संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५६१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५६१ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! शंकरश्च पार्वत्यै प्राह तीर्थकम् ।ज्वालेश्वरं सुविख्यातं कथयामीह तेऽनघे ॥१॥बलेः पुत्रं त्रिपुरं वै बाणं बाणेन शंकरः ।निजघान ततश्चास्त्रं ज्वालामालासमन्वितम् ॥२॥पतितं कल्पगावार्षुं ज्वाला शान्ता तदाऽभवत् ।ज्वालेश्वरं हि तत्प्रोक्तं पापराक्षसनाशनम् ॥३॥अथ रेवाचरुसंगं तीर्थं वै राजते परम् ।नैमिषारण्यके क्षेत्रे पुराऽऽसीन्नगरी शुभा ॥४॥हिरण्यानामतः स्वर्णसाप्तभौमैर्गृहैर्युता ।हिरण्यवेगानाम्नी च नदी चास्ते पुरीयुता ॥५॥हिरण्यबाहुसंज्ञश्च राजा चेयेष वै क्रतुम् ।नैमिषे स ऋषीन् सर्वान् पप्रच्छ यज्ञभूमिकाम् ॥६॥ते तु प्राहुर्महाक्षेत्रं पुष्करं मखयोग्यकम् ।तस्मिन्निष्टं हुतं सर्वं पुण्यं कोटिगुणं भवेत्। ॥७॥राजा प्राह क्रतुर्मे पुष्करे निष्पाद्यतां शुभः ।ततो जगाम राजर्षिः पुष्करं सर्वसंभृतः ॥८॥गवां च दशलक्षाणि सार्धं लक्षं तु वाजिनाम् ।द्विपञ्चाशत्सहस्राणि गजेन्द्राणां रथाऽयुतम् ॥९॥मणिमाणिक्यरत्नानि वस्त्राण्याभरणानि च ।तेषां संख्या त्वसंख्यैव कुबेरस्य धनं यथा ॥१०॥भक्ष्यभोज्यानि पानानि प्रवर्तन्ते दिवानिशम् ।प्रवर्तितस्ततो यज्ञश्चाहूतो यत्र विश्वसृट् ॥११॥शुक्रश्चापि तदाहूतो नान्ये देवा हि भूसुरैः ।अन्यदेवैश्च किं कार्यं द्वाभ्यां सर्वं प्रपूजितम् ॥१२॥न विष्णुश्च न चादित्या न चन्द्रो वरुणो न च ।न रुद्रो न मरुतश्च नाऽन्ये दिश्या न पालकाः ॥१३॥यज्ञे प्रवर्तिते यज्ञच्छिद्रान्वेषणतत्पराः ।विघ्नं कर्तुं समायाता ह्यसुरा देवकण्टकाः ॥१४॥सर्वशो दानवा दैत्या भूतवेतालराक्षसाः ।पिबन्ति सोमं यज्ञांगं भक्षयन्ति स्म भूसुरान् ॥१५॥अग्निर्विनाशितो यज्ञयूपश्च मण्डपो हतः ।ब्रह्मा शक्रो देवताश्च वीक्ष्याऽऽकस्मिकनष्टताम् ॥१६॥अदृश्यतां गतास्तस्मात् स्थानाद् विघ्नमयात्ततः ।हिरण्यबाहुः कुपितो ब्राह्मणान् प्रति वै तदा ॥१७॥यज्ञे ज्येष्ठाननाहूय देवान् विप्रा हि भिक्षुकाः ।अपलायन्त मे यज्ञं त्यक्त्वा स्वार्थपरा यतः ॥१८॥अथ दैत्याः प्रसंगृह्य संभारान् प्रययुर्गृहान् ।राजाऽविचारयन्नाऽयं पौरुषस्य क्षणो मम ॥१९॥न कोपस्य न युद्धस्य रुष्टे देवादिमण्डले ।एकाकी हयमारुह्य सहपत्न्या व्रजाम्यहम् ॥२०॥यत्राऽऽदित्या न न विष्णुर्न रुद्रो न च चन्द्रमाः ।तथाऽन्ये न दिशापालाः कथं यज्ञः सुसिद्ध्यति ॥२१॥लोलुपा ब्राह्मणाः सर्वजिहिर्षवो न रक्षकाः ।किन्तु ते ध्वंसका जाता लोभमूला अशक्तकाः ॥२२॥यदि मे विद्यते सत्यं भवन्तु ब्रह्मराक्षसाः ।सकण्टके निरुदके प्रदेशे नष्टचेतनाः ॥२३॥शापं श्रुत्वा च वै विप्रैः शप्तो राजाऽपि दूरतः ।अरक्षिता त्वं यज्ञस्य क्षत्रियाधम एव च ॥२४॥अनघानां ब्राह्मणानां शापदो भव वै खरः ।वने द्वादशवर्षाणि बभूवुः खरराक्षसाः ॥२५॥अथ काले गतेऽरण्ये देवर्षिर्नारदो मुनिः ।आजगाम ददर्शैतान् खरं च राक्षसाँस्तथा ॥२६॥खरो ननाम देवर्षिं पप्रच्छ मोक्षकारणम् ।नारदस्तु तदा प्राह नार्मदं जलमुत्तमम् ॥२७॥रेवाचरुकसम्भेदे स्नात्वा मुक्तिं प्रयास्यसि ।ब्राह्मणा राक्षसाश्चापि स्नात्वा यास्यन्ति मोक्षणम् ॥२८॥इत्युक्तास्ते ययू रेवां रेवाचरुकसंगमे ।स्नात्वा मुक्तिं गताः सर्वे नर्मदाजलसंगमात् ॥२९॥ब्रह्मयानसमारूढाः स्तूयमानाश्च बन्दिभिः ।ययुर्दिव्यं ब्रह्मलोकं नर्मदावारिसंगमात् ॥३०॥यत्र विष्णुस्तथा रुद्रो सूर्यो नारायणस्तथा ।तत्र श्रीर्विजयश्चैव भुक्तिर्मुक्तिश्च शाश्वती ॥३१॥यत्र भक्तिर्गुरौ चास्ते यथा देवे तथा गुरौ ।तस्य कामाः प्रसिद्ध्यन्ति गुर्वात्मकहरेर्बलात् ॥३२॥श्रवणात् कीर्तनादस्य स्मरणात् सेवनादपि ।वन्दनाद्धारणाद्वापि मुच्यते भवबन्धनात् ॥३३॥अथाऽतिश्रेष्ठतीर्थं चाऽमरकण्टकमुच्यते ।तदारभ्य गिरिश्रेष्ठं सर्वं पुण्यतमं स्मृतम् ॥३४॥यावद्वै संगता रेवां चतुर्नाम्नी महानदी ।उत्तरे वर्तते यज्ञपर्वतः पावनो महान् ॥३५॥स्वयंभुवा पुरा तस्मिन्नष्टः सौत्रामणिर्मखः ।तत्रैवेष्टं मघवता हयमेधेन वै पुरा ॥३६॥दधीचिनाऽथ देवैश्च तत्रैवेष्टं महामखैः ।स यावत् सगमो नद्याः स यावद्यज्ञपर्वतः ॥३७॥रजः सर्वं पवित्रं वै वर्तते मोक्षदायकम् ।ब्रह्मपुत्रः सुपर्णश्च ऋषिर्यत्राऽभवत्पुरा ॥३८॥संगमे वासकृद् विद्वान् सर्वशास्त्रविचक्षणः ।पुरुहूता तस्य भार्या धर्मपत्नी पतिव्रता ॥३९॥एकदा त्वब्रवीद् वाक्यं संप्रसाद्य निजं पतिम् ।ऋतुकाले यथायोग्ये मां भजस्व महामुने ॥४०॥जायते मे यथापुत्रः सर्वसन्तानपावनः ।पुत्रेण लोकान् जयति तृप्यन्ति पितृदेवताः ॥४१॥अपुत्रस्य गतिर्नास्ति तस्मात्पुत्रमजीजनः ।ब्राह्मणस्तु तदा प्राहाऽमावास्या वर्जिता प्रिये! ॥४२॥नाऽत्र संगः प्रकर्तव्यः पितॄणामपि बाधकः ।दिव्यं वर्षसहस्रं तु तप्तं मे दुष्करं तपः ॥४३॥तद्विनाशो यथा स्यान्न तथाऽन्यत्र दिने तव ।गर्भलाभाय च प्रिये यतिष्ये मा शुचं व्रज ॥४४॥इत्युक्ता सा तदोवाच पत्नी ऋषिं सुपर्णकम् ।पश्यात्र नार्मदे तीर्थे स्नानमात्रेण पापतः ॥४५॥मुक्तो भूत्वा हि चाण्डालो विमानेन दिवं ययौ ।न तप्तं न हुतं तेन न जप्तं न यमाः कृताः ॥४६॥नियमान् स न जानाति तथाप्यसौ दिवं गतः ।व्रतं नैव कृतं तेन राजस्वल्यं न पालितम् ॥४७॥न कृतानि व्रताहानि तथापि स दिवं गतः ।तीर्थस्याऽस्य तु माहात्म्यं परमं तादृशं मुने ॥४८॥स्नानमात्रेण पापानां नाशो भवति सर्वथा ।तस्माद् भोगं भजस्वाऽत्र मां गृहाण कृपानिधे! ॥४९॥भार्यावाक्यं क्वचित् पाल्यं तदा धर्मो न लुप्यते ।ऋतुस्नाता यदा भार्याऽपत्येच्छा प्रबला यदा ॥५०॥भार्याया जायते तत्राऽवश्यं पाल्यं स्त्रिया वचः ।पुत्रोऽवश्यं प्रजायेत ऋतुदानेन वै तदा ॥५१॥तत्र व्रतं विहातव्यं पर्वाऽपि चोत्सवोऽपि च ।अनुत्साहहते काले न गर्भोऽपत्यदायकः ॥५२॥वत्सराणां सहस्रे च विना संगेन वै गते ।एतादृशे स्थले धर्मः प्रियावाक्यं न चेतरः ॥५३॥नाऽपवादो न वा बाधो न वा दोषोऽत्र विद्यते ।दावानले महारण्ये कियन्मात्रं तृणादिकम् ॥५४॥अमृतानां समुद्रेषु कियन्मात्रं विषतृणम् ।मध्याह्नसूर्यवेलायां कियन्मात्रं गृहे तमः ॥५५॥पुण्यपर्वतसंस्थाने कियन्मात्रं ह्यमादिनम् ।तस्मादद्यैव मां नाथ भजाऽतिप्रेमभावतः ॥५६॥अग्रहे यद्भवेत्पापं नाऽमापुण्यं हि तत्समम् ।इत्युक्तश्च पतिस्तत्र भार्या जग्राह कामतः ॥५७॥ददौ पुत्रस्य गर्भं सः पुत्रोऽभूद् भास्करोपमः ।अमाश्राद्धे च पितरो भुक्त्वा ये तृप्तिमागताः ॥५८॥तैरागत्य निशायां च प्रहस्य कथितं तदा ।अद्य गर्भप्रदानस्य प्रायश्चित्तं द्रुतं कुरु ॥५९॥नर्मदायां पुनः स्नात्वा होमं जपं पुनः कुरु ।वयं तृप्ताः प्रसन्नाः स्म सन्तानसन्धिहेतवे ॥६०॥भार्यया चार्थितस्त्वं तां पुत्रार्थं यद् गृहीतवान् ।नार्मदं सलिलं चात्र पावनं पापनाशनम् ॥६१॥ब्रह्महत्याबालहत्यागुरुस्त्रीहननोद्भवम् ।व्रतनाशादिजं पापं व्यवायादिसमुद्भवम् ॥६२॥स्नानमात्रेण रेवायां नश्यत्येव न संशयः ।इत्युक्त्वा पितरस्तस्य ययुः प्रसन्नमानसाः ॥६३॥अनपत्यविनिश्वासहता गर्भेण जीविताः ।अथ कालान्तरे तत्र सुपर्णौो भार्यया सह ॥६४॥विमाने चोज्ज्वले स्थित्वा ययौ ब्रह्मपुरं परम् ।भुक्तिं मुक्तिं गतस्तत्र सुपर्णः संगमोत्तमे ॥६५॥अथ वै पश्चिमे नीलगंगाया नर्मदोत्तरे ।व्यतीपातेश्वरं नाम तीर्थं परमशोभनम् ॥६६॥सावित्र्याश्च तपस्तप्तं सावित्रीकुण्डमस्ति च ।इन्द्रद्युम्नोऽभवद् राजा यज्ञं कर्तुं समीहते ॥६७॥पप्रच्छ च महर्षीन् स धर्मारण्यस्थिताँस्तदा ।मार्कण्डाद्याश्च तं प्राहुर्नार्मदं क्षेत्रमुत्तमम् ॥६८॥राजा तूद्घोषयांचक्रे गन्तुं रेवां प्रजाजनम् ।गवां च त्रीणि लक्षाणि सवत्सानां पयोमुचाम् ॥६९॥अश्वानां श्यामकर्णानां सपादं लक्षमेव च ।दन्तिनामयुतं चापि घण्टाभरणभूषितम् ॥७०॥सहस्राणि च चत्वारि यानानां कामचारिणाम् ।लक्षं तु करभाणां वै मणिमाणिक्यलक्षकम् ॥७१॥अग्निशौचानि वस्त्राणि पात्राणि कानकानि च ।नानाभक्ष्याणि भोज्यानि पानानि विविधानि च ॥७२॥लक्षं कर्मकराणां च तिलदर्भादिकं तथा ।संगृह्य ब्राह्मणैः सार्धं राजा विमानमाश्रितः ॥७३॥मुदा परमया युक्तः सान्तःपुरपरिच्छदः ।धर्मारण्यं ययौ राजा यत्र सा नर्मदा नदी ॥७४॥यात्राऽद्रिर्वर्तते रम्यो वैदूर्यमणिशोभितः ।ओंकारेशस्तथाशंभुर्विराजते महाप्रभः ॥७९॥ओंकारसन्निधौ रेवाकोटितीर्थं विराजते ।अत्र दत्तं हुतं चेष्टं तपस्तप्तं ह्यनन्तकम् ॥७६॥सर्वदा सर्वकार्येषु नर्मदा कोटिपुण्यदा ।त्रिंशद्योजनपर्यन्तं यज्ञयूपाँश्च मण्डपान् ॥७७॥कारयामास राजाऽसौ कुण्डानि विविधानि च ।वेदध्वनितनिर्घोषा दिवं भूमिं समस्पृशन् ॥७८॥निर्धूमश्चाऽभवद् वह्निर्जग्राह घृतहव्यकम् ।ब्रह्माणं च तथा विष्णुं शंकरं च समाह्वयत् ॥७९॥रुद्रा एकादश तत्र तथाऽऽदित्याश्च द्वादश ।विश्वेदेवा स्तथा साध्या मरुतो वसवस्तथा ॥८०॥लोकपालाः समुद्राश्च नद्यः शैलाः सुपादपाः ।दिक्पाला भूतपालाश्च तीर्थानि पितरस्तथा ॥८१॥सिद्धकिन्नरगन्धर्वा नागराक्षसगुह्यकाः ।विद्याध्राश्चारणाश्चाप्याययुस्तत्र क्रतूत्सवे ॥८२॥घृतक्षीरवहा नद्यो दधिपायसकर्दमाः ।बभूवुर्जलपानानि रसपानानि सर्वशः ॥८३॥भक्ष्यभोज्यैश्च विविधैः काम्ययानादिभिस्तथा ।तृप्ता देवाश्च मुनयो भूतग्रामं चतुर्विधम् ॥८४॥एवं निर्वर्तितो यज्ञोऽवभृथं नर्मदाजले ।बभूव दक्षिणातृप्तिः सर्वेषां यज्ञभागिनाम् ॥८५॥ओंकारेशं स्वयं राजा पुपूज हेमरत्नकैः ।मणिमाणिक्यहीराद्यैः कर्पूरागुरुचन्दनैः ॥८६॥गन्धपुष्पैश्च विविधैर्ध्वजच्छत्रविमानकैः ।चामरैर्व्यजनैश्चापि पूजयित्वा हरं हरिम् ॥८७॥तुष्टाव मोक्षदात्रे ते ओंकाराय नमोनमः ।साक्षाद् रुद्रो बभूवाऽथ मूर्तिमान् तस्य सन्निधौ ॥८८॥प्राह वरं वृष्णीष्वेति चेन्द्रद्युम्न उवाच तम् ।आवासं कुरु द्रोण्यां वै सर्वदा यज्ञपर्वते ॥८९॥मृतानां मोक्षणं स्याच्च पापिनामपि चात्र वै ।पर्वतं वेष्टयेद् यस्तु सूत्रेणैकेन पर्वणि ॥९०॥पृथिवी वेष्टिता तेन सशैलवनकानना ।तेन पुण्येन तस्यात्र मोक्षो ब्रह्मपदं भवेत्। ॥९१॥तथाऽस्त्विति हरः प्राह तत्रैवाऽन्तरधीयत ।ब्रह्मा प्राह च राजानं वरदानार्थमेव च ॥९२॥राजा प्राहाऽत्र वै ब्रह्मन् लिंगमूर्तिधरो भव ।तथास्त्विति प्रोच्य तत्र ब्रह्मा चान्तरधीयत ॥९३॥राजा विष्णुं प्रतुष्टाव साष्टांगं प्रणिपत्य च ।केशवं माधवं विष्णुं गोविन्दं मधुसूदनम् ॥९४॥पद्मनाभं हृषीकेशं श्रीधरं च त्रिविक्रमम् ।दामोदरं वासुदेवं श्रीहरिं कम्भरासुतम् ॥९५॥गोपालबालं राधेशं श्रीशं रमेश्वरं प्रभुम् ।अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥९६॥मंजुलेशं पार्वतीशं प्रभेशं माणिकीपतिम् ।लक्ष्मीनारायणं हंसाजयानाथं नमाम्यहम् ॥९७॥शखचक्रगदाशार्ङ्गवनमालाविभूषणम् ।लोकनाथं जगन्नाथं श्रीनाथ प्रणमाम्यहम् ॥९८॥अक्षरेश च मुक्तेश ललितेश नमोऽस्तु ते ।अवतारेश देवेश व्यूहेश च नमोऽस्तु ते ॥९९॥ईश्वरेश च मायेश दुर्गेश जाह्नवीपते ।जीवेशाऽनन्तयज्ञेश यज्ञाधिप नमोऽस्तु ते ॥१००॥वेदात्मकाय कान्ताय धर्मपुत्राय ते नमः ।ब्रह्मव्रतधरायाऽत्रिगुणाय च नमोऽस्तु ते ॥१०१॥प्रकृतीशाय शान्ताय वैकुण्ठस्थाय ते नमः ।नृसिंहमत्स्यवाराहकूर्मरूपाय ते नमः ॥१०२॥साधुवेषधरायादिकारणाय च ते नमः ।सहस्रशिरसे वेद्यपुरुषाय च ते नमः ॥१०३॥असुराणां दमनार्थं धृतरूपाय ते नमः ।हिरण्यगर्भरूपायाऽमृतधाम्ने च ते नमः ॥१०४॥सर्वगर्भाय कृष्णायाऽन्तरात्मने च ते नमः ।स्रष्ट्रेऽवित्रे च संहर्त्रे कार्यरूपाय ते नमः ॥१०५॥सर्वदिक्पालरूपाय लोकपालात्मने नमः ।अर्धनारीस्वरूपाय त्रिदेवाय च ते नमः ॥१०६॥अनन्ताऽऽनन्दनिधये ब्रह्मधाम्ने च ते नमः ।कर्मफलप्रदात्रे ते चाऽन्तःस्थाय नमो नमः ॥१०७॥सौराष्ट्रकृतवासाय श्रीकृष्णाय परात्मने ।कोटिगोपीकान्त तुभ्यं सुखदाय नमो नमः ॥१०८॥ब्राह्मतेजसे क्षत्राणां वीर्यरूपाय ते नमः ।विशां सम्पत्स्वरूपाय शरण्याय च ते नमः ॥१०९॥पातिव्रत्यस्वरूपाय पत्नीवृषाय ते नमः ।सदोर्ध्वरेतसे कृष्ण मोक्षदाय च ते नमः ॥११०॥साधुषु सर्वदा स्थात्रे बालरूपाय ते नमः ।नमो भक्तमनःकामपूरकाय नमो नमः ॥१११॥ज्ञानदाय तथेच्छासंप्रदाय यत्नदाय च ।क्रियादात्रे फलदात्रे भोक्त्रे भोग्याय ते नमः ॥११२॥प्रकाशाय परेशाय जीवस्थाय च ते नमः ।सर्वदेहिनिवासाय शक्तियोग्याय ते नमः ॥११३॥अचिन्त्यगुणधाम्ने ते दिव्यदेहाय ते नमः ।अपारैश्वर्यधात्रे ते दृश्यरूपाय ते नमः ॥११४॥अदृश्यरूपरूपाय नित्यज्ञाय च ते नमः ।सर्वतत्त्वस्वरूपाय मण्डपाय च ते नमः ॥११५॥पञ्चाग्निकृतरूपाय व्रतस्थाय च ते नमः ।पुण्यदाय महेशाय सर्वेशाय च ते नमः ॥११६॥सर्वदुःखविनाशित्रे वह्निरूपाय ते नमः ।नमोऽस्तु स्रुक्स्रुवाद्यात्मयज्ञपात्राय ते नमः ॥११७॥दक्षिणापतये तुभ्यं चाशीर्वादाय ते नमः ।तृप्तये शान्तिरूपाय रसरूपाय ते नमः ॥११८॥सर्वेन्द्रियनिवासाय सत्यकामाय ते नमः ।आदित्यादिस्वरूपाय वृषरूपाय ते नमः ॥११९॥नमस्कारस्य पात्रायाऽर्पणपात्राय ते नमः ।त्वत्प्रसादात् कृपासिन्धो यज्ञसिद्धिर्ममाऽभवत्१२०॥करं गृहाण मे विष्णो यथा पत्नीकरं वरः ।देहि मे चरणे वासं नान्यं वृणोमि केशव! ॥१२१॥विष्णुः श्रुत्वा परं स्तोत्रं प्रसन्नः प्राह भूपतिम् ।वरं वृणु वरं राजन् यत्ते मनसि वर्तते ॥१२२॥ददामि ते न सन्देहो यज्ञसिद्धिर्भविष्यति ।इन्द्रद्युम्नस्तदोवाच ओंकारनाथसन्निधौ ॥१२३॥वैदूर्यपर्वते कृष्ण निवासं कुरु सर्वदा ।येन मोक्षो भवेत्तत्र चागतानां तवाऽर्चनात् ॥१२४॥दर्शनाद् वन्दनाच्चापि सेवनादवगाहनात् ।प्राणत्यागे देहिनां च गमनं ते पदे भवेत् ॥१२५॥पितॄणामन्नदानेन यान्तु ते वैष्णवं पदम् ।अपि कीटपतंगाद्या यान्त्वत्र परमां गतिम् ॥१२६॥तथास्त्विति हरिः प्राह चावाततार तत्र च ।तीर्थान्यपि स्थितान्यत्र नारायणपदाम्बुजे ॥१२७॥अवतेरुश्च तीर्थानि नर्मदायां क्रतुक्षितौ ।नीलगंगासंगमे च वर्तन्ते मोक्षदानि वै ॥१२८॥राजा रेवां प्रतुष्टाव सप्तधारामयी भव ।इत्येवमर्थयामास सापि सप्तप्रवाहिणी ॥१२९॥सञ्जाता मोक्षदा रेवा सर्वतीर्थमयी सती ।दानं हुतं जपस्तप्तं सर्वमत्राऽक्षयं भवेत्। ॥१३०॥इत्येवं वै क्रतुं कृत्वा चेन्द्रद्युम्नो हि नर्मदाम् ।विष्णुं देवान् तथौंकारं नमस्कृत्य ययौ गृहम् ॥१३१॥देवाद्या मानवाद्याश्च यज्ञे तृप्ता ययुर्गृहम् ।श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥१३२॥शंकरः पार्वतीं प्राह मोक्षश्चात्र भवेत् प्रिये! ।लक्ष्मि! तीर्थं मयोक्तं ते भुक्तिमुक्तिप्रदं परम् ॥१३३॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जालेश्वरतीर्थं हिरण्यबाहुराज्ञो गर्दभतामुक्तिः, रेवाचरुकसंभेदतीर्थम्, अमरकण्टकतीर्थं, यज्ञपर्वतः, सुपर्णकथा, ओंकारतीर्थमित्यादिनिरूपणनामैकषष्ट्यधिकपञ्चशततमोऽध्यायः ॥५६१॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP