संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५६८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५६८ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! मम भक्तिपराणां चोत्तमां मतिम् ।यद्यपि स्यान्मम तीर्थे धूलीधूसरता यदि ॥१॥तथाप्यहं महाराज्यं प्रददामि मृतस्य वै ।पूर्वं कोकाभिधे तीर्थे वाराहावतराश्रये ॥२॥कश्चिल्लुब्धो विहिंसन् वै चाययौ कोकमण्डले ।तत्र दृष्ट्वा जले मत्स्यं बडिशेनाऽऽजहार सः ॥३॥तस्य हस्तात्तु बलवान् मत्स्यस्तूर्णं विनिर्गतः ।अथ श्येनश्च तं वीक्ष्य पद्भ्यां जग्राह सत्वरम् ॥४॥उड्डीनोऽपि महाभारं वोढुं निर्बल एव सः ।ततः पद्भ्यां वियुक्तः सन् मत्स्यः कोकामुखेऽपतत् ॥५॥ममार रजसा स्पृष्टो राजपुत्रोऽभवच्छुचिः ।अथ कालेन तस्यैव मृगव्याधस्य चांगना ॥६॥गृहीत्वा मूर्ध्नि मांसानि पद्भ्यां प्रयाति तत्र वै ।एका चिल्ली मांसक्षुब्धा मांसं हर्तुं समाययौ ॥७॥व्याधपत्न्या ताडिता सा शरेण पतिता मृता ।जाता चन्द्रपुरे राज्ञः कन्या तीर्थरजःश्रयात् ॥८॥युवत्यपि नरं श्रेष्ठं जुगुप्सति न चेच्छति ।सौम्यं सुरूपं पुरुषं सर्वानपि जुगुप्सति ॥९॥अथ काले गते तयोः सम्बन्धोऽभूद्विवाहतः ।तथा च दम्पती नित्यं धर्मं पालयतः स्थितौ ॥१०॥मध्याह्ने जायते पत्युः शिरोरुगतिपीडिनी ।वैद्यौषधैः सहस्रैः सा पीडा नैव न्यवर्तत ॥११॥कदाचिद् दयिता नैजं भर्तारमिदमब्रवीत् ।का न्वियं वेदना स्वामिन् चिकित्साभिर्न गच्छति ॥१२॥पुनः पुनः पृच्छ्यमानः प्रियामुवाच वै पतिः ।मुञ्चत्वं मानुषं भावं तां जातिं स्मर पौर्विकीम् ॥१३॥यदि ज्ञातुं तवेच्छाऽस्ति गृहाणाऽऽज्ञां तु वृद्धयोः ।मातापित्रोर्मम गन्तुं तीर्थं कोकामुखं प्रति ॥१४॥तत्र गत्वा कथयिष्ये मा मोहं कुरु भामिनि ।ततः प्रसादयामास श्वश्रूश्वशुरकौ वधूः ॥१५॥प्राह कोकामुखे गन्तुमिच्छावस्तीर्थयोगतः ।कार्यगौरवभावेन न निषिद्धौ कथंचन ॥१६॥अद्य यावत् किमपि वां याचितं न मया क्वचित् ।पुरस्ताद् युवयोस्तन्मे याचितं दातुमर्हतः ॥१७॥शिरोवेदनया युक्तः सदा तव सुतो ह्ययम् ।मध्याह्ने मृतकल्पो वै जायते चातिपीडितः ॥१८॥कोकामुखं विना कष्टं न निवृत्तं भविष्यति ।त्वरितं गन्तुमिच्छावो विष्णोस्तत्परमं पदम् ॥१९॥इति स्नुषावचः श्रुत्वा राजा प्राह शुभं वचः ।गृहाण पुत्र रत्नानि दासान् दासीः रथादिकान् ॥२०॥दानार्हाणि च वस्तूनि धनानि विपुलानि च ।कुरु तीर्थं सुखात्पुत्र पुत्रि रक्ष पतिं तव ॥२१॥अनुजज्ञे शको राजा दम्पती वणिजादिभिः ।ययतुस्तत्र गत्वा च कोकामुखं हरिं तथा ॥२२॥देवान् दृष्ट्वा जले स्नात्वा दानानि ददतुस्ततः ।रजनी संव्यतीता च प्रातः स्नातौ तु दम्पती ॥२३॥प्रणम्य शिरसा विष्णुं पतिः पत्नीं मृदन्तरे ।अस्थीनि दर्शयामास मीनस्य पूर्वजन्मनः ॥२४॥एतानि मम चास्थीनि पूर्वदेहोद्भवानि हि ।अहं पुराभवं मत्स्यः कोकेषु विचरन् जले ॥२५॥व्याधेन निगृहीतोऽहं बडिशेन जलेचरः ।तद्धस्तान्निर्गतस्तत्र बलेन पतितो भुवि ॥२६॥श्येनेनामिषलुब्धेन नखैर्विद्धोऽभवंस्तदा ।नीतं आकाशमार्गेण तस्माच्च पतितोऽत्र वै ॥२७॥तेन चातिप्रहारेण जाता शिरसि वेदना ।अहमेव विजानामि स्मरामि वेदनां ह्यति ॥२८॥तेन दुःखं न मे शान्तं मध्याह्ने जायते ह्यति ।श्रुत्वैवं तस्य भार्याऽपि प्राह पूर्वभवं स्वकम् ॥२९॥अहं पूर्वभवं च चिल्ली क्षुत्तृड्युता द्रुमे ।समासीना तदा भक्ष्यं विचिन्वाना तदन्तरे ॥३०॥अथ कश्चिन्मृगव्याधः प्रियया सह तद्द्रुमे ।हत्वा मृगान् समायातो मांसान् ररक्ष भूतले ॥३१॥तावन्मया मांसपिण्डो विद्धो वज्रसमैर्नखैः ।व्याधो ददर्श मां तत्र जघान च शरेण माम् ॥३२॥अपातयच्च भूमौ मां पतिताऽहं मृतिं गता ।एतत्क्षेत्रप्रभावेण जाताऽस्मि त्वत्प्रिया नृपी ॥३३॥एतानि यस्य चास्थीनि शेषाणि च ममापि च ।गलितान्यल्पशेषाणि स्मरामि सर्वमेव तत् ॥३४॥अथ चात्र प्रकर्तव्यं धर्मकार्यं प्रमोक्षदम् ।इतिनिश्चित्य तौ तत्र विष्णुलोके सुखावहम् ॥३५॥चक्रतुर्भजनाद्यं च द्रव्यरत्नादिदानकम् ।ददतुः परमप्रीतौ पात्रेभ्यः स्वानि शेषतः ॥३६॥तत्र स्थित्वा वरारोहे मम सेवाव्यवस्थितौ ।तस्मात् स्थानाद् वपुस्त्यक्त्वा श्वेतद्वीपमुपागतौ ॥३७॥शुक्लाम्बरधरौ दिव्यभूषणैश्च विभूषितौ ।दिव्यरूपधरौ भक्तौ मम भागवतौ सदा ॥३८॥दीप्तिमन्तौ सुरूपौ च स्वर्णवच्छुभदर्शनौ ।चतुर्भुजौ यथा लक्ष्मीविष्णू सामर्थ्यशोभितौ ॥३९॥तयोर्योऽभूत्परिजनश्चमत्कारं प्रवीक्ष्य सः ।मम सेवापरश्चाऽभूत् मम कर्मव्यवस्थितः ॥४०।मानुषं भावमुत्सृज्य मम लोकमुपागतः ।सर्वशो द्युतिमाँस्तत्र मत्सान्निध्यमुपागतः ॥४१॥मम भक्ताः स्त्रियो लक्ष्मि त्वत्स्वरूपो भवन्ति वै ।तेजसा दीप्तिमत्यश्च शुद्धसत्त्वविभूषिताः ॥४२॥नवयौवनपूराश्च सर्वाश्चोत्पलगन्धिकाः ।चारुचम्पकवर्णाभा मुक्ताः सर्वाः प्रियव्रताः ॥४३॥प्रसादान्मम सुश्रोणि नित्ययौवनपूरिताः ।नित्यानन्दभृताः सर्वाः सर्वसिद्धिसमन्विताः ॥४४॥एष धर्मश्च कीर्तिश्च शक्तिश्चापि महद्यशः ।कर्मणां परमं कर्म तपसां च महत्तपः ॥४५॥कथानां परमं चापि कृतीनां परमा कृतिः ।वृषाणां परमो धर्मो यन्ममाश्रयणं परम् ॥४६॥मम धर्मं समाश्रित्य रजो धृत्वा च मस्तके ।प्रसादप्राशनं कृत्वा मम लोके महीयते ॥४७॥मम पादजलं पीत्वा स्नात्वा मत्तीर्थवारिषु ।मम साधोरनुवृत्तिं पालयित्वा मुहुर्मुहुः ॥४८॥सतां सेवां सदा कृत्वा कृत्वा भागवतार्चनम् ।श्रुत्वा च संहितां लक्ष्मीनारायणीयसंज्ञिताम् ॥४९॥जना यान्ति परां मुक्तिं चिल्लीमत्स्यौ यथा पुरा ।एतन्मरणकालेऽपि स्मृत्वा मुच्येत बन्धनात् ॥५०॥विशेषेणापि ते लक्ष्मि कथयामि शुभक्षणम् ।कुमुदं मार्गशीर्षं च वैशाखं श्रावणं तथा ॥५१॥ममातिमोदपात्राणि मासाश्चैते ममार्चने ।कार्तिके द्वादशीकाले नवान्नैर्नवपुष्पकैः ॥५२॥पूजयेन्नववार्भिश्च स मे लोकाय कल्पते ।गते मेघागमे काले प्रसन्नशरदाश्रये ॥५३॥अम्बरे विमले जाते विमले शशिमण्डले ।नातिशीते न चात्युष्णे काले हंसविराविणि ॥५४॥कुमुदोत्पलकल्हारपद्मसौरभनिर्भरे ।कुमुदस्य तु मासस्य भवेद्या द्वादशी शुभा ॥५५॥तस्यां मामर्चयेद् यस्तु व्रतं कुर्यात्तथा मम ।प्रबोधिनीं पालयेच्च स याति परमां गतिम् ॥५६॥शिशिरेऽपि मार्गशीर्षे द्वादश्यां कुसुमैर्नवैः ।ममार्चनं प्रकुर्याद् यः स याति परमां गतिम् ॥५७॥मासं मार्गशिरं यद्वद् वैशाखं चापि मे प्रियम् ।तत्र पुष्पादिभिश्चाऽहमर्चनीयो व्रते दिने ॥५८॥नववर्षसहस्राणि नववर्षशतानि च ।तिष्ठते मम लोके स यो ददाति च मेऽर्चनम् ॥५९॥एकेकगन्धपत्रस्य दानमेतन्महत्फलम् ।कौमुदस्य तु मासस्य मार्गशीर्षस्य वै तथा ॥६०॥वैशाखस्य तु मासस्य द्वादश्यां धवले दले ।एकभक्तिपरो भूत्वा वनमालां विभूषिताम् ॥६१॥पुष्पाणां च विभूषाश्च गन्धपुष्पाणि यो न्यसेत् ।वर्षाणि द्वादशैवेह तेन पूजा कृता भवेत् ॥६२॥शालपुष्पं सुगन्धि कौमुद्यां चन्दनमर्पयेत् ।उत्पलं चन्दनं चापि दद्यान्मार्गशिरे शुभम् ॥६३॥वैशाख्यां स्थलकमलं जलं शीतं सशर्करम् ।इक्षुरसं प्रदद्यान्मे शान्तिदं पुष्टिदं तथा ॥६४॥प्राप्नोति प्रददानस्तु मम भक्तिपरायणः ।दिव्यं वर्षसहस्रं वै वैकुण्ठं च ततः परम् ॥६५॥परं पदं स मे याति पुण्यस्याऽन्तो न विद्यते ।न जन्ममरणे तस्य न ग्लानिर्न क्षुधा तृषा ॥६६॥एवंविधं परं लोकं प्राप्नुयान्मम पूजकः ।फाल्गुनस्य तु मासस्य शुक्लद्वादशिकातिथौ ॥६७॥रम्यवासन्तिकैः पुष्पैः पूजयेन्मां सुभावतः ।श्वेतं पाण्डुरकं चापि सुगन्धं शोभनं बहु ॥६८॥न स गच्छति संसारं मम लोकं स गच्छति ।वैशाख्यां शालपुष्पाणि शुभानि तरुणानि च ॥६९॥दत्वा मह्यं च भक्तेभ्यो जनो मोक्षाय कल्प्यते ।प्रपूज्य श्रीभागवतान् स्थापयित्वाऽग्रतश्च माम् ॥७०॥पूजयेत् परया प्रीत्या नरो नारी सुभावतः ।सस्तुवन्त्यृषयो मन्त्रैर्भक्ताः स्तवैः स्त्रियो हृदा ॥७१॥गन्धर्वाऽप्सरश्चापि गीतनृत्यैः सवादनैः ।स्तुवन्ति देवलोकाश्च पुराणं पुरुषोत्तमम् ॥७२॥सिद्धा विद्याधरा यक्षाः पिशाचोरगराक्षसाः ।स्तुवन्ति देवं सर्वेषां मां श्रीकृष्णनरायणम् ॥७३॥आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ।स्तुवन्ति देवदेवेशं युगानां संक्षयेऽपि च ॥७४॥पृथ्वी वायुश्च विश्वे च तेजः सूर्यादयो ग्रहाः ।समन्विताः स्तुवन्त्येनं श्रीकृष्णं पुरुषोत्तमम् ॥७५॥स्वयं ब्रह्मा च सोमश्च शक्रश्चाग्निश्चिदम्बरम् ।स्तुवन्ति श्रीकृष्णनारायणं लोकमहेश्वरम् ॥७६॥नारदः पर्वताश्चाप्यसितश्च देवलो मुनिः ।पुलहश्च पुलस्त्यश्च भृगुश्चांगिर इत्यपि ॥७७॥एते चान्ये च बहवो मित्रावसुपरावसू ।स्तुवन्ति मां रमेशं वै योगिनां परमं गुरुम् ॥७८॥सत्यलोकनिवासाश्चाष्टावरणधृताश्रयाः ।वैराजा ईश्वराश्चापि मां भजन्ते हिं माधवि! ॥७९॥पितरस्त्वर्यमाद्याश्च याम्याः श्रवणसंज्ञकाः ।संवत्सराश्च कालाख्या मां स्तुवन्ति तु नित्यशः ॥८०॥ऋषयो मुनयः सर्वे दिक्पाला लोकपालकाः ।निधयः कृत्तिकाः काष्ठा अनंगो मनवस्तथा ॥८१॥कलाश्च तिथयः सर्वास्तत्त्वान्यपि स्तुवन्ति माम् ।नक्षत्राणि सुराः सर्वे गुणा वर्णा भजन्ति माम् ॥८२॥भोगाश्च भोगिनः सर्वे योगिन्यश्चाप्सरोगणाः ।तीर्थानि च नदा नद्यो नाडिकाः खनिकास्तथा ॥८३॥वालखिल्याः पिशाचाद्या भूताः प्रेताः स्तुवन्ति माम् ।कूष्माण्डाश्चण्डिकाः सर्वा वेतालाश्च विनायकाः ॥८४॥डाकिन्यश्चापि शाकिन्यस्तथा कृत्या भजन्ति माम् ।जरायूजा अण्डजाश्च स्वेदजाः पार्थिवांकुराः ॥८५॥मानवा जलजाश्चापि स्थलजा देहिनश्च माम् ।स्तुवन्ति दुःख्यवस्थायामाश्रमस्था निरन्तरम् ॥८६॥गृहदेवा ग्रामदेवा वनारण्यादिदेवताः ।वनानि पर्वताद्याश्च तडागानि स्रवाणि च ॥८७॥अखातानि च खातानि चाब्धयोऽपि स्तुवन्ति माम् ।आलया ग्रामसंस्थानाश्चेतना वै भजन्ति माम् ॥८८॥यमलोककृतावासाः कर्मिणस्तु मुहुर्मुहुः ।मां स्मरन्ति कृपानाथं समुद्धाराय दुःखतः ॥८९॥आर्ताः स्तुवन्ति मां शश्वज्जिज्ञासवः क्वचित् क्वचित् ।अर्थार्थी यावदर्थस्य लाभो भवति तावता ॥९०॥मज्ज्ञा नित्यं स्मरन्त्येव स्तुवन्ति च भजन्ति च ।सूताश्च मागधाश्चापि बन्दिनश्चारणादयः ॥९१॥स्तावकाः कथकाः सर्वे पण्डावन्तो भजन्ति माम् ।न्यायदाः शासकाश्चापि चौराश्चापहरास्तथा ॥९२॥तामसाः सात्त्विका यद्वा राजसाश्च स्तुवन्ति माम् ।भाट्टा गान्धर्वकुशलाः किन्नराः किंपुमर्थकाः ॥९३॥साध्याः साध्व्यस्तथा सत्यो ब्रह्मचारिण्य इत्यपि ।आभिचारिण्य एवापि मां स्तुवन्ति भजन्ति माम् ॥९४॥नागाः सर्पा उरगाश्च सरीसृपा मृगादयः ।धर्मे निजे वर्तमानाः सर्वे भजन्ति मां खलु ॥९५॥यथाभावं ददाम्येभ्यः फलं कर्मानुसारि वै ।मुक्ता भजन्ति सततं हृदि वासं प्रदाय मे ॥९६॥तेभ्यो ददामि हृदयं भक्तेभ्यो मम ते यथा ।एवं लक्ष्मि सदा सर्वे जीवाः प्रोता मयि ध्रुवम् ॥९७॥मां विना नैव तिष्ठन्ति कम्पन्ते नैव मां विना ।प्रकाशं नैवाप्नुवन्ति मां विना हृदयस्थितम् ॥९८॥अनादिश्रीकृष्णनारायणश्चाहं परेश्वरः ।काम्भरेयो महाराजः संराजे सर्वदेहिषु ॥९९॥मम भासा प्रभासन्ते सर्वेषां हृदयानि वै ।मम शक्त्या प्रकुर्वन्तीन्द्रियाणि ग्रहणानि च ॥१००॥ममान्वयेन संसारो याति वियाति वर्तते ।ममोपस्थानहेत्वैतत् सर्वमानन्दभूमिकम् ॥१०१॥अतो लक्ष्मि! सदा सेव्यो नारायणः परात्परः ।सर्वर्तुजन्यसद्द्रव्यैर्मानसैर्भवनैस्तथा ॥१०२॥तेषामुद्धरणार्थाय जाग्रतो न स्वपिम्यपि ।न मे निद्रा हि भक्तार्थं नौदासीन्यं मदाश्रिते ॥१०३॥न चालस्यं स्वावनार्थे न मूर्तिः प्रेमशून्यके ।इति ज्ञात्वा ये भजन्ति स्तुवन्ति च स्मरन्ति माम् ॥१०४॥त एव मोक्षभागा वै नरा नार्यः प्रियेऽब्धिजे ।पाठकाः श्रावकाश्चापि श्रोतारो मननार्थिनः ॥१०५॥सर्वे भावभराः स्युश्चेत् प्रयान्ति परमं पदम् ।सर्वयज्ञफलं तेषां मम वाक्येऽनुवर्तिनाम् ॥१०६॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विष्णोस्तीर्थरजोमाहात्म्यं श्वेतद्वीपमुक्ताः कार्तिकमार्गशीर्षवैशाखादिद्वादशीषु कृतभगवत्पूजाफलं सर्वभूतप्राणिमात्रकृतस्तुत्यादिभिर्भगवत्प्राप्तिरित्यादिनिरूपणनामाऽष्टषष्ट्यधिकपञ्चशततमोऽध्यायः ॥५६८॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP