संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५३९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५३९ Translation - भाषांतर श्रीनारायण उवाच--शृणु लक्ष्मि ॥तथाऽन्यानि तीर्थानि कथयामि ते ।यान्युक्तानि महादेव्यै महादेवेन वै तदा ॥१॥वामदेवस्य सावर्णेरघोरस्य तथा परम् ।कपिलस्य शुभं तीर्थं वर्तते तु प्रभासके ॥२॥तथा श्रीमुखसंज्ञं च वनं लक्ष्म्या विराजते ।यत्र वै वैष्णवा योगिसिद्धा वसन्ति सर्वदा ॥३॥सगरेण पुराऽऽदित्यः स्थापितो यत्र भासकः ।सागरादित्यतीर्थं तद् विद्यते तु प्रभासके ॥४॥अन्त्यजस्य सुता चाऽक्षमालाऽभूद् युवती पुरा ।पूर्वजन्मनि शूद्रा सा रजस्वला हि शंकरम् ॥५॥पस्पर्श तेन दोषेण कन्याऽन्त्यजस्य चाऽभवत् ।वसिष्ठेन तपोयोगाद् गृहीता जनकार्पिता ॥६॥बहुवर्षे पुरा देवो न ववर्ष तदा तु ते ।हिमभूमौ ददस्वाऽन्नं समयाचन्त चान्त्यजम् ॥७॥तेन पुत्र्या सहान्नं वै दत्तं तदा वसिष्ठकः।आपद्धर्मं समालोच्योवाच तत्राऽन्त्यजं यथा ॥८॥जीवरक्षार्थमागृह्णन् नहि पापेन लिप्यते ।अजीगर्तः सुतं हन्तुमुपासर्पद् बुभुक्षितः ॥९॥भारद्वाजः क्षुधार्तस्तु उपजग्राह गाः पुरा ।क्षुधार्तो ह्यभ्यगाद् गां तु विश्वामित्रोऽपि वै पुरा ॥१०॥इत्युक्त्वा तामक्षमालां जग्राह स वसिष्ठकः ।अन्नं भुक्त्वा चाययुस्ते प्रभासे त्वब्धिसन्निधौ ॥११॥अक्षमाला तपश्चक्रेऽरुन्धती सा व्यजायत ।तयाऽक्षमालिकेशश्च स्थापितः शंकरस्तदा ॥१२॥अथ तत्र सिद्धलक्ष्मीतीर्थं वै वर्तते शुभम् ।तथा तीर्थं महाकालीकृतं चापि विराजते ॥१३॥पुष्करावर्तकानाम्नी नदी कमलदा शुभा ।वर्तते शुभतीर्थे च प्रभासे सद्गतिप्रदम् ॥१४॥अथ मित्राभिधः कश्चित् कायस्थोऽभूद् धरातले ।तस्य पुत्रोऽभवच्चित्रश्चित्रा कन्याऽभवत्तथा ॥१५६॥पित्रोर्मृत्यौ बालकौ तौ प्रभासं ययतुस्ततः ।तुष्टुवतुस्तत्र सूर्यं तपसा बहुवासरान् ॥१६॥चित्रस्य तु प्रसन्नोऽभूत् सूर्यः प्राह वरं वृणु ।स वव्रे सर्वकार्येषु प्रौढत्वं रुचिमत्त्वकम् ॥१७॥तथास्त्विति रविः प्राह धर्मराजश्च तं तथा ।कुशलं तु परं ज्ञात्वा कृतवान् लेखकं निजम् ॥१८॥सूर्योऽपि चाऽभवत्तत्र चित्रादित्य इति प्रथः ।चित्राऽभवद्धर्मराजगृहिणी तपसः फलात् ॥१९॥चित्रेश्वरीति सा तत्र देवी संराजते तथा ।तीर्थं चापि शुभं जातं रोगदोषनिवारकम् ॥२ ०॥अथात्र शीतला देवी वर्तते दुःखनाशिनी ।विस्फोटकप्रशान्त्यर्थं मयूराँस्तत्र कूर्दयेत् ॥२१॥विस्फोटं चर्चिका चापि बालानां प्रशमो भवेत्॥कर्पूरं कुंकुमं चापि चन्दनं कुसुमानि च ॥२॥नवम्यां शुक्लपक्षे तां नैवेद्यं घृतपायसम् ।मालां बिल्वमयीं दद्याद् रोगा नश्यन्ति दूरतः ॥२३॥शीतलातीर्थमेवैतदुक्तं बालसुखादिकृत् ।चित्रा या यमपत्नी सा चित्रपथा सरिद्वरा ॥२४॥द्वितीयेन स्वरूपेण जाता प्रभासके स्थले ।तद्वै तीर्थं पापतापप्रशान्त्यर्थं समुच्यते ॥२५॥धर्मराजकृतं तीर्थं प्रभासे वर्तते तथा ।ब्रह्मणा निर्मितः कुण्डः कायाकल्पकरोऽस्ति वै ॥२६॥नारदेन कृतं तीर्थं विद्यते स्वरभासितम् ।यज्ञकुण्डो महत्तीर्थं ब्रह्मादिकसुरैः कृतम् ॥२७॥हिरण्यायास्तटे स्वर्णदानादि पुण्यदं हि तत् ।वैनतेयं तथा तीर्थं सर्पभीतिनिवारकम् ॥२८॥रैवन्तकं महत्तीर्थं सूर्यपुत्रस्य वर्तते ।अश्वस्य तं पूजयित्वा रवावापद् विनश्यति ॥२९॥स्वर्गवैद्यकृतं तीर्थं सावित्रीतीर्थमित्यपि ।तपसा जायमानं तद् विद्यते वै प्रभासके ॥३०॥तलस्वामीतितीर्थं च उष्णजलान्वितं तथा ।सिंहारण्ये वर्तते च पावनं स्वर्गदं शुभम् ॥३१॥शृणु लक्ष्मि! पुरा तत्र सिंहारण्ये तलोद्भवम् ।आसीन्महेन्द्रनामा तु दानवस्तपसो बलात् ॥३२॥जिग्ये देवान् शंकरात् सः प्रार्थयामास संगरम् ।युयुधे शंकरेणाऽऽदौ ब्रह्माण्डक्षयकारकः ॥३३॥ततः कोपाच्छिवदेहाज्ज्वाला बह्व्योऽभवँस्तदा ।तासां मध्ये तलो दग्धो दुद्राव च वनान्तरे ॥३४॥शिवः सोमेश्वरं गत्वा सुस्थितः स तलस्ततः ।महेन्द्रं पीडयामास बधान ककुभां पतीन् ॥३५॥तलो विस्मयमापन्नो हर्षनृत्यमथाऽकरोत् ।चकम्पे तस्य नृत्येन सर्वं स्थावरजंगमम् ॥३६॥क्षुभिता गिरयः सर्वे विद्रुतो लवणार्णवः ।त्रैलोक्यं व्याकुलीभूतं तदा वै लोमशो मुनिः ॥३७॥प्रभासं तु समागत्य शंकरं प्राह रक्ष नः ।तलं नाशय देवेश मा चिरं च द्रुतं कुरु ॥३८॥रुद्र उवाचाऽवध्यो मे तलः पुत्रसमः स्थितः ।किन्तु उष्णवने रम्ये तप्तोदकसमीपतः ॥३९॥दुर्वासा वर्तते तं च प्रार्थयध्वं सुरादयः ।अनादिश्रीकृष्णनारायणो गुप्तप्रयागके ॥४०॥शत्रुंजयाचले त्वश्वपट्टसंज्ञसरोवरे ।सौराष्ट्रे महति क्षेत्रे वर्तते भगवान् स्वयम् ॥४१॥दुर्वाससा स्तूयमानो लोमशादिभिरादरात् ।देवैः सम्प्रार्थ्यमानश्च तलं विनाशयिष्यति ॥४२॥कल्पे कल्पे पूर्वभूमौ व्याघ्रारण्ये स्थितः प्रभुः ।सिंहारण्यगतं दैत्यं तलं हन्ति पुनः पुनः ॥४३॥एवमुक्तो लोमशः सः उष्णोदकसमीपतः ।गत्वा दुर्वाससं देवान्नीत्वा कृष्णनरायणम् ॥४४॥स्वस्थानं पावनं गत्वा प्राह कृष्णनरायणम् ।भगवन् राक्षसश्चोग्रो हराऽवध्यो हि वर्तते ॥४५॥भवता नाशनीयः स सुरमानुषदुःखदः ।अनादिश्रीकृष्णनारायणो गत्वा सचक्रकः ॥४६॥व्याघ्रारण्ये तलं दृष्ट्वा मुमोच वै सुदर्शनम् ।तलो दुद्राव च सिंहारण्यमुष्णोदगह्वरम् ॥४७॥तत्र चक्रेण तु द्वेधाऽभवद् दैत्यो ममार च ।दुर्वाससा पूजितश्च मार्कण्डेयेन चार्चितः ॥४८॥कृष्णनारायणः संज्ञां तलस्वामीति चाप यत् ।तलस्वामी महत् तीर्थं कृष्णनारायणाश्रयम् ॥४९॥नित्यमुष्णोदककुण्डत्रयमक्षयमस्ति च ।पापक्षालनकं स्वर्गप्रदं मोक्षप्रदं तथा ॥५०॥तत्र तीर्थं तु सावित्र्यास्तपःस्थानं प्रविद्यते ।अथाऽन्यदस्ति तीर्थं च भूतमातृकसंज्ञकम् ॥५१॥भूतप्रेतगणानां च स्थानानि सन्ति तत्र च ।भूतानां मातरं तत्र पूजयेद् भयवारिणीम् ॥५२।चाक्षुषस्याऽऽन्तरे लक्ष्मि! पुरा कृतयुगे सती ।शंकरं संविवाह्यैव रमते स्म च कानने ॥५३॥पार्वत्यां कामभावेन तृप्तोऽभूच्छंकरस्ततः ।पार्वती कानने तत्र कैलासे स्नानमाचरत् ॥५४॥पार्वत्याः स्नानमात्रेण निर्गता जलकर्दमात् ।मातरो भूतिका भीमा असंख्या रूपवर्जिताः ॥५५॥कृष्णाः करालवदनाः पिंगाक्ष्यो मुक्तमूर्धजा: ।कपालमालाभरणा बद्धमुण्डार्धपिण्डिकाः ॥५६॥कपालखट्वांगधरा मुण्डमालाधरास्तथा ।द्वीपिचर्माम्बरधरा रणत्किंकिणिमेखलाः ॥५७॥डिमड्डमरुकारावाश्चित्कारापूरिताम्बराः ।दशकोट्यः सुसञ्जाताश्चतस्रोऽत्र हि नायिकाः ॥५८॥रक्तकर्णी महाजिह्वा क्षया च पापकारिणी ।एतासामन्वये जाता बहवो ब्रह्मराक्षसाः ॥५९॥श्लेष्मान्तकस्त वृक्षे ते प्रायशश्च वसन्ति ते ।उत्तालाश्चपलाश्चैते नृत्यन्ति च हसन्ति च ॥६०॥वृक्षे कण्टकिते रौद्रे वसन्त्यपि वने वने ।शंकरोऽपि तदा स्नानं चक्रे तज्जलकर्दमात् ॥६१॥भूता असंख्याः सञ्जाता विकराला भयंकराः ।द्वौ मुख्यौ तादृशावेव तद्रूपाभरणौ नरौ ॥६२॥कपालखट्वांगधरौ जातौ चर्मावगुण्ठितौ ।अनुगम्यमानौ बहुभूतैर्महाभयानकैः ॥६३॥सिंहशार्दूलादिमुखैर्भीषणस्वरकर्मभिः ।तौ च क्षुधायुतौ शिवां शिवं तदाहतुर्मुहुः ॥६४॥भोजनं भोजनं चेति शंभुः प्राह तदा च तौ ।युवयोर्हस्तसंपर्कान्मांसासृगादि जायताम् ॥६५॥नक्ताहारविहारौ च दिवास्वप्नावभागिनौ ।पुत्रवद् रक्षतं लोकान् धर्मं पालयतं सदा ॥६६॥इत्युक्तौ तौ गणौ भूतमातृनायकसेवितौ ।एकीभूतौ क्षणेनैव सहोदरौ सहायकौ ॥६७॥आवयोः खलु शौचेन जातौ वै मलिनौ सदा ।आभ्यां वासश्च दातव्यो दूरं पश्चिमभूतले ॥६८॥सिंहारण्ये वने वासो सोमनाथसमीपतः ।सिहव्याघ्रपशुक्षेत्रे सौराष्ट्रे जायतामिति ॥६९॥यत्र कण्टकिनो वृक्षा रूक्षा रणप्रदेशकाः ।कुड्यादौ चित्रिता यत्र मञ्जर्यश्च भवन्ति वै ॥७०॥भार्या यत्र पुनर्भूश्च वल्मीकश्च शमी तथा ।यत्र गृहे नराः पञ्च यत्र वा स्त्रीत्रयं भवेत् ॥७१॥यत्र वा गोत्रयं तत्र तद्गृहे वसतिश्च वः ।अन्धकारे भूविवरे गह्वरे धनपूरिते ॥७२॥एकच्छागं द्विगर्दभं गोत्रयं पञ्चमाहिषम् ।षडश्वं वा सप्तगजं तद्गृहे वसतिर्हि वः ॥७३॥यत्र गृहे च कुद्दालो दातृकं पेटिका तथा ।स्थाल्यादिभाजनं यत्र तत्रैवास्ति विशीर्णकम् ॥७४॥क्षिप्तं स्थले स्थले नास्ति व्यवस्था शुद्धिरित्यपि ।मुसलोलूखलयोश्च देहल्यां स्त्रीः निषीदति ॥७५॥शकृन्मूत्रं च यत्रास्ति मलं यत्र च कच्चरम् ।लंघ्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ॥७६॥लंघ्यन्ते यत्र शास्त्राणि तद्गृहे वसतिर्हि वः ।मनुष्यास्थि गृहे यस्य सेवतीवल्लिका तथा ॥७७॥रोहितश्च जटी यत्राऽऽगस्त्यको बन्धुजीवकः ।कर्णिका च भवेद् यत्र स्थलपद्मं च यत्र वै ॥७८॥मल्लिका च यत्र हर्म्ये तत्र वै वसतिर्हि वः ।तालं तमालं भल्लावं चिञ्चावृक्षाश्च यत्र वै ॥७९॥बकुलः कदलीषण्डं कदम्बः खदिरोऽपि वा ।न्यग्रोधोऽश्वत्थ आम्र उदुम्बरः पनसस्तथा ॥८०॥अशोक ओड्रवृक्षश्च तत्र भूतनिवेशनम् ।देवार्चनं यत्र नास्ति यत्र नास्ति जपादिकम् ॥८१॥कृष्णभक्तिर्यत्र नास्ति भूतानां वसतिर्हि सा ।मलिनास्याश्च ये मर्त्या मलिनाम्बरधारिणः ॥८२॥मलदन्ता गृहस्थाश्च भूतानां वसतिः सदा ।दीपो नास्ति यत्र गेहे जनो नास्ति समान्तरे ॥८३॥मलयुक्ता नालिकाद्यास्तत्र भूतादिवेशनम् ।स्नानहीना नरा नार्यो वसतिर्भवतु ध्रुवम् ॥८४॥मद्यमांसाशना लोका वासार्हाः सन्तु वः सदा ।चत्वरे गोचरे ग्रामगोपुराग्रे श्मशानके ॥८५॥मृतशाविकभूभागे चैत्ये द्रुमे च प्रस्तरे ।मलभूमौ नालिकादौ भूतानां वसतिः सदा ॥८६॥मन्त्रमान्त्रिकदेहे च मन्त्रिते च कणे तथा ।मन्त्रस्य विषये देहे भूतानां वसतिर्भवेत् ॥८७॥आकस्मिकमृतेर्भूमौ तडागस्य तटेऽनिले ।दुष्टेऽपवित्रभूमौ च भूतानां वसतिः सदा ॥८८॥अमायां च चतुर्दश्यां वैशाखे कार्तिके तथा ।बलिदानां पूजकानां गृहे मा निवसन्तु वै ॥८९॥नारायण हरे कृष्ण शिव राधे रमापते ।विष्णो श्रीमत्कृष्णनारायण श्रीकमलापते ॥९०॥प्रभानाथ महालक्ष्मीपते श्रीमाणिकीपते ।पार्वतीश्वर पद्येश मुक्तधामाधिसत्पते ॥९१॥अक्षरेशेत्यादिरूपं भजनं स्वामिनो हरेः ।पूजनं यत्र देवानां तत्र मा निवसन्तु वै ॥९२॥यत्र शुद्धिस्तथा धर्मः कलहो यत्र नास्ति च ।मालिन्यं यत्र वै नास्ति तत्र मा निवसन्तु वै ॥९३॥यत्र स्यादान्तरे शुद्धिस्तत्र भूतो न तिष्ठतु ।उपासनाबलं यत्र भूतमाता न तत्र वै ॥९४.॥वैशाखे शुक्लपक्षे च पञ्चदशदिनेष्वपि ।भूतमातुः प्रपूजा च कर्तव्या प्रोक्षणीयकैः ॥९५॥प्रोक्षणैर्जलसेचैश्च ग्रीवां सिन्दूरकैस्तथा ।पुष्पैर्धूपैरर्चयेच्च बलिं ददेद् यथोचितम् ॥९६॥माषादिकृष्णभोज्यं वै तेन तुष्टः प्रजापते ।न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः ॥९७॥न भूताद्याः पीडयन्ति वंशः सुखं विवर्धते ।भोजयेत् क्षीरसंयाव कृसरैः पूयपायसैः ॥९८॥तेन पुत्रपशुस्मृद्धिं शरीरारोग्यमाप्नुयात् ।एकादश्यां नवम्यां च प्रक्षाल्य कुड्यकं ततः॥०१९॥मुखबिम्बानि चित्राणि कारयेद् रक्तकज्जलैः ।मातॄणां चण्डिकानां च राक्षसीनां तथैव च ॥१००॥भूतप्रेतपिशाचानां शाकिनीनां तथैव च ।मुखानि कारयेत् तत्र हावभावयुतानि च ॥१०१॥अमायां पूजयेत्तानि रात्रौ दीपेन संयुतः ।मस्तके च निजे धृत्वा सुहृन्मित्रसमन्वितः ॥१०२॥ग्रामान्ते च श्मशानान्ते वीरभ्रमणमाचरेत् ।स दीपः सर्वभूतानां साधको बलवान् भवेत् ॥१०३॥नित्यं च भ्रामयेद् दीपं रात्रौ ग्रामे श्मशानके ।पञ्चदश्यां प्रकुर्वीत भूतमातुर्महोत्सवम् ॥१०४॥पूजयेद्भोजयेन्नमेत् क्षमयित्वा गृहं व्रजेत् ।एवं पूजाप्रकर्तुश्च भूतविघ्नो न जायते ॥१०५॥अथ तस्या भूतमातुः शरीरात् पञ्चकोटयः ।पिशाचाः स्वेदबिन्दुभ्यो जाताः सर्वे भयानकाः ॥१०६॥धमनीसन्तताः शुष्काः श्मश्रूलाश्चर्मवाससाः ।उलूखलाभरणाश्च शूर्पच्छत्राः खरस्वराः ॥१०७॥पाणिपात्राः शिरोहारा बुभुक्षिताः कुरूपिणः ।नखज्वालितकेशेभ्यश्चांगारानुद्गिरन्ति ते ॥१०८॥आकर्णदारितास्याश्च लम्बभ्रूस्थूलनासिकाः ।पृष्ठतः पाणिपादाश्च पृष्ठगाश्च विपादगाः ॥१०९॥आक्रोशन्तश्च दीनास्याः सूतिकागृहवासनाः ।तैः खाद्यं चार्थितं शंभोः शंभुर्वरं ददौ तदा ॥११०॥अन्तर्धानं प्रजास्वेव कामरूपत्वमित्यपि ।उभयोः सन्ध्ययोश्चारो भग्नगृहेषु चासनम् ॥१११॥अनाचारगृहाण्येव भग्नान्यायतनानि च ।राजमार्गोपरथ्याश्च चत्वराणि च वेदिकाः ॥११२॥उपलाश्च तथा कोणान् रथ्यानां निर्गमांस्तथा ।चैत्यवृक्षादिकांश्चापि शृंगाणि चोच्छ्रयांस्तथा ॥११३॥स्थानानि च पिशाचानां निवासाय ददौ हरः ।अधर्मिकान् जनाँश्चापि मद्यमांसाशिनस्तथा ॥११४॥मलमूत्रभरांश्चापि निवासाय ददौ हरः ।तेषां विघ्नविनाशाय बलिं कुर्याद् विचक्षणः ॥११५॥पूपैर्हरिद्रकृशरैर्मधुना तिलचूर्णकैः ।ओदनं साऽऽसवं दद्यात् तिलभक्तं गुडौदनम् ॥११६॥कृष्णानि चैव वासांसि धूमाः सुमनसस्तथा ।एवं कृत्वा च सन्तुष्टा विघ्नान् हरन्ति सर्वदा ॥११७॥एवं हरेण भूतानां पिशाचानां च मातरः ।सर्वपुत्रगणोपेताः प्रेषिताश्च प्रभासकम् ॥११८॥सिंहारण्यं निवासार्थं दत्तं वै शतयोजनम् ।यत्र खाद्यं मिलेत्तेषां पश्चिमे सागरे सदा ॥११९॥ते कैलासं परित्यज्य सिंहारण्यं समागताः ।उपद्रवानकुर्वंश्च प्रजास्वागत्य वै पुनः ॥१२०॥अनादिश्रीकृष्णनारायणो हन्तुं च ताँस्तदा ।सुदर्शनं मुमोचाऽत्राऽरण्ये दुद्रुवुरम्बरे ॥१२१॥भूताः पिशाचकाद्याश्च मातरश्चेति पश्चिमम् ।पारेसमुद्रं जग्मुस्ते कृष्णवर्णाः पिशाचकाः ॥१२२॥कद्रूपा अब्रिक्तदेशे वसतिं तत्र चक्रिरे ।कोटिशस्ते ततो जाताः कामरूपा हि मानवाः ॥१२३॥ये तु चक्रेण निहतास्ते देवा मलिनास्तदा ।सिंहारण्ये निवसन्तो देहान्तराणि जगृहुः ॥१२४॥सोमनाथस्य शंभोस्ते शिष्याः प्रजाः सुपुत्रकाः ।पुत्र्यः सुताश्च शिष्याश्च सिंहारण्ये वसन्ति वै ॥१२५॥उष्णोदकस्य कुण्डस्याऽभितोऽद्रिषु वनेषु च ।तामसानां कृते लक्ष्मि तामसा देवताः सदा ॥१२६॥तीर्थरूपा भवन्त्येव स्वभावगुणभावनैः ।तेषां तीर्थं महत्तद्वै सिंहाऽरण्येऽस्ति तामसम् ॥१२७॥भूतमातुः पिशाचानां भूतानां च निवासनम् ।चक्रेण सीदमानाः संसीदमाना हि जातयः ॥१२८॥पश्चिमायां क्षितौ जाताः पिशाचसदृशास्तु ते ।इत्येवं कथितं देव्यै शंभुना च प्रभासके ॥१२९॥कैलासजन्यं वृत्तान्तं तीर्थमिषेण सोमके ।मया ते कथितं लक्ष्मि! तलत्वामी त्वहं पुरा ॥१३०॥तलनाशार्थमभवं तथाऽन्यच्छ्रुणु पावनम् ।पठनाच्छ्रवणाच्चास्य पापहानिः प्रजायते ॥१३१॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने प्रभासक्षेत्रे तीर्थव्रातवर्णनेऽरुन्धतीपूर्वजन्मवृत्तान्तः, चित्रायाः पूर्वजन्माख्यानं, शीतलायास्तीर्थं, तलस्वामितीर्थाख्यानं, भूतमातृतीर्थाख्यानं, भूतानां वासस्थानानि, अब्रिक्तदेशादौ सीदमानानां वासः, इत्यादिनिरूपणनामैकोनचत्वारिंशदधिकपञ्चशततमोऽध्यायः ॥५३९॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP