संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३८५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३८५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३८५ Translation - भाषांतर श्रीनारायण उवाच-मन्नाम्नां त्वं कीदृगर्थान् सुजानासि पतिव्रते! ।वद मां येन तुष्यामि ज्ञात्वा ते ज्ञानमुत्तमम् ॥१॥इत्युक्ता भार्गवी सा त्वं व्युत्पत्तिं प्रचकर्थ ह ।कृषिर्भूवाचकः शब्दः णश्च निर्वृत्तिवाचकः ॥२॥तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ।दुःखानां कर्षणाद् धाम्नि नयनात् कृष्ण उच्यते ॥३॥राशब्दः संपदां नाम मो माने प्रोच्यते सदा ।सम्पत्प्रमाणदः कृष्णो रामनामा समुच्यते ॥ ४॥रमते रमया सार्धं तेन रामः समुच्यते ।रमाया रमणस्थानं रामः कृष्णः स उच्यते ॥५॥नरात्मनां समुदायेऽयनं संवासमेव यः ।करोत्ययं प्रभुर्नारायणः कृष्णः स उच्यते ॥६॥नारा पापानि वै तेषां चाऽयं नाशो यतो भवेत् ।नारायणः स एवाऽस्ति कृष्णनारायणः प्रभुः ॥७॥नारा जलानि तत्राऽऽस्ते तेन नारायणः स हि ।नारा तु भार्गवी लक्ष्मीस्तयाऽयनं करोति यः ॥८॥कृषिश्च प्रेम तन्नेता कृष्णनारायणः स वै ।भवान् मम पतिः श्रीश्रीकृष्णनारायणो हरिः ॥९॥हरसि भक्तदुःखानि हरिस्त्वं भगवान् स्वयम् ।षडैश्वर्यसमेतस्त्वं भगवान् प्रोच्यते सदा ॥१०॥भगं भक्तस्तदेस्यास्ति भगवाँस्त्वं ततो मतः ।अंकुरो भक्तिवृक्षस्य भक्तसंगेन वर्धते ॥११॥तथा हरिकथालापपीयूषसेचनेन च ।अभक्तालापदीपाग्निज्वालायाः कलयाऽपि तु ॥१२॥अंकुरः शुष्कतां याति भक्तसेक्तेन वर्धते ।तस्मादभक्तसंघं वै सावधाना त्यजामि वै ॥१३॥कृषिसत्कृष्टवचनो णश्च सद्भक्तिबोधकः ।अश्चापि दातृवचनः कृष्णस्त्वं प्रोच्यसेऽपि च ॥१४॥कृषिश्च परमानन्दे णश्च तद्दास्यकर्मणि ।तयोर्दाता भवान् कृष्णः कृष्णदासी च भार्गवी ॥१५॥कृषिः क्लेशस्तस्य नाशात् कृष्णस्त्वयि प्रवर्तते ।जलं भित्त्वा यथा पद्मं तथा भक्तस्त्वदाश्रयात् ॥१६॥उद्धरति कृष्णनारायणनाम्ना भवार्णवात् ।श्रिया त्वं श्रीकृष्णनारायणो युक्तोऽसि वै मया ॥१७॥मम भाग्यं महन्मन्ये तव योगात्परेश्वर ।धन्या सा कंभरालक्ष्मीर्धन्यो गोपालकृष्णकः ॥१८॥यद्गृहे श्रीकृष्णनारायणस्त्वं वर्तसे सदा ।यद्वाचि श्रीकृष्णनारायणनाम प्रवर्तते ॥१९॥भस्मीभवन्ति वै तस्य महापातककोटयः ।दिव्यो भूत्वा महामुक्तो जायते न पुनर्भवः ॥२०॥सर्वेषामपि यज्ञानां लक्षाणि च व्रतानि च ।तीर्थस्नानानि सर्वाणि तपांस्यनशनानि च ॥२१॥वेदपाठसहस्राणि प्रादक्षिण्यं भुवः शतम् ।कृष्णनारायणनाम्नः कलां नार्हन्ति षोडशीम् ॥२२॥मा च ब्राह्मी वैष्णवी श्रीर्नारायणी सनातनी ।महालक्ष्मीर्भार्गवी च तासां स्वामी च माधवः ॥२३॥त्वयि सर्वेश्वरे भक्तिस्त्वद्दास्यं मे सदाऽस्तु वै ।तव नाम्नां भजनं च सर्वदाऽस्तु च मे हृदि ॥२४॥देहेन मनसा वाचा क्रियया सर्वकर्मभिः ।तवैव सेवनं नाथ! वाञ्छितं मे सदाऽस्तु तत् ॥२५॥तपस्तप्तं तदर्थं वै सेविष्ये मत्प्रियं पतिम् ।आनन्दं च त्वया दत्तं भोक्ष्ये शाश्वतमेव च ॥२६॥इत्युक्त्वा भार्गवी लक्ष्मि! विरराम हरेः पुरः ।तावत्सख्यः समायाता भूषयितुं तु भार्गवीम् ॥२७॥कृष्णनारायणो ज्ञात्वाऽवसरं चोत्थितस्तदा ।नर्मदायास्तटे यातो विहारार्थं वयस्यकैः ॥२८॥तावत्तत्र दिव्यरूपाः सर्वा नारायणप्रियाः ।रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ॥२९॥कृष्णपत्नी प्रभादेवी रत्नमालां गले ददौ ।पार्वती दक्षिणे हस्ते क्रीडापद्म ददौ शुभम् ॥३०॥पद्मा तस्या ददौ पादपद्मयुग्मेऽप्यलक्तकम् ।प्रददौ माणिकी पत्नी सिन्दूरं सुन्दरं वरम् ॥३१॥चन्दनेन समायुक्तं सीमन्ताऽधस्तलोज्ज्वलम् ।सुचारुकबरी रम्यां चकार मंगला प्रिया ॥३२॥मनोहरां मुनीनां च मालतीमाल्यभूषिताम् ।स्थलपद्मदलपुष्पग्रथितं धम्मिलं व्यधात् ॥३३॥कस्तूरीकुंकुमाक्तं च चारुचंदनपत्रकम् ।स्तनयुग्मे सुकठिने चकार ललिता प्रिया ॥३४॥चारुचम्पकपुष्पाणां मालां गन्धमनोहराम् ।सुधासखी ददौ तस्यै प्रफुल्ला नवमल्लिकाम् ॥३५॥जया रत्यां सुरसिका रत्नभूषणभूषिताम् ।तां चकाराऽतिरसिकां वरां रतिरसोत्सुकाम् ॥३६॥शरत्पद्मदलाभं च लोचनं कज्जलोज्ज्वलम् ।कृत्वा ददौ सुललितं पाञ्चाली चाम्बरं नवम् ॥३७॥विजया पारिजातानां कुसुमानि करे ददौ ।अमृता च सखी तैलं सुगन्धं प्रददौ तनौ ॥३८॥रतिः शृंगारविषयं स्मारयामास राजसम् ।सुधोपमं सुमधुरं वचनादि प्ररञ्जकम् ॥३९॥कमलानां चम्पकानां दले चन्दनचर्चिते ।चकार रतितल्पं च कमला चाशु कोमलम् ॥४०॥चारु चम्पकपुष्पाणि स्थलाब्जानां दलानि च ।चकार चन्दनाक्तानि कृष्णार्थं शारदा प्रिया ॥४१॥केलिकदम्बपुष्पाणां स्तबकं च मनोहरम् ।तथा माला कदम्बानां श्रीः कृष्णार्थं चकार ह ॥४२॥ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।कृष्णा चकार कृष्णार्थं ददौ तस्यै तथाऽपरम् ॥४२॥कर्णयोर्भूषणे मेना धन्या ललाटभूषणम् ।कलावती तु भार्गव्यै ददौ नासाविभूषणम् ॥४४॥सिद्धिस्त्वस्यै ददौ गन्धसारं चोष्ठप्ररंजनम् ।ब्रुद्धिर्ददौ तु भार्गव्यै गण्डबिन्दु मनोहरम् ॥४५॥हरेर्वसुमती पत्नी रत्नहारान् गले ददौ ।मूर्तिश्चास्यै ददौ रम्यां कंचुकीं कांचनप्रभाम् ॥४६॥सावित्री च ददौ यज्ञोपवीतं कांचनं वरम् ।प्रेयसी च ददौ त्वस्यास्तनयोश्चन्दनं शुभम् ॥४७॥श्रेयसी च ददौ कट्यां रशनां स्वर्णनिर्मिताम् ।ऋतम्भरा ददौ त्वस्यै प्रकोष्ठशृंखला शुभाम् ॥४८॥भूरिशृङ्गा ददावस्यै भुजयोः कटके वरे ।राध्यासा प्रददौ तन्तीं ललाटफलके तदा ॥४९॥संज्ञा कण्ठीं सुवर्णस्य मुद्गमालात्मिकां ददौ ।यतिनी प्रददौ चास्यै यवमालां सुशोभिताम् ॥५०॥अरुणा प्रददौ शाटीं सूर्यवर्णां सुवर्णजाम् ।अरुन्धती ददौ तस्यै स्वर्णोर्मिकादशद्वयम् ॥५१॥मिष्टादेवी योगपट्टं ददौ सुवर्णनिर्मितम् ।कंभरा प्रददौ रम्यं दर्पणं व्यजनं शुभम् ॥॥५२॥द्युवर्णा प्रददौ त्वस्यै स्वर्णघर्घरिकां शुभाम् ।विकुण्ठा प्रददौ तस्यै नूपुरे कानके तदा ॥५३॥नखरंगं ददौ वम्री ज्योष्ट्री नेत्रप्रकज्जलम् ।वार्क्षी धूपं सुगन्धं च पुष्पा गन्धजलं ददौ ॥५४॥सुदुघा च ददौ दुग्धवटिकां पुष्टिदायिनीम् ।तुलसी स्तंभनरसमपाययत्तु भार्गवीम् ॥५५॥सरस्वती ददौ तस्याः पादयोः समलक्तकम् ।चम्पा च मञ्जुला रामा दया शान्ता जयाऽनिला ॥५६॥शान्तिर्हैमी च रत्ना च मुक्ता देवी च पानिका ।मौक्तिकाऽऽमोदिका कान्तिः शिवा मणिश्च वै दमी ॥॥५७॥इत्याद्या भगवत्पत्न्यो विदधुस्तामलंकृताम् ।एवं शृंगारसम्पन्नां कृत्वा सख्योऽप्यरंजयन् ॥५८॥परस्परं च विधिना भगवत्तोषहेतवे ।प्रतीक्षन्ते त्वागमनं कृष्णनारायणस्य ताः ॥५९॥अन्तर्यामी हरिर्ज्ञात्वा विहाय नर्मदातटम् ।समाययौ भवनाग्रे कदम्बद्रुमसन्निधौ ॥६०॥दौवारिककृतं शब्दं जयं श्रुत्वा सखीजनः ।सत्कारार्थं भगवतो द्रागेव बहिराययौ ॥६१॥पाद्यं चार्घ्यं जलं दत्वा पेयं दत्वा सुमिष्टकम् ।निनाय श्रीकृष्णनारायण वै भार्गवीशयम् ॥६२॥ताश्च सर्वा विमुच्यैव नत्वा कृष्णनरायणम् ।ययुर्गृहान्तराण्येव रहो दत्वा वधूं वरम् ॥६३॥पातिव्रत्येन धर्मेण सिषेवे भार्गवी मुदा ।कृष्णनारायणः पत्नीं ददर्श स्थिरचक्षुषा ॥६४॥श्वेतचम्पकवर्णाभामतुलां सुमनोहराम् ।शृंगारितां सखीभिर्वै स्वस्यार्थं मोहिनीं कृताम् ॥६५॥सुकेशीं सुन्दरीं श्यामां स्तनयुग्मोन्नताननाम् ।नितम्बकठिनश्रोणीं सस्मितां सुदतीं सतीम् ॥६६॥कोटीन्दूज्ज्वलकान्त्यास्यां शरत्कमललोचनाम् ।कज्जलोज्ज्वलनेत्रां च स्वर्णभूषाविभूषिताम् ॥६७॥चित्रालितनुसद्रूपां कामपूर्णसुविग्रहाम् ।रसिकां सोत्सुकां कृष्णनारायणाङ्कमानसाम् ॥६८॥वह्निशुद्धांशुकाधानां रतिवेगभरान्तराम् ।चारुकुण्डलयुग्मेन श्रुतिगण्डस्थलोज्ज्वलाम् ॥६९॥सुनासास्वर्णवालां च गजमुक्तासुमालिकाम् ।कुंकुमालक्तकस्तूरीस्निग्धचन्दनचर्चिताम् ॥७०॥खगेन्द्रचञ्चुसन्नासां कोमलांगीं सुकामुकीम् ।दधानां सुकपोलौ च कमनीया करेणुगाम् ॥७१॥कामकाम्यालयां तन्वीं कटाक्षानंगद्र्शिनीम् ।पारिजातप्रसूनानि दधानां क्रीडनाय वै ॥७२॥कर्मणा मनसा वाचा स्वप्ने जागरणे तथा ।कृष्णनारायणप्रीतिस्मृत्याढ्यां प्रेमसंभृताम् ॥७३॥भावानुभावनासक्तां शुद्धभक्तां पतिव्रताम् ।गौरवर्णां रक्तपूर्णां शश्वद्वक्षःस्थलस्थिताम् ॥७४॥प्रियासु प्रियभक्तेषु भक्तासु प्रियवादिनीम् ।दृष्ट्वा तु भार्गवीं कृष्णनारायणो मुमोह वै ॥७५॥भार्गवी शयने दृष्ट्वा स्वामिनं प्राणवल्लभा ।कामपूर्णं शुभवेषं सुन्दरेशं च सस्मितम् ॥७६॥नवीनजलदश्यामं पीतकौशेयवाससम् ।चन्दनोक्षितसर्वागं रत्नभूषणभूषितम् ॥७७॥स्वर्णसत्कल्गिमुकुटं मालतीमाल्यशोभितम् ।ईषद्धास्यप्रसन्नाऽऽस्यं भक्तानुग्रहविग्रहम् ॥७८॥रन्तुकामं मनःकान्तं कामकान्तं पतिं प्रियम् ।जवेन वक्षसि कृत्वा प्रोवाच परमेश्वरम् ॥७९॥जातं मे सफलं जन्म यस्या मे ईदृशः पतिः ।सुजीवितं जीवितं मे यस्याः कान्तो नरायणः ॥८०॥दृष्ट्वा ते मुखचन्द्रं मे सुस्निग्धं लोचनं मनः ।पञ्चप्राणा द्रविताश्च हर्षो माति न मे तनौ ॥८१॥त्वद्दृष्ट्याऽमृतवृष्ट्या च सुसिक्ताऽऽनन्दसम्मुखी ।विरहः स्वामिनो नाथ! दावानलः सुदारुणः ॥८२॥इत्युक्त्वा भार्गवी लक्ष्मीः कृष्णनारायणं पतिम् ।स्वासने स्वापयामास चक्रे पादादिमर्दनम् ॥८३॥सुगन्धं जलसारं च तैलसारं च दर्पणम् ।जाम्बूलं जलपानं च पुष्पहारान् सुचन्दनम् ॥८४॥मधु भोज्य फलं मिष्टं चानंगबलगूटिकाम् ।सुधां ददौ कृष्णनारायणाय स्वां ददौ ततः ॥८५॥सफलीकृतवान् स्वामी पुष्पशय्यां मनोहराम् ।भार्गवीं सफलीचक्रे नवोढां रतिमन्दिराम् ॥८६॥सस्मिता सस्मितं कान्तं शान्तं कान्तमनोहरा ।तल्पे सर्वात्मना लक्ष्मीः सिषेवे सुखमूर्छिता ॥८७॥सन्तुष्टा भार्गवी कान्तं सन्तुष्टं प्राह धर्मतः ।सा स्त्री भावानुरक्ता या, यः पाति स्त्रीं पतिश्च सः ॥८८॥प्रेमसौख्यं पतिपत्न्योर्धर्मतः खलु दुर्लभम् ।पतिव्रता विजानाति रसिका गुणवत्पतिम् ॥८५॥दूराद्धावति पद्मार्थं मधुलोभान्मधुव्रतः ।भेकस्तन्नहि जानाति तन्मूर्ध्नि पादमुत्सृजेत् ॥९०॥यन्त्री जानाति संगीतरसं यन्त्रं तु नैव हि ।दुग्धस्वादं क्षुधितश्च न दर्वी नैव भाजनम् ॥९१॥परिपक्वफलाऽऽस्वादं सुखं जानन्ति भोगिनः ।एकत्राऽवस्थिताः शश्वन्न किंचित् फलिनो यथा ॥९२॥सुशीतलजलाऽऽस्वादं विजानन्ति कृषीवलाः ।न वापी न च कलशश्चैकत्राऽवस्थितो यथा ॥९३॥भोगिनो हि विजानन्ति शालिस्वादुरसं परम् ।एकत्राऽवस्थितं चापि न क्षेत्रं भाजनं न वा ॥९४॥बुबुधे चन्दनाऽऽघ्राणं चन्दनार्थी न गर्दभः ।सौभाग्यं गौरवं प्रेम दुर्लभं नित्यनूतनम् ॥९५॥पतिव्रता विजानाति सुलभं पतिसेवनात् ।पत्नीव्रतः पतिश्चापि प्राप्नोति सुलभं हि तत् ॥९६॥तव सेवाप्रदं मेऽस्तु पातिव्रत्यं त्वयि प्रभो! ।पत्नीव्रते कृष्णनारायणे नाथे वृणोम्यहम् ॥९७॥तथाऽस्त्विति हरिः प्राह भार्गवीं पतिसेविकाम् ।दर्शयामास रूपाणि यानि लक्ष्म्या भवन्ति वै ॥९८॥पश्य त्वं भार्गवि! ते तु धृतानि यत्र यानि वै ।रूपाणि तु मया साकं पातिव्रत्येन तिष्ठसि ॥९९॥अक्षरे ब्रह्मणि चाहं वर्तामि पुरुषोत्तमः ।तत्राऽसि त्वं चिदानन्दाऽक्षररूपेण वर्तसे ॥१००॥गोलोके गोकुले वृन्दावने त्वं राधिकाऽसि मे ।द्विभुजो गोपवेषोऽहं कृष्णोऽस्मि राधिकापतिः ॥१०१॥चतुर्भुजोऽहं वैकुण्ठे द्वेधा नारायणः सदा ।लक्ष्मीः सरस्वती त्वं च मया कान्तेन वर्तसे ॥१०२॥सिन्धुकन्या त्वं तु लक्ष्मीर्मर्त्यो लक्ष्मीपतिस्तदा ।श्वेतद्वीपे च क्षीरोदे लक्ष्मीपतिश्चतुर्मुजः ॥१०३॥अहं नारायणर्षिश्च नरो धर्मः सनातनः ।शान्तिर्लक्ष्मीस्वरूपा त्वं मयि चासि पतिव्रता ॥१०४॥अहं कपिलस्त्वं सिद्धिः सर्वत्रैवं प्रवर्तसे ।अहं पत्नीव्रतस्त्वं च पतिव्रता प्रवर्तसे ॥१०५॥वैकुण्ठे तु महालक्ष्मीर्भवती हि सरस्वती ।भवती मृत्युलक्ष्मीश्च क्षीरोदशायिनः प्रिया ॥१०६॥धर्मपुत्रवधूस्त्वं च शान्तिर्लक्ष्मीस्वरूपिणी ।कपिलस्य प्रिया कान्ता भुवि त्वं भारती सती ॥१०७॥त्वं सीता रामरूपस्य मम पत्नी प्रवर्तसे ।भविष्यसि कृष्णरूपे रुक्मिणी त्वं प्रिया तदा ॥१०८॥कंभरा त्वं महालक्ष्मीर्गोपालकृष्णभामिनी ।एवं त्वं भार्गवी जाता कृष्णनारायणोऽस्म्यहम् ॥१०९॥पद्मा त्वं च रमा त्वं च प्रभा त्वं पार्वती तथा ।माणिकी त्वं जया त्वं च श्रीस्त्वं कृष्णा मम प्रिया ॥११०॥हंसा च मंजुला चम्पा हैमी देवी रमा दया ।मौक्तिका च जया शान्तिस्त्वं तद्रूपाधिदेवता ॥१११॥यत्र यदा जनुं प्राप्ता वर्तसे मे प्रिया तदा ।उद्वाहयित्वा संगृह्य नयामि त्वां मया सह ॥११२॥नानारूपः सदा चास्मि स्वांशेन कलया च वा ।त्वया सहितः सर्वत्र विराजे मत्प्रिये! शुभे! ॥११३॥परिपूर्णतमश्चास्मि त्वं च पूर्णतमाऽसि वै ।यत्र यादृग् भवेत् कार्यं तत्र यामि त्वया सह ॥११४॥पतिव्रतासमा नान्या त्वया चान्या हि विद्यते ।अतितुष्टोऽस्मि देवेशि! चैकरूपेण वर्तसे ॥११५॥यास्तवेमां पतिसेवां श्रोष्यन्ति भावतश्च ताः ।पठिष्यन्ति च वा ता वै समवाप्स्यन्ति मां पतिम् ॥११६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये भार्गव्याः शृंगारः, श्रीकृष्णनारायणस्य सेवनम्, पातिव्रत्यपरायणताप्रदर्शनं चेत्यादिनिरूपणनामा पञ्चाशीत्यधिकत्रिशततमोऽध्यायः ॥३८५॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP