संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५६९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५६९ Translation - भाषांतर श्रीनारायण उवाच-श्रूयतां च त्वया लक्ष्मि! शंभुः परमवैष्णवः ।पार्वतीं प्राह माहात्म्यं मम तीर्थादिसंभवम् ॥१॥चन्द्रद्वीपः प्रभासेतुस्ताम्रपार्णेय इत्यपि ।गभस्तिमान् नागद्वीपः सौम्यो गन्धर्व इत्यपि ॥२॥वारुणः कौमारिकेयश्चैते देशा हि नार्मदाः ।नर्मदाजलसिक्तास्ते तद्वारिपानकारिणः ॥३॥देहिनः पुण्ययोगेन स्वर्गे मोक्षे प्रयान्ति च ।जीवाः कर्मफलं स्वेषां प्राप्नुवन्ति शुभाशुभम् ॥४॥श्रेयोऽर्थं च तपो होमं दानं ध्यानं च पूजनम् ।कारुण्यं नर्मदास्नानं कर्तव्यं शुभलब्धये ॥५॥आख्यानं कथयिष्यामि यथावृत्तं पुरातनम् ।कुवलयाश्वो राजर्षिः पुरा कृतयुगेऽभवत् ॥६॥अनेकानि सहस्राणि दानानि विविधानि च ।दत्तानि तेन राज्ञा वै सर्वतीर्थेषु भावतः ॥७॥इष्टाश्च क्रतवस्तेन वर्जयित्वा तु नर्मदाम् ।राजा कुवलयाश्वः स दानधर्मपरायणः ॥८॥राहुसूर्यसमायोगे कुरुक्षेत्रं ययौ किल ।लक्षमेकं हयानां च दन्तिनामयुतं तथा ॥९॥हेममाणिक्यरत्नानि वासांसि विविधानि च ।श्रद्धया परया युक्तो ब्राह्मणेभ्यो ददौ ग्रहे ॥१०॥शेषं द्रव्यं च तत्क्षेत्रे सर्वं कंकरवन्नृपः ।अञ्जलिना प्रतिस्थलं विकीर्य स्नानमाचरत् ॥११॥ततो जगामाऽवध्यायां निजे राज्येऽभजद्धरिम् ।अथ राजा मुचुकुन्दो विष्णुभक्तो जितेन्द्रियः ॥१२॥दैत्यानामधिपश्चासीत् स च सूर्यग्रहे ययौ ।नर्मदामोंकारनाथं वैदूर्यसिद्धपर्वतम् ॥१३॥नर्मदाकपिलायोगे कोटितीर्थेऽवसच्च सः ।लक्षमेकं तु दोग्ध्रीणामयुतं वाजिनां तथा ॥१४॥सहस्रं दन्तिनां चैव रथानां च सहस्रकम् ।कामिकानां तु यानानां सहस्रं हेममालिनाम् ॥१५॥धनं धान्यं सुवासांसि रत्नानि विविधान्यपि ।स्नानं कृत्वा यथायोग्यं विप्रेभ्यः प्रददौ तदा ॥१६॥ददावोंकारनाथाय दक्षिणां च शतायुतम् ।यो यं कामयते कामं तं तस्मै स प्रयच्छति ॥१७॥एवं कृत्वा परं तीर्थे स्वालयं पुनराययौ ।अथ कालान्तरे भूपौ स्वस्वपुण्यप्रभावतः ॥१८॥स्वर्गं प्राप्तौ चाप्सरोभिः सेविताविन्द्रसदृशौ ।मुचुकुन्दरथस्तूर्ध्वं सदा प्रयाति वै दिवि ॥१९॥कुवलयाश्वयानं तु तदधो याति सर्वदा ।उभौ निवेदितौ दूतैर्धर्मराजस्य धीमतः ॥२०॥कुवलयाश्वो राजर्षिर्मुचुकुन्दो महाबलः ।लोकान्तरमुभावेतौ विमानस्थौ समागतौ ॥२१॥तावदुत्पतितं यानं मुचुकुन्दस्य चोपरि ।योजनानां सहस्रेण ह्युपर्युपरि वर्तते ॥२५॥अवध्याऽधिपतेर्यानमधोभागे प्रवर्तते ।श्रुत्वा तद्धर्मराजोऽपि पप्रच्छ चित्रगुप्तकम् ॥२३॥कतरं पूजये राज्ञोर्वद् मेऽर्घादिकर्मभिः ।पुण्यबलं द्वयोर्वीक्ष्य प्राह वै चित्रगुप्तकः ॥२४॥मुचुकुन्दं प्रथमं प्रार्चय रेवाप्रतापतः ।सप्तर्षीनपि पप्रच्छ तेऽब्रुवन् चित्रगुप्तवत् ॥२५॥मुचुकुन्दं समासाद्य त्वर्घपाद्येन पूजय ।दानेन कापिलेनेज्यो दानवेन्द्रोऽतिपुण्यवान् ॥२६॥एवमुक्तो धर्मराजो दानवेन्द्रमुपाश्रयत् ।अञ्जलिं तु ततो बद्ध्वा यानस्याऽग्रे व्यवस्थितः ॥२७॥कुशलं तेऽद्य दैत्येन्द्र सर्वधर्मान्वितौ भवान् ।निर्जितास्ते त्रयो लोका दानेनाऽनेन भूतले ॥२८॥ओंकारदक्षिणस्याऽन्ते मूर्तौ कापिलसंगमे ।सप्तकल्पवहातीरे पुण्यसंख्या न विद्यते ॥२९॥एवमुक्त्वा पूजयित्वा दर्शयामास मार्गकम् ।विष्णोर्वैकुण्ठलोकस्य मुचुकुन्दो जगाम ह ॥३०॥अथाऽऽसाद्य ततो भूपं कुवलयाश्वमेव तु ।धर्मराजः स्वयं प्राह स्वागतं ते करोमि वै ॥३१॥राजा प्राह विरोधो वै देवदानवयोः सदा ।त्वं देवो वै कथं दैत्यं प्राक् प्रपूजितवानसि ॥३२॥मां त्यक्त्वा दानवेन्द्रः स पाद्यार्घ्येण त्वयाऽर्चितः ।विपरीतं तु तत्सर्वं धर्मराज कृतं कथम् ॥३३॥यमः प्राह यथाकर्म कर्तव्यं मेऽवशिष्यते ।विषादं त्यज राजेन्द्र गहना कर्मणां गतिः ॥३४॥कुरुक्षेत्रादधिकं वै पुण्यं स्यान्नार्मदे स्थले ।कलां नार्हन्ति तीर्थानि सार्धं कल्पगया क्वचित् ॥३५॥कर्मसाक्षी तु सर्वेषां यथान्यायं करोमि हि ।स राजा विस्मयापन्नो द्रुतं नत्वा यमेश्वरम् ॥३६॥नर्मदां स्नातुकामश्च कपिलासंगमं प्रति ।आययौ संगमे सस्नौ दिव्ययानं हि भूभृतः ॥३७॥तदा तूर्ध्वं गतं पूर्णे विष्णुलोकं सनातनम् ।एतादृशं परं पुण्यप्रदं तीर्थं हि नार्मदम् ॥३८॥भुक्तिमुक्तिप्रदं पापक्षालकं कमले प्रिये! ।जना पापा अपि यान्ति मुक्तिं रेवाजलाप्लवात् ॥३९॥तीर्यते विष्णुधर्मेण संसाराब्धिः सुदुस्तरः ।रक्ता मूढाश्च लोका वै प्रवर्तन्तेऽतिपापके ॥४०॥ते नात्मानं विजानन्ति न कृष्णं नहि देवताः ।न शृण्वन्ति परं श्रेयः सति चक्षुषि नेक्षते ॥४१॥समे पथि शनैर्यान्तो प्लवन्ते स्म पदे पदे ।यममुक्ता अपि जीवा न जानन्ति प्रबोधिताः ॥४२॥क्लिश्यन्ते ते वृथा नानारागलोभवशा नराः ।दृष्ट्वा गर्भखनिं कष्टां प्रत्यक्षां त्रासबोधिनीम् ॥४३॥मोक्षमार्गं न बुद्ध्यन्ति तेषां रेवा विमुक्तिदा ।प्रेतभूता प्रजाः सर्वा यमलोकाधिकारिकाः ॥४४॥शिवः प्राह शणु शैले! पुराख्यानं वदामि ते ।सूर्येण कथितं त्वासीत्पुराख्यानं तु नार्मदम् ॥४५॥यमाय निजपुत्राय लोकतारणहेतवे ।आश्रयेन्नर्मदां देवीं सप्तकलावहां सतीम् ॥४६॥स्नानावगाहनात्पानात् तथा दानक्रियादिभिः ।धामदा मोक्षदा स्वर्गप्रदा श्रेयःप्रदा हि सा ॥४७॥ध्यायमाना नर्मदा पापिनां पापविनाशिनी ।संस्मृता कीर्तिता नाम्ना स्वर्गदा याम्यवारिणी ॥४८॥नर्मदे नर्मदे चोक्त्वा पापो याम्यं न पश्यति ।नरकस्थोऽपि रेवां स हरिं हरं स्मरेद् यदि ॥४९॥मुच्यते यमदूतैः स तत्क्षणान्नात्र संशयः ।वैदूर्यपर्वतः ऋक्षस्तथा चामरकण्टकः ॥५०॥ओंकारो नर्मदा चैते भुक्तिमुक्तिफलप्रदाः ।सिद्धेश्वरं च यज्ञेशं मध्यस्थं शशिभूषणम् ॥५१॥कपिलेशं चतुर्थं तच्छिवक्षेत्रं प्रमुक्तिदम् ।तेषां पूजां प्रकुर्वन्ति पुष्पधूपाऽऽर्त्तितर्पणैः ॥५२॥शिवलोकं तु ये यान्ति शाश्वतं पदमैश्वरम् ।गोदानं हेमदानं च तिलदानं तथैव च ॥५३॥अन्नदानं पयोदानं सर्वोपस्करमित्यपि ।प्रासादाऽऽरामदानं च ददाना यान्ति मोक्षणम् ॥५४॥यमलोकं न ते यान्ति भक्ता भगवतो ननु ।लोको विचारणीयोऽयं मिश्रितो वर्तते सदा ॥५५॥सन्मानं चापमानेन वियोगे नेष्टसंगमः ।यौवनं जरया ग्रस्तं सौख्यं कष्टादुपद्रुतम् ॥५६॥बलिभिः पलितैश्चापि जर्जरीकृतविग्रहः ।स्त्रीपुंसोर्यौवनं रूपं यदन्योन्यं प्रियंकरम् ॥५७॥तदेव जरया ग्रस्तमुभयोरपि न प्रियम् ।अपूर्ववत्तथात्मानं शैथिल्येन समन्वितम् ॥५८॥यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः ।जराऽभिभूतः पुरुषः पत्नीपुत्रादिबान्धवैः ॥५९॥अशक्तत्वाद् दुराचारैर्भृत्यैश्च परिभूयते ।धर्ममर्थं च कामं च मोक्षं न जरया युतः ॥६०॥शक्तः साधयितुं तस्माच्छीघ्रं धर्म समाचरेत् ।वातपीतकफादीनां वैषम्यं व्याधिमण्डलम् ॥६१॥देहे तिष्ठति नित्यं वै बहुदुःखकरं मुहुः ।दुःखानि स्वात्मवेद्यानि किं तत्र वेद्यते परैः ॥६२॥एकोत्तरं मृत्युशतं हे नित्यं प्रवर्तते ।तत्रैकं कालरूपं च शेषास्त्वागन्तुकाः स्मृताः ॥६३॥कालः प्रतिक्षणं देहं क्षपयत्येव शान्तिमान् ।आगन्तुकाः क्षपयन्ति तत्त्वानि हि प्रतिक्षणम् ॥६४॥आगन्तुका मृत्यवस्तु नात्यन्तं मारयन्ति वै ।भेषजादिप्रतिस्पर्द्धिसाधनैर्विद्रवन्ति ते ॥६५॥कालमृत्युः क्षणाद्यात्मा महाकालात्मकस्तथा ।जपहोमप्रदानाद्यैर्भैषजैश्च न शाम्यति ॥६६॥अपमृत्युस्तु देहस्य विषमद्यादिसंभवः ।सर्वेषां जलपातादिवह्निपातादिसंभवः ॥६७॥क्षयं करोति वृष्ट्यादि कीटानां जलपूरतः ।ज्ञाताऽयं पुरुषो नित्यमपमृत्योर्बिभेति च ॥६८॥विविधा व्याधयः कष्टाः सर्पाद्याः प्राणिनोऽपि च ।विषाणिनोऽभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ॥६९॥आवृतं रोगसर्पाद्यैरपि धन्वन्तरिः स्वयम् ।स्वस्थं कर्तुं न शक्नोति कालग्रस्तं हि देहिनम् ॥७०॥नौषधं न तपो दानं न मित्राणि न बान्धवाः ।परित्रातुं समर्था नो कालग्रस्तं प्रवासिनम् ॥७१॥नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमो रिपुः ।नास्ति मृत्युसमः कालो देहिनां सुखमानिनाम् ॥७२॥सद्भार्यासुतमित्राणि राज्यैश्वर्यसुखानि च ।मृत्युश्छिनत्ति सर्वाणि वार्यमाणोऽपि वेगतः ॥७३॥इद्ं तै कथितं पुत्र धर्मराज मयाऽर्थवत् ।परिणामे भवेत् सर्वं सर्वथा कालभोजनम् ॥७४॥तस्मात् सर्वप्रयत्नेन सेव्या नारायणी सृतिः ।सर्वदुःखहरा रेवा सर्वशोकविनाशिनी ॥७५॥यान् यान् कामयते कामान् तांस्तान् रेवा प्रयच्छति ।ज्ञानं ध्यानं चाध्ययनं रेवासेवनमेव तत् ॥७६॥यज्ञो दानं तपः सत्यं लक्ष्मि! रेवाम्बुसेवनम् ।ब्रह्मकूर्चसहस्राणि रेवातोयसमानि न ॥७७॥गोदानं तत्र वै दत्तं गोमेधायुतपुण्यदम् ।शशांकोऽभूत् पुरा राजा नर्मदातीरमाश्रितः ॥७८॥दानं यज्ञं तपश्चक्रे पर्वतेऽमरकण्टके।ददौ चार्धप्रसूतां गां ब्राह्मणाय महात्मने ॥७९॥दानस्याऽस्य प्रभावेण दिव्यूर्ध्वयायानगोऽभवत् ।यावद्वत्सस्य पादौ द्वौ मुखं योनौ प्रदृश्यते ॥८०॥तावद्गौः पृथिवी ज्ञेया सशैलवनकानना ।स्वर्णशृंगी रूप्यखुरी सवत्सा कांस्यदोहना ॥८१॥नर्मदास्नानयुक्ता च सकुशा तिलसंयुता ।ओंकाराऽमरयोर्मध्ये कोटितीर्थे शशांककः ॥८२॥एताः सहस्रसंख्याका ब्राह्मणेभ्यो ह्यकल्पयत् ।स राजा दानपुण्येन दिव्ययानेन वै दिवि ॥८३॥राजते तु तदा नेदुर्देवदुन्दुभयो दिवि ।तत्क्षणे यानमारूढो हरिश्चन्द्रोऽपि भूपतिः ॥८४॥कुरुक्षेत्रे गोसहस्रं दत्वा यानेन चाययौ ।धृतस्वर्णातपत्रस्तु वीज्यमानश्च चामरैः ॥८५॥योजनानां सहस्रेण हरिश्चन्द्रो ह्यधःस्थितः ।एवं दृष्ट्वा निम्नभावं जगामाऽजं स सत्वरम् ॥८६॥विषण्णवदनोऽपृच्छत् पितामहं तु कारणम् ।मया तु कौरवे क्षेत्रे दानं दत्तमनन्तकम् ॥८७॥शशांकेन तु रेवायां दानं दत्तमनन्तकम् ।कथं पुण्यं नार्मदं तु कुरुक्षेत्राद् विशिष्यते ॥८८॥येनाऽहमस्मि निम्नस्थो हरिश्चन्द्रः समूर्ध्वगः ।श्रुत्वा ब्रह्मा हरिश्चन्द्रं प्राह मा खेदमावह ॥८९॥शशांकेन पुरा सूर्यग्रहेऽद्र्यमरकण्टके ।अनेकानि सहस्राणि कृतानीष्टानि भूपते ॥९०॥अन्यतः सर्वतीर्थानि चैकतोऽमरकण्टकम् ।तोलितं च मया पूर्वममरेशो विशिष्यते ॥९१॥सेव्यतां कल्पगा देवी यदिच्छेत्परमं पदम् ।हरिश्चन्द्रस्ततो नत्वा ययावमरकण्टकम् ॥९२॥नर्मदायास्तटे द्रव्यं धनं गाश्च ददौ तदा ।अथ पुण्योदयेनाऽस्य विमानं चोर्ध्वगं ह्यभूत् ॥९३॥तदा सन्तोषमापन्नः कृत्वा राज्यं चिरं ततः ।ययौ वैकुण्ठमेवाऽयं नर्मदायाः प्रभावतः ॥९४॥यद्यप्यनेन दत्तानि कौरवे च बहून्यपि ।दानानि तत्फलं नैव नार्मदेन समं ह्यभूत् ॥९५॥एवं वै नार्मदं तीर्थं सर्वश्रेयस्करं परम् ।भुक्तिदं मोक्षदं चापि कोटितीर्थसमन्वितम् ॥९६॥एतत्सर्वं समाख्यातं शिवायै शंकरेण ह ।मया तुभ्यं महालक्ष्मि! प्रोक्तं तन्नार्मदं फलम् ॥९७॥यः शृणोति जनो लक्ष्मि गोसहस्रफलं लभेत् ।पठनाच्छ्रवणात्स्मृतेर्लभेद्वै तादृशं फलम् ॥९८॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कुवलयाश्वमुचुकुन्दविमानवैषम्ये हरिश्चन्द्रशशांकविमानवैषम्ये नर्मदामरकण्टकमाहात्म्याधिक्यादिकथननामैकोनसप्तत्यधिकपञ्चशततमोऽध्यायः ॥५६९॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP