संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५५४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५५४ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! हरः प्राह पार्वतीं तीर्थमण्डलम् ।विश्वावसुस्तपस्तेपे सिद्धः शिवपरायणः ॥१॥तुतोष नृपतेस्तस्य शंभुर्दर्शनमाययौ ।वरं वृणु समुवाच सिद्धिं वव्रे हराच्च सः ॥२॥सिद्धेश्वरं च तल्लिंगं तीर्थरूपं व्यजायत ।शुक्रेश्वरं च शुक्रेण स्थापितं तीर्थमुच्यते ॥३॥शुक्रः श्रीशंकरात् प्राप्तस्तपस्तप्त्वाऽत्र दुष्करम् ।विद्यां सञ्जीवनीं मृत्युञ्जयां सन्धायिनीं तथा ॥४॥तत्राऽस्ति निर्झरणं च जलस्य पावनं शुभम् ।तत्र कुण्डे जनः स्नात्वाऽल्पमृत्युभयमुत्सृजेत् ॥५॥ततो गच्छेद् वालखिल्यतपःस्थानं सुपावनम् ।तत्र कुण्डे जनः स्नात्वा दिव्यरूपधरो भवेत् ॥६॥किरातवनिता तत्र कुरूपाऽपि तृषान्विता ।जलं पातुं ययौ दृष्ट्वा स्नानार्हं जलमुत्तमम् ॥७॥स्नात्वा यावद्बहिर्याति दिव्या देवी तदाऽभवत् ।तस्याः पतिस्तु तां दृष्ट्वा पप्रच्छ काऽसि सुन्दरि! ॥८॥मम पत्नी समायाता कुण्डेऽत्र जलवाञ्च्छया ।त्वया दृष्टा कृष्णवर्णा चेद् यदि वद देविके ॥९॥सा चोवाच निजं कान्तं तवैव दयिताऽस्म्यहम् ।कुण्डस्नानप्रभावेण जाताऽस्मि देवकन्यका ॥१०॥स्वामिस्त्वं स्नाहि कुण्डेऽत्र देवतुल्यो भविष्यसि ।इत्युक्तः स्नानमकरोत् तावन्नष्टान्यघानि वै ॥११॥देहं त्यक्त्वा मृतिं यातो वनितापि पतिव्रता ।पुनः स्नात्वा तनुं त्यक्त्वा विमानेन सुवर्चसा ॥१२॥देवकन्याभिराजुष्टा स्वामिना सह सुन्दरी ।नमस्कृत्वा शुभं तीर्थं प्रययौ त्रिदिवं प्रति ॥१३॥मणिकर्णाऽभिधा यत्र किराती मोक्षणं गता ।माणिकर्णेश्वरः कुण्डं लिंगं तीर्थं हि तन्मतम् ॥१४॥वालखिल्यास्तत्र नित्यं तिष्ठन्ति कुतुपे शुभे ।तत्र सूर्यग्रहे स्नानं कुरुक्षेत्रस्य पुण्यदम् ॥१५॥स्नाने यत्स्मरणं स्यात् तत्प्राप्यते नात्र संशयः ।अथाऽपरं पङ्गुतीर्थं पङ्गुविप्रेण संस्थितम् ॥१६॥च्यवनस्याऽन्वये पङ्गुनामा विप्रः कदाचन ।शनैः शनैः समायातोऽर्बुदे सार्थस्य योगतः ॥१७॥एकं निर्झरमासाद्य तपस्तेपे सुदारुणम् ।शिवभक्तिपरो वायुभक्षो होमजपक्रियः ॥१८॥तस्य तुष्टो महादेवः साक्षात्तत्र समाययौ ।चैत्रशुक्लचतुर्दश्यां वरदानं ददौ हरः ॥१९॥याहि मोक्षं पङ्गुभावं विहाय दिव्यदेहवान् ।स च मोक्षं गतो नत्वा पङ्गुतीर्थं हि तन्मतम् ॥२ ०॥यत्रोमासहितः शंभू राजते निर्झरान्तिके ।स्नात्वा पीत्वा जलं याति मोक्षं शंभोः प्रसादतः ॥२१॥अथ चित्रांगदो राजा पुरा पापपरोऽभवत् ।मृगयार्थं वनं यातोऽर्बुदे ह्रदसमीपतः ॥२२॥जलपानाय च यातः स्नातस्तत्र ह्रदे तथा ।अकस्मात्स धृतो राजा ग्राहेण भक्षितोऽपि च ॥२३॥-२२८च्छ्रष्टपुच्छ्र यमराजश्च तान् प्राहाऽर्बुदे मत्तीर्थके स्थले ॥२४॥मृतोऽयं वै ह्रदे पुण्ये नाऽयं दण्डार्ह एव यत्॥यातु स्वर्गं सहस्राणि युगानां त्वेकविंशतिः ॥२५॥यत्र पूर्वं मया तप्तं तपस्तत्र मृतो ह्यसौ ।तत्र तीर्थे जनः स्नाता स्वर्गं प्राप्स्यति निश्चितम् ॥२६॥यमतीर्थं हि तत्प्रोक्तं चित्रांगदविमुक्तिदम् ।पुण्ड्रोदं च ततस्तीर्थं गच्छेत् पापप्रणाशकम् ॥२७॥पुरा पुण्ड्रोदको नाम विप्रो वैराग्यमास्थितः ।अर्बुदे निर्झरे रम्ये मर्तुकामः समाययौ ॥२८॥एकस्मिन्नेव काले तु तत्रैव च सरस्वती ।वीणाविनोदसंयुक्ता विविक्ते पथि संस्थिता ॥२९॥उवाच ब्राह्मणं देवी वद किं तेऽस्ति वाञ्छितम् ।स प्राह नास्ति मे बुद्धिरूपाध्यायैस्तिरस्कृतः ॥३०॥न मे सरस्वती माता जिह्वाऽग्रे वर्तते यतः ।मर्तुमिच्छामि चात्रैव येन श्रेयो भविष्यति ॥३१॥माता प्राह प्रसादान्मे वाणी तेऽस्तु सदोत्तमा ।विद्या वेदादिजन्यास्ते त्रासन्तां तर्कशोभनाः ॥३२॥अद्यप्रभृति वाग्मी त्वमत्र लोके भविष्यसि ।सारस्वतं शुभं तीर्थं पुण्ड्रोदाख्यं भविष्यति ॥३३॥त्रयोदश्यां स्नानकर्ता विद्वान् सम्यग् भविष्यति ।एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ॥३४॥पुण्ड्रोदको हि सर्वज्ञो भूत्वा त्वन्ते दिवं ययौ ।ततो गच्छेन्नलतीर्थं श्रीमाता यत्र राजते ॥२५॥नलाख्ये शिखरे तत्र बाष्कलिर्नाम दानवः ।पुराऽभवन्महाघोरस्तद्विनाशाय पार्वती ॥३६॥श्रीमाता रूपिणी जाता हिताय जगतां सती ।बाष्कलिं च जीवग्राहं गृहीत्वा मृत्युवर्जितम् ॥३७॥पर्वतस्य महच्छृंगं नत्वा तस्योपरि स्वयम् ।निविष्टा सा जगन्माता वसत्यालोकरक्षिणी ॥३८॥तत्रैव पादुके दिव्ये तया न्यस्ते शुभे ततः ।करोति तद्दर्शनं यः संसारं स न पश्यति ॥३९॥मत्पादुकाभराक्रान्तो बाष्कलिर्दैत्यपुंगवः ।नाऽस्मात् स्थानाद् बहिः क्वापि निर्गत्योर्ध्वं गमिष्यति ॥४०॥चैत्रे चतुर्दशीरात्रौ पादुकापूजनं मम ।कर्तव्यं गह्वरे तत्र निवत्स्याम्यणुरूपिणी ॥४१॥अत्र तीर्थं करिष्यन्ति यै ते कैलासवासिनः ।भविष्यन्ति न सन्देहश्चेत्युक्त्वाऽदृश्यतां गता ॥४२॥ततो गच्छेच्छुंभनाशकरीं विन्ध्याचलीं सतीम् ।अर्बुदे दिव्यरूपेण राजते सा शिवाज्ञया ॥४३॥गुहामध्यं समासाद्य विविक्ते दुर्गमे स्थले ।यस्तां पश्यति भावेन सर्वमीप्सितमाप्नुयात् ॥४४॥अथ पूर्वे तपस्तप्तं मंकिना ब्राह्मणेन वै ।पूर्वं विप्रो महामूर्खः पर्वते महिषीं शुभाम् ॥४५॥दुग्धदां रक्षयामास तथाऽन्या महिषीः पुनः ।ताश्च विक्रीय भूक्षेत्रं वृषद्वयं च जगृहे ॥४६॥वृषौ क्वचिद् धुरि न्यस्तौ तावदुष्ट्रः समागतः ।आघ्राय तौ धुराकाष्ठे ग्रीवां प्रोतां चकार सः ॥४७॥अथोष्ट्रः स भययुक्तो गले प्रालग्नगोधुरः ।गोयुगेन हि ग्रीवायां लम्बमानेन वै तदा ॥४८॥दुद्राव तेन तु वृषौ विप्राणो वै मृतौ ततः ।मंकिर्वैराग्यमापन्नो निर्झरे चार्बुदाचले ॥४९॥समाश्रित्य तपो घोरं चकार प्रजपन् हरिम् ।मंकिः पिण्डारकः सोऽयं द्दर्श शंकरं पुरः ॥५०॥तुष्टाव तं तथा मुक्तिं जगाम शंकरेच्छया ।मंकेः पिण्डारकस्यैतत् स्थलं पिण्डारकं ततः ॥ ५१॥ख्यातं पिण्डारकं तीर्थे स्नातव्यं त्वष्टमीतिथौ ।देयं गोमहिषीदानं भुक्तिं मुक्तिं लभेत् ततः ॥५२॥रक्ताबन्धं शुभं तीर्थं गच्छेत् ततोऽर्बुदाचले ।पुराऽऽसीत् पार्थिवो नाम्ना इन्द्रसेनो महाबलः ॥५३॥तस्य पत्नी सुनन्दाऽऽसीत् पातिव्रत्यपरायणा ।राजा ययौ रणे योद्ध जीत्वा शत्रून् समागतः ॥५४॥दूतं स प्रेषयामास राज्ञीं प्रति परीक्षया ।सुनन्दां ब्रूहि गत्वा त्वम् इन्द्रसेनो हतो रणे ॥५५॥श्रुत्वा करोति कां चेष्टां विदित्वाकारमेव तु ।मरणाय यदि यत्नं कुर्याद् रक्ष्या प्रयत्नतः ॥५६॥इत्युक्तः स गतो दूतश्चोवाचापि यथोदितम् ।सुनन्दाऽऽकर्ण्य शीघ्रं स्वप्राणान् जहौ निरुद्ध्य वै ॥५७॥हत्यापापं नृपे लग्नं हास्यपरीक्षयोत्थितम् ।राज्ञो गुरुतरं कायं सालस्यं समपद्यत ॥५८॥तेजोहीनं विवर्णं च प्रसन्नता विवर्जितम् ।गृहमागत्य राजा स ज्ञात्वा तत् पर्यदेवयत्। ॥५९॥स्त्रीहत्याया विनाशार्थं ततस्तीर्थाय निर्ययौ ।प्राप्तौ रक्तानुबन्धाख्यं तीर्थं चार्बुदपर्वते ॥६०॥तत्र स्नात्वा विनिष्क्रान्तो यावन्निजं प्रपश्यति ।तावन्न दृश्यते छाया या लग्ना स्त्रीवधोद्भवा ॥६१॥सुरूपो वीर्यवान् जातस्तेजोवृद्धिः पराऽभवत् ।तत्र तीर्थे तपस्तप्त्वा विसृज्य वर्ष्म योगतः ॥६२॥आरुह्य दिव्ययानं च कैलासं प्रययौ द्रुतम् ।प्राणिनामनुरक्तानां तारणं प्रकरोति तत् ॥६३॥तीर्थं रक्तोद्धारकं तन्नाम्ना ख्यातं ततः सदा ।विनायकं शुभं तीर्थं कुर्याद् विघ्नप्रशान्तये ॥६४॥ततः पार्श्वेश्वरं तीर्थं गच्छेत् पापप्रणाशनम् ।देवलस्याऽभवत्पत्नी पार्थाऽभिधा पतिव्रता ॥६५॥तया तप्तं तपस्तत्र वन्ध्यात्वनाशहेतवे ।साऽत्र ददर्श शंभुं वै पुत्रवरं ललाभ च ॥६६॥पुत्रशतं ततः प्राप्तं शंकरस्य वरात् तया ।यत्राऽस्ति निर्मलं तोयं गिरिगह्वरनिःसृतम् ॥६७॥तीर्थस्याऽस्य विधानेन दारपुत्रादिकं लभेत् ।मांमुञ्चह्रदतीर्थं च कर्तव्यं मोक्षकाङ्क्षिणा ॥६८॥मुद्गलर्षिः पुरा तत्र तपस्तेपेऽतिदारुणम् ।ओं नमः श्रीकृष्णनारायणेति जपन् सदा ॥६९॥अर्बुदे त्रिषवणश्च बभूव क्षीणकल्मषः ।तं तु नेतुं महास्वर्गं देवदूतः समागतः ॥७०॥विमानस्थो मुनिं प्राहाऽऽरुहैतद् गम्यतां दिविं ।इन्द्रेण प्रेषितश्चाऽस्मि शीघ्रमागच्छ मा चिरम् ॥७१॥पप्रच्छ मुद्गलस्तं वै गुणान् दोषान् दिवस्तथा ।श्रुत्वा यास्यामि चेन्मन्ये क्षमं स्वर्गं शुभं मम ॥७२॥दूतः प्राह स्वकैः पुण्यैः प्राप्यते स्वर्जनै मुने! ।मुनिः प्राह यर्थार्थं तत्फलं श्रावय मेऽनुग ॥७३॥अश्रुतैस्तैर्न गच्छेयमिति मे हृदि निश्चितम् ।चरिष्ये च तपो भूरि पूजयिष्ये नरायणम् ॥७४॥दूतः प्राह गुणान् सर्वान् यौवनं सर्वथा समम् ।नन्दनादीनि रम्याणि दिव्यदेववनानि च ॥७५॥अनन्यसदृशा भोगाः सदा तृप्तिप्रदाः सुखाः ।बुभुक्षा नैव न तृष्णा नाऽऽलस्यं नाऽपि निद्रिका ॥७६॥देव्यो रम्याश्चैकरूपा भोगयोग्याः पुनः पुनः ।गान्धर्वा गायनं नित्यं श्रावयन्ति च वाद्यजम् ॥७७॥रमयन्ति गृहे रामा गीतनृत्यप्रहासनैः ।न च रोगाः शरीरेषु पुष्टिस्त्वमृतसंभवा ॥७८॥वीर्यं देहे पूर्णतत्त्वं ह्रासो यस्य न विद्यते ।भोज्यं चामृतमेवाऽस्ति बहुधा स्वेच्छया कृतम् ॥७९॥वातपित्तकफादीनां संसर्गो देवतासु न ।दुर्गन्धादि न विद्येत रूपं त्वेकप्रमाणकम् ॥८०॥वृद्धिह्रासौ त्वचां नास्ति मलं चापि न विद्यते ।दिव्यदृष्टिर्दिव्यभोगा दिव्याम्बराणि सन्ति च ॥८१॥व्योममार्गे गतिमन्तः सुराद्या विहरन्ति हि ।विमानान्यप्यसंख्यानि मणिरत्नानि हीरकाः ॥८२॥दिव्यास्तेजोमयाः सर्वे सौधे दीपा निसर्गजाः ।चन्द्रकान्तिसमाऽऽव्याप्तं भवनं प्रतिदैवतम् ॥८३॥दासा दास्यः सहस्राणि पेयरसाश्च कामदाः ।कामचाराः कामभोगा मानसाः सृजिरूपिणः ॥८४॥सहस्रयुगपर्यन्तं पराऽऽयुश्च ततोऽधिकम् ।पुण्यानुरूपं स्वर्गं संभुज्यते भोगदेहिना ॥८५॥यावत्पुण्यक्षयस्तावत् पश्चात् पातमवाप्नुयात् ।एवं गुणाः प्रवर्तन्ते नोदरार्थं हि भृत्यता ॥८६॥नूतनं पुण्यकं स्वर्गे जायते न कथंचन ।तेन पातो भवेत् तस्मात् पुण्यक्षये दिवौकसाम् ॥८७॥अयमेव महान् दोषः पतनं वै भयंकरम् ।कर्मभूमिरियं ब्रह्मन् भोगभूमिर्दिवं मतम् ॥८८॥यदत्र क्रियते श्रेष्ठं पुण्यं तत्रोपभुज्यते ।दानवानां बले जाते क्वचिद्धरन्ति दानवाः ॥८९॥गृहं दाराश्चोपवस्तून्यपि सर्वाणि वै बलात् ।तदिदं दूषणं चापि परभुक्ताः स्त्रियोऽपि च ॥९०॥तथा कोटिगुणितान् वै दृष्ट्वा पुण्यप्रभाविणः ।बहुस्मृद्धानल्पपुण्यः पश्चात्तापं करोत्यपि ॥९१॥न च यैः सुकृतं भूरि कृतं तेऽल्पाः सुदुःखिनः ।यन्न मर्त्ये प्रदत्तं तत्स्वर्गे न प्राप्यते क्वचित् ॥९२॥तद् दुःखं तु महत् प्रोक्तं मानवे पूर्वकर्मवत् ।एतत्ते सर्वमाख्यातं गुणदोषात्मकं दिवम् ॥९३॥आगच्छ सुमुने! शीघ्रं यद्वेप्सितं वदाऽत्र मे ।श्रुत्वा विचार्य तत्सर्वं मर्त्यवत् प्राह मुद्गलः ॥९४॥यथा चात्र तथा तत्र धनदारगृहादिकम् ।क्लेशस्य भाजनं चास्ति पतनस्य भयं तथा ॥९५॥पुण्यहानिः सदा त्वास्ते वर्धनं न हि जायते ।तेन स्वर्गेण मे दूत! नैव कार्यं कथञ्चन ॥९६॥वाच्यस्त्वया ममाऽऽदेशाद् देवराजः स्फुटं वचः ।क्षम्यतामपराधो मे न स्वर्गीया स्पृहा मम ॥९७॥तत्कर्माऽहं करिष्यामि येन स्यात् पतनं न वै ।साधयिष्यामि तान् लोकान् ये सदा भयवर्जिताः ॥९८॥एवं श्रुत्वा मुद्गलं तं स दूतः स्वर्गनिस्पृहम् ।ययौ शीघ्रं महेन्द्रं सम्प्राह विस्तारपूर्वकम् ॥९९॥शक्रः श्रुत्वाऽथ तं प्राह बलादानय तं मुनिम् ।स्वर्गभोगार्थकं पुण्यं नाऽभुक्त्वा क्षयमेष्यति ॥१००॥दूतः श्रुत्वा ययौ तत्र यत्र तिष्ठति मुद्गलः ।विलोक्य मुद्गलः शीलं जलं विवेश योगतः ॥१०१॥दूतः स जडवज्जातो मुनेर्दृष्ट्या विचेष्टकः ।इन्द्रः स्मृतोऽथ दूतेन समायातः सुरेश्वरः ॥१०२॥वज्रहस्तः स्थितो व्योम्नि मुनिं नेतुं समीहते ।स्तम्भयामास चेन्द्रं तं दृष्टिपातेन मुद्गलः ॥१०३॥तदा शक्रः स्तुतिं चक्रे भग्नोत्साहश्च मुञ्च माम् ।स्वर्गे वा यदि वा मर्त्ये तिष्ठ त्वं मुञ्च मां मुने ॥१०४॥मुद्गलः प्राह देवेन्द्र! दुर्लभं दर्शनं तव ।याहि स्वर्गं सदूतस्त्वं स्थास्याम्यत्रैव चाऽनघ ॥१०५॥भजिष्ये श्रीकृष्णनारायणं यास्येऽक्षरं पदम् ।मां मुञ्चेति त्वया प्रोक्तं तीर्थं मांमुञ्चनामकम् ॥१०६॥भवत्विदं सदा प्रख्यं तव शब्देन वज्रभृत् ।फाल्गुने पूर्णमास्यां ये स्नास्यन्त्यत्र ह्रदे जनाः ॥१०७॥तर्पयिष्यन्ति पितॄँश्च यास्यन्ति मोक्षणं हि ते ।श्रुत्वैवं प्रययौ स्वर्गं दूतमादाय वज्रभृत् ॥१०८॥मुद्गलोऽपि परंब्रह्म चिन्तयँस्तत्र संस्थितः ।अनादिश्रीकृष्णनारायणं ध्वात्वाऽक्षरं ययौ ॥१०९॥इत्याह शंकरो लक्ष्मि! पार्वतीं त्वर्बुदाचले ।मया ते कथितं तद्वै मोक्षदं लोकपावनम् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सिद्धतीर्थशुक्रतीर्थमणिकर्णतीर्थपंगुतीर्थयमतीर्थपुण्ड्रोदतीर्थश्रीमातृविन्ध्याचलीमंकिपिण्डारकरक्तोद्धारपार्थामुद्गलमांमुञ्चतीर्थानां सोपाख्यानानां वर्णनं स्वर्गस्य गुणदोषनिरूपणं चेत्यादिनामा चतुःपञ्चाशदधिकपञ्चशततमोऽध्यायः ॥५५४॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP