संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५८५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५८५ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! ततो विद्यापतिः प्राह सभास्थले ।दिव्यतां तस्य क्षेत्रस्य यथावत् कथयामि ते ॥१॥विप्रः प्राह च मध्याह्ने दिव्यगन्धो ववौ मरुत् ।सुरा नैवेद्यदानार्थं व्योममार्गात्समाययुः ॥२॥वादनानि गायनानि सुरस्त्रीणां तदाऽभवन् ।सहस्रमुपचाराणां देवैस्तस्मै समर्पितम् ॥३॥सम्पूज्य जयपूर्वास्ते ययुः स्वर्गं सुरास्ततः ।विश्वावसुः शबरो मे माधवस्य प्रसादनम् ॥४॥भोज्यं माल्यं ददौ पूतं यदत्राऽपहृतं मया ।प्रसादः शर्करात्मा च दीयतां सदसे नृप ॥५॥समन्ताद् गहनाकीर्णं क्षेत्रं नीलाद्रिनामिकम् ।तीर्थराजस्य वेलायां स्वर्णवालुकया वृतम् ॥६॥विचित्रदृश्यं देवानां मानवानां तु का कथा ।अद्रेः शृंगे कल्पजीवी महानुच्चो वटोऽस्ति च ॥७॥दीर्घायतः पुष्पफलवर्जितः पल्लवोज्ज्वलः ।तत्पश्चाद् रौहिणं कुण्डं तत्पूर्वे वेदिकास्थितः ॥८॥न्यग्रोधच्छायया शीतश्चेन्द्रनीलमयो हरिः ।चक्रगदाधरश्चास्ते स्वर्णपद्मोपरि प्रभुः ॥९॥एकाशीत्यङ्गुलमितो मन्दहास्यस्फुरन्मुखः ।राजीवसौम्यनेत्रश्चाऽमृतपूर्णाननः प्रभुः ॥१०॥वपुषोऽश्ममयत्वेऽपि चन्द्रोज्ज्वलः स्मिताधरः ।हाससंफुल्लगण्डाभ्यां रुचिरं चिबुकं हनुः ॥११॥कर्णयोः कुण्डलाभ्यां च राजद् वक्षश्च मालया ।ग्रैवेयकैश्च सौवर्णैः रत्नाञ्चितैः समुज्ज्वलैः ॥१२॥पीनायतस्कन्धयुगजानुदीर्घचतुर्भुजः ।आकर्णान्तायतकोणवक्रनेत्रकटाक्षकम् ॥१३॥सकौस्तुभं कंकणोर्मिकाऽङ्गुलीयकभूषितम् ।निम्ननाभिधरं चाधस्तनुरोमालिमञ्जुलम् ॥१४॥सुरत्नमेखलाराजत्कटिकौशेयधौत्रकम् ।सकिंकिणीमञ्जिराढ्यरक्ततलाश्रिपत्कजम् ॥१५॥जघनं सुन्दरं दिव्यं कामाश्रयं च सुन्दरम् ।लिंगं तेजोमयं रम्यं सर्वाकर्षणभाजनम् ॥१६॥सर्वाशाद्योतको देवो नीलाद्रेरुपरि स्थितः ।वामपार्श्वगता लक्ष्मीराश्लिष्टा पद्मपालिना ॥१७॥वल्लकीवादनपरा भगवन्मुखलोचना ।सर्वलावण्यशोभाढ्या सर्वाभरणभूषिता ॥१८॥सर्वालंकृतितेजस्का प्रोद्भिन्ननवयौवना ।छत्रीभूतफणावृन्दः शेषः पश्चाद् विलोकितः ॥१९॥अग्रे व्यवस्थितं दृष्टं वपुर्बिभ्रत्सुदर्शनम् ।कृताञ्जलिपुटं तस्य पश्चाद् गरुडमास्थितम् ॥२०॥सजीवा इव ते भक्तानुग्राहका विलोकिताः ।तत्र चेतो मम राजन्नत्यन्तमभिधावति ॥२१॥अनेकजन्मसाहस्रपुण्यपाको हि पश्यति ।सर्वसाधनलभ्यं तद्दर्शनात्प्राप्यतेऽक्षरम् ॥२२॥तेन सर्वं कृतं मोक्षसाधनं येन वीक्षितः ।त्वं च राजँस्त्वरयैव विलोकय जगत्प्रभुम् ॥२३॥न जाने श्वः सूर्यद्रष्टा भविष्यसि न वेति च ।श्वः कार्यमद्य कर्तव्यं मोक्षार्थं पारमेश्वरम् ॥२४॥इत्युक्तश्चेन्द्रद्युम्नस्तु हर्षमवाप पुष्कलम् ।कृतकृत्योऽस्मीति चाह प्रसादमालिकाग्रहात् ॥२५॥तया दर्शनपात्रत्वं प्राप्तं चाद्य मया हरेः ।सर्वात्मना च राज्येन सह गन्तव्यमेव च ॥२६॥तत्रावासं सदा कृत्वा करिष्ये हयमेधकान् ।सर्वोपचारैः श्रीनाथं पूजयिष्ये दिने दिने ॥२७॥दास्येन सेवया कृष्णं प्रीणयिष्ये रमापतिम् ।एवं राजा समुवाच तावदायाद्धि नारदः ॥२८॥पूजितो वन्दितो राज्ञा राजानं समुवाच सः ।अवतीर्णौ नरं द्रष्टुं बदर्यां च नरायणम् ॥२९॥तव कीर्तिं देवताभ्यः श्रुत्वा सत्ये समागतः ।श्रीजगन्नाथगमने व्यवसायं विशेषतः ॥३०॥तव ज्ञात्वा प्रसन्नोऽस्मि जातस्तं याहि सेवय ।सहस्रजन्माभ्यासैश्च भक्तिर्भवति माधवे ॥३१॥ब्रह्मा चाराध्य तं नाथं लेभे पैतामहं पदम् ।तत्पुत्रोऽहं तद्वंशस्त्वं भक्त्या शोभा सदा हि नः ॥३२॥अनाद्यविद्यानाशाय समर्था भक्तिरुत्तमा ।तरिर्भक्तिभवाब्धौ सा जन्मरोगस्य भेषजम् ॥३३॥मांतेव रक्षति भक्तान् सन्तः पुष्यन्ति वै तया ।ब्राह्म्यं पदं तया मुक्तिर्लभ्यते तदनुग्रहात् ॥३४॥बह्व्यानां शलभानां दावतुल्या हरिप्रिया ।सर्वतीर्थफलदात्री तारयित्री निमज्जताम् ॥३५॥तपांसि यज्ञा दानानि व्रतानि धर्मसत्क्रियाः ।एषां साहस्रकोट्यश्च न भक्तेरयुतांशकः ॥३६॥सा त्रिधा गुणभेदेन तुरीया निर्गुणा मता ।स्वार्थाऽभिचारयुक्ता सा तामसी भक्तिरीरिता ॥३७॥स्वार्थपरार्थसम्मिश्रा राजसी भोगवाञ्च्छया ।परार्थमात्रसन्धेया सात्त्विकी सुखभाजना ॥३८॥फलेहारहिता सा निर्गुणा श्रीपुरुषोत्तमे ।निर्गुणा मुक्तये प्रोक्ता प्रेमसेवात्मिका हरेः ॥३९॥सात्त्विक्या ब्रह्मणः स्थानं राजस्या शक्रलोकताम् ।तामस्या पितृलोकादीन् यान्ति पुनश्च भूजनुम् ॥४०॥उत्तमामुत्तमां कुर्यात् तेन मुक्तिर्भवेत् क्वचित्॥कुलाचारादिहीनोऽपि भक्तिमान् संप्रशस्यते ॥४१॥सर्वविद्याधिवासोऽपि भक्तिहीनो विनिन्द्यते ।यया वेत्ति परब्रह्म परा विद्या तु सा मता ॥४२॥येन प्रीणाति भगवान् सत्क्रिया सा प्रकीर्तिता ।ताभ्यां युक्तो भवेद् भक्तो भागवतोत्तमो हि सः ॥४३॥तत्पादपांसुना विश्वं पूयते सचराचरम् ।वासुदेवे तथा भक्ते साम्यं सञ्जायते सदा ॥४४॥तयोरैश्वर्यरूपादिभेदो नैव च नैव च ।शान्तचित्तस्तथा सौम्यो जितेन्द्रियो ह्यहिंसकः ॥४५॥अद्रोग्धा कृपयायुक्तश्चास्ते यश्चाऽविनिन्दकः ।गुणग्राही सदाचारः परसौख्यसुखान्वितः ॥४६॥सर्वत्र श्रीकृष्णनारायणद्रष्टा विमत्सरः ।दीनानुकम्पो हितकृद्धरौ कोट्यधिप्रेमवान् ॥४७॥सतां सेवापरो देवपूजकः पितृतर्पकः ।सर्वं विष्णुमयं जानन् समष्टिव्यष्टिमित्यपि ॥४८॥अभेदेनैव पश्यँश्च दास्यं करोति वै हरेः ।स्वामिसेवकभावेन सेवको वर्तते च यः ॥४९॥हरिं भावयति कीर्तयति नमःकरोति च ।भजत्येव प्रभुं नित्यं नान्येऽवधानमाचरेत् ॥५०॥शिलास्वर्णद्रव्यलोष्टस्त्रीकूटकण्टकादिषु ।मित्रशत्रुबन्धुभिन्नादिषु साम्यसमाधिमान् ॥५१॥नामध्यानपरो विष्णोर्जयवाणीरतः सदा ।देवचिह्नप्रियः ख्यातो भक्तो भागवतोत्तमः ॥५२॥शंखचक्रगदापद्मचन्द्रतिलकशोभितः ।कण्ठीमालायुतो वृन्दादलमाल्यविभूषितः ॥५३॥रागद्वेषमदमानविहीनस्तृष्णिकाक्षयः ।भक्तो भवति कामादिवर्जितो वासनाक्षयः ॥५४॥इत्युक्तश्चेन्द्रद्युम्नश्च प्रीतिमान् नारदं प्रति ।उवाच साधुसंगो मे भाग्यादद्य उपस्थितः ॥५५॥तदावां यानमास्थाय पश्यावो नीलमाधवम् ।एवं निश्चित्य पञ्चम्यां बुधे ज्येष्ठस्य चार्जुने ॥५६॥पक्षे पुष्ये चेन्द्रद्युम्नः कारयामास घोषणाम् ।यथाविभवतः सैन्यैः प्रजाभिर्बान्धवादिभिः ॥५७॥नीलाद्रिगमनं कार्यं यावज्जीवं समर्प्य च ।या वृत्तिदीर्यते चात्र तया तत्रापि जीवतु ॥५८॥राजानः सावरोधाश्च सामात्याः सपरिच्छदाः ।रथैर्गजैस्तुरगैश्च कोषैः सह पदातिभिः ॥५९॥सज्जा व्रजन्तु वै तत्र ब्राह्मणाः साग्निहोत्रिणः ।वणिजः सहभाण्डैश्च सपण्याः पण्यजीविनः ॥६०॥नृत्यगायनवादित्रज्योतिर्विद्यासुबुद्धयः ।वैद्याश्च कथका भट्टाः सन्तश्च वारयोषितः ॥६१॥गावः शकुन्तपाश्चापि शाकुनिकाश्च सेवकाः ।दासा दास्यस्तथा यान्तु क्षेत्रं श्रीपुरुषोत्तमम् ॥६२॥षष्ठ्यां स्वयं च मांगल्यं कारयामास यात्रिकम् ।स्नात्वा तीर्थजलैः राजा नान्दीमुखानकारयत् ॥६३॥हवनं च ततः कृत्वा चक्रे वह्निं प्रदक्षिणम् ।ततो मांगल्यनेपथ्यविधानमुपचक्रमे ॥६४॥हेमपीठे हरिं प्रार्च्य तत्प्रसादस्य मालिकाम् ।दधार प्रथमं राजा ध्यायन् श्रीपुरुषोत्तमम् ॥६५॥यात्रार्थं च विनिर्दिश्य दक्षिणं पादमुद्दधौ ।दक्षिणाः प्रददौ विप्रेभ्यो वामे गणिकेडितः ॥६६॥श्वेताश्वकुंजरपारावतहंससुमालिकाः ।सचूतपल्लवं पूर्णकुंभं पश्यन् ययौ नृपः ॥६७॥नृसिंहमन्दिरं गत्वा पूजयित्वा हरिं सतीम् ।द्वारमागत्य च यानं वैहायसं महत्तमम् ॥६८॥समारुरोह समुनिः सान्तःपुरस्तथाऽपरे ।अन्यैः सहस्रैर्यानैश्च प्रतस्थिरे पुरीं प्रति ॥६९॥जयशब्दास्तूर्यशब्दा बभूवुः पुष्पवृष्टयः ।नानायानसमारूढाः कोटिशश्च जनास्ततः ॥७०॥ससंभाराः सकुटुम्बा ययुः श्रीपुरुषोत्तमम् ।दिवसार्धेन ते सर्वे प्रापुरुत्कलभूमिकाम् ॥७१॥सीम्नि स्थितो चर्चिकाख्यां देवीं पुपूजुरीश्वरीम् ।चित्रोत्पलां नदीं गत्वा जलपानादि चाचरन् ॥७२॥स्वादुभोज्यानि च बुभुजिरे सर्वे यथार्हतः ।विशश्रमुर्नदीतीरे सैन्याऽऽवासादि तत्र च ॥७३॥चक्रुः सायंविधिं चापि रात्रौ विनोदमादधुः ।प्रातः स्नात्वा नित्यपूजां जलाहारादिकं तथा ॥७४॥कृत्वा तस्थुस्तदा तावदोढ्रराजस्य सेवकः ।इन्द्रद्युम्नं समायातः समुवाच नमोऽन्वितः ॥७५॥उत्कलेशनृपश्चात्र भवन्तं द्रष्टुमिच्छति ।विज्ञाय सार्वभौमं च देवं भवन्तमागतम् ॥७६॥सोपायनो नदीतीरे प्रतीक्षते निदेशनम् ।श्रुत्वा तद्वचनं राजाऽऽह्वयामासोढभूपतिम् ॥७७॥वैष्णवैः सचिवैर्युक्तं पप्रच्छ कुशलं शुभम् ।ओढ्रपतिर्ननामैनमुपदाः पुरतो न्यधात् ॥७८॥परस्परं सुकुशलं स्वागतं चक्रतुस्ततः ।प्रशंशतुर्वैष्णवौ यज्जन्मसाफल्यमित्यपि ॥७९॥अथोढ्रराजस्तं प्राह दक्षिणाऽब्धितटे हरिः ।नीलाद्रौ कानने चास्ते लोकसञ्चारवर्जिते ॥८०॥द्वितीयेऽह्नि वात्यया वालुकाछन्नः स पर्वतः ।छन्नश्च रौहिणकुण्डश्छन्नश्च नीलमाधवः ॥८१॥छिन्नभिन्नानि जातानि शबराणां गृहाण्यपि ।कोपोऽयं चिन्तनादूर्ध्वं जातोऽपराधतः क्वचित् ॥८२॥मम राज्यं भवतोऽस्ति यथाज्ञां प्रकरोम्यहम् ।स्वागतं भोजनाद्यं च प्रेषयामि जनादिभिः ॥८३॥इत्युक्त्वा चाशिषो लब्ध्वोढ्रपतिर्मौनमास्थितः ।इन्द्रद्युम्नो नारदं च प्राहाऽऽगमस्तु निष्फलः ॥८४॥नीव्याधवदेवस्य दर्शनं नैव चेद् यदि ।करिष्येऽनशनं त्वत्र मरिष्ये मोक्षणं प्रति ॥८५॥नारदस्तं तदा प्राह वैष्णवेच्छां न निष्फलाम् ।करोति भगवांस्तं त्वं प्रेक्षसे पार्थिवं प्रभुम् ॥८६॥धैर्यमावह भगवान् स्वतन्त्रोऽस्तीति विद्धि भोः ।केवलो भक्तिवशगो भक्त्या ते वशमेष्यति ॥८७॥वैष्णवस्त्वं पद्मयोनेः पञ्चमः पुरुषोऽसि वै ।पितामहोऽप्यत्र कार्ये भवतो मां नियुक्तवान् ॥८८॥सर्वं ते कथयिष्यामि नीलपर्वतसन्निधौ ।श्रुत्वा राजा प्रहृष्टश्च मेने भाग्यं प्रवर्धितम् ॥८९॥यन्मां पितामहश्चापि सहायं प्रददाति वै ।अथ सर्वान् नीलशैलं गन्तुं त्वाज्ञां चकार ह ॥९०॥ओढ्रदेशाधिपो याने निषसाद च भूभृता ।सह सर्वे व्योममार्गैर्महानदीं विहाय च ॥९१॥एकाम्रवनकं क्षेत्रं प्रापुः क्षणान्तरे ततः ।गन्धवहां नदीं त्यक्त्वा कोटिलिंगेश्वरं हरम् ॥९२॥पूजावादित्रनिर्घोषान्वितं दृष्ट्वा स नारदम् ।पप्रच्छाऽऽरण्यकं वीक्ष्य मन्यमानो हि माधवम् ॥९३॥नीलाद्रिशिखरावासः प्राप्तः किं परमेश्वरः ।मुनिः प्राह स नीलाद्रिर्वर्तते योजनत्रये ॥९४॥अयन्तु शंकरावासः कोटिलिंगेश्वरात्मकः ।शंभुर्भीतः शरणं श्रीहरेः पुराऽत्र चागतः ॥९५॥पार्वतीं संविवाह्येशो हैमवासं चकार सः ।मेनकां पार्वतीं प्राह बहुकाले गते शुभम् ॥९६॥पतिस्ते निर्गुणः पुत्रि! गृहद्वारविहीनकः ।कियन्मम गृहे वासं करिष्यति विना गृहम् ॥९७॥विना भूषा समृद्धिं च शोभसे नैव पुत्रिके ।वद सौधं तु निर्मातुं पृथक् स्थातुं स्वकालये ॥९८॥इत्युक्ता शंकरं प्राह पार्वती नम्रमानसा ।भगवँश्चिरवासो वै श्वशुरस्य गृहेऽगुणः ॥९९॥पराधीननिवासस्तु विवाससदृशस्ततः ।क्षौद्रीयसामपि तद्वन्महतामपि दुखदः ॥१००॥इत्युक्तः शंकरस्तूर्णं काशीं वासाय निर्ममे ।पूर्वसागरगामिन्या गंगाया उत्तरे तटे ॥१०१॥वाराणस्यां पञ्चक्रोशमितायां रत्नमण्डपे ।तया रेमे पशुपतिर्बहुकालं पुरे स्वके ॥१०२॥अथ राजा दिवोदासः सर्वान् देवान् हि काशितः ।विसर्जयामास राज्यं चकार वैष्णवेषु च ॥१०३॥कोटिलिंगानि संस्थाप्य शंभुः कैलासकं ययौ ।राजानो बहवः पश्चाज्जाता वाराणसीभुवि ॥१०४॥काशीराजेतिनामाऽपि शंकरोपासकोऽभवत् ।तपसा शंकराल्लेभे वरं चाऽसंभवं पुरा ॥१०५॥जेताऽसि कंसहर्तारं संग्रामे त्वमरिन्दम ।तवाऽर्थेऽहं तदा योत्स्ये विष्णुना सह सर्वथा ॥१०६॥श्रीहरिस्तद्वरं ज्ञात्वा चक्रं सुदर्शनं रणे ।काशीराजसूदनाय प्राहिणोत् तच्च चक्रकम् ॥१०७॥काशीराजशिरश्छित्वा पुरीं ददाह सर्वथा ।तच्छ्रुत्वा कुपितः शंभुः पाशुपतास्त्रकं हरौ ॥१०८॥मुमोच निष्फलं तच्च चकार भगवान् हरिः ।तदा भयं समापन्नस्तुष्टाव शंकरो हरिम् ॥१०९॥अपराधं क्षमस्वाऽद्य ते भक्तस्य हरे प्रभो ।सृष्टोऽहं तामसो नाथ त्राहि मां शरणागतम् ॥११०॥तदा चक्रं निवृत्तं शंकरात् कृष्णो बभूव तत् ।प्रसन्नवदनः प्राह लक्ष्मीयुतो हसन् हरिः ॥१११॥कालेनैतावता शंभो दुर्बुद्धिः कथमागता ।हेतोर्नृपतिकीटस्य मया योद्धुमुपस्थितः ॥११२॥त्वां ब्रह्माणं च मे चक्रं नाशयेत् क्रोधमन्त्रितम् ।दयां करोमि मे भक्त याहि श्रीपुरुषोत्तमम् ॥११३॥यदि वाञ्च्छसि रन्तुं वै चिरं सत्या समं तदा ।दशयोजनविस्तीर्णे तत्र विरजमण्डले ॥११४॥चित्रोत्पलां नदीमारभ्य यावद्दक्षिणोदधिः ।श्रेष्ठो नीलाचलस्तत्र चतुर्धाऽहं व्यवस्थितः ॥११५॥नीलमणिप्रतिमोहं तदुत्तरे वनं महत् ।एकाम्रकाह्वयं तत्र निवासं निर्भयं कुरु ॥११६॥मे पुरुषोत्तमक्षेत्रं त्वमेव परिपालय ।इत्यादिष्टो ययौ शंभुस्तत्र वै वासमाचरत् ॥११७॥ब्रह्मणा स्थापितः कोटिलिंगेश्वरोऽयमस्ति सः ।श्रुत्वा राजा विमानाच्चाऽवाततार हरं प्रति ॥११८॥पूजयामास विधिना ददौ दानानि भूरिशः ।बिन्दुतीर्थे तत्र स्नात्वा श्रीशं सम्पूज्य तत्र च ॥११९॥तस्थौ दध्यौ च तं शंभुं शंभुः साक्षादुवाच तम् ।इन्द्रद्युम्न! महाभागवतो न त्वादृशो भुवि ॥१२०॥दुर्घटाऽपि च ते वाञ्च्छा शीघ्रं पूर्णा भविष्यति ।नारदे पुनरादेहं यदादिष्टं स्वयंभुवा ॥१२१॥तत् कल्पय प्रतिष्ठानं वाजिमेधपुरःसरम् ।अन्तर्हितः खल्विदानीं नीलरत्नतनुर्हरिः ॥१२२॥तत्र श्रीनरसिंहस्य क्षेत्रं कुरु च सन्निधौ ।वाजिमेधसहस्रेण यजतां भूपतिर्ध्रुवम् ॥१२३॥तदन्ते कल्पन्यग्रोधं प्रदर्शयाऽस्य भूपतेः ।ब्रह्मरूपतरोस्तस्माच्चतस्रः प्रतिमाः शुभाः ॥१२४॥घटिष्यते विश्वकर्माऽजः प्रतिष्ठापयिष्यति ।ब्रह्मणो वरदानाच्च प्रयातेऽब्दसहस्रके ॥१२५॥इन्द्रद्युम्नो हरिं साक्षान्मूर्तौ विलोकयिष्यति ।दारवीं तनुमास्थाय स्थितं दिव्यं नरायणम् ॥१२६॥भज नारद! राजाऽसौ भजतां स्वामिनं हरिम् ।इत्युक्त्वाऽन्तर्दधे शंभू राजा विनामगोऽभवत् ॥१२७॥ययौ पुरः कपोतेशस्थलीमासेदिवान्नृपः ।सेनानिवेशयोग्यां च दृष्ट्वा सेनां न्यवेशयत् ॥१२८॥बिल्वेश्वरकपोतेशौ पूजयित्वा च नारदम् ॥१२९॥पप्रच्छ तौ कथं जातौ बिल्वेश्वरकपोतकौ ।वद नः श्रीपतिप्राप्तिकरीं कथां सुशान्तिदाम् ॥१३०॥इति श्रीलक्ष्मीनारायणायसंहितायां प्रथमे कृतयुगसन्ताने इन्द्रद्युम्नस्य विद्यापतिवर्णितश्रवणोत्तरं जगन्नाथं प्रति गमने निर्णयः, नारदागमः, प्रयाणम्, चित्रोत्पलातटे उत्कलेशाभिगमः, एकाम्रकवने कोटिलिंगेशपूजनम्, इत्यादिनिरूपणनामा पञ्चाशीत्यधिक पञ्चशततमोऽध्यायः ॥५८५॥ N/A References : N/A Last Updated : April 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP