संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५६४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५६४ Translation - भाषांतर श्रीनारायण उवाचशृणु लक्ष्मि ! शंकरेणोदितानि नर्मदातटे ।कपिलामरयोर्मध्ये नर्मदोंकारमध्यतः ॥१॥कोटितीर्थानि सन्त्येव यत्र क्वापि जनश्चरेत्।राजानस्ते प्रजायन्ते शुभे वैद्याधरे पुरे ॥२॥दीयते कोटितीर्थे यद् गुंजामात्रं हिरण्यकम् ।तस्य संख्या न विद्येत यावदाभूतसंप्लवम् ॥३॥सूत्रेण वेष्टयेद् यस्तु यज्ञशैलं च पर्वसु ।सूत्रयुगसहस्राणि स्वर्गलोके महीयते ॥४॥पुत्रिणी भर्तृसंयुक्ता नारी तद्वेष्टिनी भवेत्।कौशेयं पट्टसूत्रं च कार्पासं व महोज्ज्वलम् ॥५॥नवतन्तुं च यः कुर्याद् दशद्वादशतन्तुकम् ।अष्टादशगुणं वापि चतुर्विंशतितन्तुकम् ॥६॥न्यग्रोधे बन्धयेत् सूत्रम् ऋणापाकरणं भवेत् ।ओंकारं वेष्टयेद्वा यः कैलासं विन्दते हि सः ॥७॥सफल: सूत्रयागः स्याद् यतीन् संभोजयेत् ततः ।यः शारीरेण कष्टेन पर्यटेच्छिवपर्वतम् ॥८॥पदे पदे यज्ञफलं तस्य स्याच्छंकरोऽब्रवीत् ।करिणीरूपमास्थाय स्वयं सरस्वती सरित् ॥९॥स्नातुमायाति तु कोटितीर्थे स्नात्वा प्रयाति च ।कावेरीसंगमाद् यावदुदधेः संगमोऽस्ति हि ॥१०॥अत्रान्तरे तीर्थकोट्यो नर्मदायां वसन्ति वै ।कावेरीपर्यंकशैलमध्ये तु दशलक्षकम् ॥११॥नर्मदायां समासाद्य जमदग्नेर्महाश्रमम् ।श्रीकण्ठं नीलकण्ठं च कन्यातीर्थे प्रवर्तते ॥१२॥सूर्यपिंगललिंगं च नारायणस्य मन्दिरम् ।लक्ष्मीतीर्थ सतीतीर्थे वर्तते पापनाशनम् ॥१३॥मोक्षदो वै गिरिः पुण्यः सर्वतोऽमरकण्टकः ।कावेर्यां स्नानमात्रेण जना यान्ति परां गतिम् ॥१४॥कुबेरतपसा या वै कौबेरी नामतोऽभवत् ।सा कावेरीति संप्रोक्ता पित्रुद्धारकरी नदी ॥१५॥नानामुखसहस्रैस्तु कावेरी तारिणी मता !नर्मदा दक्षिणे कूले वाराहे विन्ध्यपर्वते ॥१६॥पयोष्णी निर्गता चन्द्रपुत्री शीताऽतिपावनी ।वाराहशरीराज्जाता सोमगंगा च तारिणी ॥१७॥तत्र स्नात्वा जनो भक्त्या भवे वै न पुनर्भवत् ।पयोष्णीसंगमे तत्र सोमावर्त्तः प्रदेशकः ॥१८॥तत्र स्नानस्य दानस्य संख्यां कर्तुं न शक्यते ।तापीपयोष्णीसंभेद: कुरुक्षेत्राच्छताधिकः ॥१९॥फलदः श्रीह्ररिर्यत्र श्रीपति: पुरुषोत्तमः ।विराजते प्रशस्तं तद्विष्णुक्षेत्रं प्रकीर्त्यते ॥२०॥कार्तिक्यां दीपदाने तु चक्रवर्ती भवेन्नृपः ।रेवां भित्त्वा चण्डवेगानाम्नी नदी विनिःसृता ॥२१॥तत्र स्नात्वा ब्रह्महत्यादिकपापं विनश्यति ।चण्डेश्वरो महादेवस्तत्र तिष्ठति पापह्रा ॥२२llचन्द्रसेनः सोमवंशी पुराऽऽसीत् पापकृन्नृपः ।परदाररतश्चौरो मदिरापानकृद्धि स: {{२३||नैमिषारण्यवासस्य शाण्डिल्यस्य तु भामिनीम् ।नाम्ना सौदामिनीं रूपयौवनाद्यन्वितां सतीम् ।२४॥चन्द्रसेनो ददर्शैनां जटावल्कलधारिणीम् |उवाच मे भव पत्नी भुंक्ष्व भोगांश्च पुष्कलान् ll२५llश्रुत्वा सौदामिनी प्राह याचस्व मे पतिं नृप ।शाण्डिल्यं परिपप्रच्छ राजा तस्यां सुमोहितः ॥२६॥यौवनस्थां च पत्नीं ते चेदद्य त्वं ददस्व मे ।मौल्ये ददामि ते द्रव्यमस्याः शतसहस्रशः ॥२७॥ऋषिः प्राह स्त्रियो राजन् छलमूला हि सर्वशः ।न च तासां प्रियः कश्चिद् यथेच्छसि तथा कुरु ॥२८॥कामान्धश्च तदा राजा करे जग्राह तां सतीम् ।सा तु कोपान्नृपं प्राह भवाम्यद्य रजस्वला ॥२९॥मम स्पर्शादद्य दिने चण्डालस्त्वं भविष्यसि ।प्रथमेऽहनि चाण्डालीसमा रज:प्लुता मता ॥३०llइत्युक्तोऽपि हठात्तां वै पस्पर्श स्व करे पुनः ।तावाच्चाण्डालतां प्राप्तो राजा सर्वभयावहः ॥३१॥रूपरंगविहीनश्च कृष्णवर्णोऽभवत् क्षणात् ।राजा तां च सतीं त्यक्त्वा ययौ स्वनगरं प्रति ॥३२॥अवध्यावासिनश्चाहुः राजपुत्रः कथं वने ।गतश्चाण्डालतां प्राप्त इत्याश्चर्यपरा मिथः ॥३३॥वसिष्ठस्तु नृपं प्राह याहि तां प्रति वै पुनः ।क्षमां याचस्व गत्वैव सर्वं शान्तं भविष्यति ॥३४||राजा जगाम तां नत्वा ऋषिं नत्वा पुनः क्षमाम् ।याचयामास च मुहुस्तदा चाहतुर्दम्पती ॥३५॥राजन् शीघ्रं प्रयाहि त्वं चण्डवेगासमागमम् ।चण्डेश्वरं हरिं तत्राऽभ्यर्च्य स्नात्वा ह्यवाप्स्यसि ॥३६॥पापस्य मोक्षणं चेति श्रुत्वा राजा ययौ नदीम् ।चण्डवेगां च रेखां व तत्र स्नात्वा हरं हरिम् ॥३७॥पुपूज परया भक्तया निष्पापश्च बभूव सः ।अन्ते मुक्तो बभूवाऽपि चण्डवेगाप्रभावतः ॥३८॥दिव्ययानसमारूढो ययौ वैकुण्ठमुत्तमम् ।श्रवणात् कीर्तनाञ्चापि घोरपापं विनश्यति ॥३९॥अथ तीर्थं परं चान्यदेरण्डीनर्मदागमः ।एरण्डीश्वरलिंगं च वर्तते पापनाशनम् ॥४०॥कुंकुमेन समालिप्य गन्धपुष्पैः प्रपूजयेत् ।दिव्यवर्षसह्स्रं तु मोदते शिवसन्निधौ ॥४१॥भद्ररुद्रौ पुरा कल्पे सुगन्धर्वौ बभूवतुः ।तमभ्यर्च्य विधानेन गतौ वैद्याधरं पुरम् ।४२॥भद्रेश्वरं तथा रुद्रेश्वरं संस्थाप्य स्वर्गतौ ।अथ पितृप्रतृप्त्यर्थे दुर्वासा मुनिराट् क्वचित् ॥४३॥बभ्राम सर्वतीर्थानि ततो गयामुपाययौ ।पिण्डान् ददौ तथा वारि ददौ फलानि वै रसान् ॥४४॥ददौ कुशतिलॉस्तत्र किन्तु वै पितरस्तदा ।न दृष्टा तेन मुनिना तदा प्राह मुनीन् स्वयम् ॥४५॥करे ग्रह्णन्ति पितरः पिण्डानीह मया श्रुतम् ।तदद्य भो न पश्यामि तीर्थयात्रा निरर्थिका ॥४६॥श्रुत्वा तन्मुनयः प्राहुः प्रतीक्षाऽमादिनं मुने ।करे ग्रह्णन्ति पितरः पिण्डान् दर्शे प्रकल्पितान् ॥४७॥दुर्वासा दर्शपर्यन्तं तस्थौ तत्र हि श्रद्धया ।अवासृजत्ततः पिण्डाँस्तथापि पितरः खलु ॥४८॥मूर्तिमन्तो नाऽऽययुश्च दुर्वासास्तु तदा पुनः ।एरण्डनामकं तत्र तपन्तं प्राह वै मुनिम् ॥४९॥नाऽत्र ते स्यादर्थसिद्धिरागच्छ वै मया सह ।इत्युक्त्वा मुनिमेरण्डं सह नीत्वा च नार्मदे ॥५०॥तीरे तस्थौ समागत्य ऑकारेऽमरकण्टके॥तत्र सस्मार च पितॄन् ब्रह्मा साक्षात् समाययौ ॥५१॥गृहाणाऽर्पितमेवाऽत्र पिण्डं तुष्टोऽभवत्तदा ।ददौ वारि स्वयं ब्रह्मा तृप्तो नार्मद्वारिणा ॥५२॥ब्रह्माणाऽर्पितवार्थैव दुर्वासा।एरण्डको मुनिश्चापि दधार शिरसा तदा ॥५३॥ब्रह्मकमण्डलुवारि एरण्डमस्तकाद् भुवि ।पतितं तत्प्रवाहश्च नर्मदाया जले गतः ॥५४॥अमायां सोमवारे चैरण्डरेवासमागमे ।तीर्थे पर्व महज्जातं पित्रुद्धारकरं परम् ॥५५॥ब्रह्मा तुष्टो वरदानं ददावेरण्डिकातटे ।अदृश्याः पितरस्तृप्तिं दर्शे यास्यन्ति शाश्वतीम् ॥५६॥गयायामपि चादृश्यास्तृप्तिं यास्यन्ति शाश्वतीम् ।वैष्णवेभ्यः पवित्रेभ्यो ब्रह्मव्रतेभ्य इत्यपि ॥५७॥निष्पापेभ्यो मानवेभ्यः शुद्धहद्धयस्तु सर्वदा ।दृष्टिपथं प्रयास्यन्ति पितरौ नान्यथा क्वचित् ॥५८॥एवमेरण्डिकातीर्थ रेवासंगमगं ह्यभूत् ।श्रवणात् कीर्तनादस्योद्धारः स्यात् पितृतीर्थिनः ॥५९॥ततस्तीर्थं परं चान्यद् रेवाशख्यविशल्ययोः ।भरतेन कृतो यज्ञो यत्र शल्या विशल्यका ॥६०॥नदीद्वयं समुद्भूतं विवेश नार्मदं जलम् ।आसुरा विघ्नकर्तारो युयुधुर्भरतेन वै ॥६१॥भरतेनाऽऽसुरा बाणैर्नाशिता बहवस्तदा ।भरतस्य भटानां च शल्यपीडानिवृत्तये ॥६२॥यूपमूलान्नदी जाता विशल्या शल्यकर्षिणी ।तत्र स्नात्वा भरताद्या यज्ञनारायणेहया ॥६३॥विपीडास्ते विशल्याश्च बभूवुः सर्वशोऽनघाः ।तेन शल्या विशल्या च नदीद्वयं प्रकीर्त्यते ॥६४॥प्रवाहद्वयरूपं तन्नर्मदायां समाहतम् |एतत्तीर्थं परं पुण्यं पावनं नार्मदे तटे ॥६५॥स्वायंभुवेऽन्तरे प्राप्ते त्वादिकल्पे कृते युगे ।दानवैर्निर्जिता देवा नर्मदातीरमाश्रिताः ॥६६॥ते देवा ब्रह्मसहिता ईश्वरं शरणं गताः ।बृहस्पतिस्ततः प्राह ब्रह्माणं परमेष्ठिनम् ॥६७॥इष्टिं कुरु महारौद्रीं दानवानां क्षयंकरीम् ।एतस्मिन्नन्तरे देवा ययुस्ते नार्मदं तटम् ॥६८॥भित्वा भुवं तदा लिंगं समुत्थितं महोज्ज्वलम् ।औंकारं संवदत् तत्र भूर्भुवः स्वश्च कीर्तयत् ॥६९॥पर्वतादुत्थितं सोऽपि औंकारगिरिरुच्यते ।उवाच वचनं शंभुः साक्षाद् भूत्वा पितामहम् ॥७०॥इष्टिं कुरु महारौद्रीं दैत्यानां प्रक्षयंकरीम् ।ततो ब्रह्मा चकारेष्टिं देवानां शान्तिकारिणीम् ॥७१॥इत्याद्यास्तद्भयाद् भग्ना जग्मुस्ते तु रसातलम् ।ओंकारस्य प्रभावेण देवा जाताश्च निर्भयाः ॥७९॥ओंकारं शंकरं प्रार्च्य ययुर्दिवं सुरादयः ।कल्पान्तगं महालिंगं पर्वताग्रे विराजते ॥७३॥पञ्चब्रह्म पञ्चवक्त्रं नवशक्तिसमन्वितम् ।शंखकुन्देन्दुसंकाशं सद्यो वक्त्रं तु पश्चिमम् ॥७४॥ऋग्वेदो निर्गतो यस्माद् ब्रह्मा तत्राधिदेवता ।उत्तरं वामदेवं तु पीताभं सुमनोहरम् ॥७५॥यजुर्वेदोद्भवं विद्धि विष्णुस्तत्राऽधिदेवता ।अघोरं मेघवर्णाभं याम्यां दिशि समस्थितम् ॥७६॥सामवेदोद्भवं विद्धि सूर्यकालादैवतम् ।पूर्वे तत्पुरुषं ज्ञेयं कुंकुमारुणसन्निभम् ॥७७॥अथर्वं निर्गतं तुर्यमापस्तत्राऽधिदेवताः ।ईशानेस्तववक्त्रं तु पञ्चवर्णं महातनुम् ॥७८॥श्रुतिसिद्धान्तसंगीतं सोमं तत्राधिदेवता ।षष्ठं सदाशिवं नाम निर्भागं च निरामयम् ॥७९॥एतत्ते कथितं सर्वमोंकारस्य तु वर्णनम्॥ओंकारदक्षिणामूर्तिं पूजयेन्मोक्षमाप्नुयात् ॥८०॥दद्याद् गृहस्य सामग्री: पूजोपकरणानि च ।जीर्णोद्धारादिकं ध्वजदण्डघण्टादि कारयेत् ॥८१॥वस्त्रभूषामृदंगादि दद्यादोंकारमूर्तये ।उद्यानवाटिकाक्षेत्रादीनि तस्मै निवेदयेत् ॥८२॥तस्य दानफलस्येह संख्यां कर्तुं न शक्यते ।दाता भुक्तिं तथा मुक्तिं लभते नात्र संशयः ॥८३॥धुन्धुमारोऽभवद्राजा देवताऽतिथिपूजकः ।ययौ विन्ध्याचलं रेवावनं विवेश तत्र च ॥८४॥वाराहं श्वेतवर्णं स गर्जन्तं प्रददर्श ह ।हन्तुं तं यावद् यतते तावत् क्रोडोऽपि तत्क्षणम् ॥८५॥विवेश जलमध्ये च कोटितीर्थेऽथ तं तथा ।प्रविश्यन्तं पृष्ठतोऽनुजगाम सोऽपि भूपतिः ॥८६॥तावत् क्रोडो दिव्यदेहो भूत्वा विमानमास्थितः ।तं च तथाविधं दृष्ट्वा राजा पप्रच्छ कारणम् ॥८७॥दिव्यरूपधरो देवो वराहश्चाह भूभृतम् ।अहँ शंभुगणो नाम्ना ह्यंगदोऽस्मि सुगायकः ॥८८॥दृष्ट्वोर्वशीं च रंभां चाऽप्यभूवं काममोहितः ।व्याहरन् शूकरीं वाणीं कामक्रीडामयोऽभवम् ॥८९॥नन्दी शशाप मां दृष्ट्वा शूकरोऽरण्यके भव ।मया प्रसादितो नन्दी शापान्तं वरमादिशत् ॥९०॥दर्शनाद् धुन्धुमारस्य कोटितीर्थनिषेवणात् ।त्यक्त्वा तु सौकरीं योनिं कैलासं चागमिष्यसि ॥११॥एवमुक्त्वा स्वस्ति तेऽस्तु समुचार्य ययौ गणः ।राजा शिलातले तत्र निषसाद् क्षणं ततः ॥९२॥राज्ञो हयो नर्मदाया जलपानं समाकरोत् ।तावत् सोऽप्यभवद् दिव्यो विमानस्थोऽम्बरेऽभवत् ll९३llद्विजो भूत्वाऽब्रवीद् भूपं गालवोऽहं पुराऽभवम् ।ब्रह्मर्षिः कौरवे क्षेत्रे वाजिदानप्रतिग्रहात् ॥९४॥दग्धो वाजितनुं प्राप्य रेवायोगेन मोक्षणम् ।प्राप्तोऽस्मि यामि वै सत्यं ब्रह्मलोकं ममालयम् ॥९५॥मया राजन् पुरा राज्ञो दुमत्सेनात् प्रतिग्रह: ! गृहीतः कारणवशाच्छृणु तत्कथयामि ते ॥९६॥राजा मध्यप्रदेशस्य गजवाजिरथादिकम् ।स्वर्णरत्नाम्बराभूषादिकं नीत्वा रविग्रहे ।ll९७llकुरुक्षेत्रं समायातो दानार्पणाय सर्वथा ।किन्तु विप्रा विमृश्यैव राज्ञो घोरं प्रतिग्रहम् ॥९८॥न जगृहुस्तदा राजा स्थानं विप्रान् निनिन्द च ।अब्रह्मण्यमिदं स्थानं ब्रह्महीनं न याजनम् ॥९९॥लीनं ब्रह्मबलं सर्वं दानपात्रं न विद्यते ।आाकर्ण्य नृपतेर्वाक्यं मया बलं प्रदर्शितम् ॥१००॥गालवोऽहं देहि दानं ग्रहीष्ये विद्यते बलम् ।राजा राज्योपयोग्यानि ददौ वस्तूनि मे तदा ॥१०१॥अहं राजसमो जातो राज्यभोगसमन्वितः ।राजा ययौ ततश्चाहं त्यक्त्वाऽग्निहोत्र प्रभृति ॥१०२॥व्यचरं बहुभोगेषु मृत्वा वाश्वोऽभवं तव ।सोऽहं रेवाजलेनाऽद्य मुक्तोऽस्म्यस्तु च ते शुभम् ॥१०३॥एवमुक्त्वा गालवस्तु ययौ सत्यं निजालयम् ।राजा विचारयामास विनाऽश्वं यामि कुत्र वै ॥१०४॥तावत् त्रिनेत्रा युवती साक्षादागत्य चाह तम् ।अस्म्यहं कपिला नाम्नी सरिन्नार्मदवारिगा ॥१०५॥त्वं च राजन् मम वार्षुं स्नात्वा जलं पिबाऽत्र मे ।राज्यं कृत्वा दिवं याहि सान्तःपुरपरिच्छदः ।१०६॥यं यं चिन्तयसे कामं तं तं प्राप्नोषि सुव्रत ।एवमुक्त्वा ययौ चान्तर्धानं सा कपिला नदी ॥१०७॥प्रणिपत्य च भूपस्तां स्वपुरं प्रति संययौ ।श्रवणात् कीर्तनादस्थ मुच्यते भवबन्धनात् ॥१०८॥इत्येवं कथितं तीर्थमाहात्म्यं शंकरेण वै ।शिवायै तन्मयोक्तं ते लक्ष्मि ! मोक्षप्रदं परम् ॥१०९॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कोटितीर्थे सूत्रवेष्टनं सूर्यपिंगललिंगं लक्ष्मीनारायणालयः, कावेरीपयोष्णीसोमगंगाचण्डवेगासंगमाः, चन्द्रसेनस्य चण्डालतामुक्तिः, एरण्डीसंगमः, शल्याविशल्यासंगमः, धुन्धुमारस्य वाराहतामुक्तिः, गालवस्य वाजितामुक्तिरित्यादिनिरूपणनामा वतु:षष्ट्यधिकपञ्चशततमोऽध्यायः ॥५६४॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP