संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५४५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५४५ Translation - भाषांतर श्रीनारायण उवाचशृणु लक्ष्मि ! शंकरश्च पार्वतीं प्राह पावनम् ।अगस्त्यादिकतीर्थानां वर्णनं प्रवदामि ते ॥१॥न्यंकुमत्यास्तटे दिव्यमगस्त्याश्रममुत्तमम् ।आासीत् पूर्वे कृते वर्षमात्रं तपश्चकार सः ॥२॥अगस्त्यर्षिः कदाचिद्वै ययौ तीर्थसमीहया ।दक्षिणस्यां दिशि तत्र वातापेिरुपशामितः ॥३॥इल्वलो नाम तद्भ्राताऽग्रजः कापट्यसंभ्रतः ।नगर्यां मणिमत्यां स चास वातापिरेव तु ॥४॥अगस्त्यं स चमत्कारं श्रुत्वा तं प्रति चाययौ ।प्राह मे भगवन् पुत्रं देहि महेन्द्रसदृशम् ॥९॥अगस्त्यस्तं चाऽसुरं तु दातुं नैच्छत् सुतं ततः ।चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य तपोभृतः ॥६॥तीर्थयात्रां कुर्वतश्चागस्त्यस्य मार्गमध्यतः ।वातापिः फलरूपोऽभूत् कालिंगरं सुपक्वकम् ॥७॥कामरूपस्तृतीयश्चातापिः पर्णग्रहं शुभम् ।बभूव शोभनमृष्याश्रमरूपं सवेदिकम् ॥८॥इल्वलस्त्वागतानां वै वाटगानां समर्हणम् ।फलभोजनदानाद्यैश्चकार नित्यमेव च || ९|}फलभोजी मार्गगश्चातिथिर्भुक्त्वा फलं ततः ।जलं पिबति यावद्वै तावदिल्वल आसुरः ॥५४५.१०॥आह्वयत्युदरस्थं तं वातापिं सत्फलात्मकम् ।हे वातापे बहिर्याहित्येवं श्रुत्वोदरंगतः ॥११॥सजीवस्तूदरं भित्त्वा निर्यात्येव हि तत्क्षणम् ।त्रयस्ते भ्रातरो हृष्टा मिलित्वा तं मृतं जनम् ॥१२॥खादन्ति नित्यशस्त्वेवं कुर्वन्ति ऋषिहिंसनम् ।तेन पथा ह्यगस्त्यश्च निर्गतो यावदेव ह ॥१३॥आातापिः पर्णशालाऽभूद् वातापिस्तु फलं ह्यभूत् ।इल्वलस्तं तदाऽगस्त्यमतिथिं प्राह हर्षतः ॥१४॥ऋषे भाग्यं मम धन्यं ग्रहाण फलभोजनम् ।अभ्यागतस्य सेवा वै करोति मोक्षणं परम् ॥१५॥अगस्त्यस्तं तथेत्याह निषसाद गृहान्तरे ।इल्वलस्तत्फलं द्वेधा चतुर्धा प्रविभज्य व ॥१६॥अगस्त्यं भोजयामासाऽऽह्वयामासाऽनुजं पुनः ।प्रत्युत्तरं न चाऽवाप पाचयामास तम् ऋषि: l|१७||भ्रामयित्वोदरे हस्तं प्रत्युद्गारं चकार च ।तदा भयँ समापन्न इल्वलस्तत्स्थलात्तदा ॥१८॥चक्रे पलायनं शीघ्रं दुद्रावाऽऽतापिरित्यपि ।तौ मुनिः क्रोधदृष्ट्यैव भस्मीचकार तत्क्षणात् ॥१९॥ततोऽगस्तिर्देहशुद्धिं कर्तुं तीर्थेषु वै चरन् ।समागतोऽत्र वै न्यंकुमत्यास्तटे स्थिरोऽभवत् ॥५४५.२०॥वर्षमात्रं तपश्चक्रेऽगस्त्यतीर्थमिदं हि तत् ।देहशुद्धयर्थमादिष्टं पावनं स्वर्गदं परम् ॥२१॥अथ राजा पुरा चासीन्नृगो नाम जनाधिपः ।स कदाचिद् ययौ तीर्थयात्रार्थं वै प्रभासके ॥२२॥स्वल्पभृत्ययुतो मार्गे सिंहारण्ये दुमालये ।विशश्राम निशायां च लेभे निद्रां शुभां सुखाम् ॥२३llज्ञात्वा पर्वतजाश्चौराः शतशो हेतिसंयुताः ।स्वर्णादि धनमाहर्तुं परितः पर्यवेष्टयन् ॥२४॥राज्ञस्तु रक्षकाः स्वल्पाश्चौरास्तत शताधिकाः ।किं कार्यं प्राणनाशः स्याद्धनहेतोर्न तद्वरम् ॥२५॥मत्वैवं तु नृगः प्राहृ गृह्णन्त्वेतत्तु पुष्कलम् ।आत्मानं रक्षयेत् प्राज्ञो धनैर्दारैस्तथार्जवैः ll२६llयद्यप्यस्मि नृपश्चाहं मया दण्ड्या इमे खला: ।तथापि नास्ति सैन्यं मे वने पर्याप्तमेव यत् ||२७||प्राणग्लहे प्राणहानौ नास्ति चिन्ता यतो नृपः ।किन्तु मोक्षकरी यात्रा न मे स्यादिति हानितः li२८॥द्रव्यं दत्वा च गन्तव्यं यात्रां कृत्वा ततः पुनः ।मार्गयित्वा च तान् सर्वान् नाशयिष्ये रणांगणे ॥२९llविचार्यैवं नृगो यावद् भृत्यान् आाज्ञां करोति च ।धनं दातुं हि चौरेभ्यस्तावद्राज्ञः शरीरतः ll५४५.३०॥एका नारी सशस्त्रा वै समुत्पन्नाऽतिरोषिणी ।हेतिभिस्तान् सर्वचौरान् जघान लीलया रणे ॥३१॥राज्ञा स्वास्थ्यं गतस्तीव्रं ववन्दे तां प्ररक्षणीम् ।सा तु शीघ्रं पुना राज्ञो देहे प्रवेशमास्थिता ॥३२॥ततो राजा ययौ प्रातर्मार्गं प्रभासकस्य सः ।वामदेवमृषिं दृष्ट्वा तपन्तं देविकातटे ॥३३॥विशश्राम क्षणं मध्याह्ने च गुरुत्तमम् ।वामदेवं च पप्रच्छ का कन्याऽऽसीच्छरीरजा ॥३४॥वामदेवः समाधिं च कृत्वा ज्ञात्वा स्व पूर्वजम् ।पुण्यं नृपं समुवाच पूर्वं तं शूद्रकोऽभवः ॥३५॥श्रावणस्य कृता शुक्ला त्वेकादशी तथा त्वया ।उपोषिता द्वादशी च तत्पुण्यं त्वयि संस्थितम् ॥३६॥पुण्यरूपा तु सा कन्या तिथिद्वयस्वरूपिणी ।कन्या चैकादशी सा च हेतयो द्वादशी तिथिः ॥३७॥ताभ्यां चौराः शत्रवस्ते हतास्तीर्थव्रतस्य ते ।एवं वात्र परत्राऽऽद्यं कृतं पुण्यं प्रयाति हि ॥३८॥सखा पुण्यं चात्मनि स्थं सह्रायं सर्वदाऽस्ति तत् ॥तस्मात्तीर्थं व्रतं दानं कर्तव्यं मानवे भवे ॥३९॥इत्युक्तो ज्ञातवान् सर्वं नृगस्तुष्टो बभूव ह ।वामदेवमृषिं नत्वा संपूज्य चोपदा ददौ ॥५४५.४०॥तत्तीर्थं वामदेवस्य मृगस्यापि प्रकीर्तितम् ।सौराष्ट्रे सोमके क्षेत्रे रक्षकं मोक्षदं तथा ॥४१॥सोमनाथं प्रसम्पूज्य ययौ हर्म्यं निजं ततः ।अथाऽऽसीद् देवशर्माख्यो द्विजः प्रभासतीर्थजः ।४२॥न्यंकुमत्यास्तीरे वासं चकार स च निर्धनः ।धनार्थे ग्राममुत्सृज्य चौर्यं कार्यं चकार सः ॥४३॥तस्य पुत्रोऽभवन्नाम्ना दुःसहश्चौर एव सः ।व्यसनोपरतोऽरण्ये जीर्णदेवालये वसन् ||४४||चौर्यं चकार देवस्य दीपं प्रज्वाल्य वै तदा ।जनैर्भृशं ताडितश्च मृतोऽभूच्च शिवालये ||४५||गान्धारविषये राजा ख्यातो नाम्ना तु दुर्मुखः ।प्रजोपद्रवकृन्मूर्खो धर्मकार्यबहिष्कृतः ॥४६॥शिवालयस्य संस्काराच्छिवभक्तोऽभवद्धि सः ।पुष्पस्रग्धूपनैवेद्यगन्धादिभिः शिवं सदा ||४७]]अन्यांश्चाप्यर्चयत्येव सुरान् दीपप्रदानकैः ।यत्र यत्राश्रमे दैवे प्रयात्येव स पाथैिवः ॥४८॥दीपदानं करोत्येव देवालयेषु सर्वदा ।एकदा स च तीर्थेषु विचरन् रैवताचले ॥४९॥सोमनाथं समायातः सिंहारण्ये तु मार्गगः ।न्यंकुमत्यास्तटे प्राप निधनं कालयोगतः ॥५४५.५०॥दीपदानस्य च पूजायाश्च फलेन दुर्मुखः ।विश्रवसः सुतः सोऽभूत् कुबेरो यक्षराडिति ॥५१॥कुबेरस्तु ततो जातिस्मरः प्रभासमाययौ ।यत्र पूर्वं मृतस्त्वासीन्यंकुमत्यास्तटे हि सः ॥५२॥तत्र शंभुं प्रतिष्ठाप्य मन्दिरं निर्ममे हि सः ।तत्तीर्थे तु निजाख्यादियुतं कुबेरशंकरम् ॥५३॥कृतवाँश्च शिवं तत्र तुष्टाव शुभ्रमानसः ।शंकरश्च कुबेराय वरदानत्रयं ददौ ॥५४॥सख्यं धनाधिपत्यं च दिक्पालत्वं दिवौकसाम् ।कुबेरेशं तत्र गत्वा भक्त्या यः पूजयिष्यति ॥५५॥तद्गृहे सप्तपुरुषावधि लक्ष्मी निवत्स्यति ॥अथ कैवर्तको मत्स्यघाती स्वारोचिषेऽन्तरे ॥५६॥समुद्रस्य तटे जालं जलक्लिन्नं शिवालये ।नीत्वा ध्वजस्य दण्डे तज्जाळं दोरकनिर्मितम् ॥५७॥स्थापयामास च यथा ध्वजो दृश्येत जालकृत्।शोषणाय जलस्यैवं जालध्वजोऽभवद्दिनम् ॥५८॥तत्पुण्येन स कैवर्तो जन्मान्तरे तु भूपतिः ।सौराष्ट्रे कुंकुमवापीक्षेत्रे क्रतुध्वजाभिधः ll५९l।राजाऽभवत् प्रतापी च लोमशस्याऽऽश्रमे सदा ।ओं नमः श्रीकृष्णनारायणायेति जपन् सदा ॥५४५.६०॥परमो वैष्णवो जात: शंकरस्य प्रसादतः ।जातिस्मरः प्रददौ च प्रभासे सोमनाथके ॥६१॥ध्वजां शुभ्रां महादीर्घां प्रतिवर्षे ततो ददौ ।दशवर्षसहस्राणि राज्यं चकार भूपतिः ॥६२॥अश्वपट्टसरोमध्ये कृष्णनारायणालयम् ।जीर्णे तन्नूतनं राजा कारयामास श्रृंगवत् ॥६३॥ततो दिव्यविमानेन ययौ वैकुण्ठमेव सः ।पठनाच्छ्रवणाच्चास्य भवेन्मोक्षपदं ध्रुवम् ॥६४॥देवकुलं शुभं क्षेत्रं प्रभासे वर्तते तथा ।ऋषितोया नदी रम्या मिमिळुर्यत्र देवताः ॥६५॥ऋषिभिः प्रार्थिताश्चानावृष्टिकाले तु सत्रके ।तर्षिता बहुयज्ञैश्च वृष्टिर्जाताऽतिशोभना ॥६६॥देवतानामृषीणां च कुळानां समवायतः ।ऋषिकुलाख्यसुसरिद्वरा तीर्थं हि पावनम् ॥६७॥व्याघ्रारण्ये ऋषयस्तु न्यवसन् ये पुरा युगे ।ब्रह्माणं त्वेकदा द्रष्टुं सत्यलोकं ययुर्हि ते ॥६८॥तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्माणं कमलोद्धवम् ।ब्रह्मा तुष्टोऽवदत् सर्वान् वृणुध्वं मानसेप्सितम् ॥६९॥ऋषयस्ते तदा प्राहुः स्नानसन्ध्यादि कर्म यत् ।सामुद्रेण सलिलेन त्वनन्तपुण्यदायकम् ||५४५.७०||जलपाने चातिथीनां सत्कारादौ च भूजलम् ।कूपादीनां भवत्येव वसामो यत्र नित्यदा ॥७१॥तस्मान्नद्यस्त्वया ब्रह्मन् प्रेषयितव्या क्ष्मां प्रति ।मिष्टानि हि जलान्यासां क्रियार्हाँणि प्रभासके ॥७२॥प्राप्स्यामो येन च यथा तथा कुरु पितामह !अभिषेकाय नो देहि नदीं पुण्यां पितामह ॥७३॥वीक्षां चक्रे तदा ब्रह्मा कर्तव्यार्थं विचिन्त्य च ।निम्नगा आाह्वयामास गंगां यमीं सरस्वतीम् ॥७४॥चन्द्रभागां तथा रेवां सरयूं गण्डकीं तथा ।तापीं गोदावरीं शिप्रां कावेरीं देविकां तथा ॥७५॥चर्मण्वतीं च माहेन्द्रीं भद्रां शत्रुजितां तथा ।मूर्तिमत्यश्च ताः सर्वाः स्थिता वै ब्रह्मणः पुरः ॥७६॥ब्रह्मणा च कृता दृष्टिः कमण्डलुं प्रति तदा ।ताश्च भावं परिज्ञाय विविशुस्तत्कमण्डलुम् ॥७७॥तास्तु तेभ्यो मुनिभ्यश्च दत्ता नेतुं भुवं प्रति ।तोयरूपाः कमण्डलुजलस्था हि सरिद्वराः ॥७८l।तदानीं सा ऋषितोया सर्वसरिन्मयी शुभा ।ऋषितोयानामनदी सौराष्ट्रे समजायत ।ll७९||देवदारुवने यत्र जलं कमण्डलोः पुरा ।सन्यस्तमृषिभिस्तत्र नदी सा संबभूव ह ll५४५.८०llसमुद्रं प्रापिता सा हि सौभाग्याद्यैर्विवर्धिता ।मूलचण्डीशतीर्थे सा प्रपूर्वाभिमुखी ततः ॥८१॥भुक्तिमुक्तिप्रदा रम्या कथिता शंकरेण वै ।पार्वत्यै सा मया लक्ष्मि ! कथिता ते समासतः ॥८२॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽगस्त्याश्रमस्य आतापीवातापील्वलविनाशस्य वामदेवनृगकुबेरतीर्थानां क्रतुध्वजमोक्षस्य देवकुलऋषितोयादितीथीनां सोपाख्यानवर्णननामा पञ्चचत्वारिंशदधिकपञ्चशततमोऽध्यायः ॥५४५॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP