संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५७४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५७४ Translation - भाषांतर श्रीनारायण उवाच--शृणु लक्ष्मि! ततो गच्छेत्तीर्थं देवमयं शुभम् ।सतीं शंभुर्जगादैवं नार्मदे चोद्भवे स्थितः ॥१॥सहस्रयज्ञं तीर्थं च जनार्दनाधिवासितम् ।कृत्वा याम्यां च नगरीं नैव पश्येत् कदाचन ॥२॥शुक्लतीर्थं ततो गच्छेत् सर्वतीर्थमयं परम् ।तेन शुक्लीकृता देवा ब्रह्मविष्णुमहेश्वराः ॥३॥तीर्थानां कोटयस्तत्र शुक्लतीर्थे वसन्ति वै ।इन्द्रः शंभुं स्नापयित्वा बिल्वपत्रैः समार्चयत् ॥४॥दिक्पालैः श्रीकृष्णनारायणस्तत्रैव पूजितः ।कश्यपस्याऽऽश्रमं पुण्यं यत्रायुतर्षिमण्डलम् ॥५॥मुनीनां कोटयश्चापि शुक्लेश्वरमुपासते ।सर्वतीर्थमयं तीर्थं सर्वदेवमयं हि तत् ॥६॥पितामहेन यत्रेष्टो यज्ञे यज्ञेश्वरः पुरा ।सर्वपापानि नश्यन्ति तस्या भूमेर्निषेवणात् ॥७॥अगत्या तु मृतानां तन्मुक्तिदं शुक्लतीर्थकम् ।ययातिर्नाम धर्मात्मा चक्रवर्त्यभवन्नृपः ॥८॥इयाज स महायज्ञैः रेवामधुमतीयुजौ ।यत्र मध्येश्वरं लिंगं माधवोऽहं नरायणः ॥९॥तत्र स्नाता दिवं मोक्षं यान्ति ते न पुनर्भवाः ।ययातिना ब्राह्मणैश्चैकदा यज्ञः प्रवर्तितः ॥१०॥यत्र नास्ति हरेः स्थानं शंभोः स्थानं न वै तथा ।जटासुरस्तदा दैत्यश्छिद्रं दृष्ट्वा ह्युपाययौ ॥११॥असुरैर्ध्वंसितो यज्ञो यूपाश्च विनिपातिताः ।भुक्तो हुतपुरोडाशः सोमपानं च तैः कृतम् ॥१२॥अष्टोत्तरशतं देवा मृगरूपेण निर्गताः ।राजाऽस्त्रं प्रतिजग्राह स्मृत्वा हरिं हरं तदा ॥१३॥जघान दानवान् युद्धे आहूताश्च पुनः सुराः ।पुनः प्रवर्तितो यज्ञो हरविष्णुप्रसादतः ॥१४॥हरिणा शंभुना तत्र प्रत्यक्षेण स्वतेजसा ।शुक्लीकृतं जगत्सर्वं यथा गोलोकमक्षरम् ॥१५॥ययातिना वरेणापि छन्दितौ तु हरो हरिः ।तिष्ठतं नित्यमत्रैव दिव्यरूपेण चेश्वरौ ॥१६॥तावदारभ्य तौ श्वेतौ दीप्यमानौ हरो हरिः ।वर्तेते भक्तकल्याणकरौ तीर्थे हि शुक्लके ॥१७॥यज्ञदानादिकं सर्वमक्षयं तत्र जायते ।ये केऽपि देहिनस्तत्र जलं पास्यन्ति वा क्वचित् ॥१८॥ते सर्वे धाम यास्यन्ति शुक्लतीर्थप्रभावतः ।कामयन्ते तु यान् कामान् ताँस्तान् प्राप्स्यन्ति मानवाः ॥१९॥ययातिस्तु गृहं तत्र कारयित्वा सुमन्दिरम् ।तत्र देवौ प्रतिष्ठाप्य निजराज्यमुपागतः ॥२०॥ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।जपन् धाम ययौ चान्ते श्रोता वक्ताऽपि मोक्षगः ॥२१॥द्वीपेश्वरं तथा तीर्थं नर्मदायास्तटे स्थितम् ।ततो गच्छेत्तु कार्तिक्यां वैष्णवं तीर्थमुत्तमम् ॥२२॥नाभागेन स्तुतो विष्णुर्यत्र प्रत्यक्षतां गतः ।ततो गच्छेन्मेघनादाभिधं श्रीशंकरं प्रिये! ॥२३॥पुरा वै रावणो रक्षः पर्यटन् पृथिवीमिमाम् ।ययौ देवगिरौ यत्र मयो नामाऽस्ति दानवः ॥२४॥पौलस्त्यस्तं मयं प्राह केयं कन्याऽस्ति कस्य च ।किन्नामधेया तपति तप उग्रं तवाऽऽश्रमे ॥२५॥मयः प्राह मम पत्न्यां तेजोवत्यां सुपुत्रिका ।जन्म प्राप च पत्यर्थं तपते दारुणं तपः ॥२६॥नाम्ना मन्दोदरीं विद्धि गृहाण स्वागतं शुभम् ।रावणस्तु तदा प्राह राजाऽहं देहि मेऽत्र ताम् ॥२७॥मयो ददौ सुतां तस्मै विधिना रावणस्ततः ।ययौ स्वं सिंहलं द्वीपं यत्र सा सुषुवे सुतम् ॥२८॥जातमात्रेण बालेन रवः कण्ठात् प्रकाशितः ।मेघवत् तेन नाम्नाऽसौ मेघनाद इतिकृतः ॥२९॥मेघनादः शंकरस्य भक्तोऽभवद् यथा पिता ।भावयामास देवेशं पार्वत्या सह शंकरम् ॥३०॥तपोभिश्चोपवासाद्यैः क्लिश्यते तत्कलेवरम् ।मेघनादस्त्वेकदा वै ययौ कैलासपर्वतम् ॥३१॥लिंगं पाषाणकं नीत्वा प्रययौ नार्मदं तटम् ।मेघनादेन सलिले स्थापितं पूजितं तथा ॥३२॥मेघारवाख्यो ग्रामश्च गर्जनाख्यस्तथाऽपरः ।मेघनादसमाख्यातं क्षेत्रं तच्चाऽभवत्ततः ॥३३॥शंकरस्तपसा तस्य तत्र प्रत्यक्षतां गतः ।ततो मुक्तिं गतः कालान्तरेण विष्णुघातितः ॥३४॥अथ दारुवनं तीर्थं वर्तते पुण्यदायकम् ।मातलिश्च महेन्द्रस्य दारुकाख्यः पुराऽभवत् ॥३५॥स चागत्य जले तत्र रेवायां सुतपोऽतपत् ।अभजत्परया भक्त्या शंकरं दारुकेश्वरम् ॥३६॥शंभुस्तुतोष प्रददौ वरं मन्त्रं च वैष्णवम् ।ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ॥३७॥अंशाऽवतरणे विष्णोः सारथिस्त्वं भविष्यसि ।तोषयित्वा जगन्नाथं ततो यास्यसि सद्गतिम् ॥३८॥ततः शंभुस्तिरोधानं ययौ दिवं च मातलिः ।वासुदेवसुतः कालान्तरेऽभवत्स मातलिः ॥२९॥कृष्णयोगेन वै मुक्तिं गतो गोलोकधामनि ।अथाऽन्यद् वर्तते तीर्थं करञ्जेश्वरमुत्तमम् ॥४०॥कश्यपात्तु दनोः पुत्रः करञ्जस्त्वभवत्पुरा ।तपश्चचार यत्राऽयं करञ्जेश्वरमेव तत् ॥४१॥महादेवः प्रसन्नोऽभूद् ददौ तस्मै वरं शुभम् ।अत्र करञ्जशंभुर्वै निवत्स्यामि सुतीर्थके ॥४२॥ततो ययौ दिवं सोऽपि करञ्जः शंभ्वनुग्रहात् ।अथ वै पिप्पलेशस्य तीर्थं मुक्तिप्रदं शुभम् ॥४३॥पिप्पलादकृतं चास्ते गन्तव्यं तत्र वै ततः ।गुह्यतीर्थं ततो गच्छेद् बालहत्याविनाशनम् ॥४४॥गोविन्दाख्योऽभवद्विप्रस्तस्य भार्या पतिव्रता ।तस्यां स जनयामास पुत्रमेकं सुसुन्दरम् ॥४५॥कदाचिद् ब्राह्मणः सोऽपि काष्ठान्यानेतुमुत्सुकः ।वनं यातस्ततो नीत्वा काष्ठभारं गृहागतः ॥४६॥गृहे तमसि बालस्तु सुप्तोऽभूद् यत्र पार्श्वके ।काष्ठभारं निचिक्षेप विप्रश्चाऽज्ञात एव सः ॥४७॥बालो ममार भारेण द्विजो जानाति नैव तत् ।ब्राह्मण्यपि क्षणादूर्ध्वं ज्ञातवती तथापि तम् ॥४८॥न शशंस भयात्तस्य सोऽपि पुनर्वनं गतः ।ततः सा विललापाऽथ गोविन्दे त्वागते पुनः ॥४९॥मौनमास्थाय च ददौ भोजनं शयनं ददौ ।रात्रौ स्वपन्तं कान्तं सा कृमिव्याप्तं ददर्श ह ॥५०॥बालहत्यात्मकाः सर्वे कृमयस्तं ववल्गिरे ।ब्राह्मणी स्वपतिं रात्रौ पापकृमिसमावृतम् ॥५१॥शुशोच वीक्ष्य मनसा बहिर्नैवाऽप्रकाशयत् ।अथ प्रातर्ब्राह्मणोऽपि शीघ्रमुत्थाय नर्मदाम् ॥५२॥प्रत्यरण्यं ययौ काष्ठान्यानेतुं तृषितोऽभवत् ।जलं पीत्वा वनदारुण्यादाय निशिथे गृहम् ॥५३॥आययौ भोजनं जग्ध्वा शयने निद्रितोऽभवत् ।पुनर्विप्रा कृमिशून्यं दृष्ट्वा देहं स्वस्वामिनः ॥५४॥कथनीयं स्वामिने मे सुतस्य मरणं प्रगे ।विचार्येत्थं च सुष्वाप प्रातश्चाह पतिं ततः ॥५५॥पुत्रोऽयं घातितः काष्ठभारैर्नाथ त्वया तु तत् ।गतेह्नि पातकं घोरं कृमिरूपं तनौ तव ॥५६॥लोकितं पूर्वनिशिथे नात्र रात्रौ क्व तद्गतम् ।वद पुण्यं कृतं किञ्चित् किं वा जातं शुभं प्रभो ॥५७॥विप्रः प्राह मया पीतं जलं नार्मदमत्र यत् ।तदा मयाऽपि ते दृष्टाः कीटा देहाद्विनिःसृताः ॥५८॥किमिदं किमिदं चैतन्मत्वा चाहं मुमोह च ।किन्तु नात्यवधार्यं तन्मत्वा तुभ्यं न वोदितम् ॥५९॥ईश्वरेच्छा सुखदुःखप्रवाहे कारणं प्रिये! ।एहि पुत्रं निधायैव गच्छावो नर्मदातटम् ॥६०॥स्नापयित्वा करिष्यावः संस्कारं जलवाहनम् ।इति निर्णीय तौ पुत्रशवमादाय मौनतः ॥६१॥ययतुर्नर्मदातीरं स्नापयामासतुः शवम् ।सस्नतुश्च तदा तौ द्वौ तावत्पुत्रः सचेतनः ॥६२॥सप्राणस्त्वभवच्छीघ्रं ब्रह्महत्याऽपि भूसुरान् ।विनिर्गत्य द्रुतं नष्टा जज्वाल वह्निना तदा ॥६३॥इत्याश्चर्यं परं दृष्ट्वा तुतुषतुर्द्विजौ सुतम् ।गृहीत्वा स्वगृहं तुष्टौ ययतुर्नार्मदाद् बलात् ॥६४॥जीवनाख्यं परं तीर्थं बालहत्याप्रणाशनम् ।तत्र स्नात्वा परां सिद्धिं लभेन्नात्र विचारणा ॥६५॥अथ तीर्थं विश्वरूपानर्मदासंगमात्मकम् ।तत्र पूर्वं महेन्द्रस्य शापादप्सरसां वरा ॥६६॥विश्वरूपा सारिका चाऽभवच्चूतनिवासिनी ।शंकरं सा समुपास्य प्रत्यक्षं प्राकरोद्धरम् ॥६७॥यत्र प्रादुर्भूत ईशस्तत्र सा मोक्षणं गता ।सारिकारूपमुत्सृज्याऽप्सरो रूपवती शुभा ॥६८॥जाता तत्र नदी चापि विश्वरूपाऽभिधानिका ।शंकरस्य प्रसादेन संजाता नर्मदांगता ॥६९॥तत्तीर्थे शापनाशार्थं स्नातव्यमृद्धिमिच्छता ।शापस्य कारणं चित्रांगदं गन्धर्वमुत्तमम् ॥७०॥नर्तने देवसदसि कामयामास वै हृदा ।नृत्यं क्षतिं तदा प्रापत् तेन दोषेण शापिता ॥७१॥सा च स्वर्गं पुनर्गत्वा ययौ कैलासमित्यपि ।अथ राजा धर्मसेनः सारिकातीर्थमाययौ ॥७२॥कैलासाधिपतिर्भक्तो वैष्णवो वाजिराजितः ।नर्मदायां जले स्वाश्वं समाप्लाव्य जलं पपौ ॥७३॥तावदश्वोऽभवत्तत्र चतुर्भुजो मनोहरः ।दिव्ययानसमारूढो ययौ वैकुण्ठमेव सः ॥७४॥विष्णुदूतो नृपं प्राह राजँस्ते पृष्ठमागता ।शुनी चेयं जलं पीत्वा स्नात्वा चायाति पश्य ताम् ॥७५॥इत्युक्तो नृपतिर्यावच्छुनीं पश्यति तावता ।श्वदेहं सा परित्यज्याऽप्सरोवरा बभूव ह ॥७६॥विमाने तत्र संरुह्य ययौ वैकुण्ठमेव सा ।व्योमवाणी च राजानं तदोवाच धृतिं वह ॥७७॥शरीरजेन कष्टेन तपःसाध्या विभूतयः ।पादचारी हि गच्छ त्वं परपादैः समागतः ॥७८॥पादचारी समायाद् यस्तस्य मुक्तिर्ध्रुवाऽत्र भो ।भूयो यात्रां प्रकुरुषे पद्भ्यां स्वनगरान्नृप ॥७९॥तदा मुक्तिस्तु ते स्याद्वै पुण्यमादाय याहि भो ।श्रुत्वा राजा धर्मसेनो ययौ ततः पुनर्गृहम् ॥८०॥त्रयोदश्यां पादचारी नर्मदायामुपागमत् ।चतुर्दश्यां प्रगे स्नात्वा सारिकेशं ददर्श ह ॥८१॥विष्णुं नारायणं कृष्णं साक्षात् कृत्वा स्मरन् हरिम् ।ययौ विमानमारुह्य वैकुण्ठं पारमेश्वरम् ॥८२॥अथ तीर्थं चन्द्रमत्या नर्मदायां समागमम् ।चन्द्रेश्वरः सदाशंभुर्विराजतेऽत्र सर्वदा ॥८३॥अथ तीर्थं हारिणं च लुब्धकेन मृगः पुरा ।हतो मध्यन्दिने श्रेष्ठः कुरंगो नर्मदातटे ॥८४॥पतितो गतजीवश्च दिव्यदेहधरोऽभवत् ।विमानेन तु दिव्येन ब्रह्मलोकं जगाम सः ॥८५॥दृष्ट्वा वैराग्यमापन्नो लुब्धको मरणाय ह ।निर्णयं कृतवाँस्तत्र सलिले निममज्ज ह ॥८६॥तत्क्षणाद् दिव्यदेहोऽसौ गन्धर्वपुरमाययौ ।हरिणेश्वरमेवैतल्लिंगं लुब्धेश्वरं तथा ॥८७॥तीर्थं बाणेश्वरं चापि धनुरीश्वरमित्यपि ।रमेश्वरं पञ्चमं च तीर्थं मुक्तिप्रदं हि तत्। ॥८८॥तत्र देवाय भावेन प्रदद्यादष्टपुष्पकम् ।वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं तथा ॥८९॥वानस्पत्यं प्राजापत्यं शिवपुष्पं तथाऽष्टमम् ।वारिजं सलिलं ज्ञेयं सौम्यं मधुयुतं पयः ॥९०॥आग्नेयं धूपदीपादि वायव्यं चन्दनादिकम् ।पार्थिवं कन्दमूलादि वानस्पत्यं फलादिकम् ॥९१॥प्राजापत्यं शुभाऽन्नादि शिवपुष्पमुपासनम् ।अहिंसा प्रथमं पुष्पं द्वितीयमिन्द्रियग्रहः ॥९२॥तृतीयं तु दयापुष्पं चतुर्थं स्मरणं हरेः ।पञ्चमं सद्गुरोः सेवा षष्ठं वै पितृपूजनम् ॥९३॥सप्तमं स्वामिनः सेवाऽष्टमं नारायणाश्रयः ।एभिर्वै प्राप्यतेऽनादिकृष्णनारायणः प्रभुः ॥९४॥राधा वै प्रथमं पुष्पं लक्ष्मीः पुष्पं द्वितीयकम् ।तृतीयं पार्वती पुष्पं प्रभा पुष्पं चतुर्थकम् ॥९५॥पञ्चमं माणिकी पुष्पं जया पुष्पं च षष्ठकम् ।ललिता सप्तमं पुष्पं मंजुला पुष्पमष्टमम् ॥९६॥एता मे पुष्परूपा वै सन्ति पुष्पेषु संस्थिताः ।विना ता नैव गृह्णामि पुष्पाणि पद्मजे क्वचित् ॥९७॥हंसा पुष्पं च सगुणा पुष्पं चम्पा सुपुष्पकम् ।दया पुष्पं देविका संपुष्पं मुक्ता सुपुष्पकम् ॥९८॥षोडशेषूपचारेषु सहस्राण्यपि षोडश ।कला मे संप्रविष्टा हि सन्ति गृह्णामि तांस्तदा ॥९९॥वस्तुना मत्स्वरूपेण पूजां गृह्णामि नित्यदा ।एवं विष्णुमयो भूत्वा पूजयेत् स गतिं लभेत् ॥१००॥कृत्वा वै हरिणं तीर्थं ततो यायात्तु भार्गवम् ।तीर्थोत्तमं परं तीर्थं यत्र कैलासवासिनः ॥१०१॥अन्धकासुरमाहत्य शंकरेण समं सुराः ।नर्मदायां यदा स्नातुं तीर्थार्थं समुपाययुः ॥१०२॥उत्तरं दक्षिणं कूलमवगाह्य प्रयत्नतः ।गत्वा तु दक्षिणे कूले पर्वतं भृगुसंज्ञितम् ॥१०३॥हरो बिभेद शूलेन तेन भिन्नं रसातलम् ।पातालान्निःसृता गंगा नाम्ना भोगवती हि सा ॥१०४॥तत्र तीर्थं समुत्पन्नं शूलभेदाभिधं तथा ।तत्र ब्रह्मा स्वयं विष्णुः शिवस्तिष्ठन्ति सर्वदा ॥१०५॥यत्र गंगा च यमुना नर्मदा च सरस्वती ।संगता दिव्यरूपेण शूलभेदे व्यवस्थिताः ॥१०६॥चक्रतीर्थं परं तीर्थं तत्र वै वर्तते सदा ।सर्वतीर्थमयं तीर्थं सर्वतीर्थाधिकं परम् ॥१०७॥सर्वपुण्याधिकं पुण्यं सर्वदुःखघ्नमुत्तमम् ।भृगुतीर्थं परं श्रेष्ठं यत्र लक्ष्मीर्हि भार्गवी ॥१०८॥विष्णवे भृगुणा दत्ता विवाहविधिना पुरा ।वैकुण्ठसदृशं तीर्थं भृगुतीर्थं तदुच्यते ॥१०९॥कन्यादानं पूजनं श्रीहरेः कार्यं हि तत्स्थले ।श्रवणात्पठनाच्चास्य दानपूजाफलं लभेत् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सहस्रयज्ञतीर्थशुक्लतीर्थद्वीपेश्वरतीर्थमेघनादतीर्थदारुवनतीर्थकरंजेश्वरतीर्थजीवनतीर्थविश्वरूपारेवासंगमचन्द्रावतीनर्मदासंगमहरिणेश्वरादिशूलभेदभृगु-क्षेत्रादितीर्थनिरूपण नामा चतुःसप्तत्यधिकपञ्चशततमोऽध्यायः ॥५७४॥ N/A References : N/A Last Updated : April 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP