऽपि सम्पद्विहीनाः स्युर्दुःखदारिद्र्यपीडिताः ॥९२॥गुरुः सेव्यो हरिः सेव्यः सेव्याः पित्रादयो जनाः ।गौः संसेव्या पतिः सेव्यः सती सेव्या यथा ह्यहम् ॥९३॥तत्र तत्र स्थितश्चाहं फल दास्यामि सर्वथा ।तस्मात् सर्वात्मना सर्वैः सेव्यः श्रीपुरुषोत्तमः ॥९४॥आत्मश्रेयः प्रकर्तव्यं धर्मो भक्तिश्च मोक्षणम् ।विधुरत्वं च वैधव्यं मलमासस्य नाऽऽवहेत् ॥९५॥कृष्णनारायणमासाः शृण्वन्तु मद्वचो ध्रुवम् ।ममाज्ञया तु ये लोका ब्रह्माण्डवर्तिनः खलु ॥९६॥यत्र यत्राऽस्त्ययं मासस्तत्र तत्रापि मामकम् ।अधिष्ठानस्वरूपं मां पूजयिष्यन्ति सर्वथा ॥९७॥ते मद्भक्ता मम धामाऽक्षरं प्राप्स्यन्ति शाश्वतम् ।गोलोकं चापि वैकुण्ठं चामृतं वापि चैश्वरम् ॥९८॥यथेष्टं कृपया ते ते तत्तद्भक्तास्तथा तथा ।यास्यन्ति परमं स्थानं मम मासप्रभावतः ॥९९॥तृतीयायां मम मासे युवाभ्यां पूजितोऽस्म्यहम् ।तथा ये पूजयिष्यन्ति तेषां पूर्णमनोरथाः ॥१००॥सर्वथैव भविष्यन्ति स्नानदानजपादिभिः ।युवां चिन्तां कुरुतं मा लक्ष्मीश राधिकेश्वर ॥१०१॥यातं निजं निजं लोकं गृहीत्वा पुरुषोत्तमम् ।इत्यादेशमधिप्राप्य ते प्रणम्य ययुस्त्रयः ॥१०२॥शृणु लक्ष्मि! तृतीयायां स्नास्यन्ति येऽधिके जलैः ।तेषां ब्रह्महदे स्नानं तथा ब्रह्मसरोवरे ॥१०३॥कृतं स्नानं तु यद्वद् वै तत्पुण्यं संभविष्यति ।मम पूजा यथा ताभ्यां कृता तत्र यदर्पितम् ॥१२४॥तथा पूजां मम मासे करिष्यन्ति च ये जनाः ।दानान्यपि करिष्यन्ति तत्पुण्यं शाश्वतं भवेत् ॥१०५॥तृतीयायां मम पूजा कृता ताभ्यां यतो मम ।तृतीयायां महापूजा कर्तव्या मानवैरपि ॥१०६॥नारायणस्य कृष्णस्याऽपि पुरुषोत्तमस्य च ।कर्तव्या महती पूजा सुखमोक्षादिदायिनी ॥१०७॥यथाऽहं ब्रह्मधाम्न्यस्मि तथा मासात्मकोऽपरः ।ब्रह्माण्डे सर्वथा चास्मि तथाऽस्म्यन्तर्हृदि स्थितः ॥१०८॥कृष्णनारायणश्चास्मि राधालक्ष्म्यादिसेवितः ।अहं सर्वं विजानामि नान्ये जानन्ति मां तथा ॥१०९॥पार्वत्या प्रभया साकं माणिक्या विहरामि च ।नैकरूपोऽप्येक एवाऽस्मीति विद्धि मदंगने! ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये श्रीकृष्णनारायणमलमासानामक्षर-धामगमने ब्रह्मह्रदब्रह्मसरोवरस्नानोत्तरं श्रीपुरुषोत्तमस्य-सन्निधिगमनं सुपूजनं स्वनिवेदनोत्तरमधिकमासस्य पुरुषोत्तमनामैश्वर्यस्वामिकत्वादिप्राप्तिस्तृतीया-तिथिकृत्पूजनदानादिफलनिरूपणं कृष्ण-नारायणमासानां पुनः स्वस्वधामाऽ- ऽगमनमित्यादिनिरूपणनामा-पञ्चनवत्यधिकद्विशततमोऽध्यायः ॥२९५॥ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP