संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५८६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५८६ Translation - भाषांतर श्रीनारायण उवाच--शृणु लक्ष्मि नारदस्तं नृपं प्राह कथां शुभाम् ।बिल्वेशस्य कपोतेश्वरस्य ते कथयाम्यहम् ॥१॥पुरा कुशस्थली साऽऽसीत् तीक्ष्णकुशैः समावृता ।तत्र तप्त्वा तपः शंभुः पूज्यः स्यामिति वाञ्च्छया ॥२॥'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।जपन् स तोषयामास हरिं श्रीपुरुषोत्तमम् ॥३॥कपोत इव सूक्ष्मोऽभूदष्टमूर्तिरपि द्विजः ।कपोतेश्वरतां यातस्तत्र सम्पूज्यतां गतः ॥४॥तस्य संपूजका यान्ति श्रीपतिं पुरुषोत्तमम् ।अथैकदा दानवास्तु भक्षयन्ति जनान् बहून् ॥५॥पातालाद्वै समागत्य तत्र श्रीनीलमाधवः ।विवरं पूरयामास बिल्वफलं तदन्तरे ॥६॥निक्षिप्य द्रुममकरोत् स्थापयामास शंकरम् ।तेन दानवरोधश्च जातस्तत्र बिलेश्वरः ॥७॥शंकरः समभूत्तस्याऽर्चनाद् याति परं पदम् ।अथ राजा विमानेन ययौ श्रीपुरुषोत्तमम् ॥८॥तदाऽभूद् दुर्निमित्तं च स्पन्दो वामाऽक्षिहस्तयोः ।पप्रच्छ नारदं राजा चापशकुनकारणम् ॥९॥नारदः प्राह तृतीये सायं वालुकयाऽऽवृतः ।नीलमाधवदेवोऽत्राऽदृश्यतां च गतो भुवि ॥१०॥श्रुत्वा राजा शोकमग्नो बभूव तु क्षणोत्तरम् ।प्राह पुरोहितं याहि मत्सुतं चाभिषेचय ॥११॥मालवेषु सदाऽथाऽत्र निवत्स्यामि युगान्तरम् ।प्राणान्न धारयिष्यामि न द्रक्ष्यामि यदा हरिम् ॥१२॥आयुःशेषं करिष्यामि सफलं क्षेत्रमास्थितः ।इति द्रवन्तं राजानं नारदः प्राह धैर्यतः ॥१३॥हरेर्माया तादृशी वै मा मोहं याहि तत्र वै ।मामुवाच स्वयं ब्रह्मा गच्छेन्द्रद्युम्नकं प्रति ॥१४॥जगन्नाथः प्रयात्येषः न च द्रक्ष्यति माधवम् ।न शोकस्तत्र कर्तव्यो वाच्य एवं स भूपतिः ॥१५॥तत्कृते परमात्मानं प्रसाद्य पुरुषोत्तमम् ।श्वेतद्वीपान्नयिष्यामि सहस्रान्ते महाक्रतोः ॥१६॥इन्द्रद्युम्नोऽश्वमेधानां सहस्रेण यजन् हरिम् ।तिष्ठतु च तदन्ते स द्रक्ष्यति दारवीं तनुम् ॥१७॥सोऽवतारो हरेः पुनस्तेन ख्यातिं गमिष्यति ।पुरा स्म मणिमूर्तिस्तु चतुर्धाऽवस्थितो हरिः ॥१८॥दिव्यदारुवपुर्भूयश्चतुर्धाऽवतरिष्यति ।आयाहि राजन् पश्यावो वालुकादिशमैश्वरीम् ॥१९॥नीलाद्रौ वर्तते देवो नृसिंहो विघ्ननाशकः ।पश्यामस्तं महोग्रं स विघ्ननाशं करिष्यति ॥२०॥नीलमाधवशैलं च दृष्ट्वा यास्याव एव ताम् ।कपोतेशस्थलीं तस्यां शालां सहस्रवार्षिकीम् ॥२१॥विनिर्मायाऽश्वमेधेन यज श्रीपुरुषोत्तमम् ।नृसिंहप्रतिमां तत्र यज्ञे पूजय नित्यदा ॥२२॥विघ्ननाशो भवेद् येन तवेष्टं स करिष्यति ।इत्युक्तश्चेन्द्रद्युम्नस्तां दिश नत्वा ययौ पुरः ॥२३॥तदा नारदसंसर्गाद् विदित्वा तु गिरेः शिरः ।दिव्यसिंहवपुश्चास्ते कृष्णागुरुतरोरधः ॥२४॥व्यात्तास्यो भीमदशनः पिंगसटाकुलो हरिः ।हिरण्यकशिपोर्वक्षो दारयन् नखरैः प्रभुः ॥२५॥अरुणाभो ललज्जिह्वः शंखचक्रधरो हरिः॥किरीटमुकुटाढ्यश्च स्फारनेत्रभयंकरः ॥२६॥दृष्ट्वा राजा प्रजाः सर्वे आनर्चुस्तं हरीश्वरम् ।ततो ययुर्नीलमणिमाधवस्य स्थलं शुभम् ॥२७॥न्यग्रोधं विपुलायामं शैलसान्नाहमुच्छ्रितम् ।वालुकाभिः पूरितं च द्रुमं नारायणात्मकम् ॥२८॥तथा स्थानं यत्र देवः स्वर्णसैकतसंवृतः ।नारदो दर्शयामास नमन् स्मरन् मुहुः प्रभुम् ॥२९॥वटमूलात् प्रतीच्यां हि नृसिंहस्योत्तरे नृप ।अतिष्ठन् माधवो यत्र चतुर्मूर्तिधरः प्रभुः ॥३०॥अनुग्रहीतुं त्वामेव पुनरत्रोद्भविष्यति ।पुरे पौरेः स्थापिताऽन्या माधवस्य प्रतिकृतिः ॥३१॥सापि मुक्तिप्रदा चास्ते का कथा ब्रह्मस्थापिता ।आविर्भावतिरोभावौ प्रजायेते युगे युगे ॥३२॥अनुग्रहार्थं भक्तानां स्थितोऽत्र करुणालयः ।इति सन्दर्शितं स्थानमिन्द्रद्युम्नो ननाम तत्॥ ॥३३॥तुष्टाव परया प्रीत्या ध्यात्वा भूगर्भसंस्थितम् ।सर्वेऽप्युपाया भगवन् भवन्ति तव दर्शने ॥३४॥त्वयि दृष्टे प्रभिद्यन्ते वासनाकुलकोटयः ।त्वमेव शरणे दीनमनुगृह्णीष्व मां विभो ॥३५॥चर्मकृच्चक्षुषा पश्यामीश त्वां तत्प्रयोजनम् ।इतिब्रुवन्तं चाकाशवाणी जगाद तं नृपम् ॥३६॥मा चिन्तां व्रज भूपाल व्रजिष्ये त्वद्दृशोः पथम् ।पैतामहं वचः प्राह नारदो यत्कुरुष्व तत्। ॥३७॥अथाऽऽह नारदस्तं च श्रद्दधानं नृपं तदा ।व्यवसाये सुकृतीनां देवा यान्ति सहायताम् ॥३८॥तद् गच्छ राजंस्तत्रैव नीलकण्ठस्य सन्निधौ ।स्थापयामि नृसिंहं च यागं कुरु च तत्पुरः ॥३९॥दक्षिणे नीलकण्ठस्य धनुःशतान्तरे द्रुमः ।चन्दनस्य वर्ततेऽस्य पश्चिमे भूमिका शुभा ॥४०॥वाजिमेधसहस्रस्य क्षेत्रं दिव्यं भविष्यति ।विश्वकर्मसुतस्तत्र प्रासादं घट्टयिष्यति ॥४१॥गच्छ त्वमहमत्रैव स्थास्यामि दिनपञ्चकम् ।आराध्यैनं दिव्यसिंहं साक्षाच्छ्रीपुरुषोत्तमम् ॥४२॥प्रत्यर्चायां प्रतिष्ठाप्य प्राणेन्द्रियमनोयुतम् ।नयिष्ये तत्र वै राजँश्चन्दनद्रुमसन्निधौ ॥४३॥सन्निधावस्य यागस्तु फलातिशयवान् भवेत् ।इत्युक्तो नृपतिस्तत्र ययौ ध्याने मुनिः स्थितः ॥४४॥तावन्मनुष्यरूपेण पुत्रो वै देवशिल्पिनः ।समाययौ त्वष्टृसुतो विश्वकर्मा तु सत्वरम् ॥४५॥प्रासादं नरसिंहस्य पश्चिमाननमुत्तमम् ।चतुर्थे दिवसे शीघ्रं पूर्णं चकार शोभनम् ॥४६॥ततः प्रभाते विमले नारदः सुरमण्डलैः ।देवीभिः सह नृत्यैश्च वादित्रैर्जयघोषणैः ॥४७॥सुशोभितां विमानस्थां मणिरत्नाद्यलंकृताम् ।मालासुगन्धलिप्तां च तेजःपरिधिशोभिताम् ॥४८॥रम्यां प्रतिष्ठितप्राणां देवीभिरभिवारिताम् ।आदाय नरसिंहस्य प्रत्यर्चां प्रत्युपस्थितः ॥४९॥राजाद्यास्तं प्रणिपत्य स्थापयामास मन्दिरे ।धरारमाभ्यां सहितामिन्द्रद्युम्नोऽतितुष्टुवे ॥५०॥हयमेधसहस्रान्ते यथा त्वां चर्मचक्षुषा ।दिव्यरूपं प्रपश्यामि तथाऽनुक्रोशय प्रभो ॥५१॥यथा चेज्यसहस्रं मे निर्विघ्नं तत्समाप्यते ।यज्ञेश त्वत्प्रसादान्मे तथा सान्निध्यमस्तु ते' ॥५२॥इति स्तुत्वा विररामाऽऽरार्त्रिकं प्रचकार सः ।ज्येष्ठशुक्लद्वादशी या स्वातीनक्षत्रसंयुता ॥५३॥तस्यां प्रतिष्ठितः क्षेत्रे दिव्यसिंहो महर्षिणा ।पूजयित्वा वाजिमेधसहस्रफलमाप्नुयात् ॥५४॥पञ्चामृतैर्वा क्षीरेण नारीकेलरसेन वा ।सपायसैरुपचारैर्जपापुष्पैः प्रपूजयेत् ॥५५॥सर्वोपचारैः सन्तुष्य नृसिंहधाम चाप्नुयात् ।वैशाखस्य चतुर्दश्यां शनेर्दिने स्वात्यृक्षके ॥५६॥आद्यावतारो नृहरेः सन्ध्यायां तं प्रपूजयेत् ।अथ यज्ञे समायाताः सुराः ऋषयो वैष्णवाः ॥५७॥पितरो वेदयज्ञादिकुशला भूसुरास्तथा ।त्रैलोक्ये ये च राजानः सिद्धा विद्याधरादयः ॥५८॥किन्नरा देवगान्धर्वाश्चारणा वैष्णवाश्च ये ।समायाता मण्डपश्च योजनद्वयभूतले ॥५९॥कृतश्च वेदिका क्रोशे कुण्डो मध्ये विशालकः ।कृतः क्रोशद्वये विप्रा यज्ञीयास्तत्र संस्थिताः ॥६०॥मध्ये नृपाणां देवानामृषीणां च शचीपतिम् ।पुरोधसा समं पूर्वमर्चयामास ऋद्धिभिः ॥६१॥ततः सिद्धान् देवमुनीन्देवान् राज्ञश्च वैष्णवान् ।विप्रादीन् पूजयामास प्राह यान्तु प्रसन्नताम् ॥६२॥महेन्द्र! चानुजानीहि प्रयक्ष्ये यज्ञपूरुषम् ।हयमेधसहस्रेण यावत्तत्पूर्णतां व्रजेत् ॥६३॥तावत्त्वं त्रिदशैः सार्धं सदोमध्यगतो वस ।नीलमाधवप्राप्त्यर्थं यजामि नेन्द्रताऽऽप्तये ॥६४॥पुनः प्रकाशिते कृष्णे श्रेयो वोऽपि भविष्यति ।श्रुत्वा देवास्तदा प्राहुर्वयं सानुमतास्तव ॥६५॥सुखं यजस्व राजेन्द्र वैकुण्ठं भक्तवत्सलम् ।वयं तावन्नररूपा भजिष्यामोऽत्र वै हरिम् ॥६६॥अथ यज्ञसमारम्भे भगवन्तमपूजयत् ।पितॄन् विप्रान् वरयित्वा सपत्नीक उपस्थितः ॥६७॥स्वस्तिवाच्यं द्विजान् शुद्धान् पुण्याहं वृद्धिकर्म च ।निर्वर्त्य वरयामास ऋत्विजस्तेऽपि तं नृपम् ॥६८॥सपत्नीकं दीक्षयित्वा वेद्यामाहवनीयकम् ।प्रज्वलन्तं प्रणीयाऽथ मुमोच प्रोक्षितं हयम् ॥६९॥ततः स दीक्षितो राजा वाग्यतो रौरवीं त्वचम् ।अधिष्ठाय सदःस्थश्च भुक्त्यर्थं सन्दिदेश ह ॥७०॥सर्वान् सर्वविधान्येव भोज्यानि समदापयत् ।चतुर्दशसु लोकेषु यानि भोज्यानि सन्ति च ॥७१॥यज्ञार्हाणि विचित्राणि सात्विकानि ह्यदापयत् ।कामगावः कल्पवृक्षाश्चिन्तामणयः सर्वशः ॥७२॥कल्पलताः सिद्ध्यश्च यथेष्टं रचयन्ति तत् ।लक्ष्मीः स्वयं स्थिता तत्र सर्वस्मृद्धिसुभोगदा ॥७३॥न न्यूनं चाभिलषितं तद्यज्ञे चाऽभवत्तदा ।चतुर्दशनिवासानां वैभवाः सदृशास्तदा ॥७४॥वैराजानां यथा तद्वद् आसन् स्वामिप्रतापतः ।यत्रक्रियास्तथा मन्त्रा विषयश्च क्रमाः स्वराः ॥७५॥यथार्था एव तत्राऽऽसन् न वै कर्मोपघातकम् ।एवं प्रवर्तते यज्ञो विरतौ तु हरेः कथाः ॥७६॥प्रवर्तन्ते ब्रह्मविद्याः सद्भिः सतीभिरीडिताः ।लक्ष्मीनारायणसंहितायाः कथा प्रजायते ॥७७॥अग्निमुखाः सुरास्तृप्ता नाऽस्मरन्ताऽमरावतीम् ।पातालवासिनः सर्वे तृप्तास्तद्भोजनैः सदा ॥७८॥सर्वे चेतनमूर्ताश्च तत्तद्भोजनपानकैः ।यथा तृप्ताः पुनर्गन्तुं गेहं नेच्छां व्यधुर्निजम् ॥७९॥इत्थं प्रवर्तितो यज्ञश्चेन्द्रद्युम्नस्य भूभृतः ।त्रैलोक्यतृप्तिदः क्षेत्रे ह्यपूर्वः पुरुषोत्तमे ॥८०॥जगदीशप्रसादाय पितामहनिदेशतः ।एकोनं क्रमशः संस्था अवाप पृथिवीपतिः ॥८१॥सहस्रं हयमेधस्य, नृपतिर्दिव्यतां व्रजेत्, ।सोमाभिषेकतः पूर्वं सप्तमी या च रात्रिका ॥८२॥तस्यास्तुरीयप्रहरे स्वप्ने राजा ददर्श ह ।प्रत्यक्षं श्वतद्वीपं च क्षीरसागरमध्यगम् ॥८३॥तत्र सन्मण्डपे दिव्ये वरसिंहासनस्थितम् ।ददृशे शंखचक्रादिधरं श्रीपरमेश्वरम् ॥८४॥मेघवर्णं वनमालाधरं लावण्यशोभितम् ।सौन्दर्यश्रीनिकेतं च सर्वदिव्यविभूषणम् ॥८५॥दक्षपार्श्वे स्थितं शेषमनन्तं श्वेतवर्णकम् ।फणासहस्रकैश्छत्रीकृता येन वितानिका ॥८६॥सकुण्डलं नीलवस्त्रं हलादियुक्चतुर्भुजम् ।हारकेयूरवलयमुद्रिकाभिरलंकृतम् ॥८७॥दक्षपार्श्वस्थितां भद्रां लक्ष्मीं ददर्श वै तदा ।वराऽभयाऽब्जहस्तां च कुंकुमाभां सुलोचनाम् ॥८८॥त्रैलोक्ययुवतीवृन्ददृष्टान्ताद्भुतविग्रहाम् ।पद्मासनां लावण्यादिगुणाढ्यां सुविभूषिताम् ॥८९॥पितामहं च ददृशे पुरतोऽस्य कृताञ्जलिम् ।वामपार्श्वस्थितं चक्रं नानामणिविभूषितम् ॥९०॥सनकाद्यैर्मुनीन्द्रैश्च स्तूयमानं विलोक्य सः ।स्वप्नाद् बहिः समागत्य नमश्चकार वै मुहुः ॥९१॥मेने सहस्रं सफलं यज्ञानां स्वकृतार्थताम् ।शशंस नारदस्याऽग्रे यथा स्वप्नोऽन्वभूयत ॥९२॥तत्फलं नारदः प्राह दशाहे हरिदर्शनम् ।प्रत्यक्षं स्यात् ततो यज्ञं पूर्णं कुरु यथार्थतः ॥९३॥ततः प्रववृते सुत्या नृपतेर्वाजिमेधिका ।दीयन्ते सर्वदानानि सुत्याऽभूत् कल्पवल्लिका ॥९४॥तन्मध्येऽवभृथे स्नातुं कृतो यत्र ह्रदो महान् ।दक्षिणे तटभूदेशे बिल्वेश्वरसमीपतः ॥९५॥नियुक्ताः सेवकास्तत्र दृष्ट्वा वटं ससंभ्रमाः ।न्यवेदयन्त नृपतिं दृष्टो वृक्षस्तटे महान् ॥९६॥सामुद्रे च जले मूलं शाखाः स्नानगृहाऽभिगाः ।शंखचक्रांकितः सोऽस्ति सर्वत्र सूर्यसन्निभः ॥९७॥सुगन्धो देवभूवृक्षो विप्णुर्व्याजेन चागतः ।नारदः प्रहसन् प्राह पूर्णाहुतिः प्रजायताम् ॥९८॥स्वप्ने विष्णुस्त्वया दृष्टो दृष्टो वटस्तथाऽनुगैः ।समाप्याऽवभृथं स्नानं कृत्वोत्सवं तटे तथा ॥९९॥महावेद्यां स्थापयाऽत्र यज्ञेशं तरुरूपिणम् ।विचार्येत्थं ययतुश्च द्रुमं भूपतिनारदौ ॥१००॥दृष्ट्वा वृक्षं चतुःशाखं चतुर्भुजं जलाद् बहिः ।आकर्षयित्वा मनुजैः पूजयामासतुश्च तौ ॥१०१॥गीतवादित्रनिर्घोषैर्वेदमन्त्रादिभिः सह ।स्रग्गन्धाऽलंकृतं वृक्षं महावेदीं विनिन्यतुः ॥१०२॥सहस्रैरुपचारैश्च वेद्यां पुपूज भूपतिः ।केन मूर्तिः कथं कार्येत्युवाच नारदं नृपः ॥१०३॥तावदाकाशवाणी चाऽभवत्तत्र शुभावहा ।प्रच्छाद्यतां महावेदी तरुयुक्ता शुभाऽम्बरैः ॥१०४॥पञ्चदशदिनान्येव स्वयं मूतिर्भविष्यति ।नारायणः स्वयं तत्र वृद्धवर्धकिरूपधृक् ॥१०५॥उपस्थितः स वै वृद्धः शस्त्रपाणिः कलान्वितः ।एनमन्तःप्रविश्यैव द्वारं बध्नन्तु यत्नतः ॥१०६॥बहिर्वाद्यानि कुर्वन्तु यावत्तु घटना भवेत् ।श्रुतो हि घटनाशब्दो बाधिर्याऽन्धत्वदायकः ॥१०७॥ सन्ताननाशकश्चापि राष्ट्रस्य नाशकोऽपि च ।नाऽन्तःप्रवेशनं कुर्यान्न पश्येच्च कदाचन ॥१०८॥नियुक्तदन्यः पश्येच्चेद् राज्ञो राष्ट्रस्य चैव ह ।द्रष्टुश्चापि महाभीतिरन्धता चक्षुषोर्द्वयोः ॥१०९॥तस्मान्नाऽवेक्षणं कार्यं यावत्प्रतिमनिर्मितिः ।निर्व्यूढस्तु स्वयं देवः कृत्यान्ते संवदिष्यति ॥११०॥वर्द्धकिर्घटयिष्यामीत्युक्त्वा चान्तर्दधे तदा ।वेद्यां नारायणः काष्ठे वस्त्राऽधो न व्यदृश्यत ॥१११॥वेदीं राजा बन्धनैश्च रक्षयामास सर्वशः ।यदुवाच गिरां देवी तद्वत्परिचचार ह ॥११२॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने बिल्वेशकपोतेशकथा, राज्ञोऽपशकुनानि, दिव्यनृसिंहादिदर्शनम्, कपोतेशस्थल्यां यज्ञमण्डपादिकरणम्, अवभृथाऽन्ते व्योमवाण्या कथितवटवृक्षस्य वेद्यामाच्छादनमित्यादिनिरूपणनामा षडशीत्यधिकपञ्चशततमोऽध्यायः ॥५८६॥ N/A References : N/A Last Updated : April 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP