संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५४१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५४१ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! नन्दतीर्थं शंकरेण यथोदितम् ।पार्वत्यै ते कथयामि नन्दो भागवतो ह्यभूत् ॥१॥'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।इतिमन्त्रो वशिष्ठाद्वै गृहीतस्तेन भूभुजा ॥२॥महाभागवतो ह्यासीन्नारायणपरायणः ।न दुर्भिक्षं न चा व्याधिर्नाऽकाले मरणं नृणाम् ॥३॥न चौरा न च कापट्यं न चाऽवृष्ट्यादिकं भयम् ।तस्मिन् शासति राजेन्द्रे प्रजाश्चासन् सुखाः सदा ॥४॥विमानं तस्य तुष्टेन दत्तं वै विष्णुना स्वयम् ।व्यचरन् सर्वलोकान् स विमानवरमास्थितः ॥५॥एकदा व्यचरन् भूमौ मानसं तु सरो ययौ ।देवादिसेवितं पद्मसुगन्धपरिवासितम् ॥६॥दिव्यवारिसमायुक्तं शीततृप्तिप्रदं शुभम् ।तत्राऽपश्यच्छुभं पद्मं विकसितं च पाण्डुरम् ॥७॥तत्राऽप्यंगुष्ठमात्रं च स्थितं पुरुषसत्तमम् ।अपश्यच्चाऽकथयत् स्वसारथिं गच्छ वै जलम् ॥८॥यदिदं दृश्यते पद्मं पुरुषेण विराजितम् ।रत्नहारालिशोभेन पीतवस्त्रादिधारिणा ॥९॥द्विभुजेन सुदिव्येन मध्यभागे ह्यधिष्ठितम् ।तदिदं कमलं शीघ्रं समानय ममान्तिकम् ॥१०॥धारयिष्यामि शिरसि भविष्यामि कृतार्थकः ।एवमुक्तः सारथिस्तु विमानादवरुह्य च ॥११॥व्योम्ना वायुसमाधारश्चावाततार पद्मिनीम् ।अधोमस्तकस्थित्यैव हस्तं प्रसार्य यावता ॥१२॥व्योम्नैव गृहीतुं याति तत्पद्मं नालसंस्थितम् ।यावता स्पृशति तावद् धूम्रस्तस्मादजायत ॥१३॥अन्धकारमये तत्र व्योम्नि ममार सारथिः ।नन्दो विमानमध्ये च कृष्णवर्णो बभूव ह ॥१४॥बलवीर्यविहीनश्च मेधाशक्तिविवर्जितः ।उन्मत्त इव सञ्जातो म्लानशुष्काननस्तथा ॥१५।कज्जलपिण्डवद्देहं दृष्ट्वा शुशोच भूपतिः ।किमिदं मे तु सञ्जातं मृतश्च सारथिर्मम ॥१६॥कोपोऽयं कस्यचिज्जातो वसिष्ठो मां प्ररक्षतु ।इत्युक्तमात्रस्तु गुरुर्वसिष्ठस्तत्र चाययौ ॥१७॥योगबलेन च याने समागत्याऽऽह भूपतिम् ।मा भयं याहि राजेन्द्र कुशलं शं तवाऽस्तु वै ॥१८॥राजा वसिष्ठं दृष्ट्वा च विशोकः समपद्यत ।नमस्कारं विधायैव दीनवन्निजगाद तम् ॥१९॥एष मे भगवन् जातः कृष्णो देहविपर्ययः ।सारथिर्मम नष्टश्च कमलस्य प्रभावतः ॥२०॥किमिदं वद मे ब्रह्मन् निस्तारं कारयाऽस्य वै ।वसिष्ठः प्राह राजेन्द्र मानसेऽत्र सरोवरे ॥२१॥एतद् ब्रह्मोद्भवं नाम कमलं पद्मजातिकम् ।नारायणस्य नाभेर्वै यदा ब्रह्मा व्यजायत ॥२२।सनालकमले तद्वै पद्ममेतन्निगद्यते ।तज्जातीयं तु कमलं मानसेऽत्र सरोवरे ॥२३॥वंशरूपेण भगवान् रक्षत्येव परम्पराम् ।एतदीयसुसन्ताने कमले सर्वदा ह्यजः ॥२४॥अंगुष्ठमात्रप्रतिमो ब्रह्मा तत्र विराजते ।यावन्ति कमलान्यत्र तस्य सन्तानजानि हि ॥२५॥तावन्ति ब्रह्मणा चाधिवासितानि भवन्ति वै ।नान्ये पश्यन्ति चैतानि पुण्यहीना हि देहिनः ॥२६॥सुपुण्या मोक्षगन्तारः पश्यन्त्येतत्तु पद्मकम् ।दृष्टमात्रेण चानेन दृष्टाः स्युः सर्वदेवताः ॥२७॥एतद्वै दृश्यते धन्यैर्ब्रह्मभागवतैर्जनैः ।महाभागवतैर्लोकैर्यत् त्वया दृष्टमेव हि ॥२८॥एतस्मिन् दृष्टमात्रे तु जलस्पर्शे च वै कृते ।सर्वशोकविनिर्मुक्तः पदं निर्वाणमाप्नुयात् ॥२९॥सारथिस्तव राजेन्द्र ददर्श कमलं तथा ।पस्पर्श च जलं नालं मुक्तिं जगाम तावता ॥३०॥अहं नित्यं दर्शनार्थं त्वायामि व्योममार्गतः ।न स्पृशामि जलं किन्तु नत्वा तं पितरं ह्यजम् ॥३१॥पुनर्गच्छामि मे स्थानं पुष्करं चार्बुदाचलम् ।त्वं तु महावैष्णवोऽसि दृष्टवानसि तेन वै ॥३२॥सवेधसं च कमलं तव पुण्यं हि शाश्वतम् ।जलं न स्पृष्ट्वाँस्तेन राजन् जीवसि वर्धसे ॥३३॥किन्तु पद्मं च हर्तुं ते वाञ्च्छा जाता नृपेश्वर ।तेन कार्ष्ण्यं तव जातं दोषेण नीलवर्णता ॥३४॥वाञ्छन्ति देवता नित्यं मुनयः ऋषयस्तथा ।मानसे ब्रह्मपद्मं तु द्रक्ष्यामस्तत् कदा वयम् ॥३५॥प्राप्स्यामश्च परं ब्रह्म यद्गत्वा न निवर्तनम् ।एवं तेजोविशिष्टं तत् हर्तुं कामेन पंकजम् ॥३६॥अपहारप्रदोषश्च त्वया लब्धो ह्यजानता ।ततो राजन् पद्मसंस्थं बेधोयुक्तं नरायणम् ॥३७॥कृष्णनारायणक्षेत्रे गत्वाऽऽराधय सोमके ।प्रभासे श्रीकृष्णनारायणं च वेधसा युतम् ॥३८॥स्वर्णपद्मे कारयित्वा समाराधय तापसः ।ततस्त्वं नीलतादोषान्मोक्ष्यसे नात्र संशयः ॥३९॥वशिष्ठस्य वचः श्रुत्वा नन्दभूपो जगाम ह ।कुंकुमवापिकाक्षेत्रमश्वपट्टसरोवरम् ॥४०॥तत्र स्नात्वा कृष्णनारायणं नत्वा च लोमशम् ।रैवताद्रौ वामनं च ययौ नत्वाप्रभासकम् ॥४१॥तत्र वै कानकीं मूर्तिं पद्मस्थां ब्रह्मणायुताम् ।अनादिश्रीकृष्णनारायणरूपां निधाय च ॥४२॥पूजयामास विविधैरुपचारैर्दिवानिशम् ।तपश्चकार भगवत्समाराधनपूर्वकम् ॥४३॥विष्णुं शिवं गणपतिं पार्वतीं च दिवाकरम् ।पूजयामास विधिना श्रीहरिं पञ्चदेवताः ॥४४॥माहेश्वर्यास्तटे रम्ये तपःस्थानं चकार सः ।तस्य तपस्तथा भक्तिं विलोक्य देवतास्तथा ॥४५॥ब्रह्मा कृष्णस्तथा लक्ष्मीर्दर्शनं प्रददुस्तदा ।प्रसन्नाः स्म इति प्राहुर्वरं वृणु यथेप्सितम् ॥४६॥राजा प्राह हरेर्भक्तो नैव वाञ्छति चैहिकम् ।मोक्षं देहि सतां संगं प्रदेहि शाश्वतं पदम् ॥४७॥अनादिश्रीकृष्णनारायणः प्राह हसँस्तदा ।राजन् तत्तु त्वदर्थं वै मया प्रागेव निश्चितम् ॥४८॥न मे भक्तस्य वै भुक्तौ मुक्तौ वा रोधनं भवेत् ।प्रसन्नोऽस्मि च राजँस्ते कृष्णता पद्मदोषजा ॥४९॥या जाताऽसि लयं यातु भव चम्पकवर्णकः ।दिव्यदेहस्तथा भूत्वा भज मां पुरुषोत्तमम् ॥५०॥अत्राऽऽगत्य जनो यो मां कृष्णनारायणं प्रभुम् ।वेधसं पञ्चदेवाँश्च सूर्यादीन् पूजयिष्यति ॥५१॥स च लोके निरोगी स्याद् यास्यत्यन्ते परां गतिम् ।एवं हरिर्वरं दत्वा कृत्वा सुवर्णवर्णकम् ॥५२।तत्र तीर्थं परं कृत्वा ततश्चान्तरधीयत ।नन्दीघट्टे नरः स्नात्वा भुक्तिं मुक्तिमवाप्नुयात्॥ ॥५३॥नन्दतीर्थं तथा कृत्वा न पुनर्मर्त्यतां व्रजेत् ।नन्दतीर्थस्य पार्श्वे च त्रितकूपाख्यमुत्तमम् ॥५४॥पावनं वर्तते तीर्थं कर्तव्यं पुण्यलब्धये ।पुरा सौराष्ट्रविषये विप्र आत्रेयसंज्ञकः ॥५५॥बभूव तस्य पुत्राश्चैकतो द्वितस्त्रितस्त्रयः ।त्रितः सर्वगुणोपेतो मूर्खौ ज्येष्ठौ बभूवतुः ॥५६॥गते स्वर्गे तु पितरि धुरं जग्राह वै त्रितः ।तस्य बुद्धिः समुत्पन्ना कथं यज्ञं करोम्यहम् ॥८७॥स निमन्त्र्य द्विजश्रेष्ठान् यज्ञकर्मण्यधिष्ठितान् ।यज्ञार्थं द्रव्यलाभाय प्रवासं प्रजगाम ह ॥५८॥गृहीत्वा भ्रातरौ ज्येष्ठौ गवार्थं प्रस्थितस्त्रितः ।यस्य यस्य गृहे याति ग्रामेषु भ्रातृसंयुतः ॥५९॥तत्र तत्र परां पूजां लेभे गाश्च सुपुष्कलाः ।एवं द्रव्यं पुष्कलं च गोधनं विपुलं तथा ॥६०॥गृहीत्वा गृहमायाति भ्रातृभ्यां सहितः स च ।त्रितो गवां पुरो याति पृष्ठतो भ्रातरौ च तौ ॥६१॥अथ तं गोधनं दृष्ट्वा भूरिदानार्थमाहृतम् ।ज्येष्ठयोस्तु मतिर्जाता पापप्रायाऽतिलोभतः ॥६२॥परस्परमूचतुस्तौ भ्रातरौ पापचेतसौ ।त्रितो यज्ञेषु कुशलो वेदेषु कुशलस्तथा ॥६३॥मान्यः पूज्यश्च सर्वेषामावां मूर्खौ निरर्थकौ ।एतच्च गोधनं सर्वं त्रितो दास्यति दानके ॥६४॥अस्माकं न भवेत् किञ्चित् प्रत्युत यत्पितुर्धनम् ।तस्मादपि प्रदातव्यं भविष्यति क्रतौ तदा ॥६५॥यज्ञे लोकाश्च दास्यन्ति धनानि च बहून्यपि ।त्रितस्य तानि सर्वाणि नावयोर्वै कपर्दिका ॥६६॥तस्मादावां धनहीनौ त्रितो धनाढ्य एव च ।भविष्यति ततो हेतोर्वधस्त्रितस्य युज्यते ॥६७॥एवं विचार्य तौ ज्येष्ठौ यान्तं त्रितं पुरः पुरः ।आह्वयामासतुः कूपं दृष्ट्वा जलार्थिनौ यथा ॥६८॥जलपानं करिष्यामः समागच्छाऽत्र भो त्रित! ।त्रितः श्रुत्वा समायातो द्वाभ्यां क्षिप्तो हि कूपके ॥६९॥ततस्तौ गोधनं नीत्वा द्रव्यं नीत्वा च पुष्कलम् ।प्रस्थितौ स्वगृहं हृष्टमानसौ लोभकारिणौ ॥७०॥कूपे च पतितो विप्रश्चिन्तयामास मानसे ।विप्रा यज्ञार्थमाहूताः क्रतुर्मया कृतो नहि ॥७१॥तस्मात् यद्भावि तज्जातं कूपेऽत्र मानसं क्रतुम् ।करोमि यावज्जीवामि जलेन मनसा तथा ॥७२॥इति विचिन्त्य सूक्तानि प्रोक्त्वा प्रोक्त्वा जलेन वै ।अञ्जलिना च हवनं चकार कर्दमेन सः ॥७३॥श्रद्धया तस्य ददतो भूयस्तृप्तास्तु देवताः ।आगत्य ब्राह्मणं प्रोचुर्विप्र सन्तर्पिता वयम् ॥७४॥तुष्टाः स्म मानसैर्भावैर्वद दास्याम ईप्सितम् ।त्रितः प्राह मया यज्ञो भावयज्ञोऽत्र वै कृतः ॥७५॥द्रव्ययज्ञं गृहे गत्वा करोमि तत्तथा मम ।स्वास्थ्यं कुरुत देवेशा कूपान्निःसरणं मम ॥७६॥इत्युक्ताश्च सुरा विप्रं नीतवन्तो जलाद्बहिः ।गृहे गत्वा क्रतुं कृत्वा भ्रातृभ्यां पूजितश्च सः ॥७७॥दक्षिणा विविधा दत्वा पुनः कूपं ययौ त्रितः ।तपश्चचार विपुलं कृष्णनारायणं स्मरन् ॥७८॥जगाम श्रीहरेर्धाम दिव्ययानेन शाश्वतम् ।स कूपस्त्रितकूपोऽस्ति देवतीर्थं तु पावनम् ॥७९॥जलपानाद् भवेन्मुक्तिस्त्रितस्य स्मरणादपि ।श्रवणात्पठनाच्चास्य वैकुण्ठं लभते जनः ॥८०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नन्दराज्ञः सारथेः मानससरसि ब्रह्मकमलदर्शने ग्रहणार्थं गतस्य मुक्तिः, नन्दस्य मनसा ग्रहणपापस्य फलं कृष्णवर्णता, नन्दीतीर्थस्नानाच्छुभ्रवर्णता, त्रितविप्रस्य भ्रातृद्वयकृतकूपनिक्षेपस्तत्र जलयज्ञे देवताभिः कृतोद्धारस्तपश्चर्या मुक्तिश्चेति त्रिततीर्थम्, इत्यादि निरूपणनामैकचत्वारिंशदधिकपञ्चशततमोऽध्यायः ॥५४१॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP